केन्द्रमन्त्री अनन्तकुमारः दिवंगतः।
बेङ्गलुरु> भाजपादलस्य वरिष्ठनेता तथा केन्द्रविधानसभाकार्य - रासोर्वरकममन्त्री एछ् एन् अनन्तकुमारः [५९] दिवंगतः। अर्बुदरोगबाधया बेङ्गलुरुस्थे निजीयातुरालये प्रविष्टः सः सोमवासरस्य उषसि मृत्युमुपगतवान्। विदेशीयचिकित्सानन्तरं मासैकस्मात् पूर्वं स्वदेशमागतः आसीत्। राष्ट्रपतिः रामनाथ कोविन्दः, प्रधानमन्त्री नरेन्द्रमोदी , कोण्ग्रस् अध्यक्षः राहुल् गान्धी इत्यादयः श्रद्धाञ्जलिं समर्पितवन्तः। कर्णाटके त्रिदिवसीय दुःखाचरणं प्रख्यापितम्।