OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 10, 2018

कर्मराहित्यमानं संवत्सरद्वयस्य उच्चतमस्तरे।
   नवदिल्ली  >  भारते कर्मराहित्यं संवत्सरद्वयस्य उच्चतमस्तरं प्राप्तम्। भारतीय आर्थिकोपदेशकेन्द्रेण   [Center for Monitoring Indian Economy] प्रकाशितम् आवेदनपत्रमनुसृत्य २०१८ ओक्टोबर् मासे भारतस्य कर्मराहित्यमानं प्रतिशतं ६.९ अस्ति। गतवर्षे एतत् ६.७५% आसीत्।
   २०१८ ओक्टोबर् मासस्य गणनामनुसृत्य राष्ट्रे कर्मकराणां संख्या ३९.७ कोटिपरिमितमिति निर्णीतमस्ति। किन्तु गतवर्षस्य अस्मिन्नेव समये एषा संख्या ४०.७ कोटि परिमितम् आसीत्।  प्रतिशतं २.४ परिमितस्य न्यूनता जाता। संवत्सरद्वयपूर्वस्य मुद्रानिरासस्य अनन्तरफलमिति आवेदनपत्रे विशकलनं क्रियते।

Friday, November 9, 2018

'मृत्युः सुनिश्चितः,  किन्तु अन्तिमः सैनिकः अपि पाकिस्थानं प्रति युद्धं करिष्यति।'  प्रथम परमवीरचक्रजेतृणे राष्ट्रस्य प्रणामम् । 
-विशेषावेदनम्
    "पाकिस्थानस्य सेना अस्माकं समीपम् आगच्छति, मृत्युः सुनिश्चितः, किन्तु अस्मकं सैनिकेषु कोऽपि न प्रतिनिवर्तति। अन्तिमः सैनिकः अपि पाकिस्थानं प्रति युद्धं करिष्यति।" वीर मृत्यु स्वीकारात् पूर्वं 'मेजर् (विभाग नायकः) सोमनाथ शर्माणा स्वस्य उन्नताधिकारिणे प्रेषितः सन्देशः भवति अयम्। तस्य दृढनिश्चयस्य पुरतः, शक्तेः पुरतः भारतम् प्रणामम् अर्पयति।
     स्वतन्त्रताप्राप्त्यनन्तरं मासत्रयाभ्यन्तरे श्रीनगरविमाननिलयम् आक्रमितुम् उद्युक्तान् पाक् तीव्रवादिनः निवारणावसरे १९४७ तमे आसीत् तस्य वीरमृत्युःI पाक् सेना, तीव्रवादिनः च मिलित्वा उपसहस्रं युयुत्सवः एव विमाननिलयम् आक्रमितुम् आगताः। श्रीनगर विमान निलयस्य नष्टेन काश्मीरस्य नष्टः भविष्यति इति ज्ञातवान् सः युद्धमुखं प्रविश्य शत्रूणां मध्ये महानाशं वितरितवान्। पाकिस्थानस्य पुरतः स्वस्य राष्ट्रस्य मस्तकं कदापिऽ नम्रं मा भवतु इत्यासीत् तस्य अभिलाषः।  युद्धान्ते शत्रूणां महागोलिकाक्रमणेन सः हतवान् ।
     १९५० तमे भारतेन परमवीर-चक्रपुरस्कारेण सः  समादृतवान्।  तस्य बलिदान-दिनत्वेन नवंबर् मासस्य तृतीयदिनाङ्कः स्मर्यते। भारतसेनया दिनमिदं 'बड्गां' दिन्त्वेन समाचरते। तस्य दीप्तस्मृतौ बृहत्तमा नतिः।

Thursday, November 8, 2018

सैन्यबलेन आतङ्कद्वयं निषूदितम्
जम्‍मू-कश्‍मीरस्य शोपियांजनपदे सफनागरी-जैनापोराक्षेत्रे सुरक्षाबलानाम् आतङ्कवादिनां च मध्ये प्रवर्तिते सङ्घर्षे सुरक्षाबलेन आतङ्किद्वयं व्यापादितम् । सुरक्षासूत्रै: ज्ञापितं यत् घटनास्‍थलात् आयुधानि विस्फोटकानि चाधिगतानि इति। अपि चोक्तं यत् व्यापादितानाम् आतङ्कवादिनाम् अभिज्ञानप्रक्रिया प्रवर्तते, सममेव अन्वेषणाभियानमपि सन्ततं प्रवर्तते।
पाक् अधीन काश्मीरद्वारा चीना-पाक् बस्यानसेवनम् आरब्धम्- प्रतिषेधेन भारतम्।

       नवदिल्ली> भारतस्य प्रतिषेधान् विगणय्य पाकिस्थानाधीन काश्मीरद्वारा चना-पाक् बस्यान गतागतम् आरब्धम्I पाकिस्थानस्य लाहोरतः चीनस्य कषगर्यन्तं दूरे एव गतागतः रविवासरे समारब्धः। ३६ होरात्मकं यात्रा भवतीयम्। पाकिस्थानाधीन गिल् जित्-ब्लट्टिस्थान मण्डलयोः मार्गेण भवति गतागतमार्गः। अतः भारतेन शक्तः प्रतिषेधः प्रकाशितः आसीत् विदेश कार्यवक्त्रा रवीष्कुमारेण उक्तम्।
          नवम्बर् मासस्य तृतीयदिनाङ्के निश्चितः असीत् । किन्तु सुरक्षाशङ्कया तिथिः दीर्धीकृता आसीत्। एकस्मिन् पार्श्वस्य यात्रयै १३००० रूप्यकाणि भवति यात्रापत्रस्य मूल्यम्। उभयोः पार्श्वयोः आहत्य २३००० रूप्यकाणि एव।

Wednesday, November 7, 2018

हिमाप्लाविते केदारे सेबफलम् अन्विष्य कृषकाः।
         श्रीनगरम्> बृहदाकारके वृक्षे रक्तवर्णन सेवफलगुच्चाः काश्मीरदेशस्य  विशेषता आसीत्‌ I किन्तु इदानीं तत्रत्यानां दृश्यानि दुःखमयानि एव।अतिकठिनया हिमपातेन कृषिनाशः अभवत्। अकाले आगतः शैत्यकालः कृषकाणं जीवनं दुरिते अपातयत्।
         एकस्मिन् दिनेन एव कृषकाः दुरिते पतिताः। केषाञ्चनानां केदाराः सम्पूर्णातया हिमपातेन लग्नाः। संवत्सराणां परिश्रमेण संवर्धिताः सेवफलवृक्षाः भग्नाः ।   रविवासरे आसीत् सानुप्रदेशे हिमपातः। वार्ताविनिमयसुविधाः गतागतः वैद्युतीबन्धः च स्थगिताः। आधारसुविधाः पुनर्निर्मीय जनाः सामान्यजीवनं प्रति प्रत्यागच्छन्ति। किन्तु तेषां जीवनोपाधिः प्रत्यागन्तुं संवत्सराः प्रतिपालनीयाः। नूतनवृक्षाः रोपयित्वा फलागमाय षोडशवर्षाणि आवश्यकानि इत्येव कष्टतायाः व्याप्तिः संवर्ध्यते। ५०० कोटिरूप्यकेभ्यः उपरि नष्टाः अभवन् इति काश्मीर चेम्बर आफ् कोमेर्स् संस्थया निर्णीता।
संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्
        नमस्ते, सर्वेभ्य: मित्रेभ्य: दीपावल्या: नैका: शुभकामना:। संस्कृतप्रचारकार्येषु अग्रेसरी, सर्वेषु राज्येषु सर्वेषु जनपदेषु च आरब्धकार्या संस्कृतभारती सर्वेषां संस्कृतानुरागिणाम् अस्माकं प्रतिनिधिभूता। अस्माभि: सर्वै: सम्भूय कार्यं करणीयम् इत्यत: वयं भाविनि काले संस्कृतभारत्या: नाम्ना कार्यं कुर्याम। एकैक: अपि संस्कृतज्ञ: स्वीयाम् एव काञ्चित् संस्कृतप्रचारपरिषदं यदि आरभेत तर्हि प्रतिनगरं दश परिषद: भवेयु:। ता: संस्थाभिनिवेशेन परस्परं कलहायमाना: सत्य: पुन: संस्कृतकार्यं किमपि साधयितुं न शक्नुयु:। अत: संस्कृतभारत्या: नाम्ना कार्यं कुर्याम। तस्या: संस्कृतभारत्या: विविधकार्याणां कृते सर्वेण अपि समय: दातव्य:। मित्राणि, किं भवत: स्थाने संस्कृतभारत्या: कार्यम् अस्ति? नास्ति चेत् किं प्रारम्भ: कर्तुम् इष्यते? कार्ये सहभाग: इष्यते? 'आम्' इति चेत् संस्कृतभारत्या: सम्पर्कं कुर्वन्तु। जयतु संस्कृतम् जयतु भारतम् । 
'चित्रा आट्टविशेषपूजा'  समाप्ता।
शबरीशमन्दिरं पिहितम् ; मण्डलोत्सवाय नवंबर. १६ तमे पुनरुद्घाट्यते। 
  शबरिगिरिः  >  सङ्घर्षभरितानां होराणां मध्ये एकदिनात्मिकां चित्रा आट्टविशेषपूजां समापयित्वा शबरिगिरीशमन्दिरं ह्यः रात्रौ 'हरिवरासन'गानालापनेन पिहितम्। तिरुवितांकूर् देशस्य महाराजत्वेन प्रशोभितस्य 'श्री चित्रा तिरुन्नाल् बालरामवर्मा' नामकस्य जन्मनक्षत्रसम्बन्धी पूजा भवत्येषा। 
   सन्निधानं प्रति युवतीप्रवेशं निरोद्धुं सहस्रशानां विश्वासिजनानां प्रतिषेधनामजपैः मुखरितमासन् पम्पा  सन्निधानादयः मन्दिरपरिसरप्रदेशाः। असाधारणः जनसम्मर्दः अन्वभवत्। सर्वोच्चन्यायालयस्य विधिमनुसृत्य दर्शनार्थम् आगच्छन्तीनां महिलानां संरक्षणाय सुविधाप्रदानाय च २५०० अधिकाः रक्षिपुरुषाश्च एषु प्रदेशेषु विन्यस्यन्ते स्म।  
   अस्य संवत्सरस्य मण्डलोत्सवकालः नवं. २७ [वृश्चिकमासस्य प्रथमं दिनम्] दिनाङ्कादारभ्य डिसं. २७ पर्यन्तमस्ति। तदर्थं मन्दिरं नवं. १६ सायं उद्घाटयिष्यति। नूतनेन चितानां मुख्यार्चकानाम् अवरोधनकार्यक्रमाणि तद्दिने भविष्यन्ति। ते एव परेद्युः आरभ्य  पूजादिकं निर्वक्ष्यन्ति।

Tuesday, November 6, 2018

हरिप्रसाद्‌ कटम्पूपूर् वर्याय कवितालेखने पुनरपि सम्मानन प्राप्तिः
  त्रिशिवपेरुरः> संस्कृत -दिनाचरणसंबन्धतया केरलस्य शिक्षाविभागेन आयोजितायां कवितारचनास्पर्धायां हरिप्रसाद् कटम्पूपूरः सम्मानितः। एषः तिरुवङ्ङाट् ग्रामस्थ बालिका उच्चविद्यालये संस्कृतशिक्षकः भवति। गतपञ्चवर्षेाणि यावत् कवितारचनायां एषः भागभाक् आसीत्  तस्मिन् चतुर्वारं प्रथमस्थानं प्राप्तवानासित्। 
'अरिहन्ता' प्रवर्तनक्षमः ; अाणवायुधे भारतस्य त्रितलशक्तिः।  
  नवदिल्ली   >  आणवायुधबालिस्टिक् मिसैल् नामकम् आयुधं वोढुं शक्तियुक्ता भारतस्य प्रथमा निमज्जिनिमहानौका 'ऐ एन् एस् अरिहन्त्' नामिका , तस्याः पर्यटनं विजयकरेण पूर्तीकृतवती। दीर्घदूरबालिस्टिक् मिसैल् विक्षिप्तुं शेषियुक्ता भारतस्य प्रथमा  अण्वायुधयुक्ता निमज्जिनीमहानौका भवति 'अरिहन्ता'। 
    पूर्णतया जलान्तर्भागे तिष्ठन् प्रवर्तनक्षमः अरिहन्ता समुद्रे यत्रकुत्रापि स्थित्वा विक्षेपिणीशस्त्रं प्रयोक्तुं तथा  चिरकालं निलीय स्थातुं च  शक्तः च भवति। अरिहन्ता प्रवर्तनक्षमः सन् स्थलजलाकाशेभ्यः अण्वायुधं प्रयोक्तुं भारतस्य त्रितलशेषिः सम्प्राप्तः। 
    अनेन यू  एस् , रष्या, फ्रान्स् ,  चैना , ब्रिटेन् इत्येतेषां राष्ट्राणां पट्टिकायां भारतमपि अन्तर्भविष्यति।  अस्य लक्ष्यप्राप्तेः पूर्वपीठिकायां प्रवर्तितान् सर्वान् प्रधानमन्त्री नरेन्द्रमोदी , रक्षामन्त्रिणी निर्मला सीतारामः  , गृहमन्त्री राजनाथसिंहः इत्यादयः अभिनन्दितवन्तः।
भारत-वेस्ट-इण्डीजयोर्मध्ये द्वितीया २०-२० क्रिकेटस्पर्धाद्य
 -पुरुषोत्तमशर्मा
      भारत-वेस्ट-इण्डीजदलयोर्मध्ये प्रचाल्यमानाया: २०-२० क्रिकेटस्पर्धामालिकाया: द्वितीया स्पर्धा अद्य लखनऊ नगरे नवनिर्मिते भारतरत्‍न-अटल-बिहारी-वाजपेयी-क्रीडाङ्गणे भविष्यति । भारतीयसमयानुसारेण स्पर्धा सायं सप्तवादनात् प्रारप्स्यते ।
    कोलकातायां क्रीडिते प्रथमे द्वन्द्वे भारतेन वेस्ट-इण्डीजदलं पञ्चक्रीडकाणां सुरक्षापूर्वकं पराजित्य शृङ्खलायाम् एकं शून्यमिति अन्तरालेन साफल्यमधिगतमस्ति। शृङ्खलाया: अन्तिमा स्पर्धा आगामिनि रविवासरे चेन्नै नगरस्थे क्रीडाङ्गणे क्रीडिष्यति। 
सैन्यबलेन आतङ्किद्वयं निषूदितम्
 -पुरुषोत्तमशर्मा
       जम्‍मू-कश्‍मीरस्य शोपियांजनपदे सफनागरी-जैनापोराक्षेत्रे सुरक्षाबलानाम् आतङ्कवादिनां च मिथ: प्रवर्तिते सङ्घर्षे सुरक्षाबलेन आतङ्किद्वयं व्यापादितम् । सुरक्षासूत्रै: ज्ञापितं यत् घटनास्‍थलात् आयुधानि विस्फोटकानि चाधिगतानि। अपि चोक्तं यत् व्यापादितानाम् आतङ्कवादिनाम् अभिज्ञानप्रक्रिया प्रवर्तते, सममेव अन्वेषणाभियानमपि सन्ततं प्रवर्तते।

Monday, November 5, 2018

ऋणं स्वीकृत्य निलीय वासं कुर्वतां पट्टिका न प्रदत्ता-
आर् बि ऐ वित्तकोशाय केन्द्रीय सूचनायोगस्य सूचनापत्रम्।
      नवदिल्ली> भारतीय रिसर्व् बैंकस्य निर्वाहकाय ऊर्जित पट्टेलाय केन्द्रीय सूचानायाेगेन कारणं वक्तुं पत्रं प्रेषितम्। ऋणं स्वीकृत्य प्रत्यर्पणविमुखानां पट्टिका बहिः प्रकाशनीया इति सर्वोच्चन्यायालयस्य आदेशं प्रति अनादारं कृतवान् इत्यनेनैव पत्रं प्रेषितम्। पञ्चाशत् कोटिरूप्यकाणि ततः उपरि च ऋणं स्वीकृत्य प्रत्यर्पणे विमुखानां नाम प्रकाशनीयः इत्यासीत् न्यायालयस्य आदेशः। ✔
पाक् चाराय सुप्रधानविवरणाणि प्रदत्तानि - बि एस् एफ्‌ सैनिकः गृहीतः।
        पञ्चाब्> सीम्नः सुरक्षारोधाणां मार्गाणां च चित्रैःसह विवरणानि पाकिस्थानाय प्रदत्तानि इत्यनेन सीमासैनिकः गृहीतः। षेय्क् रियासुद्दीन् नामकः एव बि एस् एफ् बौद्धिकप्रमुखैः गृहीतः। मासान्तराणि यावत् एषः बौद्धिकप्रमुखानां निरीक्षणे आसीत्। महाराष्ट्रस्थे लातूर् जनपदस्थे रेनपुरदेशीयः भवति एषः रियासुदीनः। द्वौ करदूरवाण्यौ सप्त 'सिम्' पत्रं च अस्य पार्श्वतः गृहीतः। पाकिस्थानस्य गुप्तान्वेषण विभागस्य प्रणिधये सिराज् फैसल नामकाय  एव अनेन विवरणानि प्रदत्तानि।✔
केरलीयविद्यालये छात्रनायकः नेपालदेशीयः।
    कोच्ची> माङ्कायि सर्वकारविद्यालये छात्रनायकस्थाने नेपालदेशीयः चितः। काठ्मण्डु स्वदेशी समीरः भवति एषः। दशमकक्ष्यायाः छात्रः भवति अयम्।  विद्यालयछात्रनेतुः स्थाने प्रप्रथमतया भवति विदेशराष्ट्रपौरस्य प्रवेशः।
    एषः सकुटुम्बं केरलम् आगत्य चत्वारि वर्षाणि अतीतानि। अत्र आगत्य वर्षचतुष्टयेन मलयालभाषायां सामान्य ज्ञानमपि सम्प्राप्तम्। तस्य अनुजौ अपि अस्मिन्नेव विद्यालये पठतः। पिता त्रिप्पूणितुरा देशे अवक्षिप्तवस्तूनां समाहरणं कुर्वन्नस्ति।
(छायाग्रहणम् - मलयालमनोरमा)✔

Sunday, November 4, 2018

पलास्तिकनिर्मार्जनेन पारिस्थितिक सुस्थितिः
-बिजिलाकिषोरः
         भुवनेश्वरम्> ओडीषा सर्वकारेण भुवनेश्वरम्, कटक्, बर्हापुरम्, साम्पाल् , रूर्केला, पुरीत्यादिषु पञ्चसु नगरेषु ५० मैक्रोणतः अधः विद्यमानाः पलास्तिकस्यूताः तिरस्कर्तुं निश्चतमस्ति।  नियमलंघनं कृतानां गृहाणां पक्षतः २००, ५००, १००० इति क्रमेण शुल्कः स्वीक्रियते। आपणात् ५००, १०००, २००० एवं भक्षणशालातः १०००,२०००,५००० च स्वीक्रियते। सर्वैरपि नियमाः पालनीयाः इति अधिकारिणः उद्घोषितवन्तः।✔
श्रीलङ्का - विधानसभासम्मेलनं बुधवासरे इति सभापतिः। 
  कोलम्बो >  शासनप्रतिसन्धिः विद्यमाने श्रीलङ्काराष्ट्रे नवम्बर् सप्तमदिनाङ्के विधानसभामेलनम् आयोजयिष्यतीति सभापति कारु जयसूर्यः अवदत्। एतदर्थं राष्ट्रपतेः  मैत्रीपालसिरिसेनस्य निर्देशः लब्ध इति तेनोक्तम्। 
   रनिल् विक्रमसिंहं प्रधानमन्त्रिपदात् निष्कास्य राष्ट्रपतिः,  महिन्द राजपक्से नामकं तत्स्थाने नियुक्तवान् इत्यनेन राष्ट्रे सञ्जातः शासनप्रतिसन्धिः कलुषितः अनुवर्तते।✔