OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 5, 2018

ऋणं स्वीकृत्य निलीय वासं कुर्वतां पट्टिका न प्रदत्ता-
आर् बि ऐ वित्तकोशाय केन्द्रीय सूचनायोगस्य सूचनापत्रम्।
      नवदिल्ली> भारतीय रिसर्व् बैंकस्य निर्वाहकाय ऊर्जित पट्टेलाय केन्द्रीय सूचानायाेगेन कारणं वक्तुं पत्रं प्रेषितम्। ऋणं स्वीकृत्य प्रत्यर्पणविमुखानां पट्टिका बहिः प्रकाशनीया इति सर्वोच्चन्यायालयस्य आदेशं प्रति अनादारं कृतवान् इत्यनेनैव पत्रं प्रेषितम्। पञ्चाशत् कोटिरूप्यकाणि ततः उपरि च ऋणं स्वीकृत्य प्रत्यर्पणे विमुखानां नाम प्रकाशनीयः इत्यासीत् न्यायालयस्य आदेशः। ✔
पाक् चाराय सुप्रधानविवरणाणि प्रदत्तानि - बि एस् एफ्‌ सैनिकः गृहीतः।
        पञ्चाब्> सीम्नः सुरक्षारोधाणां मार्गाणां च चित्रैःसह विवरणानि पाकिस्थानाय प्रदत्तानि इत्यनेन सीमासैनिकः गृहीतः। षेय्क् रियासुद्दीन् नामकः एव बि एस् एफ् बौद्धिकप्रमुखैः गृहीतः। मासान्तराणि यावत् एषः बौद्धिकप्रमुखानां निरीक्षणे आसीत्। महाराष्ट्रस्थे लातूर् जनपदस्थे रेनपुरदेशीयः भवति एषः रियासुदीनः। द्वौ करदूरवाण्यौ सप्त 'सिम्' पत्रं च अस्य पार्श्वतः गृहीतः। पाकिस्थानस्य गुप्तान्वेषण विभागस्य प्रणिधये सिराज् फैसल नामकाय  एव अनेन विवरणानि प्रदत्तानि।✔
केरलीयविद्यालये छात्रनायकः नेपालदेशीयः।
    कोच्ची> माङ्कायि सर्वकारविद्यालये छात्रनायकस्थाने नेपालदेशीयः चितः। काठ्मण्डु स्वदेशी समीरः भवति एषः। दशमकक्ष्यायाः छात्रः भवति अयम्।  विद्यालयछात्रनेतुः स्थाने प्रप्रथमतया भवति विदेशराष्ट्रपौरस्य प्रवेशः।
    एषः सकुटुम्बं केरलम् आगत्य चत्वारि वर्षाणि अतीतानि। अत्र आगत्य वर्षचतुष्टयेन मलयालभाषायां सामान्य ज्ञानमपि सम्प्राप्तम्। तस्य अनुजौ अपि अस्मिन्नेव विद्यालये पठतः। पिता त्रिप्पूणितुरा देशे अवक्षिप्तवस्तूनां समाहरणं कुर्वन्नस्ति।
(छायाग्रहणम् - मलयालमनोरमा)✔

Sunday, November 4, 2018

पलास्तिकनिर्मार्जनेन पारिस्थितिक सुस्थितिः
-बिजिलाकिषोरः
         भुवनेश्वरम्> ओडीषा सर्वकारेण भुवनेश्वरम्, कटक्, बर्हापुरम्, साम्पाल् , रूर्केला, पुरीत्यादिषु पञ्चसु नगरेषु ५० मैक्रोणतः अधः विद्यमानाः पलास्तिकस्यूताः तिरस्कर्तुं निश्चतमस्ति।  नियमलंघनं कृतानां गृहाणां पक्षतः २००, ५००, १००० इति क्रमेण शुल्कः स्वीक्रियते। आपणात् ५००, १०००, २००० एवं भक्षणशालातः १०००,२०००,५००० च स्वीक्रियते। सर्वैरपि नियमाः पालनीयाः इति अधिकारिणः उद्घोषितवन्तः।✔
श्रीलङ्का - विधानसभासम्मेलनं बुधवासरे इति सभापतिः। 
  कोलम्बो >  शासनप्रतिसन्धिः विद्यमाने श्रीलङ्काराष्ट्रे नवम्बर् सप्तमदिनाङ्के विधानसभामेलनम् आयोजयिष्यतीति सभापति कारु जयसूर्यः अवदत्। एतदर्थं राष्ट्रपतेः  मैत्रीपालसिरिसेनस्य निर्देशः लब्ध इति तेनोक्तम्। 
   रनिल् विक्रमसिंहं प्रधानमन्त्रिपदात् निष्कास्य राष्ट्रपतिः,  महिन्द राजपक्से नामकं तत्स्थाने नियुक्तवान् इत्यनेन राष्ट्रे सञ्जातः शासनप्रतिसन्धिः कलुषितः अनुवर्तते।✔
हरितपत्रं - कार्कश्यनिर्णये  मृदुत्वं स्वीकृत्य ट्रम्पः। 
  वाषिङ्टण्  >  अधिनिवेशिताभ्यां स्थिरवासाय अनुज्ञां दीयमानां हरितपत्रिकां [ग्रीन् कार्ड्] निरस्तुं यू एस् राष्ट्रपतिना डोणाल्ड् ट्रम्पेन पूर्वस्वीकृते कर्कशनिर्णये तस्य अधुना किंचित् मृदुसमीपनं। बहुसंवत्सरैः प्रतीक्ष्यमाणानां लक्षशः अधिनिवेशितानां  कृते  हरितपत्राङ्गीकरणविषये पुनर्वीचिन्तनं भवतितेषां विषये यत् कर्तव्यं, तत् निर्वहणं सर्वं सम्पन्नम् इति ट्रम्पेणोक्तम्। 
  षट् लक्षात्परं भारतीयेभ्यः आश्वासदायकः पदक्षेपो भवत्ययम्। एप्रिल् मासस्य गणनामनुसृत्य ६,३२,२१९ जनाः हरितपत्रं प्रतीक्ष्यमाणाः सन्ति। तेषु अनेके बहुसंवत्सरेभ्यः पूर्वमेव अपेक्षितवन्तः। तेभ्यः स्थिरवासाय अनुज्ञा अचिरादेव लप्स्यते। स्वस्य नयप्रख्यापनप्रभाषणे ट्म्पेण विशदीकृतम्।✔

Saturday, November 3, 2018

शबरिगिरौ अद्य आरभ्य निरोधाज्ञा। 
   पत्तनंतिट्टा   >  'चित्रा आट्टविशेषपूजा' इति अनुष्ठानविशेषाय सोमवासरे सायं  शबरीशमन्दिरं आराधनाय उद्घाट्यते। अद्य आरभ्य दिनत्रयपर्यन्तं सन्निधानं परिसरप्रदेशाश्च अतिसुरक्षामण्डलरूपेण प्रख्यापिताः। वटश्शेरिक्करा , निलय्कल् , इलवुङ्कल् , पम्पा , सन्निधानं एषु प्रदेशेषु १४४ तम राजशासनसंहितामनुसृत्य निरोधाज्ञा  प्रख्यापिता। 
    सर्वोच्चन्यायालयस्य युवतीप्रवेशानुकूलं विधिम् पुरस्कृत्य अत्र सङ्घर्षः  वर्तते इत्यस्मात् कारणादेव ईदृशः आदेशः।✔

उद्योग-समारंम्भकेभ्यः मोदिनः दीपावली दिनपारितोषिकम् - ५९ निमेषाभ्यन्तरे कोटि रूप्यकाणि  ऋणरूपेण प्रदास्यते।

    नवदिल्ली> लघुव्यापार-समारम्भकाणां कृते नवपञ्चाशत्  निमेषेभ्यन्तरे कोटि रूप्यकाणि ऋणरूपेण प्रदातुं योजना प्रख्यापिता। दीपावलीदिन-पारितोषिकरूपेण भवति प्रधानमन्त्रिणः मोदिनः इदं ख्यापनम्। अतिवेगेन ऋणधनप्राप्त्यर्थं नूतना अन्तर्जालसुविधा सज्जीक्रियते। अनया सुविधया एकहोराभ्यन्तरे ऋणं प्रदातुं शक्यते इति प्रधानमन्त्रिणा उक्तम्। 
      पण्यसेवनकरविभागे पञ्जीकृतेभ्यः प्रतिशतं द्वयोः रूप्यकयोः न्यूनता शिखावृद्धिक्रमे भविष्यति। एतदपि नूतनसमारंभकेभ्यः केन्द्रसर्वकारस्य दीपावलीदिन-पारितोषिकं भवति इत्यपि मोदिना उच्यते। दिल्ल्यां विज्ञानभवने लघुव्यापारसमारम्भकेभ्यः साहाययोजनायाः उद्‌घाटनं कृत्वा भाषमाणः आसीत् सः।

 'दशमकक्ष्यापर्यन्तं पठाम्यनन्तरंं सङ्कणकमपि स्वायत्तीकरोमि'। प्रथमस्थानीया अभिलषति।
-बिजिलाकिषोरः
         आलपुष़ा> अक्षरलक्षं इति साक्षराता मिशन् संस्थायाः परीक्षायां केरलराज्यस्तरे उन्नतश्रेणीं प्राप्तवती हरिपाड् देशीया  ९६ वर्षीया कार्तायनी अम्बा। आत्मविश्वासेन अक्षरलोकमागता सा साक्षरतामिषन् मध्ये अक्षरलक्षमिति पद्धत्यां जनुवरि मासतः पठनमारब्धा। भयेन लिखितायां परीक्षायां  ९८% अङ्कान् प्राप्य प्रथमस्थानमलंकृतमिति सन्तुष्टिं जनयति इति सा अवोचत्।
       दशमकक्ष्यापर्यन्तं पठनीयं तेन सह सङ्कणकमपि स्वायत्तीकरणीयमिति तस्याः इच्छा। छत्राणां पठनं दृष्ट्वा पठितुम् इच्छा जाता इति सा उक्तवती।

Friday, November 2, 2018

एम् मुकुन्दः एष़ुत्तच्छन्  पुरस्कारेण समाद्रियते।  
    अनन्तपुरी> केरलसर्वकारस्य परमोन्नता साहित्यबहुमतिः 'एष़ुत्तच्छन् पुरस्कार'नामिका अस्मिन् वर्षे [२०१८] कैरल्याः  प्रमुखकथाकाराय एम् मुकुन्दाय समर्प्यते। कैरलीसाहित्याय दत्तं समग्रं योगदानमेव मुकुन्दाय पुरस्कारार्हतां प्रापयति। ।   मलयालभाषापितुः 'तुञ्चत्त् रामानुजन् ‍ एषुत्तच्छ'स्य नाम्नि दीयमानः अयं पुरस्कारः प्रशस्तिपत्रेण सह पञ्चलक्षरूप्यकं च प्रददाति। 
   कैरलीसाहित्ये आधुनिकताप्रस्थानस्य प्रारम्भ कुर्वत्सु साहित्यकारेषु प्रमुखः भवति एम् मुकुन्दः। 'मय्यष़िप्पुष़युटे तीरङ्ङलिल्', 'दैवत्तिन्टे विकृतिकल्' दल्हि 'केशवन्टे विलापङ्ङल्' इत्यादिभिः रचनातल्लजैः अर्धशताब्दं यावत् कैरल्याः सर्गसान्निध्यं भवति एम् मुकुन्दः।
भारत-बंग्लादेशसीम्नि विमाने सम्मुखेन अडयताम्।
       कोल्कत्ताता> द्वे विमाने सम्मुखेन अडयताम्। व्योमगतागत नियन्त्रकस्य तथा वैमानिकस्य कालोचित-प्रक्रमेण महादुरन्तः निवारितः। बुधवासरे सायं भारत-बंग्लादेशसीमनि आसीत् घटना। द्वावपि  इन्टिगो विमाने आस्ताम्I विमाननिस्थानक आयोगेन वार्तेयं बहिः प्रकाशिता। चेन्नैतः गुहावतिं प्रति गम्यमानां तथा गुहावतीतः चेन्नैनगरं प्रति गम्यमानं  विमाने भवतः समुखेन अडयताम्। तथा कोल्कत्ता व्योमगतागत नियन्त्रकस्य कालोचित-प्रक्रमेण तथा गुहावती वैमानिकस्य  मनोधैर्येण च महादुरन्तः निवारितः।
    घटनायाः काले गुहावती विमानं ३५००० पादोन्नत्यां डयते स्म। कोल्कत्ता विमानं तु ३६००० पादोन्नत्याम् आसीत्। किन्तु बंगलादेशस्य व्योमगतागत-नियन्त्रकात् अधः डयितुं निर्देशः लब्ध्वा ३५००० पादोन्नत्यां डयितम्। तदानीमेव उभये विमाने सम्मुखेन अभवताम् । 
यू ए ई राष्ट्रे सार्वजनिकक्षमार्हता डिसम्बर् १ पर्यन्तं दीर्घीकृता। 
      दुबाय् > यू ए. ई राष्ट्रम् अवश्ययुक्तानि प्रमाणानि विना अधिवसतां वैदेशिकानां द्रव्यदण्डादृते राष्ट्रं परित्यक्तुं वासं  नियमविधेयं कर्तुं वा निश्चित सार्वजनीनक्षमार्हताकालः डिसम्बर् प्रथमदिनाङ्कपर्यन्तं विस्तारितः। पूर्वनिश्चित कालः ओक्टोबर् ३१ दिनाङ्के समाप्तः। 
     अनेन अधिवासप्रमाणानि सज्जीकर्तुं  ये न शक्तवन्तः तेषां मासैकस्य कालः लब्धः। सार्वजनीनक्षमापराम् अपेक्षां स्वीकुर्वत्सु केन्द्रेषु महान् जनसम्मर्द्द अनुभूयते स्म इत्य़तः अपि कालपरिधिः दीर्घीकृतः।

Thursday, November 1, 2018

अर्धवैद्यान्  परिलसितुम् अनुज्ञा न दीयते। 

     स्वास्थ्यकलालयप्रवेशे उच्चन्यायालयं प्रति सर्वोच्चन्यायालयस्य रूक्षविमर्शः। 

नवदिल्ली>  स्वेच्छानुसारं सुविधारहितेभ्यः स्वास्थ्यकलालयेभ्यः अध्ययनानुज्ञां दत्वा अर्धवैद्यान् उद्पाद्य समाजे परिलसितुम् अनुज्ञा न दातुं शक्यते इति सर्वोच्चनीतिपीठः। केरलस्य चतुर्षु स्वाश्रयस्वास्थ्यकलालयेषु छात्रप्रवेशं निरस्य आदिष्टे विधिप्रस्तावे एव नीतिपीठस्य अयं परामर्शः।
     "व्यवस्थारहितं स्वास्थ्यशिक्षणं दातुम् अनुज्ञा दीयते चेत् जनानां जीवनाधिकाराय भीषा भविष्यति। आवश्यकाः आधारसुविधाः शिक्षकाश्च न सन्ति चेत् तादृशानां स्वास्थ्यकलालयानां कृते दीयमाना प्रवर्तनानुज्ञा समाजोन्नमनलक्ष्यस्य  विरुद्धा भवेत्।" एवं न्यायमूर्त्योः अरुण् मिश्रः, विनीत् सरणः इत्येतयोः नीतिपीठेन निरीक्षितम्।
     केरलस्य चतुर्भ्यः स्वास्थ्यकलालयेभ्यः छात्रप्रवेशः 'मेडिक्कल् कौण्सिल् आफ् इन्डिया' संस्थया निरस्तः आसीत्। किन्तु संस्थायाः आदेशः कलालयानाम् अभियाचिकया निरस्य छात्रप्रवेशाय अनुज्ञा दत्ता।  एतां विरुध्य संस्थया समर्पितायाम् अभियाचिकायामेव सर्वोच्चन्यायालयस्य अयं विधिः। उच्चन्यायालयस्य विधिः सर्वोच्चन्यायालयेन तीव्रतया विमृष्टः।
पलास्तिक निर्माणकेन्द्रे अग्निबाधा - समीपदेशेऽपि जाग्रतानिर्देशः।
           तिरुवनन्तपुरम्> मण्विलादेशे पलास्तिक निर्माणकेन्द्रे अग्निबाधा अभवत्I जीवहानिः नास्ति चेदपि विषधूमपटलः सर्वत्रप्रसरति। अतः समीपप्रदेशेषु जाग्रतानिर्देशः ख्यापितः। पलास्तिकानां ज्वलनेन कार्बण् मोणोक्सैड्, कार्बण् डै ओक्सैड्, सल्फर् डै ओक्सैड्‌ वातानां प्रसरणेन अन्तरिक्षे प्राणवायोः अभावः अस्ति। अतः प्रदेशवासिनः ततः गच्छेयुः इति जनपदाधिकारिणा जनाः निर्दिष्टाः।
          शिशून्, घासेन पीडितान् च सन्दर्भेस्मिन् सम्यग्‌ पालनीयाः। विषवातः अधिकतया अन्तरिक्षे प्रसृताः। सप्ताहपर्यन्तं प्रदेशे विषधूमस्य प्रभावः भविष्यति। सस्य श्वसनेन स्वास्थ्यहानिः भविष्यति इति  स्वास्थ्यकलाशालायाः आतुरालयस्य उपावेक्षकेन वैद्यकेन सन्तोष् महाशयेनोक्तम्। त्वरितावस्था पालनाय चिकित्सालये सुविधा सुसज्जा अस्ति इत्यपि तेनोक्तम्।

Wednesday, October 31, 2018

एकता प्रतिमा  मोदि महावर्येण राष्ट्राय समर्पितम्
-बिजिलाकिषोरः
       नवदिल्ली > नर्मदानद्याः समीपे साधुबेट् द्वीपे निर्मिता एकता प्रतिमा सर्दार् वल्लभ् भायी पट्टेल् महोदयस्य १४३ तमे जन्मदिने  प्रधानमन्त्रिणा  नरेन्द्रमोदी महाभागेन  अद्य राष्ट्राय समर्पितम्।  १८२ मीटर् औन्नत्येन निर्मिता भवति प्रतिमा। एकता प्रतिमेति नामकरणं कृतम्।
दिल्लीनगरे पुरातनयानानि रोधनीयानि - सर्वोच्चन्यायालयः।
        नवदिल्ली >  दिल्लीनगरस्य वायूप्रदूषणम् अतिदारुणावस्थायां भवति इति सर्वोच्च न्यायालयः। प्रदूषणं नियन्त्रितुं प्रदूषणमानदण्डं पालयितुं विमुखानां पुरातनयानानि  निवारणीयानि इति राज्यसर्वकारः आदिष्टः। दशसंवत्सरस्य पुरातनत्वं पेट्रोल् यानानां पञ्चदशसंवत्सरस्य पुरातनत्वं डीसल् यानानां च उपयोगस्य समयपरिधिः निर्णीता। तस्मादुपरि पुरातनानां यानानां पट्टिका निर्मीय यन्त्रयानविभागस्य अन्तर्जालपुटे  प्रकाशनीयम्। मलिनीकरणनियन्त्रणायोगेन सामूहिकमाध्यमद्वारा मलिनीकरणसमस्याम् अधिकृत्य जनानां पुरतः परिचर्चा करणीया। अवश्यकं चेत्‌ अन्तर्जाल सुविधा वा करणीया इत्यपि न्यायालयेन आदिष्टम्। 
वायूप्रदूषणेन २०१६ तमे १.२५ लक्षं शिशवः मारिताः।
representative image credit: news18
      नवदिल्ली > वायूप्रदूषणं विरुद्ध्य निशितप्रक्रमाः आवश्यकाः इत्युद्धोघोषयतः विश्व-स्वास्थ्यसंघटनस्य आवेदनम् बहिरागतम्। वायूप्रदूषणेन पञ्च वयस्कादूनाः १.२५ लक्षं शिशवः भारते हताः। २०१६ तमस्य वर्षस्य गणना भवति इयम्। अनेन कारणेन मृतेषु प्रतिशतं विंशति (२०%) शिशवः भारतात् एव। स्वास्थ्यं वायुप्रदूषणं च इत्यमुं विषयमधिकृत्य  विश्व-स्वास्थ्य संघटनस्य विश्वसङ्गोष्ठ्यां प्रकाशिते आवेदने भवति इदं भीदितं विवरणम्।
     गृहे बहिः च समानक्रमेणैव शिशूनां मृत्युः अभवत् । अङ्गारकादि जैवेन्धनानां ज्वालनेन जायमानं प्रदूषणं पञ्चवयस्कात् अधः स्थितानां ६७००० शिशुनां मरणहेतुः अभवत्|
यानजन्यधूमः सार्वजनिक स्थानानां प्रदूषणं च ६१००० शिशूनां जीवान् अपहृतवन्तौ। इयं गणना २०१६ वर्षस्य एव। वायूप्रदूषणं शिशुनां श्वासकोशान् मस्तिष्कान् च झटित्येव नाशयति इति अनुसान्धानावेदनेन स्पष्टीक्रियते।