OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 30, 2018

चतुर्थैकदिवसीया क्रिकेटस्पर्धा भारतेन विजिता
-पुरुषोत्तमशर्मा
    भारत-वेस्ट-इण्डीजक्रीडकदयोर्मध्ये प्रवर्तमानायाम् एकदिवसीयक्रिकेटस्पर्धामालिकायां गतरात्रौ भारतीयदलेन वेस्ट-इण्डीजवृन्दं चतुर्विंशत्युत्तरद्विशतं २२४ धावनाङ्कै: _पराजितम् । पणकं विजित्य प्रथमक्रीडयता भारतीयक्रीडकदलेन निर्धारितेषु पञ्चाशत् कन्दुकक्षेपचक्रेषु पञ्चक्रीडकाणां हानौ सप्तसप्तत्युत्तरत्रिशतधावनाङ्कलक्ष्यं वेस्ट-इण्डीजदलाय प्रदत्तमासीत्। लक्ष्यमनुसरता वेस्ट्इन्टीस् वृन्देन सप्तत्रिंश-क्षेपचक्रस्य द्वितीये कन्दुके केवलं त्रिपञ्चाशदधिकैकशतं धावनाङ्कान् व्यरचयत् । 
अनेन विजयेन सह भारतं शृङ्खलायां २-१ इत्यन्तरालेन अग्रेसरं वर्तते । शृङ्खलाया: निर्णायकान्तिमस्पर्धा गुरुवासरे भविष्यति ।
सिक्क सूक्ष्माणुः गुजरात् राज्येषु प्रसरति। अहम्मदाबादे अणुसङ्क्रमणं प्रमाणीकृतम्।
       नवदिल्ली> राजस्थाने भीतिं उत्पाद्य अनन्तरं सिका सूक्ष्माणुः गुजरात् राज्येऽपि प्रसरति। अहम्मदाबादे एका स्त्री सूक्ष्माणुसङ्क्रमिता अस्ति। राज्यसर्वकारेण रोगाणुप्रतिरोधप्रवर्तनानि समारब्धानि इति स्वास्थ्यविभागाध्यक्षा जयन्तीरविः अवदत्। त्वरित प्रक्रमाय भिषजाम् अनुवैद्यानां संघाः नियुक्ताः। २५० संख्याधिकाः गर्भिण्यः परिपालिताः। 
        गुर्जरस्य समीपवर्तिराज्यात् राजस्थानात् आसीत् प्रथमतया सिकारोगाणुव्यापनस्य आवेदनम्। राष्ट्रे प्रप्रथमरोगाणुव्यापनं २०१७ तमे गुर्जरदेशे  आवेदितम् आसीत्I
राज्यस्तरीयः कायिकोत्सवः समाप्तः ; एरणाकुलं जनपदं प्रथमस्थाने। 
विद्यालयीयकिरीटः कोतमङ्गलं सेन्ट् जोर्ज् उच्चतरविद्यालयाय। 
          अनन्तपुरी   >  गतदिनत्रये अनन्तपुर्यां सम्पन्ने ६२ तमे विद्यालयीयक्रीडापटूनां वीरताप्रदर्शने एरणाकुलं जनपदेन वीरत्वपदं  प्राप्तम्! ३० सुवर्णानि , २६ रजतानि, २० पित्तलानि च सम्प्राप्य २५३ अङ्कानि एरणाकुलं जनपदेन प्राप्तानि। १९६ अङ्कैः  पालक्काट् जनपदेन द्वितीयस्थानं प्राप्तम्।
     विद्यालयेषु एरणाकुलं जनपदस्थः कोतमङ्गलं सेन्ट् जोर्ज् उच्चतरविद्यालयः ८१ अङ्कानि प्राप्य वीरताकिरीटं स्वायत्तीकृतम्। संवत्सरत्रयस्य भङ्गं समाप्य एव सेन्ट् जोर्ज् विद्यालयः किरीटं प्रापयत्।

Monday, October 29, 2018

संस्कृतभारत्या: अ.भा.उपवेशनं सम्पन्नम्।
    वाराणसि>  २७-२८ दिनांकयो: वाराणस्यां संस्कृतभारत्या: अ.भा.उपवेशनं सम्पन्नम्। उद्घाटने मुख्यातिथि: आसीत् उदासीनसम्प्रदायप्रमुखा: स्वामिनः गुरुशरणानन्दमहाराजाः, तत्र अन्नपूर्णाक्षेत्रप्रमुखा: स्वामिनः च। समारोपे मा०मुख्यमन्त्रिणः योगि-आदित्यनाथः, सं.भा.संघटनमन्त्री दिनेश कामतः, महामन्त्री श्रीशदेवपुजारी, अध्यक्ष: भक्तवत्सलश्च। कार्यक्रमे उप 10 कुलपतयः अपि उपस्थिताः आसन्।

संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्
भाषाशुद्धतायै निरन्तरं प्रयतामहे
नमस्ते, सरलसंस्कृताय आग्रहकरणसमये भाषाशुद्धतार्थं प्रयत्न: न्यून: न भवेत्। सरलं, शुद्धं, निर्दुष्टं, पाणिनीयमेव संस्कृतम् अस्माभि: प्रयोक्तव्यम्। समस्या कुत्र आयाति इत्युक्ते कश्चन यदा संस्कृतेन भाषणसमर्थ: भवति तत्पश्चात् स: संस्कृतेन भाषमाण: तु भवति, परं स्वस्य भाषादोषा: कुत्र कुत्र भवन्ति इति ज्ञातुं प्रयत्नमेव न करोति। य: तद्विषये बुद्धिमेव न व्यापारयति स: कथं वा अवगच्छेत्? अहं संस्कृतेन ' सम्यगेव वदामि' इति चिन्तयन् भवति। मित्राणि,  वयं अस्माकं भाषाशुद्धतायै निरन्तरं प्रयतामहे । जयतु संस्कृतम् जयतु भारतम् । 
संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्
भाषाशुद्धतायै निरन्तरं प्रयतामहे
नमस्ते, सरलसंस्कृताय आग्रहकरणसमये भाषाशुद्धतार्थं प्रयत्न: न्यून: न भवेत्। सरलं, शुद्धं, निर्दुष्टं, पाणिनीयमेव संस्कृतम् अस्माभि: प्रयोक्तव्यम्। समस्या कुत्र आयाति इत्युक्ते कश्चन यदा संस्कृतेन भाषणसमर्थ: भवति तत्पश्चात् स: संस्कृतेन भाषमाण: तु भवति, परं स्वस्य भाषादोषा: कुत्र कुत्र भवन्ति इति ज्ञातुं प्रयत्नमेव न करोति। य: तद्विषये बुद्धिमेव न व्यापारयति स: कथं वा अवगच्छेत्? अहं संस्कृतेन ' सम्यगेव वदामि' इति चिन्तयन् भवति। मित्राणि,  वयं अस्माकं भाषाशुद्धतायै निरन्तरं प्रयतामहे । जयतु संस्कृतम् जयतु भारतम् । 

Sunday, October 28, 2018

अमेरिकायां जूतदेवालये भुषुण्डिप्रयोगः - ८ जनाः हताः। 
    पिट्स्बर्ग्  >  यू एस् राष्ट्रे पीट्स्बर्ग नगरस्थे जूतदेवालये [सिनगोग्] कस्यचन अक्रमिणः  भुषुण्डिप्रयोगेण अष्ट जनाः हताः। अनेके व्रणिताः। व्रणितेषु त्रयः आरक्षकाश्च अन्तर्भवन्तीति सूच्यते। आक्रमणकारी पश्चात् आरक्षकैः गृहीतः। 
    शनिवासरे प्रभाते एकादशवादने आराधनालयम् अतिक्रम्य प्राप्तः अक्रमी आराधकजनान् लक्ष्यीकृत्य  अनवरतं शतघ्नीप्रयोगं कु्वन्नासीत्। सर्वे जूतविश्वासिनः म्रियन्तामिति सः आक्रोशं कृतवानित्यपि आरक्षकैरुक्तम्। 
    शतघ्नीनां स्वायत्तीकरणे किमपि नियन्त्रणम् यू एस् राष्ट्रे नास्तीत्यतः प्रतिवत्सरं ३०,००० जनाः अक्रमिणां शतघ्निप्रयोगेण मृतिमुपगच्छन्ति।
श्रीलङ्कन् विधानसभा स्तम्भयते स्म ; राष्ट्रे शासनप्रतिसन्धिः। 
  कोलम्बो  >  अपमार्गद्वारा प्रधानमन्त्रिपदात् निष्कासितः रनिल् विक्रमसिङ्गः स्थानत्यागाय न सन्नद्धो अभवत्। विधानसभायां स्वस्य अधीशत्वस्थापनाय सभासम्मेलनम् आयोजयितुं तेन अपेक्षितम्। किन्तु राष्ट्रपतिः मैत्रिपालसिरिसेनः सभां स्तम्भयित्वा आदेशं कृतवान्। विक्रमसिङ्गस्य सुरक्षामपि निराकरोत्। 
    आत्मने भूरिवर्गस्य सहयोगः वर्तते । अविश्वासपत्रमात्रेणैव आत्मनः निष्कासनं साध्यते इति राजशासनसंविधानमुद्धारयन् विक्रमसिङ्गः अवदत्। २०१९ आर्थिकसंवत्सरस्य आयव्ययपत्रावतरणाय नवम्बर् ५ दिने विधानसभासम्मेलनं विधातव्यमासीत्। अस्य सम्मेलनस्य कालविलम्बः आर्थिकप्रतिसन्धौ पीडयतः राष्ट्रस्य भुयः  क्लेशाय भवति।
धर्मपरिवर्तनं विरुद्ध्य  अतिशक्तं सन्देशं दत्तवानासीत्  श्रीनारायणगुरुः इति अमित् षा।
-बिजिलाकिषोरः

  शिवगिरिः > अधस्थ वर्गे जातेन श्रीनारायणगुरुणापि धर्मपरिवर्तनं रूक्षतया विमर्शितमिति भारतीय जनतादलस्य  राष्ट्रियाध्यक्षः अमित्षा महाभागः अवोचत्। शिवगिरौ प्रवृत्ते श्रीनारायणगुरोः महासमाधि दिनाचरणे भाषमाणः आसीत् अयं महाभागः। हिन्दुसंस्कृतिः, देशस्य परम्परागतविश्वासः, भाषा, साहित्यं च महात्मना पुनरुज्जीवनं कृतमिति हेतोः अधुना हिन्दुसमूहः सुरक्षितं जातमिति  तेन अभिप्रेतम्।
शिक्षया  विकसन्तु, सङ्घटनया शक्ताः भवन्तु, व्यवसायेन समृद्धाः भवन्तु इति तेन जनाः उपदिष्टाः। संस्कृतभाषा मातृभाषया सह प्रसारयितुमपि तेन प्रयत्नं कृतम् । नारायणगुरुतुल्यं अन्यं पुरुषं इतः पर्यन्तम् अहं न दृष्टवान् इति रवीन्द्रनाथटागोरस्य वचनं तेन स्मारितम्‌।
सैनिकान् प्रति पाषाणक्षेपः आतङ्कवादिनां कृते एव; सुशक्तप्रक्रमः भविष्यति इति सैन्याधिपः।
      नवदिल्ली > सैनिकान् प्रति पाषाणक्षेपणं कुर्वन्तः भीकराणां कृते  प्रयत्नं कुर्वन्तः भवन्ति इति स्थलसेनाधिपः बिपिन् रावतः । एतान् विरुद्ध्य दण्डप्रक्रमः स्वीकरिष्ये इति तेन उक्तम्। नवदिल्यां सैनिकदिनानुबन्धतया 'अमर् जवान् ज्योतिमण्डपे प्रणामं कृत्वा भाषमाणः आसीत्  सःI
     विगते शुक्रवासरे कृते पाषाणक्षेपे एकः सैनिकः हतः इति सन्दर्भेऽस्मिन् भवति सेनाध्यक्षस्य इदं ख्यापनम्। पाषाणक्षेपणं कर्तुं उद्युक्तान् विरुद्ध्य व्यवहारः पञ्जीकृतः इति बिपिन् रावत्तेन उक्तम्। काश्मीरस्य शान्ति-विध्वंसनप्रवर्तनानां पृष्ठतः पाकिस्थानः इति रावत्तः अवदत् | काश्मीरः भारतस्य अविभाज्यभागः इति रावत्तेन संसूचितम्।

Saturday, October 27, 2018

श्रीलङ्कायां विक्रमसिङ्गे निष्कासितः , राजपक्से नवीनप्रधानमन्त्री। 
     कोलम्बो>  श्रीलङ्कायां गतदिने सञ्जातेन व्युत्क्रमेण प्रधानमन्त्रिणं रनिल् विक्रमसिङ्गे नामकं राष्ट्रपतिः मैत्रीपालसिरुसेनः निष्कासितवान्। तत्स्थाने भूतपूर्वः राष्ट्रपतिः श्रीलङ्कन् राजनैतिकमण्डलस्य अतिकायः महिन्द्र राजपक्से नामकः अवरोधितः।
    विक्रमसिङ्गस्य 'युणैटड् नाषणल् पार्टी ' दलस्य कृते दीयमानः सहयोगः निराकुरुत इति सिरिसेनस्य 'युणैटड् पीपिल्स् फ्रीडं सख्यं ' नामकस्य दलस्य प्रख्यापनादचिरेणैव विक्रमसिङ्गः निष्कासितः।
     किन्तु विक्रमसिङ्गः स्थानत्यागाय न सन्नद्धः अस्ति। अतः अयं विषयः न्यायपीठं प्राप्नोतीति राजनैतिकनिरीक्षकैः अनुमीयते।
उत्सवाचरणं परिस्थितये हानिकरो माभवतु- भारत राष्ट्रपतिः रामनाथ कोविन्दःI
     नवदिल्ली> दिल्ल्यां वायुप्रदूषणम् अतिगुरुतरावस्थां याति। सन्दर्भेस्मिन्  उत्सवाचरणं परिस्थितये हानिकरो मा भवतु इत्युपदेशेन सह भास्तस्य राष्ट्रपतिः रामनाथ कोविन्दः। तदर्थं जनमनसि सद्भावना उद्‌पादनीया। इदानीं दिल्याम् उत्सवकालः समारभते। अतः वायूप्रदूषणं अत्यधिकं भविष्यति। अस्य परिहाराय सामूहिकदलाः जनानं मनसि प्रदूषणं विरुद्ध्य सद्भावनां जनयितुं प्रयत्नं कुर्युः इति राष्ट्रपतिना रामनाथ कोविन्देन इष्यते।
केरले राज्यस्तरीयः कायिकोत्सवः समारब्धः। 
   अनन्तपुरी>  अतिरूक्षस्य प्रलयदुरन्तस्य पश्चात् केरलानां प्रथमः सार्वजनीनसङ्गमः। कौमारकायिकप्रतिभाधनानां राज्यस्तरीयः कायिकोत्सवः। ६२ तमः विद्यलयीयक्रीडापटूनां वीरताप्रदर्शनं [School Athletic Championship] गतदिने केरल विश्वविद्यालयमहाक्रीडाङ्कणे समारब्धम्। आकेरलं २२०० कौमारताराः नववेगं  नवदूरं च प्राप्तुमिच्छुकामाः भागं स्वीकुर्वन्ति। रविवासरे मेलायाः समापनं भविष्यति। प्रथमे दिने ३१अर्थानाम् अन्तिमचरणे समाप्ते एरणमाकुलं जनपदः अग्रिमस्थानमलंकरोति।
दिल्ल्यां हिमधूमेन श्वासक्लेशः- पूर्वसूचना भवति पर्यावरणस्य।
        नवदिल्ली> विषधूमेन श्वासक्लेशमनुभवति दिल्लीनगरम्। विश्वस्वास्थ्यसंघटनस्य आवेदनानुसारं  मालिन्याधिक्येन क्लेशमनुभूतमानेषु विश्वनगरेषु प्रथमं स्थानं भवति नवदिल्ली। अनेन कारणेन विश्ववार्तामण्डले दिल्लीनगरस्य कुप्रसिद्धिः अस्ति। नगरमिदं विषधूमपटलात् मुक्तं कर्तुं सर्वकारेण बहुविधप्रक्रमाः स्वीकृताः। केन्द्र सर्वकारः, राज्यसर्वकारः राष्ट्रियहरितायोगः, मानवाधिकारायोगः, उच्चन्यायालयः , सर्वोच्च न्यायालयाः च  समस्यापरिहाराय प्रयतितवन्तः। किन्तु निष्प्रयोजनमासीत् ।
पर्यावरणस्य विषधूमः हिमकणाः च मिलित्वा एव जायते हिमधूमः।

Friday, October 26, 2018

जगन् मोहन रड्डिः कुठाराक्रमणेन व्रणितः, अपराधी गृहीतः।
        विशाखपत्तनम् >   आन्ध्रप्रदेशराज्यस्य  विधानसभायाः विपक्षनेता तथा वै एस् आर् कोण्ग्रस् दलस्य नेता च वै एस् जगन्मोहन् रड्डिः विशाखपत्तनं विमाननिलयस्थे विशिष्टालये कुठाराक्रमणेन व्रणितः। हैदराबादं प्रति गन्तुं प्राप्तं तं विमाननिलयस्थभोजनशालायाः कर्मचारी एव कुक्कुटाहवे उपयुज्यमानं लघुकुठारमुपयुज्य वामस्कन्धं प्रति आक्रमणं कृतवान्। झटित्येव आक्रमणकारी जे श्रीनिवासरावु नामकः सि ऐ एस् एफ् दलैः गृहीतः आरक्षकदलं नीतः च।
        अविभक्तान्ध्रप्रदेशस्य भूतपूर्वमुख्यमन्त्रिणः यश्शरीरस्य वै एस् राजशेखररड्डिनः पुत्रः जगन्मोहनरड्डिः। विमाननिलयस्थे विशिष्टपुरुषाणां विश्रान्तिगृहे उपस्थितस्य तस्य समीपं 'सेल्फी'छायाचित्रनिर्वहणोत्सुकव्याजेन प्राप्तः श्रीनिवासरावः अप्रतीक्षितवेगेन कुठाराक्रमणं कृतवानासीत्। लघुव्रणितः जगन्मोहनः प्रथमशुश्रूषानन्तरं यात्रामनुवर्तितवान्।
चीनस्य 'हेलिकोप्टर्' भारतसीमा अलङ्घयत् इति आवेदनम्।
        नवदिल्ली> व्योमपरिधिमुल्लङ्घ्य चीनस्य द्वे उदग्रयाने भारतखण्डं प्रापतुः। लडाक्कस्थे ड्रिग् प्रदेशे एव घटनेयं जता इति ज्ञातम्। सेप्तम्बर् मासस्य सप्तविंशति दिनाङ्के लडाक् टिबत् सीमायां दशनिमेषपर्यन्तं व्याेमनिरीक्षणं कृत्वा एव प्रतिनिवृत्तम्। पाकिस्थानस्य उदग्रयानस्य (Helicopter) अधिनिवेशनात् दिनत्रयात् पूर्वम् आसीत् चीनेनकृतं  व्योमसीमा लङ्‌घनम्।
     पाक्अधीनकाश्मीरस्य प्रधानमन्त्री राजा फरूख् हैदरखानः तदा उदग्रयाने आसीत्‌। अनवधानतया आसीत्  सीमा लङ्घनम् इत्यासीत् पाकिस्थानस्य स्वयमुक्तिः। भारत समुद्रेऽपि चीनस्य अन्तर्वाहिन्यः सान्निध्यमासीत् पूर्वस्मिन् मासे इत्यपि आवेदनमस्ति।

Thursday, October 25, 2018

जनसम्मर्देण द्वौ दिवंगतौ,अनेके व्रणिताश्च
-बिजिला किषोरः
        कोल्कत्ता > सोमवासरे सान्द्रागाच्छी रेयिल् निस्थानके प्रवृत्ते दुरन्ते द्वौ मृतौ १४ जनाः व्रणिताश्च। रेल यानत्रयाणाम् आगमनं युगपदेव अभवत् इति अपघातकारणम्। द्वितीय , तृतीय केन्द्रेषु याने आगतौ। तदा गमनवीथ्यां जनबाहुल्यमभवत्। उद्योगिनां अनवधानतया इदं जातम् इति मुख्यमन्त्री ममताबानर्जी अवोचत्।
      बहूनां यानानां निस्थानकम् इत्यतः जनाः अधिकतया अत्र सम्मिलन्ति। अनेके वेगदूरयानानि, स्थानीययानानि च इतः प्रस्थानं कुर्वन्ति।