OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 28, 2018

अमेरिकायां जूतदेवालये भुषुण्डिप्रयोगः - ८ जनाः हताः। 
    पिट्स्बर्ग्  >  यू एस् राष्ट्रे पीट्स्बर्ग नगरस्थे जूतदेवालये [सिनगोग्] कस्यचन अक्रमिणः  भुषुण्डिप्रयोगेण अष्ट जनाः हताः। अनेके व्रणिताः। व्रणितेषु त्रयः आरक्षकाश्च अन्तर्भवन्तीति सूच्यते। आक्रमणकारी पश्चात् आरक्षकैः गृहीतः। 
    शनिवासरे प्रभाते एकादशवादने आराधनालयम् अतिक्रम्य प्राप्तः अक्रमी आराधकजनान् लक्ष्यीकृत्य  अनवरतं शतघ्नीप्रयोगं कु्वन्नासीत्। सर्वे जूतविश्वासिनः म्रियन्तामिति सः आक्रोशं कृतवानित्यपि आरक्षकैरुक्तम्। 
    शतघ्नीनां स्वायत्तीकरणे किमपि नियन्त्रणम् यू एस् राष्ट्रे नास्तीत्यतः प्रतिवत्सरं ३०,००० जनाः अक्रमिणां शतघ्निप्रयोगेण मृतिमुपगच्छन्ति।
श्रीलङ्कन् विधानसभा स्तम्भयते स्म ; राष्ट्रे शासनप्रतिसन्धिः। 
  कोलम्बो  >  अपमार्गद्वारा प्रधानमन्त्रिपदात् निष्कासितः रनिल् विक्रमसिङ्गः स्थानत्यागाय न सन्नद्धो अभवत्। विधानसभायां स्वस्य अधीशत्वस्थापनाय सभासम्मेलनम् आयोजयितुं तेन अपेक्षितम्। किन्तु राष्ट्रपतिः मैत्रिपालसिरिसेनः सभां स्तम्भयित्वा आदेशं कृतवान्। विक्रमसिङ्गस्य सुरक्षामपि निराकरोत्। 
    आत्मने भूरिवर्गस्य सहयोगः वर्तते । अविश्वासपत्रमात्रेणैव आत्मनः निष्कासनं साध्यते इति राजशासनसंविधानमुद्धारयन् विक्रमसिङ्गः अवदत्। २०१९ आर्थिकसंवत्सरस्य आयव्ययपत्रावतरणाय नवम्बर् ५ दिने विधानसभासम्मेलनं विधातव्यमासीत्। अस्य सम्मेलनस्य कालविलम्बः आर्थिकप्रतिसन्धौ पीडयतः राष्ट्रस्य भुयः  क्लेशाय भवति।
धर्मपरिवर्तनं विरुद्ध्य  अतिशक्तं सन्देशं दत्तवानासीत्  श्रीनारायणगुरुः इति अमित् षा।
-बिजिलाकिषोरः

  शिवगिरिः > अधस्थ वर्गे जातेन श्रीनारायणगुरुणापि धर्मपरिवर्तनं रूक्षतया विमर्शितमिति भारतीय जनतादलस्य  राष्ट्रियाध्यक्षः अमित्षा महाभागः अवोचत्। शिवगिरौ प्रवृत्ते श्रीनारायणगुरोः महासमाधि दिनाचरणे भाषमाणः आसीत् अयं महाभागः। हिन्दुसंस्कृतिः, देशस्य परम्परागतविश्वासः, भाषा, साहित्यं च महात्मना पुनरुज्जीवनं कृतमिति हेतोः अधुना हिन्दुसमूहः सुरक्षितं जातमिति  तेन अभिप्रेतम्।
शिक्षया  विकसन्तु, सङ्घटनया शक्ताः भवन्तु, व्यवसायेन समृद्धाः भवन्तु इति तेन जनाः उपदिष्टाः। संस्कृतभाषा मातृभाषया सह प्रसारयितुमपि तेन प्रयत्नं कृतम् । नारायणगुरुतुल्यं अन्यं पुरुषं इतः पर्यन्तम् अहं न दृष्टवान् इति रवीन्द्रनाथटागोरस्य वचनं तेन स्मारितम्‌।
सैनिकान् प्रति पाषाणक्षेपः आतङ्कवादिनां कृते एव; सुशक्तप्रक्रमः भविष्यति इति सैन्याधिपः।
      नवदिल्ली > सैनिकान् प्रति पाषाणक्षेपणं कुर्वन्तः भीकराणां कृते  प्रयत्नं कुर्वन्तः भवन्ति इति स्थलसेनाधिपः बिपिन् रावतः । एतान् विरुद्ध्य दण्डप्रक्रमः स्वीकरिष्ये इति तेन उक्तम्। नवदिल्यां सैनिकदिनानुबन्धतया 'अमर् जवान् ज्योतिमण्डपे प्रणामं कृत्वा भाषमाणः आसीत्  सःI
     विगते शुक्रवासरे कृते पाषाणक्षेपे एकः सैनिकः हतः इति सन्दर्भेऽस्मिन् भवति सेनाध्यक्षस्य इदं ख्यापनम्। पाषाणक्षेपणं कर्तुं उद्युक्तान् विरुद्ध्य व्यवहारः पञ्जीकृतः इति बिपिन् रावत्तेन उक्तम्। काश्मीरस्य शान्ति-विध्वंसनप्रवर्तनानां पृष्ठतः पाकिस्थानः इति रावत्तः अवदत् | काश्मीरः भारतस्य अविभाज्यभागः इति रावत्तेन संसूचितम्।

Saturday, October 27, 2018

श्रीलङ्कायां विक्रमसिङ्गे निष्कासितः , राजपक्से नवीनप्रधानमन्त्री। 
     कोलम्बो>  श्रीलङ्कायां गतदिने सञ्जातेन व्युत्क्रमेण प्रधानमन्त्रिणं रनिल् विक्रमसिङ्गे नामकं राष्ट्रपतिः मैत्रीपालसिरुसेनः निष्कासितवान्। तत्स्थाने भूतपूर्वः राष्ट्रपतिः श्रीलङ्कन् राजनैतिकमण्डलस्य अतिकायः महिन्द्र राजपक्से नामकः अवरोधितः।
    विक्रमसिङ्गस्य 'युणैटड् नाषणल् पार्टी ' दलस्य कृते दीयमानः सहयोगः निराकुरुत इति सिरिसेनस्य 'युणैटड् पीपिल्स् फ्रीडं सख्यं ' नामकस्य दलस्य प्रख्यापनादचिरेणैव विक्रमसिङ्गः निष्कासितः।
     किन्तु विक्रमसिङ्गः स्थानत्यागाय न सन्नद्धः अस्ति। अतः अयं विषयः न्यायपीठं प्राप्नोतीति राजनैतिकनिरीक्षकैः अनुमीयते।
उत्सवाचरणं परिस्थितये हानिकरो माभवतु- भारत राष्ट्रपतिः रामनाथ कोविन्दःI
     नवदिल्ली> दिल्ल्यां वायुप्रदूषणम् अतिगुरुतरावस्थां याति। सन्दर्भेस्मिन्  उत्सवाचरणं परिस्थितये हानिकरो मा भवतु इत्युपदेशेन सह भास्तस्य राष्ट्रपतिः रामनाथ कोविन्दः। तदर्थं जनमनसि सद्भावना उद्‌पादनीया। इदानीं दिल्याम् उत्सवकालः समारभते। अतः वायूप्रदूषणं अत्यधिकं भविष्यति। अस्य परिहाराय सामूहिकदलाः जनानं मनसि प्रदूषणं विरुद्ध्य सद्भावनां जनयितुं प्रयत्नं कुर्युः इति राष्ट्रपतिना रामनाथ कोविन्देन इष्यते।
केरले राज्यस्तरीयः कायिकोत्सवः समारब्धः। 
   अनन्तपुरी>  अतिरूक्षस्य प्रलयदुरन्तस्य पश्चात् केरलानां प्रथमः सार्वजनीनसङ्गमः। कौमारकायिकप्रतिभाधनानां राज्यस्तरीयः कायिकोत्सवः। ६२ तमः विद्यलयीयक्रीडापटूनां वीरताप्रदर्शनं [School Athletic Championship] गतदिने केरल विश्वविद्यालयमहाक्रीडाङ्कणे समारब्धम्। आकेरलं २२०० कौमारताराः नववेगं  नवदूरं च प्राप्तुमिच्छुकामाः भागं स्वीकुर्वन्ति। रविवासरे मेलायाः समापनं भविष्यति। प्रथमे दिने ३१अर्थानाम् अन्तिमचरणे समाप्ते एरणमाकुलं जनपदः अग्रिमस्थानमलंकरोति।
दिल्ल्यां हिमधूमेन श्वासक्लेशः- पूर्वसूचना भवति पर्यावरणस्य।
        नवदिल्ली> विषधूमेन श्वासक्लेशमनुभवति दिल्लीनगरम्। विश्वस्वास्थ्यसंघटनस्य आवेदनानुसारं  मालिन्याधिक्येन क्लेशमनुभूतमानेषु विश्वनगरेषु प्रथमं स्थानं भवति नवदिल्ली। अनेन कारणेन विश्ववार्तामण्डले दिल्लीनगरस्य कुप्रसिद्धिः अस्ति। नगरमिदं विषधूमपटलात् मुक्तं कर्तुं सर्वकारेण बहुविधप्रक्रमाः स्वीकृताः। केन्द्र सर्वकारः, राज्यसर्वकारः राष्ट्रियहरितायोगः, मानवाधिकारायोगः, उच्चन्यायालयः , सर्वोच्च न्यायालयाः च  समस्यापरिहाराय प्रयतितवन्तः। किन्तु निष्प्रयोजनमासीत् ।
पर्यावरणस्य विषधूमः हिमकणाः च मिलित्वा एव जायते हिमधूमः।

Friday, October 26, 2018

जगन् मोहन रड्डिः कुठाराक्रमणेन व्रणितः, अपराधी गृहीतः।
        विशाखपत्तनम् >   आन्ध्रप्रदेशराज्यस्य  विधानसभायाः विपक्षनेता तथा वै एस् आर् कोण्ग्रस् दलस्य नेता च वै एस् जगन्मोहन् रड्डिः विशाखपत्तनं विमाननिलयस्थे विशिष्टालये कुठाराक्रमणेन व्रणितः। हैदराबादं प्रति गन्तुं प्राप्तं तं विमाननिलयस्थभोजनशालायाः कर्मचारी एव कुक्कुटाहवे उपयुज्यमानं लघुकुठारमुपयुज्य वामस्कन्धं प्रति आक्रमणं कृतवान्। झटित्येव आक्रमणकारी जे श्रीनिवासरावु नामकः सि ऐ एस् एफ् दलैः गृहीतः आरक्षकदलं नीतः च।
        अविभक्तान्ध्रप्रदेशस्य भूतपूर्वमुख्यमन्त्रिणः यश्शरीरस्य वै एस् राजशेखररड्डिनः पुत्रः जगन्मोहनरड्डिः। विमाननिलयस्थे विशिष्टपुरुषाणां विश्रान्तिगृहे उपस्थितस्य तस्य समीपं 'सेल्फी'छायाचित्रनिर्वहणोत्सुकव्याजेन प्राप्तः श्रीनिवासरावः अप्रतीक्षितवेगेन कुठाराक्रमणं कृतवानासीत्। लघुव्रणितः जगन्मोहनः प्रथमशुश्रूषानन्तरं यात्रामनुवर्तितवान्।
चीनस्य 'हेलिकोप्टर्' भारतसीमा अलङ्घयत् इति आवेदनम्।
        नवदिल्ली> व्योमपरिधिमुल्लङ्घ्य चीनस्य द्वे उदग्रयाने भारतखण्डं प्रापतुः। लडाक्कस्थे ड्रिग् प्रदेशे एव घटनेयं जता इति ज्ञातम्। सेप्तम्बर् मासस्य सप्तविंशति दिनाङ्के लडाक् टिबत् सीमायां दशनिमेषपर्यन्तं व्याेमनिरीक्षणं कृत्वा एव प्रतिनिवृत्तम्। पाकिस्थानस्य उदग्रयानस्य (Helicopter) अधिनिवेशनात् दिनत्रयात् पूर्वम् आसीत् चीनेनकृतं  व्योमसीमा लङ्‌घनम्।
     पाक्अधीनकाश्मीरस्य प्रधानमन्त्री राजा फरूख् हैदरखानः तदा उदग्रयाने आसीत्‌। अनवधानतया आसीत्  सीमा लङ्घनम् इत्यासीत् पाकिस्थानस्य स्वयमुक्तिः। भारत समुद्रेऽपि चीनस्य अन्तर्वाहिन्यः सान्निध्यमासीत् पूर्वस्मिन् मासे इत्यपि आवेदनमस्ति।

Thursday, October 25, 2018

जनसम्मर्देण द्वौ दिवंगतौ,अनेके व्रणिताश्च
-बिजिला किषोरः
        कोल्कत्ता > सोमवासरे सान्द्रागाच्छी रेयिल् निस्थानके प्रवृत्ते दुरन्ते द्वौ मृतौ १४ जनाः व्रणिताश्च। रेल यानत्रयाणाम् आगमनं युगपदेव अभवत् इति अपघातकारणम्। द्वितीय , तृतीय केन्द्रेषु याने आगतौ। तदा गमनवीथ्यां जनबाहुल्यमभवत्। उद्योगिनां अनवधानतया इदं जातम् इति मुख्यमन्त्री ममताबानर्जी अवोचत्।
      बहूनां यानानां निस्थानकम् इत्यतः जनाः अधिकतया अत्र सम्मिलन्ति। अनेके वेगदूरयानानि, स्थानीययानानि च इतः प्रस्थानं कुर्वन्ति।

Wednesday, October 24, 2018

सि बि ऐ निर्देशकः  आलोकवर्मन्  स्थानात् परित्यक्तः। अस्तानः विरामे प्राविशत्। 
    नवदिल्ली> सि बि ऐ संस्थायां  परस्पर कलहे जाते सति निर्देशकं-विशिष्टनिर्देशकं च विरुद्ध्य प्रक्रमः समभवत्। अलोकवर्मणं निर्देशकस्य स्थानात् निष्कासितम्। तत्स्थानपालनाय सहनिर्देशकः नागेन्द्ररावु महोदयः आदिष्टः।
     विशेष-निर्देशकः राकेष् अस्तानः तु विराम स्वीकाराय केन्द्र सर्वकारेण  आदिष्टः। सि बि ऐ मध्ये उद्योगिनः मिथः  शत्रुता प्रक्रमाः अरब्धाः इति शिरोपीडा परिहाराय आसीत् अयं प्रक्रमाः। ह्यः रात्रौ प्रधानमन्त्रिणा आहूते मेलने आसीत् निर्णयः।  प्रत्युपकारशुल्कविवादानुबन्धतया अस्तानं विरुध्य सि बि ऐ संस्थया एव व्यवहारः स्वीकृतः । सन्दर्भेस्मिन् प्रधानमन्त्रिणा नरेन्द्रमोदिना द्वौ निर्देशकौ आहूतवन्तौ।
क्रीडनकानां विक्रयविषयको न्यायालयीयादेश:
-पुरुषोत्तमशर्मा
      नवदिल्ली > सर्वोच्‍चन्‍यायालयेन सम्पूर्णदेशे स्वल्पप्रदूषक-क्रीडनकानामुत्पादनविक्रयानुमति: प्रदत्ता। शीर्षन्‍यायालयेनोक्तं यत् दीपावल्याम् अन्‍योत्सवेषु च रात्रौ अष्टवादनात् दश वादनं यावत् क्रीडनकानि प्रज्वालयितुं शक्ष्यन्ते। न्‍यायालयेन निर्धारितसीमातोधिकप्रदूषितानां क्रीडनाकानाम् अन्तर्जालाधारितविक्रयणमपि अवरोधितम्। 
      न्यायालयीयनिर्देशोल्लङ्घवनं कृते सति ई-कॉमर्स वैद्युत्व्यवसायसमवायान् विरुध्य न्यायालयीयावमानना विध्यन्तर्गतं कार्याचरणं भविष्यति। सममेव सर्वोच्चन्‍यायालयेन निर्देशितं यत् केवलं निर्धारितसीम्न: यावत् घोषकानि क्रीडनकान्येव विक्रेष्यन्ते।

Tuesday, October 23, 2018

 विदेशेषु अलीकधननिक्षेपं कृतवतः ग्रहीतुकामो भूत्वा आयकर विभागः। 
        नवदिल्ली> विदेशेषु अलीकधननिक्षेपं, स्थावरजंगमधननिक्षेपं  च  कृतवन्तः भारतीयाः आयकरविभागेन अन्विष्यन्ते। वैदेशिक प्रयोजकसंस्था द्वारा शताधिकानां भारतीयानां वैदेशिकवित्तलेख-संबन्धीनि विवरणानि अन्विष्यन्ते। नूतननियमानुसारं दोषी इति प्रमाणं लभते चेत् विलम्बं विना दण्डविधयः स्वीकरिष्ये इति अधिकारिणा उक्तम्। नूतननियमे वैदेशिकं आर्थिकविवरणं विज्ञापनीयम्। नो चेत्‌ दशवर्षाणि यावत्‌ कारागारवासः एव दण्डः।

खषोगिनः हत्या - घातकः देशविरुद्ध इति  सौदीराष्ट्रस्य विशदीकरणं निरस्य राष्ट्रान्तराणि। 

     वाषिङ्टण् >   वरिष्ठमाध्यमप्रवर्तकस्य जमाल् खषोगिनः हत्यामधिकृत्य सौदीराष्ट्रेण कृतं विशदीकरणं  राष्ट्रान्तरैः  निरस्तम्। सन्देहानां युक्तियुक्तं समाधानं यावत् लभते तावत् सौदीराष्ट्रस्य विशदीकरणे तृप्तिः नास्तीति डोणाल्ड् ट्रम्पेन स्पष्टीकृतम्।
       अमेरिक्काम् अनुगम्य यूरोप्यन् राष्ट्राणि च सौदीमपलप्य मञ्चमागतानि। ब्रिटेन् जर्मनी, फान्स् इत्येतानि राष्ट्राणि तेषु प्रमुखानि। खषोगी व्यापादित इति सौद्या अङ्गीकृतं तथापि मृतदेहः कुत्रेति स्पष्टीकर्तुं सैदी न सिद्धा अस्ति। किन्तु तुर्की राष्ट्राधिकृताः  स्थानपतिकार्यालयसेवकेभ्यः सत्योक्तिं रेखितवन्तः। कार्यालयस्थेभ्यः सि सि टि वि दृश्यानि स्वीकृत्य परिशोधयन्तः सन्ति।

Monday, October 22, 2018

निर्वाचनायोगस्य त्रिदिवसीया  तेलङ्गाना यात्रा
-पुरुषोत्तमशर्मा
        नवदिल्लीली> मुख्यनिर्वाचनायुक्तस्य ओ.पो.रावतस्य अध्यक्षतायां निर्वाचनायोगस्य पूर्णदलं तेलङ्गानायां निर्वाचनसज्जताया: समीक्षायै अद्यारभ्य दिवसत्रयाय राज्यस्य यात्रारतो वर्तते। तेलङ्गानाराज्ये दिसम्बरमासस्य सप्तमे दिनाङ्के मतदानम् आयोजयिष्यते।श्रीरावत: निर्वाचनायुक्तेन सुनील अरोड़ा वर्येण अथ च अशोकलवासावर्येण सह हैदराबादं प्राप्स्यति।
रथ्यादीपानां स्थाने कृत्रिमचन्द्रं निर्मातुं चीनेन प्रयतते।

      बेय्जिङ्> रथ्यादीपानां स्थाने प्रतिदिनं प्रकाशयन्तं कृत्रिमचन्द्रं निर्मातुं चीनः प्रयत्नं करोति। २०२० तमे नूतनोपग्रहस्य विक्षेपणं भविष्यति इति चीनेन विज्ञापितम्।  चीनस्य दक्षिणपश्चिमभागस्थ चिच्वान् प्रविश्यायाम् उपग्रहनिर्माणं समारब्धमस्ति। विद्युल्लाभाय इयं योजना उपकरोति। चन्द्रापेक्षया अष्टगुणिततीव्रतायां एषः उपग्रहः प्रकाशं प्रसारयिष्यति इति 'चैन डैली' इति वार्तापत्रिकया आवेदितम् । पञ्चाशत् चतुरश्रकिलोमीट्टर् विस्तृते देशे प्रकाशं प्रसारयितुं क्षमता अस्ति उपग्रहस्य। प्रथमपरीक्षणे उत्तीर्णता चेत् पुनरपि चन्द्रत्रयं निर्मीय विक्षिप्यते इति परियोजनायाः अधिकारिः वु चुन् फेङ् अवदत्।