OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 22, 2018

रथ्यादीपानां स्थाने कृत्रिमचन्द्रं निर्मातुं चीनेन प्रयतते।

      बेय्जिङ्> रथ्यादीपानां स्थाने प्रतिदिनं प्रकाशयन्तं कृत्रिमचन्द्रं निर्मातुं चीनः प्रयत्नं करोति। २०२० तमे नूतनोपग्रहस्य विक्षेपणं भविष्यति इति चीनेन विज्ञापितम्।  चीनस्य दक्षिणपश्चिमभागस्थ चिच्वान् प्रविश्यायाम् उपग्रहनिर्माणं समारब्धमस्ति। विद्युल्लाभाय इयं योजना उपकरोति। चन्द्रापेक्षया अष्टगुणिततीव्रतायां एषः उपग्रहः प्रकाशं प्रसारयिष्यति इति 'चैन डैली' इति वार्तापत्रिकया आवेदितम् । पञ्चाशत् चतुरश्रकिलोमीट्टर् विस्तृते देशे प्रकाशं प्रसारयितुं क्षमता अस्ति उपग्रहस्य। प्रथमपरीक्षणे उत्तीर्णता चेत् पुनरपि चन्द्रत्रयं निर्मीय विक्षिप्यते इति परियोजनायाः अधिकारिः वु चुन् फेङ् अवदत्।
आरक्षकस्मृतिदिने कण्ठस्तम्भितो भूत्वा प्रधानमन्त्री।
     नवदिल्ली> आरक्षकस्मृतिदिने आरक्षकाणां त्यागं बलिदानं च स्मृत्वा प्रधानमन्त्री नरेन्द्रमोदी।
दिल्लीस्थे  चाणक्यपुरे राष्ट्रिय आरक्षकस्मृतिमण्डपस्य उद्घाटनं कृत्वा भाषमाणः आसीत् सः।  आरक्षक सेनायाः त्यागपूर्ण जीवितमधिकृत्य भाषणावसरे तस्य कण्ठः स्तम्भितः। स्वस्य भाषणं मुहूर्तं स्थगयित्वा सदसि सः तूष्णीमतिष्ठत्।
    जम्मु-काश्मीरे शान्तिं प्राप्तुं प्रयत्नं कृतवतः, आतङ्कवादान्  विरुद्ध्य युद्धं कृतवतः सैनिकान् स्मरणीयोः दिनमिदम्। धीरान् सैनिकान् आरक्षकसेनाः प्रति राष्ट्रं ऋणबद्धं भवति इत्यपि मोदिना उक्तम्। प्रतिसंवत्सरम् ओक्टोबर् मासस्य २१ तमे दिनाङ्के भवति राष्ट्रियारक्षक-दिनाचरणम्।

Sunday, October 21, 2018

भारतीपूजा सुसम्पन्ना
बिजिलाकिषोरः
     तामरश्शेरी > तामरश्शेरी स्थानीयसमित्याः भारतीपूजा कार्यक्रमः रविवासरे प्रातः तामरश्शेरि लक्ष्मीनारायणमन्दिरे अभवन्। संस्कृतभारत्याः उत्तरसम्भागस्य कार्यदर्शी श्री रणजित् महाभागः मुख्यभाषणं कृतवान्। यत्र संस्कृतं नास्ति तत्र संस्कृतिः न भवति, अखण्डभारतस्य निर्मितिः तदा एव भवति यदा सर्वै सस्कृतेनभाषणं करोति। कार्यक्रमेस्मिन् पञ्चाशदधिकाः भागं गृहीतवन्तः। स्थानीयसमितेः अध्यक्षः श्री दामोदरः अध्यक्षपदमलंकृतवान्।कार्यदर्शी श्री उण्णिकृष्णः स्वागतं श्री जयदेवः कृतज्ञतां च समर्पितवन्तौ।
एन् डि तिवारी दिवं गतः। 

   नवदिल्ली  >  कोण्ग्रस् दलस्य विरिष्ठनेता तथा उत्तरप्रदेशस्य उत्तरखण्डस्य च भूतपूर्वः मुख्यमन्त्री एन् डि तिवारी [९३]  हृदयाघातेन दिवं गतः।  संवत्सराधिकेन सः रोगशय्यावलम्बी आसीत्। 
    अविभक्ते उत्तरप्रदेशे तिवारी त्रिवारं मुख्यमन्त्रिपदम् अलङ्कृतवान्। ततः उत्तरखण्डराज्यस्य मुख्यमन्त्री अभवत्। राजीव् गान्धिनः प्रधानमन्त्रित्वस्य अधीने केन्द्रमन्त्रिसभायां आर्थिक-वाणिज्य-विदेशकार्यविभागेषु मन्त्री आसीत्। आन्ध्रप्रदेशस्य राज्यपालपदं च अनेनालंकृतम्।
कृषकाणां ऋणधनम् बच्चन् महोदयेन प्रत्यर्पयते।  
यु पि राज्यस्य ८५० संख्यकानां कृषकाणां वित्तकोशस्य ऋणधनम् अमिताभ् बच्चन् महोदयेन प्रत्यर्पयते।
 मुम्बै> उत्तर प्रदेशस्य कृषकेभ्यः शान्ति-वाक्यमुक्त्वा महानटः अमिताभ् बच्चन् महोदयः। यु पि राज्यस्य ८५० कृषकाणां धनऋणानि अमिताभ् बच्चन् महोदयेन प्रत्यर्पयन्ते। समीपकाले महाराष्ट्रस्य  ३५० कृषकाणां ऋणानि तेन प्रत्यर्पितानि  इति महोदयस्य 'ब्लोग्' माध्यमतः ज्ञायते। स्वस्य ईदृशप्रवर्तनानि आराष्ट्रं कर्तुं प्रत्नः करोति  इति तेन ब्लोग् माध्यमे लिखितम्।

Saturday, October 20, 2018

मान् बुक्कर् पुरस्कारः अन्ना बेण्सिन् कृते।  
       - रम्या पी यू।            
            लण्डन्- अस्य वर्षस्य मान् बुक्कर् पुरस्कारः उत्तर अयर्लण्डस्थायै लेखिकायै अन्ना बेण्स् कृते। "मिल्क् मान्"(क्षीरविक्रेता) इति परीक्षणात्मकधारावाहिन्यै पुरस्कारः प्राप्तः। बुक्कर् पुरस्कारेण आद्रियमाणा प्रप्रथमा ऐरिष् लेखिका भवति अन्ना। लण्डने गैड्शालायाम् प्रवृत्ते कार्यक्रमे ब्रिटिशकिरीटाधिकारिणः चाल्सस्य भार्या कामिला पारकरः अन्नायै पुरस्कारं समर्पितवती। पञ्चाशत् सहस्रम्(५००००) ब्रिटिशपौण्ड् एव पुरस्कारधनम्। ब्रिटणतः अमरीकातः च द्वौ लेखकौ कानडातः एकश्च अन्नया सह पुरस्काराय अन्तिमपट्टिकायाम् आसन्। बेल्फास्ट् स्वदेशिन्याः अन्नायाः तृतीया धारावाहिनी भवति "मिल्क्मान्"। ऐरिष्पश्चात्तले प्रवृत्ता कथा एव धारावाहिन्याः इतिवृत्तम्।
राजस्थाने सिक्का रोगाणुबाधितानां संख्या १०९  अतिगता
       जयपुरम् > राजस्थाने  सिक्का रोगग्रस्तानां संख्या नवाधिकशतम्  अधिगताः। जयपुरे नूतनतया नवाः रोगग्रस्थाः। एक नवति रोगिणः समीचीनया चिकित्सया रोगान्मुक्तिः अभवत् इति राज्यस्थरीय स्वास्थ्यविभागेन आवेदितम्। रोगसंक्रमितप्रदेशेषु मशकनाशक प्रवर्तनानि  त्वरितरीत्या क्रियन्ते। राज्य राजधानीसमीपे शस्त्रीनगरे एव रोगाणु सङ्क्रमः अधिकतया व्याप्तःI सेप्तम्बर् मासस्य २१ दिनाङ्के आसीत् राजस्थानस्य  सिकारोगाणु सङ्क्रमणस्य प्रथमावेदनम् बहिरागतम्। ईडिस् ईजिप्ति मशकाः सिकारोगाणुव्यापनं कुर्वन्ति।  गर्भवत्यः स्त्रियः एव अणुव्यापनेन अधिकतया पीडिताः।

Friday, October 19, 2018

पञ्चाबे रेल् यानदुर्घटना - ५० अधिकाः जनाः हताः। 
    अमृतसर्   >  पञ्चाबराज्ये अमृतसरसमीपे धोबीघाट् मध्ये महती रेल् यानदुर्घटना। अत्र सम्पन्ने दसरा आघोषवेलायां रेल् यानं जनसमूहं प्रति उत्प्रविश्य पञ्चाशदधिकाः जनाः हताः। आघोषमनुबन्ध्य रावणरूपं रेल् मार्गे अग्निसात्क्रियमाणम् आसीदिति श्रूयते। 
    धोबीघाट् मध्ये सायं ६.३० वादने आसीत् दुर्घटना। तत्र इदानीं महान् जनरोषः अनुभूयते।
सीमारक्षणाय नूतनविद्या, २४ होरापर्यन्तम् सुरक्षाकार्याय घटीबन्धनं नावश्यकम्।
          बिक्कानीर् >सीमारक्षणाय नूतनविद्यायाः नियोजनायै  केन्द्रसर्वकारः उद्युक्तो भविष्यति इति आभ्यन्तरमन्त्रिणा राजनाथसिंहेन उक्तम् । अनेन अहर्निशं सुरक्षायै सैनिकानां क्लेशः लधूकर्तुं शक्यते । जम्मुकाश्मीरे प्रयोगं कृत्वा  विजयं प्रप्ता भवति (Integrated boarder management system)
इयं विद्या। सीमा सैनिकान्‌ प्रति अयुधपूजापर्वणि भाषमाणः आसीत् राजनाथसिंहः। सीमायां परिधायकं निर्माय सीमापालनं सुकरं सफलं च मा भविष्यतः I किन्तु नूतनातन्त्रांशविद्या सीमारक्षणं पूर्णतया सफलं करिष्यति इत्यपि मन्त्रिणा उक्तम्।

Thursday, October 18, 2018

युवतीप्रवेशः - शबरिगिरौ सङ्घर्षः , निरोधाज्ञा। 
    पम्पा >  शबरीशमन्दिरे अपि वयोभेदं विना महिलाः प्रवेष्टुम् अर्हाः इति सर्वोच्चन्यायालयस्य विधिं प्रतिरुध्य शबरिगिरिपरिसरे सङ्घर्षान्तरिक्षः। सङ्घर्षः परिधिम् उल्ललंघयत् इत्यतः चतुर्षु प्रदेशेषु जनपदाधिकारिणा निरोधाज्ञा प्रख्यापिता। 
      निलक्कल् , इलवुङ्कल्, पम्पा , सन्निधानम् इत्येतेषु प्रदेशेषु एव निरोधाज्ञा उद्घोषिता। ह्यः निलक्कल् प्रदेशे सम्पन्ने सङ्घर्षे चतस्रः वनिताः अभिव्याप्य ११ माध्यमप्रवर्तकाः आहताः। अधुनातनकाले वर्तमानान् आचारान् उल्लङ्घयन् शास्तृदर्शनं कर्तुम् काश्चन महिलाः आगतवत्यः इति संघर्षस्य हेतुः।
सम्प्रतिवार्ताः -संस्कृताभियानम्
प्रा.डॉ. विजयकुमार: मेनन्  

नमस्ते,
 सर्वेभ्य: मित्रेभ्य: विजयदशमी-शुभकामना:।
    जीवने ध्येयप्रवेश: नाम किम्? अहं संस्कृतक्षेत्रं प्रविष्टवान् इति न। अपि तु मम जीवने  संस्कृतभाषा प्रविष्टा इति। मदर्थं संस्कृतम् इति प्रारम्भ: , संस्कृतार्थम् अहं इति प्रगति:। मदर्थं कृतानि कृत्यानि तात्कालिकानि,संस्कृताय कृतानि कृत्यानि इहपरपाथेयानि, अनन्त-चिरन्तनानन्ददायकानि च। मित्राणि, कविवाक्यं स्मराम: -" एहि रे समर्पयेम मित्र! मातृचरणयो: तनुतृणं धनचयं, भवतु रुधिरतर्पणम् "। जयतु संस्कृतं जयतु भारतम् । 
'मी टू' विवादः - एम् जे अक्बरः स्थानभ्रष्टः। 
नवदिल्ली  >  'मी टू' नामकस्य लैङ्गिकपीडनारोपणप्रचरणस्य अंशतया आरोपणविधेयः केन्द्रविदेशकार्यसहमन्त्री एं जे अक्बरः स्थानं त्यक्तवान्। आरोपणम् उन्नीतवतीं माध्यमप्रवर्तकां प्रियारमणीं विरुध्य अक्बरेण समर्पितः मानहानिव्यवहारः नीतिपीठेन परिगणनाप्रायः इत्यस्मिन् काले एव तस्य स्थानत्यागः। 
    १५ वनितामाध्यमप्रवर्तकैः  इतःपर्यन्तं एं जे अक्बरं विरुध्य लैङ्गिकपीडनारोपणं कृतम्। आरोपणानि केवलं राजनैतिकप्रेरितानीति मन्त्रिणा पौनःपुन्येन उक्तमासीदपि भा ज पा दलस्य सर्वकारस्य च समम्मर्देन एव त्यागपत्रं समर्पितमिति विश्वस्यते। राजनैतिकप्रेरितम् आरोपणमिति न्यायेन  गतदिनपर्यन्तं स्थानत्यागविषये सः विमुखः आसीत्।

Wednesday, October 17, 2018

संस्कृतमेवजीवनम्-आमुखपटले संस्कृतज्ञानप्रश्नोत्तरी- प्रतियोगिता सम्पन्ना
     सीवान(बिहारप्रान्त)। मानवमात्रस्य प्राचीनतमः इतिहासः संस्कृतभाषायामेव सुरक्षितः। एषा भाषा ज्ञानेन विज्ञानेन च पूर्णा वर्तते। अद्यापि भारतीयजीवने संस्कृतभाषायाः अपरिमित प्रभावो$वलोक्यते। संस्कृतभाषायाः प्रचाराय प्रसाराय च रविवासरे संस्कृतमेवजीवनम् -आमुखपटले संस्कृतज्ञानप्रश्नोत्तरी प्रतियोगिता आयोजिता।बिहारस्य सीवानतः डा० सुशील नारायण तिवारीवर्यः अस्याः प्रतियोगितायाः आयोजकः।डा० तिवारीवर्यः उक्तवान् यत् संस्कृतभाषायामेव ज्ञानविज्ञानयोः निधिः विद्यते।अस्माकं प्राचीन - मौलिक-संस्कृतिरस्यामेव प्रतिबिम्बिता दृश्यते।न तु केवलाः भारतीयाः प्रत्युत् पाश्चात्याः विद्वांसो$पि संस्कृतं श्रद्धावन्तः सन्ति।प्रतियोगितायाः सञ्चालनं महेशकुमारेण कृतम्। प्रतियोगितायां सहयोगं दीपकवात्स्यः महेशकुमारश्च कृतवन्तौ।
 विजयकुमारशर्मा, प्रथमः|                      सुनीलकुमारशर्मा, द्वितीयः|                 रजनीशकुमारपाण्डेयः ,तृतीयः|
          भौमवासरे(१६/१०/१८) पुरस्कारस्य उद्घोषणा अभवत्। तत्र प्रथमस्थाने विजयकुमारशर्मा (हरियाणातः), द्वितीयस्थाने सुनीलकुमारशर्मा(राजस्थानतः), तृतीयस्थाने रजनीशकुमारपाण्डेयः (विहारतः) क्रमशः वर्तन्ते। समेभ्यः विजेतृभ्यः पुरस्कारप्रायोजकेन चिन्मयसुशीलेन(विहारतः) पुरस्कारत्वेन अतीवोपयोगिपुस्तकानि दास्यन्ते।
खषोगिनः तिरोधानं - अभ्युपगमाय सौदिराष्ट्रम्। 
    वाषिङ्टण्  >  वरिष्ठः माध्यमप्रवर्तकः जमाल् खषोगी व्यापादित इति अपराधाङ्गीकारं स्वीकर्तुं सौदीराष्ट्रेण सन्नद्धमस्तीति सूचना। तुर्कीराष्ट्रस्थे सौदीस्थानपतिकार्यालये कृतायाः परिपृच्छायाः  मध्ये खषोगी हतः इति पापनिवेदनं सौदीराष्ट्रेण सिद्धमानमस्तीति सि एन् एन्, न्यूयार्क टैंस् इत्येताभ्याम् अन्ताराष्ट्रियमाध्यमाभ्यां निवेद्यते। 
    सौदी प्रशासनस्य तीक्ष्णः विमर्शकः , 'वाषिङ्टण् पोस्ट्' नामिकायाः पत्रिकायाः पङ्क्तिकारश्च जमाल् खषोगी ओक्टोबर् द्वितीयदिनाङ्के एव तिरोभूतः अभवत्। एतत्सम्बध्य तुर्कीस्थे सौदीस्थानपति कार्यालये तद्राष्ट्रयोः संयोजितपरिशोधना कृता आसीत्। अमेरिका राष्ट्रपतिः डोणाल्ड् ट्रम्पः अपि खषोगिनः हत्यामधिकृत्य सूचनां कृतवान्।
नवकेरलनिर्माणाय आर्थिकसमाहरणं -  मन्त्रिणां विदेशगमनम् अपाकृतम्। 
    मुख्यमन्त्री अद्य यू ए ई राष्ट्रं प्रतिष्ठति। 
अनन्तपुरी  >  प्रलयदुरितानन्तरं नवकेरलनिर्माणाय प्रवासिकेरलीयेभ्यः आर्थिकयोगदानं समाहर्तुं केरलस्य १७ मन्त्रिणां विदेशयात्रा अपाकृता। मुख्यमन्त्रिणं विहाय अन्येषां सर्वेषां मन्त्रिणां विदेशयात्रायै केन्द्र विदेशमन्त्रालयस्य अनुज्ञा न लब्धा इत्येव हेतुः। मुख्यमन्त्री पिणरायि विजयः अद्य यू ए ई राष्ट्रं प्रति प्रस्थास्यति। 
     मुख्यमन्त्रिणं विना १७ मन्त्रिणः विदेशगमनार्थं केन्द्रसर्वकारस्य अनुज्ञायै अपेक्षिताः यात्रार्थं सन्नद्धाः च  आसन्। किन्तु  मन्त्रिणां सन्दर्शनम् आयोजितवत्यः प्रवासिकेरलीयसंस्थाः नैकाः अपञ्जीकृताः अनङ्गीकृताः वा इति कारणेन आसीत् केन्द्रसर्वकारस्य अनुज्ञातिरस्कारः।
जम्मूकश्मीरे शान्तिपूर्णं मतदानम्
-पुरुषोत्तमशर्मा
      श्रीनगरम् > जम्मू-कश्मीरे नगरनिगमानां निर्वाचनाय मतदानं पर्यवसितम्। चतुर्थान्तिमचरणस्य मतदानं मङ्गलवासरे शान्तिपूर्णरीत्या सम्पन्नम्। मतगणना शनिवासरे भविष्यति। श्रीनगरस्य नगरपालिकाया: गान्दरबलनिकायसमितेश्च षड्त्रिंशत् आसनानां कृते चतु: दशमलव द्वि प्रतिशन्मितं मतदानमभवत्। स्रोतोभिस्सूचितं यत् गान्दरबलक्षेत्रे एकादश दशमलव त्रि प्रतिशतन्मितम् अथ च श्रीनगरे प्रतिशतं ४ मितं मतदानं सञ्जातम्।

Tuesday, October 16, 2018


सम्प्रतिवार्ताः -संस्कृताभियानम्
प्रा.डॉ. विजयकुमार: मेनन्  

नमस्ते, स्वीकृतस्य लक्ष्यस्य पूर्त्यर्थं,सातत्येन परिश्रमाय च ध्येयबद्धता अनिवार्या। सा बद्धता न व्यक्त्यै समर्पिता भवेत्, न च स्थानाय समर्पिता भवेत्, न वा कार्यविशेषाय समर्पिता। बद्धता ध्येयनिष्ठा, संस्कृतनिष्ठा च भवेत्। संस्कृतसेवायै  बद्धता, समाजसंस्कृतिधर्माणां संरक्षणाय संवर्धनाय च या बद्धता, सा समयसीमायुक्ता न। सा तु जीवनस्य प्रतिबद्धता। मित्राणि, वयं संस्कृतध्येयबद्धा: भवेम ।जयतु संस्कृतं जयतु भारतम् ।

Monday, October 15, 2018

अतिमानुषाः आगमिष्यति, मनुष्याः नाशं यास्यन्ति -स्टीफन् होकिङ्स्।
      लण्टन्> जनितकांशे व्यत्ययं कृत्वा विसृष्टेन अतिमानुषसमूहेन मनुजवंशः नाशयिष्यते इति वैज्ञानिकेन स्टीफन् होक्किङ्सेन उच्यते। विगते मार्च् मासे आसीत् होकिङ्स् वर्यस्य निधनता। ततः पूर्वं तेन लिखिते लेखे एव इदं प्रवचनम्। अस्य लेखानां समाहारः विलम्बं विनैव प्रकाशयिष्यति।
    अतिमानुषस्य जन्मना मनुष्या: दुर्बलाः तथा अप्रसक्ताः च भूत्वा अप्रत्यक्षाः भविष्यन्ति इति स्टीफन् होकिङ्सेन उच्यते । आयुर्दैर्घ्यः प्रतिरोधशक्तिः स्मृतिशक्तिः च प्राप्तुं योग्यं जनितक व्यत्ययनि संबन्ध्य सर्वविधज्ञानानि विलंबं विना एव समार्जयिष्यन्ति मानवाः । मनुष्याणां नाशाय भविष्यति ईदृशानुसन्धानः इति तस्य अभिमतम्।