OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 15, 2018

ऐक्यराष्ट्रसभया सुरक्षासंस्थापुनर्निमाणं करणीयम् इति भारतम्।
-बिजिलाकिषोरः
      जनीवा> आतङ्कवादः,अभयार्थिसमस्या, पर्यावरणव्यत्‍ययः च बहुप्राधान्यमर्हतीत्यतः ऐक्यराष्ट्रसभायाः सुरक्षासंस्था झटिति पुनर्निर्मातव्यमिति भारतस्य निर्देशः। ऐक्यराष्ट्रसभायां भारतस्य प्रतिनिधिना श्री सयिद् अक्बर् महोदयेन इदम् उद्बोधितम्। अधुना विद्यमानाायं व्यवस्थायां परिमितिर्विद्यतेत्यतः परिवर्तनमनिवार्यमिति तस्य मतम्। सुरक्षायाः  विषये विद्यमाना न्यूनता शीघ्रमेव परिवर्तनीया भवति।
अभयार्थिसमस्या तथा आतङ्कवादश्च सविशेषश्रद्धां अर्हन्ति। अतः अलसतां विना प्रयत्नः करणीयः। तदर्थं  सर्वे राष्ट्राः एकीभूय अग्रेगन्तव्याः इत्यवोचत्I

Sunday, October 14, 2018

हिन्दुस्थानि सङ्गीतज्ञा अन्नपूर्णादेवी दिवंगता। 
   मुम्बई  >   पद्मभूषणपुरस्कारजेत्री विख्याता हिन्दुस्थानीसङ्गीतज्ञा अन्नपूर्णादेवी [९१] स्मृतिपथं गता। हिन्दुस्थानीसङ्गीतमण्डलस्य मुख्यधारासु अन्यतमायाः 'मय्हर् कराना' इत्यस्यायाः आचार्यस्य बाबा अलावुदीन् खानस्य पुत्री तथा सित्तार् विदग्धस्य पण्डिट् रविशङ्करस्य भूतपूर्वपत्नी च अस्ति अन्नपूर्णादेवी। १९७७ तमे संवत्सरे पद्मभूषण् , १९९१ तमे केन्द्रसङ्गीत नाटक अक्काटमी पुरस्काराभ्याम् आदृता आसीत्।
इन्दोनेष्याराष्ट्रे पुनरपि प्रलयः २२ जनाः हताः।
       जक्कार्ता> इन्दोनेष्याराष्ट्रे पुनरपि जायमाने  प्रलये द्वाविंशति जनाः मारिताः। मृत्युमुपगतेषु अधिकाः विद्यालयछात्राः एव। पञ्चदश जनाः अप्रत्यक्षाः अभवन्I मीट्टर् द्वयं यावात् जलम् उपरि आगतम्। सुमात्रायाः मुवारसलदि ग्रामस्य इस्लामिक विद्यालयस्य एकादश छात्राः जलोपप्लवे मृताः। मृत्पङ्कादीनाम् अधस्थात्  मृतशरीराणि लब्धानि। इन्दोनष्यायाः उत्तरपश्चिमभागात्‌ ५०० गृहाणि जलेन निसृताः सन्ति। त्रयः सेतवः भग्नाः च।

Saturday, October 13, 2018

SampratiVartah |Sanskrit News|Episode 91| 2018 October13



ए टि एम् यन्त्राणि प्रभञ्ज्य ३५ लक्षं रूप्यकाणि चोरितानि। 
   ए टि एम् यन्त्राणि प्रभञ्ज्य ३५ लक्षं रूप्यकाणि चोरितानि। 
कोच्ची  >  केरले द्वयोः जनपदयोः राजवीथीपार्श्वे वर्तमानानि धनपूरितानि 'ए टि एम्' यन्त्राणि भञ्जयित्वा एकस्यामेव निशायां पञ्चत्रिंशत् लक्षं रूप्यकाणि अपहृतानि। तृश्शिवपेरूर् , एरणाकुलं जनपदस्थयोः द्वे एटिएम् यन्त्रे 'ग्यास् कट्टर' नामकमुपकरणमुपयुज्य भञ्जनं कृत्वा एव ३५ लक्षं रूप्यकाणि स्तेयानि। कोट्टयम् एरणाकुलं जनपदस्थेषु इतरेषु ए टि एम् यन्त्रेष्वपि चौर्यश्रमः तस्यामेव रात्रौ  कारितः च। 
     सर्वेषां लुण्ठनश्रमाणां पृष्ठतः एक एव संघः प्रवर्तित इति सि सि टि वि दृश्यैः अनुमातुं शक्यत इति आरक्षकाधिकारिभिः उक्तम्। एरणाकुलस्थे इरुम्पनं प्रदेशस्थात् एस् बि ऐ वित्तकोशस्य  धनस्वीकरणयन्त्रात् २५ लक्षं , तृश्शूर् कोरट्टी स्थानात् यन्त्रात् [सौत्तिन्ड्यन् बैंक् ए टि एम्] १०.६० लक्षं रूप्यकाणि च चोरितानि। चोराः इतरराज्यस्थाः इति आरक्षकाणां प्राथमिकनिगमनम्। 
    कोट्टयस्थात् चोरितेन केनचित् ट्रक् यानेन चतस्रः होराः अटनं कृत्वा एव लुण्ठकाः चौर्यं कृतवन्तः इति अनुमीयते। चोरितं यानं चालक्कुटी प्रदेशे त्यक्तरूपेण दृष्टममस्ति।
विरामं मा स्वीकुरु, सदा सिन्निहितो भव - सर्वोच्च न्यायालयस्य शुद्धीकरणाय मुख्यन्यायाधीशः । 
    नवदिल्ली> न्यायालयस्य प्रवृत्तिदिनेषु विरामं मा स्वीकरोतु। प्रवर्तनकाले न्यायालयप्रकोष्टे सदा  सिन्निहितो भवतु। स्वकर्मसु श्रद्धा दातव्या। नियमसंविधानं अलीकविमुक्तंकुरु। सर्वोच्चन्यायालयस्य मुख्य-न्यायाधीशत्वपदं स्वीकृत्य रञ्जन् गोगोय् वर्येण  दिनद्वयानन्तरं दृश्यसुविधाम् उपयुज्य उच्चन्यायालयस्य मुख्य-न्यायाधिपैः साकं कृते मेलने  उक्तमासीत्। न्यायव्यवहारस्य अनिश्चितत्वम् नियम व्यवस्थायै  अपकीर्तिं जनयति इति तेन न्यायाधिपाः स्मारितवन्तः। न्यायालयस्य प्रवर्तनेषु श्रेष्ठत्वलब्ध्यर्थं दशविधमार्गाः तेन निर्दिष्टाः।

Friday, October 12, 2018

गङ्गास्वच्छतायै अनशनसत्यग्रहं कुर्वन् परिस्थितिप्रवर्तकः दिवङ्गतः।
    हरिद्वारम् > गङ्गानद्याः स्वच्छतायैः गतचतुर्मासं यावत् अनशनसत्यग्रहं कुर्वन्  परिस्थितिप्रवर्तकः स्वामी ज्ञानस्वरूप-सानन्दः (प्रो० जि डि अगरवालः)(८७) दिवङ्गतः। Clean Ganga इति आवश्यं उक्त्वा मासचतुष्टयं यावत्‌ अनशनसत्यग्रहे आसीत् सः। ऋषिकेशस्थ एयिम्स् आतुरालये गुरुवासरे मध्याह्ने आसीत् तस्य देहत्यागः। हृदयाघातः एव मृत्युकारणम्।
     अनशनकाले मधुनायुक्तजलम्   पीत्वा आसीत् तस्य जीवनयापनम्। गङ्गानद्याः खनन-जलवैद्युत परियोजनाः बन्धनीयाः इत्यासीत् तस्य अभिलाषः। काण्पूरस्थ ऐ ऐ टि मध्ये आचार्यः आसीत् सःI गङ्गानद्याः संरक्षणाय एषः बहुवारं समरं कृतवानासीत् । स्वास्थ्यहानिकारणेन उत्तराखण्डस्य आरक्षकैः महोदयः आतुरालयं नीतः आसीत्। 
जलोपप्लवः - भूस्वामिनां कृते गृहनिर्माणाय लक्षचतुष्टयं दातुम् आदेशः कृतः। 
   अनन्तपुरी >  केरले जलोपप्लवदुरन्ते विशीर्णगृहेषु येषां स्वकीया भूमिरस्ति  तेषाम् एकैकस्मै गृहनिर्माणाय चतुर्लक्षं रूप्यकाणि दातुं जनपदाधिकारिणां कृते उत्तरदायित्वं कृत्वा  केरलशासनेन आदेशः कृतः। भूस्वामिनः ये वर्तन्ते, ते साहाय्यद्रव्याय जनपदाधिकारिणं प्रति अपेक्षां समर्पयेयुः। 
    प्रलयदुष्प्रभावे  यानि भवनानि पूर्णतया नाशितानि तथा प्रतिशतं पञ्चसप्तत्यधिकं विशीर्णनं सम्भूतानि तेषां कृते एव दलद्वयेन चतुर्लक्षं रूप्यकाणि उपलभ्यानि। नाशितानां गृहाणां समग्रवृत्तान्तः सर्वकारस्य तद्देशविभागेन समाकलितः अस्ति। 
    १६,६६१ गृहाणि प्रलये पूर्णतया विशीर्णानि। ९५४ जनानां गृहाणि तत्स्थानैः सह विनष्टानि। विशीर्णानां गृहाणां निर्माणं पुनरुद्धारणप्रवर्तनं च त्वरितरीत्या करणीयमिति मुख्यमन्त्रिणा पिणरायि विजयेन समाकारिते अवलोकनयोगे तेन निर्दिष्टम्।

Thursday, October 11, 2018

'तित्ली' वातः ओडीषातीरं प्राप- गोपालपुरे अधिकानि नाशनष्टानि।

   भुवनेश्वरम् > बंगसमुद्रे जातः तित्ली' चक्रवातः ओडीषातीरं प्राप। होरायां १२६ किलोमीट्टर् इति वेगेन आसीत् चक्रवातस्य आगमनम्। अद्य (गुरुवासरः) उषसि आसीत् वातस्य दुरागमनम्। सुराक्षानुबन्धतया लक्षत्रयं जनाः ततः सुरक्षितस्थानं प्रति प्रेषिताः आसन्। गोपालपुरे १५० कि०मी वेगेन वाति स्म  इति आवेद्यते। अधिकानि नाशनष्टानि गोपालपुरे अभवत्। ओडीषातीरेषु पादपाः विद्युत् स्थम्भाश्च विशीर्णः। भूमार्गगतागतनि स्थगितानि। गञ्जं, गजपतिः, पुरी, खुर्द, जगद् सिङ्पुरप्रदेशेषु वृष्टिः अनुवर्तते।
संस्कृताभियानम् ।
-प्रा.डॉ. विजयकुमार: मेनन् 
नमांसि,
       भाषा तु माध्यमम्, साधनम्। साध्यं तु अन्यत् किञ्चित् महत् भवतिॆ। जातिमतादिरूपेण या: भेदभावना: सन्ति ता: यदि संस्कृतभाषाया: द्वारा निवारिता: भवन्ति, न्यूना: वा भवन्ति, सा काचित् महती उपलब्धि: भवेत्। समाजस्य उपेक्षितवर्गं संस्कृतं पाठयित्वा तेन एतं परिणामं साधयितुं शक्नुयाम। या भाषा समाजस्य न्यूनतानां निवारणं करोति, समस्यानां परिहारं च करोति सा सर्वै: आदृता भवति। मित्राणि, संस्कृतद्वारा सामाजिकसमरसता इत्येतद् अद्यतने राष्ट्रियपरिप्रेक्ष्ये अत्यन्तं महत्वभूतम्। 
जयतु संस्कृतं  जयतु भारतम्।  🙏

Wednesday, October 10, 2018

उत्तरप्रदेशे रेल्यानदुर्धटना- पञ्चजनाः मृताः, बहवः व्रणिताः।

  लख्नौ>  उत्तरप्रदेश राज्यस्थे रास्बरेलि प्रदेशे रेल्यानदुर्घटनायां पञ्चजनाः मृताः। बहवः व्रणिताः।  माल् डयिल् देशात् दिलीं प्रति आगतं न्यू फराक्का एक्स्प्रस् यानम् एव अपघाते पतितम्। राय्बरेल्यां हरच्छन्द्रपुरस्थ  रेल् निस्थानस्य समीपे बुधवासरे उषसि षट् वादने आसीत् इयं दुर्घटना। व्रणिताः समीपस्थम् आतुरालयं प्रवेशितवन्तः। रक्षाप्रवर्तनानि अनुवर्तन्ते
अफ्‌गानिस्थाने आत्मघातिनः आक्रमणम्। स्थानाशिना साकम् अष्टजनाः हताः।
       काबूल्> अफ्‌गानिस्थाने निर्वाचन-पथसञ्चलने स्थानाशिना सह आहत्य अष्टजनाः हताः। अगण्याः व्रणिताः च। हेल्मण्ड् प्रविश्यायाः 'लेष्कर् गाह् ' इति प्रदेशे एव घटना जाता। प्रतिनिधिसभा स्थानाशी सेलं मुहम्मद् अचिकेशिं लक्ष्यीकृत्य आसीत् आक्रमणम्। आत्मघातिः स्वयं विस्फुटितः। तस्मिन्नेव क्षणे अच्केसिः अपि हताः। इतः पर्यन्तम् आक्रमणस्य उत्तरदायित्वं केनाऽपि न स्वीकृतम्। तालिबान दलस्य अधीनतायां वर्तमानः प्रदेशः भवति हेल्मण्ट्।
आयसागारे वातनलिकाविस्फोटनम्
-बिजिलाकिषोरः
       भीलाय् > चत्तीस् गढे राय् पुरतः ३०की मी दूरे नगरे विद्यमाने आयसागारे प्रवृत्ते उग्रस्फोटने षट्जनाः मृताः,१४जनाः व्रणिताश्च। व्रणितान् आतुरालयं प्रति नीतम्। आरक्षकाः सन्नद्ध सेवकाश्च सेवानिरताः वर्तन्ते।
यू ए ई राष्ट्रे एकीकृतवाहनचालनप्रमाणपत्रम् परिगणनायाम्।
               - रम्या पी यू          
      दुबाय्> वाहनचालनपरीक्षाम् एकीकृत्य प्रमाणपत्रस्वीकाराय सर्वेषु राज्येषु (एमिरेट्) सामान्यमानदण्डानि प्रचारयितुम् आलोच्यते।  राष्ट्रे सप्तराज्येषु  अपि वाहनचालनप्रमाणपत्रम् प्राप्तुं विभिन्नमानदण्डानि परीक्षाः च प्रचाल्यन्ते। एतां रीतिमुत्पाट्य प्रमाणपत्रप्राप्त्यै एकीकृतसंविधानस्य निर्माणः परिगणनायामस्तीति खान्टूट्टे प्रचलति सेर्को मिडिल् ईस्टस्य वार्षिकमार्गसुरक्षासम्मेलने अधिकारिणः आवेदयन्। एतदर्थम् आभ्यन्तरमन्त्रालयेन एका समितिः रूपीकृता इति चालकपरिशीलनं तथा गुणनिर्णयविभागस्य नियुक्तनिदेशकः हिन्द् अल् मुहैरी उक्तवान्।

Tuesday, October 9, 2018

'सिका' रोगाणुः व्याप्यते, जय्पुरे जाग्रतानिर्देशः।
    जयपुरम् > राजस्थान राज्यस्य राजनगरे जयपुरे सिकानामकवैरस् रोगाणुः व्याप्यते। सप्तसु जनेषु रोगाणुबाधा  स्थिरीकृता। सेप्तंम्बर् २४ दिनाङ्के कस्यांचित् महिलायां वैरस् रोगबाधा निर्णीता। ततः २२ रोगादर्शा अपि पूनेस्थां वैरोलजी संस्थां प्रति प्रेषिताः। तेषु सप्तेषु जनेषु सिकाबाधा निर्णीता। एषु बीहारीयो छात्र अपि अन्तर्भूतः। 
    रोगस्थिरीकरणात्पूर्वम् एषः जन्मग्रामं प्राप्तवान् इत्यतः तस्य परिवाराङगाः अपि निरीक्षणे वर्तन्ते। अपि तु बीहारस्य ३८ जनपदेष्वपि जाग्रतानिर्देशः कृतः। रोगव्यापनात् प्रधानमन्त्रिकार्यालयात् स्वास्थ्यमन्त्रालयाच्च आवेदनपत्रम् अपेक्षितम्।  Q भुवने ८६ राष्ट्रेषु सिकावैरस् रोगबाधा व्यापृता वर्तते।
अर्थशास्त्रे नोबेल् पुरस्कारः - नोड् हौस् , रोमरः च सम्प्राप्तौI
पुरस्कारः पर्यावरण व्यत्यय मधिकृत्य कृतार्थिकाध्ययनाय। 
       स्टोक्कों> अर्थशास्त्र विभागस्य नोबेल् पुरस्कारः अस्मिन् वर्षे  अमेरिकाराष्ट्रस्य आर्थिकवैज्ञानिकाभ्यां यच्छतः। विल्यं नोड् हौसः पोल् रोमरः च एतौ वैज्ञानिकौ। पर्यावरणव्यत्ययः तन्त्रांशानुबन्धतया आर्थिकप्रगतिः इति विषये कृताध्ययनाय भवत्ययं पुरास्कारः। प्रत्येकं राष्ट्रैः बहिर्गमयतां हरितगृहवातकानां मानानुसारं 'कार्बण् टाक्स्' इति करसम्प्रदायः समारम्भणीयः इति नोर्डहौस् महोदयस्य सिद्धान्तः। 'एन्टोजिनस् ग्रोथ् तियरि' इति ज्ञातस्य अस्य आधारः पोल् रोमरस्य निरीक्षणानि एव। मनुष्याणां कर्मकौशलं, नूतनदर्शनानि, ज्ञानम् इत्यादीन् प्रति निक्षेपः आर्थिकस्थितेः वर्धनाय शक्तिः प्रददाति इति 'एन्डोजिनस् ग्रोथ्' सिद्धान्तस्य आधाराशयः। दशलक्षं डोलर् मितं भवति पुरस्कारराशिः।
अधार्मिकवृत्तिः, ब्रह्मोस् उद्योगस्थः बन्धने।
-बिजिलाकिषोरः
         नवदिल्ली> नागपुरे विद्यमानायां ब्रह्मोस् प्रक्षेपास्त्रसंस्थायां उद्योगस्थः  निषान्त् अगर्वाल् अधार्मिकवृत्तेः नाम्नि आघेटकविरुद्धसंघेण बन्धितोजातः। उत्तरप्रदेशस्य महाराष्ट्रस्य च ए टि एस् संघानां संयुक्तप्रवर्तनेन अयं बन्धनस्थोऽभवत्।। वर्षचतुष्टयं  यावत् अत्र उद्योगस्थः भवति निषान्तः।
        नागपूर् प्रतिरोध- गवेषण-विकसनकेन्द्रे ब्रह्मोस् प्रक्षेपास्त्रस्य प्रेपोलन्ट्, इन्धनस्प विकसितकेन्द्रात् सः बन्धितवान् । शीघ्रगमनक्रुयिस् प्रक्षेपास्त्रस्य निगूढता विनष्टं वा इति सन्देहो वर्तते। ब्रहमोस् प्रक्षेपास्त्रस्यनिगूटता सर्वं सः जानीयात् इत्यतः विषयेस्मिन् विवरशेखरणम् अनिवार्यमिति ए टि एस् विभागेन सूचितम्।

Monday, October 8, 2018

ट्विविट्टर् माध्यमद्वारा इन्धनमूल्यं नियन्त्रयितुं न शक्यते- जय्ट्ली।।
          - रम्या पी यू। 
           नवदिल्ली- इन्धनमूल्यवर्धने विपक्षम् उपहास्य केन्द्रधनमन्त्री अरुणजय्ट्ली। राष्ट्रान्तरतले क्रूडतैलस्य मूल्यं नियन्त्रयितुम् विपक्षनेतृणां ट्वीट्द्वारा उत दृश्यवाहिनी बैन्ट् द्वारा न शक्यते इति तस्य उपहासः। केन्द्रस्य इन्धनकरः एकया रीत्या अनुवर्तते। किन्तु राज्याणि मूल्यवर्धितकरे परिवर्तनम् आनयन्ति। इन्धनमूल्ये स्वीक्रियमाणं वर्धनं राज्याणि कानिचन केन्द्रेण कृतवर्धनवशात् इति आरोपयन्ति। । कानिचन भा जा दलभिन्न शासकराज्याणि एतस्मिन् करे ऊनतामानेतुं नैव सन्नद्धानि।