OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 12, 2018

जलोपप्लवः - भूस्वामिनां कृते गृहनिर्माणाय लक्षचतुष्टयं दातुम् आदेशः कृतः। 
   अनन्तपुरी >  केरले जलोपप्लवदुरन्ते विशीर्णगृहेषु येषां स्वकीया भूमिरस्ति  तेषाम् एकैकस्मै गृहनिर्माणाय चतुर्लक्षं रूप्यकाणि दातुं जनपदाधिकारिणां कृते उत्तरदायित्वं कृत्वा  केरलशासनेन आदेशः कृतः। भूस्वामिनः ये वर्तन्ते, ते साहाय्यद्रव्याय जनपदाधिकारिणं प्रति अपेक्षां समर्पयेयुः। 
    प्रलयदुष्प्रभावे  यानि भवनानि पूर्णतया नाशितानि तथा प्रतिशतं पञ्चसप्तत्यधिकं विशीर्णनं सम्भूतानि तेषां कृते एव दलद्वयेन चतुर्लक्षं रूप्यकाणि उपलभ्यानि। नाशितानां गृहाणां समग्रवृत्तान्तः सर्वकारस्य तद्देशविभागेन समाकलितः अस्ति। 
    १६,६६१ गृहाणि प्रलये पूर्णतया विशीर्णानि। ९५४ जनानां गृहाणि तत्स्थानैः सह विनष्टानि। विशीर्णानां गृहाणां निर्माणं पुनरुद्धारणप्रवर्तनं च त्वरितरीत्या करणीयमिति मुख्यमन्त्रिणा पिणरायि विजयेन समाकारिते अवलोकनयोगे तेन निर्दिष्टम्।

Thursday, October 11, 2018

'तित्ली' वातः ओडीषातीरं प्राप- गोपालपुरे अधिकानि नाशनष्टानि।

   भुवनेश्वरम् > बंगसमुद्रे जातः तित्ली' चक्रवातः ओडीषातीरं प्राप। होरायां १२६ किलोमीट्टर् इति वेगेन आसीत् चक्रवातस्य आगमनम्। अद्य (गुरुवासरः) उषसि आसीत् वातस्य दुरागमनम्। सुराक्षानुबन्धतया लक्षत्रयं जनाः ततः सुरक्षितस्थानं प्रति प्रेषिताः आसन्। गोपालपुरे १५० कि०मी वेगेन वाति स्म  इति आवेद्यते। अधिकानि नाशनष्टानि गोपालपुरे अभवत्। ओडीषातीरेषु पादपाः विद्युत् स्थम्भाश्च विशीर्णः। भूमार्गगतागतनि स्थगितानि। गञ्जं, गजपतिः, पुरी, खुर्द, जगद् सिङ्पुरप्रदेशेषु वृष्टिः अनुवर्तते।
संस्कृताभियानम् ।
-प्रा.डॉ. विजयकुमार: मेनन् 
नमांसि,
       भाषा तु माध्यमम्, साधनम्। साध्यं तु अन्यत् किञ्चित् महत् भवतिॆ। जातिमतादिरूपेण या: भेदभावना: सन्ति ता: यदि संस्कृतभाषाया: द्वारा निवारिता: भवन्ति, न्यूना: वा भवन्ति, सा काचित् महती उपलब्धि: भवेत्। समाजस्य उपेक्षितवर्गं संस्कृतं पाठयित्वा तेन एतं परिणामं साधयितुं शक्नुयाम। या भाषा समाजस्य न्यूनतानां निवारणं करोति, समस्यानां परिहारं च करोति सा सर्वै: आदृता भवति। मित्राणि, संस्कृतद्वारा सामाजिकसमरसता इत्येतद् अद्यतने राष्ट्रियपरिप्रेक्ष्ये अत्यन्तं महत्वभूतम्। 
जयतु संस्कृतं  जयतु भारतम्।  🙏

Wednesday, October 10, 2018

उत्तरप्रदेशे रेल्यानदुर्धटना- पञ्चजनाः मृताः, बहवः व्रणिताः।

  लख्नौ>  उत्तरप्रदेश राज्यस्थे रास्बरेलि प्रदेशे रेल्यानदुर्घटनायां पञ्चजनाः मृताः। बहवः व्रणिताः।  माल् डयिल् देशात् दिलीं प्रति आगतं न्यू फराक्का एक्स्प्रस् यानम् एव अपघाते पतितम्। राय्बरेल्यां हरच्छन्द्रपुरस्थ  रेल् निस्थानस्य समीपे बुधवासरे उषसि षट् वादने आसीत् इयं दुर्घटना। व्रणिताः समीपस्थम् आतुरालयं प्रवेशितवन्तः। रक्षाप्रवर्तनानि अनुवर्तन्ते
अफ्‌गानिस्थाने आत्मघातिनः आक्रमणम्। स्थानाशिना साकम् अष्टजनाः हताः।
       काबूल्> अफ्‌गानिस्थाने निर्वाचन-पथसञ्चलने स्थानाशिना सह आहत्य अष्टजनाः हताः। अगण्याः व्रणिताः च। हेल्मण्ड् प्रविश्यायाः 'लेष्कर् गाह् ' इति प्रदेशे एव घटना जाता। प्रतिनिधिसभा स्थानाशी सेलं मुहम्मद् अचिकेशिं लक्ष्यीकृत्य आसीत् आक्रमणम्। आत्मघातिः स्वयं विस्फुटितः। तस्मिन्नेव क्षणे अच्केसिः अपि हताः। इतः पर्यन्तम् आक्रमणस्य उत्तरदायित्वं केनाऽपि न स्वीकृतम्। तालिबान दलस्य अधीनतायां वर्तमानः प्रदेशः भवति हेल्मण्ट्।
आयसागारे वातनलिकाविस्फोटनम्
-बिजिलाकिषोरः
       भीलाय् > चत्तीस् गढे राय् पुरतः ३०की मी दूरे नगरे विद्यमाने आयसागारे प्रवृत्ते उग्रस्फोटने षट्जनाः मृताः,१४जनाः व्रणिताश्च। व्रणितान् आतुरालयं प्रति नीतम्। आरक्षकाः सन्नद्ध सेवकाश्च सेवानिरताः वर्तन्ते।
यू ए ई राष्ट्रे एकीकृतवाहनचालनप्रमाणपत्रम् परिगणनायाम्।
               - रम्या पी यू          
      दुबाय्> वाहनचालनपरीक्षाम् एकीकृत्य प्रमाणपत्रस्वीकाराय सर्वेषु राज्येषु (एमिरेट्) सामान्यमानदण्डानि प्रचारयितुम् आलोच्यते।  राष्ट्रे सप्तराज्येषु  अपि वाहनचालनप्रमाणपत्रम् प्राप्तुं विभिन्नमानदण्डानि परीक्षाः च प्रचाल्यन्ते। एतां रीतिमुत्पाट्य प्रमाणपत्रप्राप्त्यै एकीकृतसंविधानस्य निर्माणः परिगणनायामस्तीति खान्टूट्टे प्रचलति सेर्को मिडिल् ईस्टस्य वार्षिकमार्गसुरक्षासम्मेलने अधिकारिणः आवेदयन्। एतदर्थम् आभ्यन्तरमन्त्रालयेन एका समितिः रूपीकृता इति चालकपरिशीलनं तथा गुणनिर्णयविभागस्य नियुक्तनिदेशकः हिन्द् अल् मुहैरी उक्तवान्।

Tuesday, October 9, 2018

'सिका' रोगाणुः व्याप्यते, जय्पुरे जाग्रतानिर्देशः।
    जयपुरम् > राजस्थान राज्यस्य राजनगरे जयपुरे सिकानामकवैरस् रोगाणुः व्याप्यते। सप्तसु जनेषु रोगाणुबाधा  स्थिरीकृता। सेप्तंम्बर् २४ दिनाङ्के कस्यांचित् महिलायां वैरस् रोगबाधा निर्णीता। ततः २२ रोगादर्शा अपि पूनेस्थां वैरोलजी संस्थां प्रति प्रेषिताः। तेषु सप्तेषु जनेषु सिकाबाधा निर्णीता। एषु बीहारीयो छात्र अपि अन्तर्भूतः। 
    रोगस्थिरीकरणात्पूर्वम् एषः जन्मग्रामं प्राप्तवान् इत्यतः तस्य परिवाराङगाः अपि निरीक्षणे वर्तन्ते। अपि तु बीहारस्य ३८ जनपदेष्वपि जाग्रतानिर्देशः कृतः। रोगव्यापनात् प्रधानमन्त्रिकार्यालयात् स्वास्थ्यमन्त्रालयाच्च आवेदनपत्रम् अपेक्षितम्।  Q भुवने ८६ राष्ट्रेषु सिकावैरस् रोगबाधा व्यापृता वर्तते।
अर्थशास्त्रे नोबेल् पुरस्कारः - नोड् हौस् , रोमरः च सम्प्राप्तौI
पुरस्कारः पर्यावरण व्यत्यय मधिकृत्य कृतार्थिकाध्ययनाय। 
       स्टोक्कों> अर्थशास्त्र विभागस्य नोबेल् पुरस्कारः अस्मिन् वर्षे  अमेरिकाराष्ट्रस्य आर्थिकवैज्ञानिकाभ्यां यच्छतः। विल्यं नोड् हौसः पोल् रोमरः च एतौ वैज्ञानिकौ। पर्यावरणव्यत्ययः तन्त्रांशानुबन्धतया आर्थिकप्रगतिः इति विषये कृताध्ययनाय भवत्ययं पुरास्कारः। प्रत्येकं राष्ट्रैः बहिर्गमयतां हरितगृहवातकानां मानानुसारं 'कार्बण् टाक्स्' इति करसम्प्रदायः समारम्भणीयः इति नोर्डहौस् महोदयस्य सिद्धान्तः। 'एन्टोजिनस् ग्रोथ् तियरि' इति ज्ञातस्य अस्य आधारः पोल् रोमरस्य निरीक्षणानि एव। मनुष्याणां कर्मकौशलं, नूतनदर्शनानि, ज्ञानम् इत्यादीन् प्रति निक्षेपः आर्थिकस्थितेः वर्धनाय शक्तिः प्रददाति इति 'एन्डोजिनस् ग्रोथ्' सिद्धान्तस्य आधाराशयः। दशलक्षं डोलर् मितं भवति पुरस्कारराशिः।
अधार्मिकवृत्तिः, ब्रह्मोस् उद्योगस्थः बन्धने।
-बिजिलाकिषोरः
         नवदिल्ली> नागपुरे विद्यमानायां ब्रह्मोस् प्रक्षेपास्त्रसंस्थायां उद्योगस्थः  निषान्त् अगर्वाल् अधार्मिकवृत्तेः नाम्नि आघेटकविरुद्धसंघेण बन्धितोजातः। उत्तरप्रदेशस्य महाराष्ट्रस्य च ए टि एस् संघानां संयुक्तप्रवर्तनेन अयं बन्धनस्थोऽभवत्।। वर्षचतुष्टयं  यावत् अत्र उद्योगस्थः भवति निषान्तः।
        नागपूर् प्रतिरोध- गवेषण-विकसनकेन्द्रे ब्रह्मोस् प्रक्षेपास्त्रस्य प्रेपोलन्ट्, इन्धनस्प विकसितकेन्द्रात् सः बन्धितवान् । शीघ्रगमनक्रुयिस् प्रक्षेपास्त्रस्य निगूढता विनष्टं वा इति सन्देहो वर्तते। ब्रहमोस् प्रक्षेपास्त्रस्यनिगूटता सर्वं सः जानीयात् इत्यतः विषयेस्मिन् विवरशेखरणम् अनिवार्यमिति ए टि एस् विभागेन सूचितम्।

Monday, October 8, 2018

ट्विविट्टर् माध्यमद्वारा इन्धनमूल्यं नियन्त्रयितुं न शक्यते- जय्ट्ली।।
          - रम्या पी यू। 
           नवदिल्ली- इन्धनमूल्यवर्धने विपक्षम् उपहास्य केन्द्रधनमन्त्री अरुणजय्ट्ली। राष्ट्रान्तरतले क्रूडतैलस्य मूल्यं नियन्त्रयितुम् विपक्षनेतृणां ट्वीट्द्वारा उत दृश्यवाहिनी बैन्ट् द्वारा न शक्यते इति तस्य उपहासः। केन्द्रस्य इन्धनकरः एकया रीत्या अनुवर्तते। किन्तु राज्याणि मूल्यवर्धितकरे परिवर्तनम् आनयन्ति। इन्धनमूल्ये स्वीक्रियमाणं वर्धनं राज्याणि कानिचन केन्द्रेण कृतवर्धनवशात् इति आरोपयन्ति। । कानिचन भा जा दलभिन्न शासकराज्याणि एतस्मिन् करे ऊनतामानेतुं नैव सन्नद्धानि।
महाराष्ट्रे उत्तरणपथः भग्नः अभवत् - 
     मुम्बै> महाराष्ट्रस्थे  मानखुरद् देशे नवीकरणप्रवर्तनसमये उत्तरणपथः अतः पतितः। रविवासरे सायं सार्ध चतुर्वादने एव घटना। नवीकरणाय उपयुज्यमानायाः यन्त्रश्रेण्याः उपरि एव उत्तरणपथस्य पतनमभवत्।  यः कोऽपि न व्रणितः। रविवासरः इत्यनेन पथि यानसम्मर्दः न्यूनः भविष्यति इति कारणेन नवीकरणप्रवर्तनाय दिनमिदं चयितम्। मासद्वयात् पूर्वामपि अन्धेरिप्रदेशेऽपि अनेन प्रकारेण अपघातः अभूत्। तदानीं सप्तजनाः व्रणिताः अभूवन्।
भारतस्य करप्रतिमानं विमृश्य ट्रम्पः। यु एस् राष्ट्रेरेण सह व्यापारसन्धिः स्थापनीया।
   -रम्या पी यू
          नवदिल्ली- अमरीकायाः उत्पन्नानां कृते अधिककरप्रतिमानानि स्वीकुर्वन्ति इति आरोपणेन सह पुनरपि डोणाल्ड् ट्रम्पः। भारतं सहसा अमेरीकया सह व्यापारचर्चाः आरभतु इति ट्रम्पः। मेक्सिको, कानडा, अमरीका एतैः राष्ट्रैः सह व्यापारसन्धिः प्रख्यापिता इति वार्तासम्मेलने ट्रम्पः उक्तवान्। अमेरीकायाः उत्पन्नानां कृते भारतम् अधिककरं स्वीकरोति। उभययोः राष्ट्रयोः सन्तृप्तिः चिरस्थापनीया इत्येतत् प्राथमिकं कार्यम्।

Sunday, October 7, 2018

महागर्तपतनेन वाहनापघातः
-बिजिला किषोरः
कश्मीरः >  जम्मुकश्मीरे शनिवासरे प्रवृत्त लोकयानस्य गर्तपतनेन २०जनाः मृताः।बनिहातः रम्पान् पर्यन्तं चलन्नासीत् यानम्।  जनबाहुल्यं भवति अपघातस्य कारणमिति आरक्षकैः सूचितम्।
               अपघाते अनेके व्रणिताः। व्योममार्गेण एकादशजनान् रक्षितवन्तः। मृतपरिवारस्य पञ्चलक्षं रुप्यकाणि तथा व्रणितैः ५०'००० रुप्यकाणि च दातुं निश्चितमिति आरक्षकसेनायाः उन्नतोगस्थेन श्री षोकत् ऐजास् महाशयेन उक्तं वर्तते।
आगोलतलेषु अन्त्रर्जालीय युद्धम् - रष्यां विरुद्ध्य पाश्चात्यराष्ट्राणि
         लण्टण्> रष्याराष्ट्रस्य चाराः लोकेसर्वत्र अन्तर्जालिक विपर्ययः प्रवर्तितवन्तः इति दोषारोपः।
आरोपणविधेयाः रष्याराष्ट्रस्य चत्वारः प्रतिनिधयः नेतर्लान्ट् राष्ट्रेण बहिः प्रेषिताः। एतस्याः घटनायाः पश्चात् अमेरिकाराष्ट्रस्य नैतिकविभागेन ईदृशारोपणेन समागतम्। एतदनुबन्ध्य रष्याराष्ट्रस्य सप्तान् रहस्यान्वेषणप्रतिनिधीन् विरुद्ध्य दोषारोपणम् उन्नीतम् अमेरिकेन।
          अन्ताराष्ट्रान्तर्जालीयाक्रमण-परिक्रमणे   आगोल-रासायुध निरीक्षणदलम्, आगोल उत्तेजकौषध-निरीक्षण-समितिः, अमेरिकस्य आणवसंस्था च अन्तर्भवन्ति आरोपणे। आगोलतले सुसंघटितान्तर्जालाक्रमणं रष्याराष्ट्रं केन्द्रीकृत्य प्रचलति इत्यस्ति आरोपणम् इति बि बि सि संस्थया आवेदितम्।
पञ्चसु राज्येषु निर्वाचनं प्रख्यापितम्। 

राजस्थानं, मध्यप्रदेशः, मिसोराम्, छत्तीसगढ् , तेलुङ्कानम्। 

     नवदिल्ली> आगामिसंवत्सरे वर्तमानस्य लोकसभानिर्वाचनस्य पूर्वपीठिकारूपेण पञ्च राज्येषु विधानसभानिर्वाचनानि प्रख्यापितानि। नवम्बर् १२ तमदिनाङ्कादारभ्य डिसम्बर् सप्तमदिनाङ्कपर्यन्तं विविधदिनाङ्केषु मतदानप्रक्रिया विधास्यते। सर्वेषु राज्येषु मतगणना डिसम्बर् एकादशदिनाङ्के भविष्यति। 
    प्रथमं निर्वाचनं छत्तीसगढ राज्ये सोपानद्वयेन विधास्यते। प्रथमसोपानं नवंबर १२ [१८ स्थानानि], द्वितीयं च नवंबर २० [७२ स्थानानि]। ततः मध्यप्रदेशे मिसोरामे च नवं- २८, राजस्थाने तेलुङ्काने च डिसम्बर् सप्तमे दिनाङ्के च मतदानं सम्पत्स्यति। भाजपा, कोण्ग्रस् इत्यादि राजनैतिकदलानां आगामिसंवत्सरे संपत्स्यमानस्य लोकसभानिर्वाचनस्य निकषः भवति इमानि निर्वाचनानि। 

Saturday, October 6, 2018

संस्कृताभियानम्
- प्रा.डॉ. विजयकुमार: मेनन् 
     नमांसि, संस्कृतभाषया अद्यतनान् सर्वान् अपि व्यवहारान् कर्तुं महता प्रमाणेन नवीनपदानाम् (प्राचीनानं वा! ) आवश्यकता अस्ति।संस्कृतस्य तु असंख्यकोटिपदनिर्माणसामर्थ्यम् अस्ति। अस्माकं संस्कृतज्ञानां तादृशपरिश्रमकरणस्य सामर्थ्यम् अपेक्षितम्। आगामिनि काले अस्माभि: महता प्रमाणेन व्यावहारिकपदनिर्माणं करणीयम्, प्राचीनप्रयोगाणां गवेषणं करणीयं च। मित्राणि, "संस्कृतस्य रक्षणाय बद्धपरिकरा वयम्। संस्कृते: प्रवर्धनाय दृढनिधिर्भवेदिदम्"। जयतु संस्कृतं  जयतु भारतम्। ,🙏

Friday, October 5, 2018

महात्मागान्धिने परमोन्नत पौरत्वबहुमतिं समर्पयितुम् अमेरिक्काराष्ट्रम्। 

   वाषिङ्टण्> महात्मागान्धिने परमोन्नत-पौरत्वबहुमतिं समर्पयितुम् अमेरिक्काराष्ट्रस्य प्रतिनिधिसभया निश्चितम्। चत्वारः भारतवंशजाः सन्ति प्रतिनिधिसभायाम्। शान्तिम् अहिंसां च प्रसारयितुं गान्धिना कृतस्य यत्नस्य कृते भवति अयं समादरः। कोण्ग्रषणल् गोल्ड मेडल् इति विख्यातोऽयं पुरस्कारः अंगुलीपरिमिताः विदेशिनः एव प्राप्ताः। मदर् तेरेसा, नेल्सण् मण्डेल, पोप् जोण् पोल्२ , दलैलाम, आङ्‌ साङ्‌ सूची, मुहम्मद्‌ यूनस्, षिमोण् पेरेस् च भवन्ति भूतपूर्वाः आदरभाजः वैदेशिकाः।