OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 7, 2018

आगोलतलेषु अन्त्रर्जालीय युद्धम् - रष्यां विरुद्ध्य पाश्चात्यराष्ट्राणि
         लण्टण्> रष्याराष्ट्रस्य चाराः लोकेसर्वत्र अन्तर्जालिक विपर्ययः प्रवर्तितवन्तः इति दोषारोपः।
आरोपणविधेयाः रष्याराष्ट्रस्य चत्वारः प्रतिनिधयः नेतर्लान्ट् राष्ट्रेण बहिः प्रेषिताः। एतस्याः घटनायाः पश्चात् अमेरिकाराष्ट्रस्य नैतिकविभागेन ईदृशारोपणेन समागतम्। एतदनुबन्ध्य रष्याराष्ट्रस्य सप्तान् रहस्यान्वेषणप्रतिनिधीन् विरुद्ध्य दोषारोपणम् उन्नीतम् अमेरिकेन।
          अन्ताराष्ट्रान्तर्जालीयाक्रमण-परिक्रमणे   आगोल-रासायुध निरीक्षणदलम्, आगोल उत्तेजकौषध-निरीक्षण-समितिः, अमेरिकस्य आणवसंस्था च अन्तर्भवन्ति आरोपणे। आगोलतले सुसंघटितान्तर्जालाक्रमणं रष्याराष्ट्रं केन्द्रीकृत्य प्रचलति इत्यस्ति आरोपणम् इति बि बि सि संस्थया आवेदितम्।
पञ्चसु राज्येषु निर्वाचनं प्रख्यापितम्। 

राजस्थानं, मध्यप्रदेशः, मिसोराम्, छत्तीसगढ् , तेलुङ्कानम्। 

     नवदिल्ली> आगामिसंवत्सरे वर्तमानस्य लोकसभानिर्वाचनस्य पूर्वपीठिकारूपेण पञ्च राज्येषु विधानसभानिर्वाचनानि प्रख्यापितानि। नवम्बर् १२ तमदिनाङ्कादारभ्य डिसम्बर् सप्तमदिनाङ्कपर्यन्तं विविधदिनाङ्केषु मतदानप्रक्रिया विधास्यते। सर्वेषु राज्येषु मतगणना डिसम्बर् एकादशदिनाङ्के भविष्यति। 
    प्रथमं निर्वाचनं छत्तीसगढ राज्ये सोपानद्वयेन विधास्यते। प्रथमसोपानं नवंबर १२ [१८ स्थानानि], द्वितीयं च नवंबर २० [७२ स्थानानि]। ततः मध्यप्रदेशे मिसोरामे च नवं- २८, राजस्थाने तेलुङ्काने च डिसम्बर् सप्तमे दिनाङ्के च मतदानं सम्पत्स्यति। भाजपा, कोण्ग्रस् इत्यादि राजनैतिकदलानां आगामिसंवत्सरे संपत्स्यमानस्य लोकसभानिर्वाचनस्य निकषः भवति इमानि निर्वाचनानि। 

Saturday, October 6, 2018

संस्कृताभियानम्
- प्रा.डॉ. विजयकुमार: मेनन् 
     नमांसि, संस्कृतभाषया अद्यतनान् सर्वान् अपि व्यवहारान् कर्तुं महता प्रमाणेन नवीनपदानाम् (प्राचीनानं वा! ) आवश्यकता अस्ति।संस्कृतस्य तु असंख्यकोटिपदनिर्माणसामर्थ्यम् अस्ति। अस्माकं संस्कृतज्ञानां तादृशपरिश्रमकरणस्य सामर्थ्यम् अपेक्षितम्। आगामिनि काले अस्माभि: महता प्रमाणेन व्यावहारिकपदनिर्माणं करणीयम्, प्राचीनप्रयोगाणां गवेषणं करणीयं च। मित्राणि, "संस्कृतस्य रक्षणाय बद्धपरिकरा वयम्। संस्कृते: प्रवर्धनाय दृढनिधिर्भवेदिदम्"। जयतु संस्कृतं  जयतु भारतम्। ,🙏

Friday, October 5, 2018

महात्मागान्धिने परमोन्नत पौरत्वबहुमतिं समर्पयितुम् अमेरिक्काराष्ट्रम्। 

   वाषिङ्टण्> महात्मागान्धिने परमोन्नत-पौरत्वबहुमतिं समर्पयितुम् अमेरिक्काराष्ट्रस्य प्रतिनिधिसभया निश्चितम्। चत्वारः भारतवंशजाः सन्ति प्रतिनिधिसभायाम्। शान्तिम् अहिंसां च प्रसारयितुं गान्धिना कृतस्य यत्नस्य कृते भवति अयं समादरः। कोण्ग्रषणल् गोल्ड मेडल् इति विख्यातोऽयं पुरस्कारः अंगुलीपरिमिताः विदेशिनः एव प्राप्ताः। मदर् तेरेसा, नेल्सण् मण्डेल, पोप् जोण् पोल्२ , दलैलाम, आङ्‌ साङ्‌ सूची, मुहम्मद्‌ यूनस्, षिमोण् पेरेस् च भवन्ति भूतपूर्वाः आदरभाजः वैदेशिकाः।
 तैलेन्धनमूल्ये २.५ रुप्यकस्य न्यूनता 
-बिजिला किषोरः        
      नवदिल्ली > केन्द्र मन्त्री अरुण् जेट्ली महोदयेन उद्घोषितं यत् इन्धनमूल्ये २.५० रुप्यकं न्यूनीकरिष्यति इति। १.५० रुप्यकस्य करमपि न्यूनीकर्तुं प्रयतते केन्द्रसर्वकारेण। पेट्रोलिय संस्थयापि रुप्यकमेकं न्यूनीक्रियते इति धनमन्त्रिणा सूचितम्। अनेन २१०००कोटि रुप्ययकाणां नष्टो भविष्यतीति गणना। क्षणेनैव भवत्ययं परिवर्तनम्। राज्यस्तरीय सर्वकारेणापि करे २.५० रुप्यकं न्यूनीकरणीयमिति मन्त्रिणा उद्घोषितम् वर्तते।
एस् ४०० विमानवेधप्रक्षेपास्त्राणि भारत - रूस् सन्धिपत्रहस्ताक्षरीकरणम् अस्मिन् सप्ताहे।
     नवदिल्ली >  भारतं रूस् राष्ट्रात्  कोटिशः रूप्यकाणां  विमानवेधप्रक्षेपास्त्राणि क्रीणीतुं सन्धिपत्रे हस्ताक्षरीकरणाय सिद्धमिति रूस् राष्ट्रेण स्थिरीकृतम्। रूस् राष्ट्रपतेः व्लादिमिर् पुतिनस्य भारतसन्दर्शनवेलायां पञ्चशताधिकं कोटिडोलर् मितानाम् अभिसन्धौ हस्ताक्षरं क्रियते। तद्राष्ट्रेण २००५ तमे संवत्सरे  विकसितानि 'एस् - ४०० ट्रयम्फ्' नामकानि पञ्च  विमानवेधप्रक्षिपास्त्राणि एव भारतेन क्रेतुम् उद्दिष्टानि।
    ४०० कि मी परिमिते वर्तमानानि ३०० लक्ष्यान् एकस्मिन्नेव समये प्रत्यभिज्ञातुं तथा ३६ शत्रुविमानानि एकस्मिन् काले एव पातयितुं च शक्यानि भवन्ति एतानि मिसैल् शस्त्राणि। ओक्टोबर् ४, ५ दिनाङ्कयोरेव पुतिनस्य भारतसन्दर्शनम्। रूस् शासनात् युद्धमहानौकाः अपि क्रीणातुं सन्धिपत्रं  भविष्यतीति उच्यते।
रञ्जन् गोगोय् भारतस्य मुख्यन्यायाधीशः। 'मेन्षनिंङ्' सम्प्रदायं समाप्य प्रथमपरिष्कारः। 
    नवदिल्ली  >  भारतस्य ४६ तम मुख्यन्यायाधिपरूपेण न्याय. रञ्जन् गोगोय् स्थानं स्वीकृतवान्। राष्ट्रपतिभवने सम्पन्ने समारोहे राष्ट्रपतिः रामनाथकोगिन्दः शपथोक्तिम् अकारयत्। स्थानारोहणानन्तरं प्रथमे दिने एव प्रथमं परिष्कारम्  आयोजितवान् यत् व्यवहारान् नीतिपीठस्य सत्वरश्रद्धामानीय क्रियमाणम् 'अनुक्रमणिकाकरणं' [Mentioning] सम्प्रदायः तेन समापितः। 
       परिसमाप्तिं प्रतीक्ष्यमाणानां व्यवहाराणां विधिनिर्णये एव स्वस्य प्रथमपरिगणना इति गोगोय् वर्येण कथितम्। सर्वेष्वपि विषयेषु सार्वजनीनतात्पर्याभियाचिकासमर्पणे अपि सः असंतृप्तिं प्रकटितवान्।

Thursday, October 4, 2018

इन्टोनेष्याराष्ट्राय भारतसाहाय्यः। भिषजः अवश्यवस्तूनि च 'पालु' नगरं प्रति।
     नवदिल्ली> भूकम्पेन 'सुनामी' इति जलोपप्लवेन नाशिताय इन्तोनेष्याराष्ट्राय भारतस्य त्वरित-साहाय्ययम् । अवश्यवस्तुभिः भिषक्भिः सह नाविकसेनायाः तिस्रः नौकाः व्योमसेनायाः विमानद्वयं च इन्दोनेष्यराष्ट्रं प्रति प्रस्थिताः। भवननिर्माणवस्तूनि ३०००० लिट्टर् पेयजलम् ५०० लिट्टर् मितं क्षीरम् १५०० लिट्टर् फलरसः, ८०० किलोमितम् 'बिस्कट्' च नीयन्ते। ओक्टोबर् मासस्य षष्टे दिनाङ्गे मध्यसुलवेसिं प्राप्स्यन्ते इति विदेश मन्त्रालयेनोक्तम्।
     भिषजः भेषजः पेयजलं आतुरालयोपकरणानि च विमान मार्गेण प्रेषितन्तः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह इन्तोनेष्य राष्ट्रपतेः  जोको विडोडस्य दूरवाणी सम्भाषणानन्तरमेव ऐषमः साहाय्यः।

इन्टोनेष्याराष्ट्रे सुनाम्यनन्तरम् अग्निपर्वतस्फोटनम्
-बिजिला किषोरः
     जक्कर्ता > भूप्रकम्पनान्तरसुनाम्यां २५००जनानां जीवादानानन्तरं सुलवेस्यायां पालुद्वीपे सोप्ठन अग्निपर्वतस्फोटनं प्रवृत्तम्।  सुनाम्या विनष्टपालु नगरतः २००की मी दूरे वर्तते अग्निपर्वतप्रदेशः। स्फोटनेन ६००मीटर् औन्नत्यां धूमाग्निकणाः प्रसृताः । ततः जनान् सुरक्षितस्थानं प्रति न नीतम्। स्फोटनेनोत्पन्न धूमात् व्योमयानानां नाशं सम्भवतीन्त्यतः यानगतागतं स्थगितम्। २५ कोटि जनाः वर्तते इन्टोनेष्यायाम्। तत्र १२० अग्निपर्वताः अपि वर्तन्ते। 
कृषकपथसञ्चलनम् अवरुद्धं , संघर्षः, चर्चा पराजिता।
    नवदिल्ली  >  केन्द्रसर्वकारस्य कार्षिकनयान् विरुद्ध्य 'भारतीय किसान् यूणियन्' संघटनेन दिल्लीं प्रति आयोजितं प्रतिषेधपथसञ्चलनं उत्तरप्रदेशसीमायां गासियाबादे अवरोद्धुं  आरक्षकदलेन कृतः यत्नः संघर्षे समाप्तः। आरक्षकाणां दण्डप्रयोगेन बाष्पोद्गमशस्त्रप्रयोगेन च  नैकाः कृषकाः सप्त आरक्षकाश्च व्रणिताः। आन्दोलनव्यापनसाध्यतां परिगण्य पूर्वदिल्ल्यां निरोधनाज्ञा प्रख्यापिता।
     सेप्तम्बर् २३ दिनाङ्के आसीत् उत्तरप्रदेशः हरियाणा राज्येभ्यः 'किसान् क्रान्ति यात्रा' नामकं पथसञ्चलनम् आरब्धम्। गान्धिजन्मदिने राजघट्टं प्रवेष्टुम् उद्यमः निरुद्धः। दिल्ली-गासियाबादराजमार्गं विप्रतिबन्धकैः आरक्षकाः निरोधितवन्तः। अत एव संघर्षः जातः।
     कृषकाणाम् अपेक्षाः - एम् एस् स्वामिनाथन् आचरणस्य आदेशाः पालनीयाः , इक्षुकृषकाणां कृते पेषणशालास्वामिभिः दातव्यानि अनशिष्टदेयानि लब्धुं सर्वकारक्रियाविधिः भवितव्यः, कार्षिकर्णं अपाकुरुत, इन्धनमूल्यम् ऊनीकुरुत इत्यादयः।

Wednesday, October 3, 2018

आधारपत्रारान्तर्गतानां परिवर्तनं नियन्त्रितम्।
       नवदिल्ली > आधारपत्रायोगेन (UDIAI) अधारपत्रान्तर्गतानां विवरणानां परिवर्तनम् नियन्त्रितम्। नाम जन्मतिथिः लिङ्गः च परिवर्त्य लेखनाय एव नियन्त्रणम्। जन्मतिथिः लिङ्गः एकवारं परिवर्तितुं शक्यते। नाम तु द्विवारं परिवर्तितुं शक्यते। इदानीं आधारपत्रे विद्यमानजन्मतिथिः एकस्य  संवत्सरात् अधिकतया सङ्गलनं वा व्यवकलनं वा न शक्यते। अधिकतया परिवर्तनम् अपेक्ष्यते चेत् मण्डल कार्यायालयेषु अवश्यप्रमाणपत्रेण सह साक्षात् गत्वा निवेदनं समर्पणीम्।  प्रमाणपत्रे प्रमाणत्वं न भाति चेत् आवेदकस्य प्रादेशिकक्षेत्रेषु अन्वेषणं कृत्वा एव परिवर्तनाय अनुज्ञा प्रदास्यते। भारते मण्डलकार्यालयाः अहत्य नव एव। 
अनुगृहीत बाहुलीनकलाकारः दिवंगतः
-बिजिलाकिषोरः
       तिरुवनन्तपुरम्  > तीर्थयात्रायां वाहनापघातेन व्रणितः प्रमुख बाहुलीनकलाकारः तथा संगीतसंविधायकः  बालभास्करः मङ्गल वासरे  प्रातः अनन्तपुरी आतुरालये मृत्युंगतः।
      हृदयाघातः भवति मरणकारणम्। पुत्री पूर्वमेव मृता। पत्नी तीव्रपरिचरणविभागे चिकित्सायाम्  अस्ति। सप्तदशवयसि संगीतसंविधानम्  आरब्धम्। अनेकानि चलनचित्राणि , 'आल्बं' च कृतवानयं महाशयः।  केन्द्रसाहित्याकादमी पुरस्कारः बिस्मिल्लाघान् पुरस्कारः युवसंगीतपुरस्कारः (२००८ तमे वर्षे ) च गृहीतवानयं महाशयः। अनन्तपुर्यां  समूहदर्शनानन्तरं संस्कारः करिष्यति।
पश्चिमबंगाले उग्रस्फोटनम्
-बिजिला किषोरः
      डंडम्> कोल्कत्तायाः उत्तरभागे शाकाविपण्यां प्रवृत्ते स्फोटने अष्टवर्षीयः बालः दिवंगतः। पञ्चजनाः व्रणिताश्च। डंडम् आरक्षकसेनाकर्यालयस्य समीपे कासपुर्यां अभिनिविष्टकस्य  पार्शे विद्यमानस्य आपणस्य पुरतः स्फोटनमिदं प्रवृत्तम्। पर्श्वस्थाः आपणाःभागिकतया भग्नमभवन्।
       तृणमुल् दलस्य नेतृणा पञ्जुगोपालेन  उक्तं यत् मां लक्षीकृत्य स्फोटनमिदं प्रवृत्तमिति।
सूक्ष्माष्णुबाधितः 'पोलोयो' औषधबिन्धवः  शिशुभ्यः अददुः।
  नवदिल्ली> तेलङ्कान महाराष्ट्र उत्तरप्रदेश-राज्येषु शिशुभ्यः प्रदत्ते औषधे रोगाणुबाधा प्रमाणीकृता। पोलियोरोगस्य प्रतिरोध औषधे एव 'टैप् २'  रोगाणुः विलीनः  इति स्वास्थ्य मन्त्रालयेन उच्चते। उत्तरप्रदेशस्थ गासियाबाद् केन्द्रीकृत्य प्रवर्त्यमानया बयोमेङ्(Biomed Pvt Ltd) इति औषधसंस्थया निर्मितम् औषधं भवति इदम्। राज्यत्रयेषु अणुबाधित औषधसेवितेषु शिशुत्सु निरीक्षणं कर्तुं मन्त्रालयेन आदिष्टम्। इयं घटनाम् अधिकृय अन्वेषणं कर्तुं मन्त्रालयेन विशिषसमितिः  आयोजिता।  ५०,००० औषधकूप्यः प्रत्यभिज्ञाताः। १००००० कूपीमितानि औषधानि प्रत्यभिज्ञातुं यत्नः प्रचलति। घटनानुबन्धतया बयोमेड् संस्थायाः स्वामी अरक्षकैः ग्रहीतः। भूमण्डलात्   'टैप् २' इति अणुव्यापनं सम्पूर्णतया निर्मार्जितम् इति २०१६ तमे प्रख्यापितम् आसीत्।

Tuesday, October 2, 2018

अध्यापकशक्तीकरणवर्गः सुसम्पन्नः
      बालुश्शेरी> तामरश्शेरि शैक्षिकजनपदस्य द्विदिनात्मक अध्यापकशक्तीकरण वर्गः सुसम्पन्नः।वर्गेस्मिन् सप्तत्यधिकाध्यापकाः भागमवहन्। काव्य-व्याकरणादिषु विषयेषु कक्ष्यामचालयत्। श्री देवराजः, श्रीमति रतीदेवी च कक्ष्यां चालितवन्तै।
      शैक्षिकजनपदाधिकारिणी श्रीमति कुसुमं महाभागा वर्गोपस्थितानां अध्यापकानां निर्देशं अददात्।बालुश्शेरि उच्चविद्यालये प्रवृत्त वर्गस्य उद्घाटनं विद्यालयाधिकारिणी श्रीमति शैलजा अकरोत्।श्री विष्णुप्रसादः स्वागतभाषणमकरोत्।श्रीमति बिजिला धन्यवादं समर्पितवती।
नीरव् मोद्याः ६३७ कोटि रूप्यकाणां वस्तूतूनि एनफोर्स्मेण्ड् कार्यालयेन स्वीकृतम्।

    नवदेहली>पी एन् बी अनाचारस्य आसूत्रकस्य नीरव् मोद्याः ६३७ रूप्यकाणां संपत् एन्फोर्स्मेण्ड् कार्यालयेन स्वीकृतम्। ब्रिट्टीष् राष्ट्रे अमेरिक्का राष्ट्रे एवं चत्वारि विदेशराष्ट्रेषु वर्तमानान् संपदः स्वीकृतम्।
न्यूयोर्क् देशे नीरव् मोद्याः २१६ कोटि रूप्यकाणां गृहाणि २७८ कोटि रूप्यकाणां पञ्च ओवर्सीस् आर्थिकालयस्य रेखाः होङ्कोङ् देशे २२.६९ कोटि रूप्यकाणां वज्राभरणशाला ५७ कोटि रूप्यकाणां लण़्डन् नगरे वर्तमानं गृहम्। १९.५ कोटि रूप्यकाणां मुंबई नगरे वर्तमानं गृहम्। प्रप्रथमतया एव एकेन भारतीय दोषान्वेषणसंस्थया एतादृशं कृत्यं कृतम्।
पाक् हेलिकोप्टर् यानम् भारतव्योमसीमाम् उल्लङ्घयत्। 
-रम्या पि यु        
      श्रीनगरम् > पाक् हेलिकोप्टर् यानम्    भारतव्योमसीमाम् उल्लङ्घयत्। जम्मु काश्मीरस्य पूञ्च् प्रविश्यायां घटनेयम् प्रवृत्ता। भारतसैन्यं तत् यानम् गोलिकास्त्रप्रघट्टनेन अधःपातयितुम् महान्तं श्रमम् अकरोत् इति राष्ट्रियमाध्यमानि आवेदयन्। व्योमसीमां लङघयतः यानस्य दृश्यानि ए एन् ऐ वार्तासंस्थया प्रेषितानि। घटनाम् अनुबन्ध्य अधिकारिणः अन्वेषणम् आरब्धवन्तः। भारतस्य व्योमप्रतिरोधसंविधानं ज्ञातुं  व्योमसीमा लङ्घिता चेत् प्रत्याक्रमणाय कियान् समयः स्वीकरणीयः भविष्यति इति ज्ञातुम् पाक् व्योमयानानि एवं डयनशीलाः इति माध्यमानि आवेदयन्। किन्तु सुव्यक्ततया व्योमसीमालङ्घनमेवेति भाति।
बि सि सि ऐ सार्वजनिक संस्था भवति । अतः सूचनाधिकार-नियमेनबद्धः
      नवदिल्ली> क्रिक्कट् आयाेगः सार्वजनिक संस्था भवति, अतः क्रिक्कट् आयोगः  केन्द्र-सूचनाधिकार-नियमस्य परिधौ भवति इति केन्द्रसूचना।  अनेन अंशेन सह सूचनाधिकारायोगाध्यक्षः श्रीधर आचार्यलु महाभागः आदेशम् अयच्छत्। 
     सूचनाधिकार-नियमान् अनुसृत्य उत्तरदानाय १५ दिनाभ्यन्तरे सज्जः भवेत् इत्यपि आदेशे अस्ति। सर्वकारात् साक्षात् धनसाहाय्यः न स्वीकरोति। तथापि कोटिशानां रूप्यकाणां करलाभः लभते। अन्ताराष्ट्र वेदिकायां भारतस्य प्रतिनिधीत्वेन  वर्तते। अतः अन्येषां कायिकक्रीडासमितीव भवति इत्यपि आदेशे स्पष्टीकृतम् वर्तते। अतः विभागः ४ प्रकारेण क्रिक्कट् नियन्त्रण समितिः (बि सि सि ऐ)  अपि सूचानाधिकारनियमस्य परिधौ एव भवति इति आदेशे स्पष्टीकृतम्।