OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 2, 2018

सर्वतोमुखविकसनं महात्मागान्धिने श्रद्धाञ्जलिः -  प्रधानमन्त्री
   *अद्य गान्धिजयन्ती।
   नवदिल्ली  >  राष्ट्रस्य सर्वतोमुखं विकसनं भविष्यति महात्मागान्धिनः कृते तस्य पञ्चाशदुत्तरशततमजन्मसंवत्सरवेलायां क्रियमाणा श्रद्धाञ्जलिः इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी प्रास्तौत्। 'मन्  की बात्'  नामिकायां प्रतिमासिकीयां आकाशवाणी प्रभाषणपरम्परायां भाषमाणः आसन् प्रधानमन्त्री।
      ग्रामैरेव भारतस्य अभिवृद्धिरिति महात्मागान्धिना सदा मन्त्रितमासीत्। अत एव ग्रामस्वराज् इत्याशयस्य प्रचारकः आसीदयम्। देशस्य नेतृजनान् प्रति तस्य उपदेश एवमासीत् - "यः विकसनकार्यक्रमः आरभ्यते तदा राष्ट्रस्य अतीवदुर्बलस्य , दरिद्रस्य मुखं भवतां मनसि उदयेत। अनेन कार्यक्रमेण तस्मै दरिद्राय किमपि प्रयोजनमस्तीति चिन्तयन्तु। अस्ति चेत् भवता आविष्कृतो$यं कार्यक्रमः श्रेष्ठ भवति"। गान्धिनः इदं मन्त्रम् अद्यापि नितरां प्रसक्तमस्ति - प्रधानमन्त्री अवदत्।

Monday, October 1, 2018

इन्तोनेष्याभूकम्पः - हताः उपसहस्रम्।
चित्रम् - पालु देशे भूकम्पेन पतितस्य गृहस्य अन्तर्भागात् बालिकां मोचयितुं यत्नः।
         जक्कार्त> शुक्रवासरे इन्तोनेष्‌याराष्ट्रे दुरापन्ने भूभ्रंशे तथा 'सुनामि' घटनायां ८३२ जनाः मृत्युमुपगताः इति सर्वकारेण प्रमाणीकृताः। ५४० संख्यकाः ब्रणिताः च। मृतानां संख्या उपसहस्रं स्यात् इति राष्ट्रपतिः जोको विडोडो उपराष्ट्रपतिः यूसुफ् कल्ल च उक्‌तवन्तौ। भूचलन शक्तिः ७.४ इति अङ्कितेन चलनेन सह १५० अनुबन्धचलनानि जातानि। घटनेयं सुलवेसि द्वीपम् अगिलत्। पालु प्रदेशे लक्षत्रयाथिकं जनाः निव सन्ति। तत्र ८२१ जनाः मृताः इति दुरन्त-निवारण-विभागेन उच्यते। सहस्राधिकानि गृहाणि व्यापारशालाः, देवालयाः च भग्नाः। गतागत वार्ताविनिमय सुविधाः विद्युत् बन्धाः च विनष्टाः। 
पाकिस्थान् भीकरताम् अभिवर्धयतीति भारतविदेशकार्यमन्त्रिणी। 
  न्यूयोर्क्  >  ऐक्यराष्ट्रसभायाः ७३तमे सार्वत्रिकसम्मेलने   पाकिस्थानं रूक्षतया विरुध्य भारतस्य विदेशकार्यमन्त्रिणी सुषमास्वराजः। पाकिस्थानराष्ट्रं लोके भीकरवादम् अभिवर्धयतीति सुषमास्वराजेन विमृष्टम्। अद्यतनकाले भुवनेन सम्मुखीक्रियमाणम् अभिग्रहद्वयं भवति पर्यावरणव्यतियानं तथा आतङ्कवादं च। भारतस्य अवस्थायां प्रातिवेशिकराष्ट्रात् जायमानं भीकरप्रवर्तनमेव महान् शापः। न केवलं भीकरप्रवर्तनं कर्तुं किन्तु तदाच्छादयितुं च पाकिस्थानस्य वैदग्ध्यमस्तीति सुषमा आक्षिपत्। भीकरप्रवर्तनमधिकृत्य पाकिस्थानेन सह बहुवारं चर्चा आरब्धा  अपि पाकिस्थानस्य व्यवहारदोषेण मध्ये स्थगिता जाता। भारतेन कृतानां मानवाधिकारलङ्घनानां प्रमाणमिति रूपेण पाक् प्रतिनिधिना पूर्वं प्रदर्शितानि चित्राणि राष्ट्रान्तरात् सङ्कलितानीति परं स्पष्टीकृतम् - सुषमया प्रोक्तम्। 
   * पुनःसंघाटनम् आवश्यकम्* - परिवर्तनान्यधिकृत्य चर्चां कर्तुम् उद्दिष्टा अन्ताराष्ट्रीयवेदिका भवति यू एन् संस्था इति स्मारितवती भारतविदेशमन्त्रिणी तदर्थं तदनुगुणं पुनःसंघाटनम् ऐक्यराष्ट्रसभया अपेक्षितमस्तीति उक्तवती। सभायाः यथायुक्तं प्रवर्तनं नास्ति चेत् भुवनस्य बहुस्वरता विनष्टा भविष्यतीत्यपि सुषमा स्वराजेण सूचितम्।
अभिलाष् टोमी इत्यस्य धैर्यं उत्साहः च प्रचोदनात्मकः इति प्रधानमन्त्री नरेन्द्रमोदी।
     नवदिल्ली >अभिलाष् टोमी इत्यस्य धैर्यं उत्साहः च प्रचोदनात्मकः इति प्रधानमन्त्री नरेन्द्रमोदी। मन की बात् कार्यक्रमे राष्ट्रं प्रति भाषमाणः असीत् सः। अभिलाष् महोदयेन साकं भाषणं कृतवान्, विपत्तै अपि तस्य उत्साहं धैर्थं च मां प्रचोदयति, राष्ट्रस्य युवकाः कन प्रकारेण इत्यस्य उदाहरणमेव भवति अभिलाषः इति मोदिना उक्तम्।
    गोल्डन् ग्लोब् रेस् स्पर्धायाः मध्ये व्रणितः एषः समुद्रमध्ये आलम्बहानोभुत्वा दिनानि यापयत्। रक्षितः सः इदानीं चिकित्सालये भवति। भारतसेनायै अभिवादनमर्पयन् आसीत् मन की बात् कार्यक्रमस्य प्रारम्भः।

Sunday, September 30, 2018


५० लक्षं जनान् हन्तुं क्षमः रासवस्तुः ग्रहीतः।
      नवदिल्ली > पञ्चाशल्लक्षं जनान्  एकीभूय्य हन्तुं क्षमः रासवस्तुः ग्रहीतः। इन्डोर् देशस्थात् अङ्गीकाररहितात्  परीक्षणशालायाः मारक- उन्मादकवस्तु इति कुप्रसिद्धः 'फेन्टानैल्' ग्रहीतः। डय रक्टरेट्‌ ओफ्‌ रेवन्यू इन्टलिजन्स् भिवागेन सप्ताहात्‌ पूर्वं ग्रहीतम्।
       अपरिमितान्‌ जनान् एकीभूय हन्तुं क्षमता अस्ति फेन्टानैलस्य। इदानीं लभ्यमानस्य हेरोयिन्नामक उन्मादक वस्तुनः  ५०% अधिकशक्तिरस्ति अस्य।  अस्य सूक्ष्मधूलिः अल्पशः श्वसिते सत्यपि मृत्युः नूनं भविष्यति इति अभिज्ञाः वदन्ति। वायुमण्डले शीघ्रव्यापनशीलः अस्ति अस्य। त्वक् मार्गेणापि अन्तः प्रविश्यते। २ मिल्लीग्रां मितं अन्तः प्रविश्यते चेत् मृत्युः भविष्यति। ग्रहीताः फेन्टानिल् रासवस्तुः ९ किलोमितं भवति। अस्याः मूल्यम् अन्ताराष्ट्रविपण्यां ११० कोटिः भवति।
२०१६ तमे फेन्टानैलस्य अमितोपयोगेन अमेरिकायां २०, ००० जनाः मृताः इति श्रूयते। 
रोहिङ्यानां 'बयोमेट्रिक्' सूचनाः सङ्कलितुं राज्यानां निर्देशः। 
     नवदिल्ली  >  भारते वर्तमानानां रोहिङ्यन् इस्लामिकानां तथा अनधिकृताधिनिवेशितानां च 'बयोमेट्रिक्' सूचनाः सङ्कलयितुं राज्यानि प्रति केन्द्रगृहमन्त्रालयस्य निर्देशः। राष्ट्रे सर्वत्र सुरक्षादृढीकरणमेव लक्ष्यः इति विशदीक्रियते। 
    आराष्ट्रम् अटनं कुर्वतां अनधिकृताधिनिवेशितजनान् प्रत्यभिज्ञातुम् एषा योजना उपक्रियते । ऐक्यराष्ट्रसभायाः अधिनिवेशविभागे पञ्जीकृताः चतुर्दशसहस्रं रोहिङ्ग्याः भारते वर्तन्ते। किन्तु चत्वारिंशत् सहस्रं जनाः अनधिकृतरीत्या अत्र वसन्तीति सूच्यते।  राष्ट्रम् अधिवेशितेषु  रोहिङ्ग्यन् अभयार्थिषु केचन नीतिविरुद्धप्रवर्तनेषु भागं कुर्वन्ति, राष्ट्रं प्रति तेषां प्रवाहं नियन्त्रितुं सुरक्षाबलं नियुक्तमिति च गृहमन्त्रिणा राजनाथसिंहेन पूर्वं विधानभायामुक्तमेसीत्।
इन्डोनेष्यायां भूकम्पः सुनामी च - चतुश्शतं मरणानि। 
   जक्कार्ता  >  इन्डोनेष्यन् राष्ट्रस्य सुलवेसीनामके द्वीपे गतदिने संवृत्तस्य शक्तस्य भूकम्पस्य पश्चात् सञ्जाते सुनामीनामके समुद्रविक्षोभे महान् विनाशः। असंख्यानि भवनानि राक्षसीये तरङ्गाघाते विशीर्णानि। चतुश्शताधिकाः जनाः मृताः। 
       भूकम्पमापिन्यां ७.५तीव्रताम् अङ्किते भूचलने सप्तपादपरिमितोन्नतौ तरङ्गाः जाताः। मध्यसुलवेसीप्रविश्यायाः पालु , डोंगला  प्रदेशौ एव मुख्यतया दुष्प्रभावितौ जातौ। डोङ्गला नगरात् ५६ कि मी दूरे भौमोपरितलात् दशकिलोमीटर् परिमितायाम् अगाधतायामेव भूकम्पस्य प्रभवकेन्द्रमिति सूच्यते।

Saturday, September 29, 2018

इन्डोनेष्यायाम् अतितीव्रभूचलनं तेन सह सुनामी ३८५ जनाः हताः।
-बिजिला किषोरः
 
    जक्कार्त > इन्डोनेष्यायाः सुलवेसी द्वीपे प्रवृत्तस्यभूचलनस्य पृष्टतः सुनामी च। ए एफ् पि वार्ता संस्थया वार्ता प्रकाशिता।  भूकम्पमापिन्यां ७.७ भूचलनस्य शक्तिः अङ्किता। अतितीव्रभूचलनं भविष्यतीतिदुरन्तन्यूनीकरणसंस्थयापूर्वसूचना दत्ता आसीत्। भूचलने अनेकानि भवनानि भग्नान्यभवन्। मध्य-पश्चिम मण्डलेषु विद्यमानजनान्  सुरक्षितस्थानं प्रापयन्तुं प्रेरयन्तःअधिकृताः।   प्रथम चलनानन्तरं
पुनरपि प्रवृत्ते  चलने मापिन्यां ७.५ सूचितम्। ४०० संख्याकाः जनाः मृताः इति वार्ताः बहिरागच्छतिl  दशपादमानात् उन्नत्‍यां सागरतरङ्गाः उन्ननताः अभवन्। जनाः परिभ्रान्ताः सन् धावमानाः इति  बहिरागतानि दृश्यखण्डानि सूचयन्ति। उपपञ्चशतं जनाः व्रणिताः अभवन्।
एष्याचषकक्रिकेटस्पर्धायां भारतस्य विजयः
-पुरुषोत्तम शर्मा
ऐषम: एष्याचषकक्रिकेचस्पर्धामालिका भारतेन विजिता। भारत-बाङ्ग्‍लादेशयोर्मध्‍ये विहितायां रोमाञ्चयुतायां निर्णायकस्‍पर्धायाम् अन्तिमचक्रीये  अन्तिमकन्दुकं यावत् दलद्वयस्य सङ्घट्ट: दृष्टिपथमागत:। विगतेह्नि क्रीडितायां निर्णायकस्पर्धायां भारतेन बाङ्ग्लादेशवृन्दं क्रीडकत्रयस्य सुरक्षापूर्वकं पराजितम्। भारतीय-दलं सप्‍तमवारं श्रृंखलाम् इमां विजितवान्। दलनायकस्‍य रोहितशर्मण: नेतृत्‍वे भारतेन भव्यप्रदर्शनं विहितम्।
विश्वविचारमथनस्य शुभारम्भः अभवत् I
-डा. शङ्कर नारायणः
      भारतीयसंस्कृतेः अवगमनार्थं  मानसिकावरोधस्य विराम: सम्पादनीयः इति उपराष्ट्रपतिना वेङ्कय्यनायिटु महाभागेन उक्तम्। संस्कृति: नाम जीवनपद्धतिः भवतिI राञ्जी खेल् गाविल् प्रदेशे विश्व मन्थन् कार्यक्रमस्य उत्घाटनं कुर्वन्नासीत् सः।
     भारतीयाः इतिहासज्ञाने बद्धश्रद्धाः भवेयुः। माता, भुमिः, भाषा, गुरुः इत्यादि विषयेषु महत्वपूर्ण स्थानमत्रास्ति इति सर्वैः अवगन्तव्यम् इति स सूचितवान्। झार् खण्ड मुख्यमन्त्री रघुबर्दासः अध्यक्षः आसीत्। प्रज्ञाप्रवाहस्य राष्ट्रियाध्यक्षः जे नन्दकुमारः विषयस्य अवतरणम् अकरोत्। राज्जी केन्द्रीय विश्वविद्यालयस्य कुलपतिः  नन्दकुमार इन्दुः भाषणम् अकरोत्।
गुड्मोणिङ् मास्तु; नमस्ते वदतु- उपराष्ट्रपतिः
-रम्या पी यू

         पनाजी>गुड्मोणिङ्,गुड् आफ्टर्नूण्, गुड्नैट् इत्यादीनां स्थाने भारतीयाः नमस्कारं वदेयुः इति उपराष्ट्रपतिः वेङ्कय्य नायिडुः। शुक्रवासरे गोवायाम् एन् ऐ टी मध्ये प्रवृत्तायाम् बिरुददानवेलायाम् भाषमाणः आसीत् सः। "आङ्गलभाषाविरोधी नाहम्" किन्तु, भारतीयेषु ब्रिटिशकोलनिवत्करणस्य मनोभावः मा भूयादिति च उपराष्ट्रपतिः उक्तवान्। "नमस्कारः" भारतसंस्कारस्य अनुयोज्यः। प्रातः, सायं, रात्रौ वा समयभेदं विना एतत् उपयोक्तुं च शक्यते। समीपदिनेषु मातृभाषासंरक्षणविषये भाषमाणे आङ्गलेयं "व्याधिः"इति अनेन उद्घुष्टेति माध्यमाः आवेदयन्, तस्मिन् विषयेपि विशदीकरणम् अयच्छत् सः। व्याधिरिति सूचितेन आङ्गलेयं नोद्दिष्टम् ब्रिटिशशासनानन्तराङ्गलेयमनोभावमुद्दिश्य  तथा कथितमित्यपि सः व्यक्तीकृतवान्। परम्परागतबिरुददानवेलायां छात्रैः ध्रियमाणं कृष्णवर्णीयं प्रावारकं नासीत् इत्यतः एन् ऐ टी अधिकारिणः अभिनन्दितवान् सः।
आधार् परियोजना उपाधितया अङ्गीकृता। 
  नवदिल्ली>  भारते विधानविधेयीकृता व्यक्तिगताभिज्ञानप्रमाणीकरणपरियोजना 'आधार्' नामिका शासनव्यवस्थानुसृता इति सर्वोच्चन्यायालयस्य शासनसंविधानपीठेन विहितम्। आर्थिकानुकूल्यमभिव्याप्य सर्वेषां सर्वकारसाहाय्यानां 'पान् कार्ड्', आयकरविवरणसमर्पणम् इत्येतेषां च 'आधार' पत्रम् आधारभूतं अवश्यं भविष्यति। किन्तु वित्तकोशसंख्यानं, जङ्गमदूरवाणी, इत्यादिषु आधारसंख्यासंयोजनं नावश्यकम्। तथा च विद्यालयप्रवेशः, विविधाः परीक्षाः इत्येषां आधार् नावश्यकम्। 
    मुख्यन्याधीशः दीपक् मिश्रः, न्यायाधीशाः ए के सिक्री, ए एम् खान् विल्करः, अशोकभूषणः, डि वै चन्द्रचूडश्च शासनसंविधानपीठे अन्तर्गताः आसन्। न्यायमूर्ति डि वै चन्द्रचूडं विहाय सर्वे अपि परियोजनायाः साधुत्वम् अङ्गीकृतवन्तः। किन्तु एषा परियोजना शासनसंविधानविरुद्धमिति चन्द्रचूडस्य मतम्।

Friday, September 28, 2018

लोकपालनियुक्तिः - अष्टाङ्गनिरीक्षकसमितिः आयोजिता।
    नवदिल्ली>  लोकपालनियुक्तिमनुबन्ध्य केन्द्रसर्वकारेण अष्टाङ्गनिरीक्षण समितिः आयोजिता। सर्वोच्चन्यायालयस्य भूतपूर्वन्यायाधीशः रञ्जनप्रकाश देशाय् वर्या एव समित्यध्यक्षा। लोकपालस्य अध्यक्षं तथा  अङ्गान् च निर्देष्टुमेव समितिः अयोजिता I
      एस् बि ऐ वित्तकोशास्य भूतपूर्वाध्यक्षा अरुन्धती भट्टाचार्यः प्रसार भारती अध्यक्षः सूर्यप्रकाशः ऐ एस् आर् ओ अध्यक्षः ए एस् किरण् कुमारः अलहबाद् उच्च न्यायालयस्य भूतपूर्व न्यायाधीशः साखा रासिङ् यादव् गुजरात् राज्यस्य आरक्षकसेनायाः भूतपूर्वाध्यक्षः षबीर् हुसैन् एस् खन्ड्वावाला राजस्थानराज्यस्य भूतपूर्व ऐ ए एस् उद्योगी ललित् के पन्वार् च समित्याङ्गेषु प्रमुखाः भवन्ति। लोकपाल नियममनुसृत्य निर्वाचनमेव भविष्यति इति केन्द्र मन्त्रिणा जितेन्द्रसिंहेण उक्तम्।
सार्वजनिकप्रवर्तकानां   अलीककर्मान्वेषण-संविधानमेव भवति लोकपालः। 
सर्वश्रेष्ठ यु एन् पुरस्कारप्रभायां भारतप्रधानमन्त्री तथा फ्रञ्च् राष्ट्रपतिश्च।.
-बिजिलाकिषोरः
    यूनैटड् नेषन्स्>  ऐक्यराष्ट्र सभायाः सर्वश्रेष्ठ-पारिस्थितिक पुरस्कारः (चाम्प्यन्स् ओफ्‌ द एर्त्) भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिवर्याय तथा फ्रञ्च् राष्ट्रपतिने इम्मानुवेल्  माक्रोण् वर्याय च। पारिस्थितिक-प्रवर्तनेषु समग्रपरिवर्तनाय प्रयत्नं कृतवद्भ्यः प्रमुखेभ्यः दीयते चाम्प्यन्स् ओफ् द एर्त् इति पुरस्कारः I
     अन्ताराष्ट्र सौरोर्जसख्ये नेतृत्वं कृतम् तथा २०२२तमे वर्षे एकवारोपयोगिनां पलास्तिकवस्तूनाम् उपयोगं निराकरिष्यति इति प्रख्यापनं च भवति  नरेन्द्रमोदिनः पुरस्कारप्राप्तेः आधारः। कोच्ची अन्ताराष्ट्र-व्योमनिलयाय यू एन् सम्माननं प्राप्तम् अस्ति। पुनरुपयुक्त ऊर्जोपभोगनिर्णायकप्रवर्तनोपरि भवत्ययं पुरस्कारः।

Thursday, September 27, 2018

चतुर्वयस्काय द्विचक्रिका संरक्षणाय यूपस्य आरक्षणं कृत्वा अज्ञातजनः।
    एकसंवत्सरं यावत् मार्गपार्श्वे यूपस्य समीपे स्वस्य लघुद्विचक्रिकायानं संरक्षितं आसीत्। एकस्मिन् दिने स्वस्य 'सैक्किल्' यानस्य संस्थापनाय यूपसमीपं गत वान्‌ सः अत्भुतस्तब्धः अभवन्। येन केनापि यूप पार्श्वः स्वस्यकृते आरक्षणं कृतमिति भित्तिपत्रिका यूपे लिम्पितम् आसीत्। स्वकीय सैक्किल् यानस्य चित्रं तस्मिन् यूपे लिम्प्य आसीत् अज्ञातमनुष्यस्य आरक्षणम्। केन तस्यकृते एवम् आचरितम् इति तस्य न जानाति। 
स्वस्यपुत्रस्य द्विचक्रिका संस्थापनाय  अज्ञातस्य आरक्षणं जर्मन् भाषायाः सुज्ञाता साहित्यरचयिता क्रिस्टि डेय्स् सार्वजनिकमाध्यम द्वारा प्रकाशितम्। 'तत् लिम्पकम् दृष्ट्वा मम पुत्रः नितरां तुष्यति' इति क्रिस्टिं उद्धृत्य बि बि सि दृश्यवाहिन्या आवेदितम्।
अणुनाशकोऽयं सूर्यप्रकाशः, तत्समय संप्रेषणम्।
-बिजिला किषोरः
      नवदिल्ली>  न्यायालयीय गौरवतरकार्यक्रमाणां तत्समयसंप्रेषणानुमतिः प्रदत्ता।  इमं विषयं विचिन्त्य तदीयक्रियाविधीन् संरच्य नियमनिर्माणाय  उच्चन्यायालयस्य पञ्जीकरणाधिकारी आदिष्टवान् अस्ति।  प्रमुखन्यायाधीशेन दीपक् मिश्रेण सह नियुज्यमानत्रयाङ्गपीठः आदेशः अगमयत्। 
      न्यायालयसंस्थायाः  सुतार्यतां प्रोत्साहनाय अणुनाशकः भवत्ययं सूर्यप्रकाशः इति तत्समयसंप्रेषणम् उद्‌दिश्य न्यायालयेन अभिमतः प्रकाशितः। न्यायालयप्रक्रमान् अधिकृत्य छात्रेभ्यः साधारणजनेभ्यश्च अध्ययनाय एतत् उपकारकं भवेत्  इति न्यायाधीशाः चिन्तयन्ति।
मृत्युः एकादश जातः। हिमाचलराज्ये प्रलये बस् यानानि गतानि।
     षिंला->हिमाचल प्रदेश राज्ये शनिवारादारभ्य जातया अतिवृष्ट्या जाते प्रलये एकादशजनाः मृताः।प्रलये विनोदयात्रा बस् यानं अप्लवत्।स्थगितं यानं जलमर्देन नद्यां अपतत्। तानि दृश्यानि समूहमाध्यमेषु प्रसारयन्ति।