OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 30, 2018

रोहिङ्यानां 'बयोमेट्रिक्' सूचनाः सङ्कलितुं राज्यानां निर्देशः। 
     नवदिल्ली  >  भारते वर्तमानानां रोहिङ्यन् इस्लामिकानां तथा अनधिकृताधिनिवेशितानां च 'बयोमेट्रिक्' सूचनाः सङ्कलयितुं राज्यानि प्रति केन्द्रगृहमन्त्रालयस्य निर्देशः। राष्ट्रे सर्वत्र सुरक्षादृढीकरणमेव लक्ष्यः इति विशदीक्रियते। 
    आराष्ट्रम् अटनं कुर्वतां अनधिकृताधिनिवेशितजनान् प्रत्यभिज्ञातुम् एषा योजना उपक्रियते । ऐक्यराष्ट्रसभायाः अधिनिवेशविभागे पञ्जीकृताः चतुर्दशसहस्रं रोहिङ्ग्याः भारते वर्तन्ते। किन्तु चत्वारिंशत् सहस्रं जनाः अनधिकृतरीत्या अत्र वसन्तीति सूच्यते।  राष्ट्रम् अधिवेशितेषु  रोहिङ्ग्यन् अभयार्थिषु केचन नीतिविरुद्धप्रवर्तनेषु भागं कुर्वन्ति, राष्ट्रं प्रति तेषां प्रवाहं नियन्त्रितुं सुरक्षाबलं नियुक्तमिति च गृहमन्त्रिणा राजनाथसिंहेन पूर्वं विधानभायामुक्तमेसीत्।
इन्डोनेष्यायां भूकम्पः सुनामी च - चतुश्शतं मरणानि। 
   जक्कार्ता  >  इन्डोनेष्यन् राष्ट्रस्य सुलवेसीनामके द्वीपे गतदिने संवृत्तस्य शक्तस्य भूकम्पस्य पश्चात् सञ्जाते सुनामीनामके समुद्रविक्षोभे महान् विनाशः। असंख्यानि भवनानि राक्षसीये तरङ्गाघाते विशीर्णानि। चतुश्शताधिकाः जनाः मृताः। 
       भूकम्पमापिन्यां ७.५तीव्रताम् अङ्किते भूचलने सप्तपादपरिमितोन्नतौ तरङ्गाः जाताः। मध्यसुलवेसीप्रविश्यायाः पालु , डोंगला  प्रदेशौ एव मुख्यतया दुष्प्रभावितौ जातौ। डोङ्गला नगरात् ५६ कि मी दूरे भौमोपरितलात् दशकिलोमीटर् परिमितायाम् अगाधतायामेव भूकम्पस्य प्रभवकेन्द्रमिति सूच्यते।

Saturday, September 29, 2018

इन्डोनेष्यायाम् अतितीव्रभूचलनं तेन सह सुनामी ३८५ जनाः हताः।
-बिजिला किषोरः
 
    जक्कार्त > इन्डोनेष्यायाः सुलवेसी द्वीपे प्रवृत्तस्यभूचलनस्य पृष्टतः सुनामी च। ए एफ् पि वार्ता संस्थया वार्ता प्रकाशिता।  भूकम्पमापिन्यां ७.७ भूचलनस्य शक्तिः अङ्किता। अतितीव्रभूचलनं भविष्यतीतिदुरन्तन्यूनीकरणसंस्थयापूर्वसूचना दत्ता आसीत्। भूचलने अनेकानि भवनानि भग्नान्यभवन्। मध्य-पश्चिम मण्डलेषु विद्यमानजनान्  सुरक्षितस्थानं प्रापयन्तुं प्रेरयन्तःअधिकृताः।   प्रथम चलनानन्तरं
पुनरपि प्रवृत्ते  चलने मापिन्यां ७.५ सूचितम्। ४०० संख्याकाः जनाः मृताः इति वार्ताः बहिरागच्छतिl  दशपादमानात् उन्नत्‍यां सागरतरङ्गाः उन्ननताः अभवन्। जनाः परिभ्रान्ताः सन् धावमानाः इति  बहिरागतानि दृश्यखण्डानि सूचयन्ति। उपपञ्चशतं जनाः व्रणिताः अभवन्।
एष्याचषकक्रिकेटस्पर्धायां भारतस्य विजयः
-पुरुषोत्तम शर्मा
ऐषम: एष्याचषकक्रिकेचस्पर्धामालिका भारतेन विजिता। भारत-बाङ्ग्‍लादेशयोर्मध्‍ये विहितायां रोमाञ्चयुतायां निर्णायकस्‍पर्धायाम् अन्तिमचक्रीये  अन्तिमकन्दुकं यावत् दलद्वयस्य सङ्घट्ट: दृष्टिपथमागत:। विगतेह्नि क्रीडितायां निर्णायकस्पर्धायां भारतेन बाङ्ग्लादेशवृन्दं क्रीडकत्रयस्य सुरक्षापूर्वकं पराजितम्। भारतीय-दलं सप्‍तमवारं श्रृंखलाम् इमां विजितवान्। दलनायकस्‍य रोहितशर्मण: नेतृत्‍वे भारतेन भव्यप्रदर्शनं विहितम्।
विश्वविचारमथनस्य शुभारम्भः अभवत् I
-डा. शङ्कर नारायणः
      भारतीयसंस्कृतेः अवगमनार्थं  मानसिकावरोधस्य विराम: सम्पादनीयः इति उपराष्ट्रपतिना वेङ्कय्यनायिटु महाभागेन उक्तम्। संस्कृति: नाम जीवनपद्धतिः भवतिI राञ्जी खेल् गाविल् प्रदेशे विश्व मन्थन् कार्यक्रमस्य उत्घाटनं कुर्वन्नासीत् सः।
     भारतीयाः इतिहासज्ञाने बद्धश्रद्धाः भवेयुः। माता, भुमिः, भाषा, गुरुः इत्यादि विषयेषु महत्वपूर्ण स्थानमत्रास्ति इति सर्वैः अवगन्तव्यम् इति स सूचितवान्। झार् खण्ड मुख्यमन्त्री रघुबर्दासः अध्यक्षः आसीत्। प्रज्ञाप्रवाहस्य राष्ट्रियाध्यक्षः जे नन्दकुमारः विषयस्य अवतरणम् अकरोत्। राज्जी केन्द्रीय विश्वविद्यालयस्य कुलपतिः  नन्दकुमार इन्दुः भाषणम् अकरोत्।
गुड्मोणिङ् मास्तु; नमस्ते वदतु- उपराष्ट्रपतिः
-रम्या पी यू

         पनाजी>गुड्मोणिङ्,गुड् आफ्टर्नूण्, गुड्नैट् इत्यादीनां स्थाने भारतीयाः नमस्कारं वदेयुः इति उपराष्ट्रपतिः वेङ्कय्य नायिडुः। शुक्रवासरे गोवायाम् एन् ऐ टी मध्ये प्रवृत्तायाम् बिरुददानवेलायाम् भाषमाणः आसीत् सः। "आङ्गलभाषाविरोधी नाहम्" किन्तु, भारतीयेषु ब्रिटिशकोलनिवत्करणस्य मनोभावः मा भूयादिति च उपराष्ट्रपतिः उक्तवान्। "नमस्कारः" भारतसंस्कारस्य अनुयोज्यः। प्रातः, सायं, रात्रौ वा समयभेदं विना एतत् उपयोक्तुं च शक्यते। समीपदिनेषु मातृभाषासंरक्षणविषये भाषमाणे आङ्गलेयं "व्याधिः"इति अनेन उद्घुष्टेति माध्यमाः आवेदयन्, तस्मिन् विषयेपि विशदीकरणम् अयच्छत् सः। व्याधिरिति सूचितेन आङ्गलेयं नोद्दिष्टम् ब्रिटिशशासनानन्तराङ्गलेयमनोभावमुद्दिश्य  तथा कथितमित्यपि सः व्यक्तीकृतवान्। परम्परागतबिरुददानवेलायां छात्रैः ध्रियमाणं कृष्णवर्णीयं प्रावारकं नासीत् इत्यतः एन् ऐ टी अधिकारिणः अभिनन्दितवान् सः।
आधार् परियोजना उपाधितया अङ्गीकृता। 
  नवदिल्ली>  भारते विधानविधेयीकृता व्यक्तिगताभिज्ञानप्रमाणीकरणपरियोजना 'आधार्' नामिका शासनव्यवस्थानुसृता इति सर्वोच्चन्यायालयस्य शासनसंविधानपीठेन विहितम्। आर्थिकानुकूल्यमभिव्याप्य सर्वेषां सर्वकारसाहाय्यानां 'पान् कार्ड्', आयकरविवरणसमर्पणम् इत्येतेषां च 'आधार' पत्रम् आधारभूतं अवश्यं भविष्यति। किन्तु वित्तकोशसंख्यानं, जङ्गमदूरवाणी, इत्यादिषु आधारसंख्यासंयोजनं नावश्यकम्। तथा च विद्यालयप्रवेशः, विविधाः परीक्षाः इत्येषां आधार् नावश्यकम्। 
    मुख्यन्याधीशः दीपक् मिश्रः, न्यायाधीशाः ए के सिक्री, ए एम् खान् विल्करः, अशोकभूषणः, डि वै चन्द्रचूडश्च शासनसंविधानपीठे अन्तर्गताः आसन्। न्यायमूर्ति डि वै चन्द्रचूडं विहाय सर्वे अपि परियोजनायाः साधुत्वम् अङ्गीकृतवन्तः। किन्तु एषा परियोजना शासनसंविधानविरुद्धमिति चन्द्रचूडस्य मतम्।

Friday, September 28, 2018

लोकपालनियुक्तिः - अष्टाङ्गनिरीक्षकसमितिः आयोजिता।
    नवदिल्ली>  लोकपालनियुक्तिमनुबन्ध्य केन्द्रसर्वकारेण अष्टाङ्गनिरीक्षण समितिः आयोजिता। सर्वोच्चन्यायालयस्य भूतपूर्वन्यायाधीशः रञ्जनप्रकाश देशाय् वर्या एव समित्यध्यक्षा। लोकपालस्य अध्यक्षं तथा  अङ्गान् च निर्देष्टुमेव समितिः अयोजिता I
      एस् बि ऐ वित्तकोशास्य भूतपूर्वाध्यक्षा अरुन्धती भट्टाचार्यः प्रसार भारती अध्यक्षः सूर्यप्रकाशः ऐ एस् आर् ओ अध्यक्षः ए एस् किरण् कुमारः अलहबाद् उच्च न्यायालयस्य भूतपूर्व न्यायाधीशः साखा रासिङ् यादव् गुजरात् राज्यस्य आरक्षकसेनायाः भूतपूर्वाध्यक्षः षबीर् हुसैन् एस् खन्ड्वावाला राजस्थानराज्यस्य भूतपूर्व ऐ ए एस् उद्योगी ललित् के पन्वार् च समित्याङ्गेषु प्रमुखाः भवन्ति। लोकपाल नियममनुसृत्य निर्वाचनमेव भविष्यति इति केन्द्र मन्त्रिणा जितेन्द्रसिंहेण उक्तम्।
सार्वजनिकप्रवर्तकानां   अलीककर्मान्वेषण-संविधानमेव भवति लोकपालः। 
सर्वश्रेष्ठ यु एन् पुरस्कारप्रभायां भारतप्रधानमन्त्री तथा फ्रञ्च् राष्ट्रपतिश्च।.
-बिजिलाकिषोरः
    यूनैटड् नेषन्स्>  ऐक्यराष्ट्र सभायाः सर्वश्रेष्ठ-पारिस्थितिक पुरस्कारः (चाम्प्यन्स् ओफ्‌ द एर्त्) भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिवर्याय तथा फ्रञ्च् राष्ट्रपतिने इम्मानुवेल्  माक्रोण् वर्याय च। पारिस्थितिक-प्रवर्तनेषु समग्रपरिवर्तनाय प्रयत्नं कृतवद्भ्यः प्रमुखेभ्यः दीयते चाम्प्यन्स् ओफ् द एर्त् इति पुरस्कारः I
     अन्ताराष्ट्र सौरोर्जसख्ये नेतृत्वं कृतम् तथा २०२२तमे वर्षे एकवारोपयोगिनां पलास्तिकवस्तूनाम् उपयोगं निराकरिष्यति इति प्रख्यापनं च भवति  नरेन्द्रमोदिनः पुरस्कारप्राप्तेः आधारः। कोच्ची अन्ताराष्ट्र-व्योमनिलयाय यू एन् सम्माननं प्राप्तम् अस्ति। पुनरुपयुक्त ऊर्जोपभोगनिर्णायकप्रवर्तनोपरि भवत्ययं पुरस्कारः।

Thursday, September 27, 2018

चतुर्वयस्काय द्विचक्रिका संरक्षणाय यूपस्य आरक्षणं कृत्वा अज्ञातजनः।
    एकसंवत्सरं यावत् मार्गपार्श्वे यूपस्य समीपे स्वस्य लघुद्विचक्रिकायानं संरक्षितं आसीत्। एकस्मिन् दिने स्वस्य 'सैक्किल्' यानस्य संस्थापनाय यूपसमीपं गत वान्‌ सः अत्भुतस्तब्धः अभवन्। येन केनापि यूप पार्श्वः स्वस्यकृते आरक्षणं कृतमिति भित्तिपत्रिका यूपे लिम्पितम् आसीत्। स्वकीय सैक्किल् यानस्य चित्रं तस्मिन् यूपे लिम्प्य आसीत् अज्ञातमनुष्यस्य आरक्षणम्। केन तस्यकृते एवम् आचरितम् इति तस्य न जानाति। 
स्वस्यपुत्रस्य द्विचक्रिका संस्थापनाय  अज्ञातस्य आरक्षणं जर्मन् भाषायाः सुज्ञाता साहित्यरचयिता क्रिस्टि डेय्स् सार्वजनिकमाध्यम द्वारा प्रकाशितम्। 'तत् लिम्पकम् दृष्ट्वा मम पुत्रः नितरां तुष्यति' इति क्रिस्टिं उद्धृत्य बि बि सि दृश्यवाहिन्या आवेदितम्।
अणुनाशकोऽयं सूर्यप्रकाशः, तत्समय संप्रेषणम्।
-बिजिला किषोरः
      नवदिल्ली>  न्यायालयीय गौरवतरकार्यक्रमाणां तत्समयसंप्रेषणानुमतिः प्रदत्ता।  इमं विषयं विचिन्त्य तदीयक्रियाविधीन् संरच्य नियमनिर्माणाय  उच्चन्यायालयस्य पञ्जीकरणाधिकारी आदिष्टवान् अस्ति।  प्रमुखन्यायाधीशेन दीपक् मिश्रेण सह नियुज्यमानत्रयाङ्गपीठः आदेशः अगमयत्। 
      न्यायालयसंस्थायाः  सुतार्यतां प्रोत्साहनाय अणुनाशकः भवत्ययं सूर्यप्रकाशः इति तत्समयसंप्रेषणम् उद्‌दिश्य न्यायालयेन अभिमतः प्रकाशितः। न्यायालयप्रक्रमान् अधिकृत्य छात्रेभ्यः साधारणजनेभ्यश्च अध्ययनाय एतत् उपकारकं भवेत्  इति न्यायाधीशाः चिन्तयन्ति।
मृत्युः एकादश जातः। हिमाचलराज्ये प्रलये बस् यानानि गतानि।
     षिंला->हिमाचल प्रदेश राज्ये शनिवारादारभ्य जातया अतिवृष्ट्या जाते प्रलये एकादशजनाः मृताः।प्रलये विनोदयात्रा बस् यानं अप्लवत्।स्थगितं यानं जलमर्देन नद्यां अपतत्। तानि दृश्यानि समूहमाध्यमेषु प्रसारयन्ति।
लूक्का मोड्रिच्च् 'फिफा'याः श्रेष्ठक्रीडकः। 
      लण्टन् > अस्मिन् संवत्सरे भुवनस्य  श्रेष्ठतमः पादकन्दुकक्रीडकः क्रोडयेष्यादलस्य मध्यभागक्रीडकः लूक्का मोड्रिच्च्! लण्टन् नगरे फिफासंस्थया एवायं पुरस्कारः प्रख्यापितः । रष्या भुवनचषक-पादकन्दुकक्रीडायां क्रोयेष्यादलस्य अन्तिमपादप्राप्तेः तथा 'रयल् माड्रिड्' दलस्य चाम्प्यन्स् लीग् विजयस्य च कारणभूतः आसीदयं त्रयस्त्रिंशत् वयस्कः। 
    श्रेष्ठा वनिताक्रीडकपुरस्कारं  ब्रसील् राष्ट्रस्य वनिताक्रीडकदलस्य नायिका मार्ता वियेरा डासिल्वा इत्याख्या प्राप्तवती।
दण्ड्यापराधव्यवहारवर्तिनः अपि स्पर्धासमर्थाः भवेयुः - सर्वोच्च न्यायालयः।
       नवदिल्ली >  सर्वेच्चन्यायालयस्य शासनसंविधानपीठेन विहितं यत् ये दण्ड्यापराधव्यवहारेषु उपधाम् अभिमुखीकुर्वन्ति तान्  निर्वाचनप्रतिस्पर्धायाः निवारयितुं न शक्यते। यतः जनप्रतिनिधिसभायाः अधिकारान् अतिक्रमितुं न्यायालयस्य शासनसंविधानपरो व्याघातः अस्ति। किञ्च तीव्रापराधेषु उपधाविधेयानां  नैतिकमण्डलप्रप्तिं अवरोद्धुम् विधानसभया  अनुशासनं कार्यम्।
     राजनैतिकमण्डले वर्तमाना अपराधिनः जनाधिपत्याय भीषा इति स्पष्टीकृतेन नीतिपीठेन तन्नियन्त्रयितुं मार्गनिर्देशा अपि विज्ञापिताः।  स्थानाशिनः निर्वाचनाभियोगेन निर्दिष्टे पत्रे तेषां सर्वे वृत्तान्ताः दातव्याः! यदि स्थानाशी कस्यचित् राजनैतिक दलस्य प्रतिनिधिः तर्हि तस्मिन् वर्तमानाः अपराधव्यवहारवृत्तान्ताः सूचयितव्याः!

Wednesday, September 26, 2018

कमान्टर् अभिलाष् टोमी रक्षितः।
        'गोल्डन् ग्लोब् रेसिङ्' स्पर्धायाः मध्ये क्षतः नाविकः अभिलाष् टोमी रक्षितः इति नाविक सेनायाः ट्वीट् ट्विट्टर् मध्ये समागतम् । फ्रञ्च् फिषरीस् पेट्रोलिङ् वेसल् ओसरीसेन एव अभिलाषः रक्षितः।
       इदानीं सह सुरक्षितः इति नाविकसेनया विशदीकृतः। फ्रञ्च् मत्स्य बन्धनयानात्‌  आस्ट्र्डां द्वीपे सः नीतः। चिकित्सादिकाः आरब्धाःI पटनौकायाः पटदण्डः भग्नीभूय मध्यभङ्गेन पीडितः अस्ति अतः 'स्ट्रच्यर्' आवश्यकम् इति फ्रान्स् राष्ट्रस्य धावन नियन्त्रण संस्थां प्रति न्यवेदित वानासीत् ।
अतिवृष्टिः,जलोपप्लवेन तटाकात्  रासमालिन्यानि उत्स्रवति।
-बिजिलाकिषोरः
     बेङ्गलूरु> सोमवासरे प्रवृत्तातायां अतिवृष्ठ्यां बलन्धूर् तटाकः  जलपूर्णः जातः। ततः  रासमालिन्यायुक्तजलं वीथ्यां  अपतत्। रासमालिन्यस्य दुष्प्रभावेन तटाकस्य जलं फेनकायते । रास प्रवर्तनेन वायुः मलिनीकृतम्, वाहनचालनं दुष्करमभवत्।
        नगरे विद्यमान मलिनीकृततटाकः भवत्ययम्। अस्य पार्श्वे १४०० कोटि रूप्यकस्य पानजलपद्धतिः अपि वर्तते। सरसितः अग्निबाधा  सर्वसाधारणं भवति।  ५००० सैनिकानां सप्तहोरापर्यन्तप्रयत्नेन एव जनुवरिमासे प्रवृत्तातायाः अग्निबाधायाः निवारणमभवत्।
रेलयाने स्त्रीणाम् प्रति अतिक्रमः उग्रदण्डनं स्यात्।
                          रम्या पी यू। 
          नवदिल्ली > रेलयानेषु स्त्रियः उपरि अतिक्रमं कुर्वतां कृते वर्षत्रयाणां कारागारवासं  प्राप्तुं व्यवस्था क्रियमाणा वर्तते। एतदनुबन्धनिवेदनं रेलसंरक्षणसेना (आर् पी एफ्) अङ्गीकाराय समर्पयत्। ये तथा अतिक्रमं कुर्वन्ति तेषामुपरि कर्कशदण्डनं विधातुम् अनुमतिः आवश्यकी इति तेषाम् अभिप्रायः। एतदर्थं विद्यमानरेलनियमेषु परिवर्तनं स्वीकरणीयेति आर् पी एफ् आवश्यमुन्नयति।
         अधुना रेलयाने स्रीणामुपरि अतिक्रमाय दीयमानं दण्डनम् भारतदण्डननियमानुसारम् (ऐ पी सी) भवति। एवंकृतः अक्रमी अधिकतमतया एकवर्षस्य दण्डनम् एव अधुना सहते। रेलयाने स्त्रीणामुपरि अतिक्रमाः वर्धिताः इत्यस्मात् एषः निर्देशः। निर्देशे अङ्गीकृते नाम रेलारक्षकाणां साहाय्यं विनैव अक्रमिणः उपरि दण्डनविधिम् निर्देष्टुम् आर् पी एफ् शक्नोति।

Tuesday, September 25, 2018

युवकस्य अनियन्त्रित-द्विचक्रिका चालनेन
राजवीथ्यां वाहनापघातः
-बिजिलाकिषोरः
       कोट्टयम् > मूवाटुपुष़ माराडिदेशे युवकस्य नियन्त्रणाधीत द्विचक्रिका चालनेन वाहनापघातः जातः। अपघातानन्तरं आतुरालयगमनकाले युवकस्य   मृत्युः अभत् । सर्ववकारस्य ( के एस् आर् टी सी) यानेन सह असीत् द्वि चक्रिरिकायाः घट्टनम्। यानं सम्पूर्णतया अग्निना नाशितम्।
       बस् याने विद्यमानाः यात्रिकाः  प्रदेशवासिभिः रक्षिताः। मूवाटुपुष़ातः कोट्टयपर्यन्तं गम्यमान यानमासीत् इदम्। इन्धनसम्भरणीतः डीसल् बहिर्निसृमिति ज्वलनस्य कारणम्। अग्निशमनसेनायाः अवसरोचित- प्रयत्नेन दुरन्तस्य व्याप्तिः न्यूनीकृता।