OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 25, 2018

हिमाचलप्रदेशे  शक्ता वर्षा, भूपातश्चI
           षिम्ल > वृष्टिदुरितात् भीत्या हिमाचल प्रदेशः। अविरतं वर्षन्तं वृष्ट्यां राज्यस्य विविधभागेषु जलोपप्लवः भूपातः च अभवताम्। पृथक् भूयस्थाषु बन्धितान् मोचितुं रक्षाप्रवर्तनानि अनुवर्तन्ते। प्रधाननद्यः कूल्याः च सम्पूर्णाः अभवन्। अष्ट जनपदेषु विद्यालयानां विरामः ख्यापितः इति वार्ताहरसंस्थया ए एन् ऐ द्वारा आवेदितम्।

Monday, September 24, 2018

आयुष्मान् भारतयोजना  प्रधानमन्त्रिणा मोदिना उद्‌घाटिताl
         राञ्ची > सर्वकारस्य अधीने विद्यमानासु परियोजनासु भुवनस्य बृहत्तमा योजनेति विशेषेण 'आयुष्मान् भारत् - प्रधानमन्त्री जन आरोग्य योजना' (A B - P M J A Y) प्रधानमन्त्रिणा नरेन्द्रमोदिना समुद्घाटिता। लोके सर्वत्र विद्यमानाः गवेषकाः सामाजिकशास्त्रज्ञाश्च इमां परियोजनाम् आदर्शों कारयिष्यन्तीति उद्घाटनसमारोहे प्रधानमन्त्रिणा प्रोक्तम्। पण्डित दीनदयालु उपाध्यायस्य जन्मदिने, सेप्टम्बर् २५ दिनाङ्के योजनेयं प्राबल्ये भविष्यति। आर्थिकमण्डले पराङ्मुखे वर्तमानेभ्यः पञ्चाशत्कोटि भारतीयेभ्यः आरोग्यक्षेमविधानपरिरक्षां प्रमाणीकरोत्यनया योजनया। 
     योजनाव्ययस्य ६०% केन्द्रसर्वकारेण,  ४०% राज्यसर्वकारेण  च धार्यते।२२ राज्येषु केन्द्रशासनप्रदेशेषु अपि अस्याः प्रारम्भप्रवर्तनानि आरब्धानि।

Sunday, September 23, 2018

 संस्कृताध्ययनाय केन्द्रसर्वकारीय साहाय्यः 
         नवदिल्ली > विविधकक्ष्यासु संस्कृतं अध्येतृभ्यः छात्रवृत्तिः लभते मानवविभव - मन्त्रालयस्य नियन्त्रणे विद्यमानेन राष्ट्रिय संस्कृतसंस्थानम्   इति विश्वविद्यालयेन सह योजनेऽयं समारभ्यते। गतवर्षादारभ्य संस्कृताध्ययनं  कुर्वतः अस्मिन्वर्षे अध्ययनम् अनुवर्तमाणः  छात्राणां कृते एव छात्रवृत्तिः। प्रतिशतं षष्ट्यङ्कगृहीताः एव अर्हाः। पृष्टतः विद्यमानेभ्यः ५५%  पट्टिक विभागे अन्तर्गतेभ्यः ५०%  अङ्कः च आवश्यकः।
           अङ्गीकृतविद्यालयाः ओक्तोबर् ३१तम दिनाङ्कतः पूर्वं पञ्जीकरणं कार्यम् । छात्राणां कृते पञ्जीकरणय नवंबर् ९ दिन पर्यन्तं समयः अस्ति।
छात्रवृत्ति क्रमः
९-१०- २५०
प्राक्शास्त्री / +२ - ३००
शास्त्री / BA - ४००
आचार्य /MA  - ५००
विद्यावारिधि /PHD - १५००
इति क्रमेण प्रतिमासं लभते I दूरवाणी - ०११-२८५२२४९९३, संबन्ध्य २२९ , Email- rskssch@yahoo.com , अन्तर्जालद्वारा पञ्जीकरणं कार्यम्। अन्तर्जालसङ्केतः -www.sanskrit.nic.in www.scholarship.nic.in
प्रवेशनानुमतिं निष्कास्यते
-बिजिला किषोरः
           वाषिङ्टण् > आमेरिकाराष्ट्रेट्रेण  एच्  १ बी प्रवेवनानुमतिपत्रं  प्रप्तवतां आश्रितैः दीयमानं  एच् ४ उद्योगानुमतिं निष्कासयितुं विचिन्त्यते। तदर्थं  कोलंबिया न्यायालये सर्वकारेण विषयमिदं ज्ञापितम्।दशसहस्राधिकान् भारतीयान् स्पृशते अयं परिष्कारः।
          २०१५ तः समानरीत्या उद्योगं दत्तवन्तः । ७०००० जनाः एच् ४  अनुमत्या उद्योगं कुर्वन्ति।  प्रतिशतं ९४  स्त्रियः अमेरिकायां उद्योगिनः भवन्ति। एच् ४ प्रवेशनानुमतिं जूण् मासतः निरुद्धयते इति यु एस् आभ्यन्तर संस्थया प्रख्यापितम्। ओबामा सर्वकारेण प्रख्यापितम्  एच् ४ आश्रितानुतिं ड्रम्प् महोदयेन निष्कास्यते।  प्रतिशतं ९० भारतीयाः अनेन दुरितमनुभूयन्ते।
कटनौकाप्रयाणम् - आहतः सञ्चालकः अन्विष्यते। 
    कोच्ची   >   कटनौकया भुवनपर्यटनाय प्रस्थितः भारतीयः नाविकः अभिलाष् टोमी नामकः प्रयाणमध्ये भारतमहासमुद्रे दुर्घटनाविधेयः अभवत्।  तं रक्षितुं प्रयत्नः आरब्धः। 
          'गोल्डण् ग्लोब् रेस्' नामकं कटनौकाप्रयाणं , एकाकी सन् कदापि स्थगनं विना समुद्रेण भुवनं परितः भ्रमणं कृत्वा आरब्धस्थानं प्रत्यागम्यमानः स्पर्धाविशेषः अस्ति अस्यां स्पर्धायां भागं स्वीकर्तुं चितः एकैकः एष्यीयः भवति केरलीयः अभिलाष् टोमी। ओस्त्रेलियास्थात् 'पेर्त्' प्रदेशात् त्रिसहस्रं कि मी दूरे एव अभिलाषः दुर्घटनाग्रस्तः अभवत्। १२० कि मी जवेन घट्टिते वाते नौकास्थः स्तम्भः भग्नः सन् अभिलाषस्य शरीरे पतितः। किन्तु सः समुद्रे सुरक्षितः इति ज्ञातमस्ति।

'आयुष्मान् भारतस्य' उद्घाटनम् अद्य। 

    नवदिल्ली >  राष्ट्रिय स्वास्थ्यरक्षा अभियोजना , 'आयुष्मान् भारतम्' प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य झार्खण्डराज्ये उद्घाट्यते। 
       केन्द्रसर्वकारस्य प्रशंस्यतरा योजना भवतीयम्। राष्ट्रस्य १०.४७ कोटिसंख्याकेभ्यः परिवारेभ्यः प्रतिसंवत्सरं पञ्चलक्षरूप्यकाणां स्वास्थ्यपरिरक्षाप्रदानमेव अस्याः योजनायाः लक्ष्यम्। उद्घाटनस्य अंशतया झार्खण्डराज्यस्य ५७लक्षं जनानां कृते अभियोजनायाः गुणप्राधान्यानि वर्ण्यमानाः लेखाः प्रधानमन्त्रिणा एव प्रेषिताः च।

Saturday, September 22, 2018

द्विचक्रिकाम् अनन्तरं क्रेष्यावः,  तदर्थं सञ्चितं भण्डारे स्थापितं धनम् अनुः आञ्जनेयश्च दुरिताश्वासनिधिम् प्रति दत्तवन्तौ।।
                   रम्या पी यू।  

       पत्तनंतिट्टा> स्वकीयैका द्विचक्रिका तयोः स्वप्नमासीत्। तदर्थम् पितृभ्यां दत्तानि  कानिचिन्नाणकानि निधिसंरक्षणरूपेण भण्डारघटे स्थापितवन्तौ। भण्डारपूर्तिमनुसृत्य द्विचक्रिकासञ्चारस्य स्वप्नयाथार्थ्यदिनाय प्रतीक्षमाणौ चास्ताम्। राज्यनाशकम् प्रलयानन्तरं नवकेरलनिर्माणाय राज्यवासिनःधनांशदानाय सर्वकारेण अपेक्षिताः इति सहोदराविमौ ज्ञातवन्तौ। तदा सङ्कोचं विना कोटुमण् एस् सी वी सर्वकारप्राथमिकविद्यालयस्य द्वितीयकक्ष्याच्छात्रः आञ्जनेयः प्रथमकक्ष्याच्छात्रः अनुः च भण्डारैस्सह विद्यालयम् प्राप्तवन्तौ, दुरिताश्वासनिधये दातुम् अध्यापकहस्ते दत्तवन्तौ च। द्वयोः सम्पाद्यम् आहत्‍य एकोत्तराष्टशतत्रिसहस्रं रूप्यकाणि। एतदपि संयोज्य आहत्य एतस्मात् विद्यालयात् पञ्चदशसहस्रं रूप्यकाणि दुरिताश्वासनिधये प्रायच्छत्।

Friday, September 21, 2018

यु पि राज्ये अज्ञातज्वरेण ७९ जनाः मारिताः।
     लखनौ> उत्तरप्रदेशे गत षट्सप्ताहाभ्यन्तरे अज्ञातज्वरबाधया ७९ जनाः मृताः। स्वास्थ्यविभागेन अत्यधिका जाग्रता ख्यापिता। जनेभ्यः भीतिं निवारयितुं कर्कशप्रक्रमः अपि  स्वीकृतः। स्वास्थ्य-विभागस्य नेतृत्वे जनसञ्चयेषु बोधनप्रक्रिया अपि समारब्धा।
       बेरेलिदेशे एव अधिके जनाः मृताः। तस्मिन् २४, बदौणि २३, हर्दोियि१२, सीतापुरं ८, बेरैचि ६, पिलिभित्ति ४, षा जहान् पुरि २ इतिक्रमेण भवति मृतानां संख्या। ज्वरस्य व्यापनं निवारयितुं प्रक्रमाः स्वीकृताः इति स्वास्थ्य विभागेनोक्तम्। मृत्युकारणं मृतानां विवरणानि इत्यादीनि निरीक्ष्यन्ते इति स्वास्थविभागमन्त्री सिद्धार्थनाथसिंहः अवदत्। सर्वकार-भिषग्वराणां संघत्रयं रोगबाधितमण्डलेषु नियुक्तम्। अवश्यकानि औषधानि वितरणाय समाहृतानि च।
तलाखत्रितयस्य दण्ड्यापराधकल्पनं - त्वरितादेशाय अनुज्ञा।
नवदिल्ली > विपक्षदलस्य वैरुध्यप्रदर्शनेन राज्यसभायां लग्नं तलाखत्रितयविधेयकं  त्वरितादेशाज्ञारूपेण पुनरानेतुं केन्द्रमन्त्रिमण्डलेन अनुज्ञा दत्ता। एकस्मिन्नेव समये  त्रिवारं  विवाहभग्नकं वाक्यम्  (तलाखत्रितयं) उक्त्वा भार्याम् अपास्यते चेत् तत् दण्ड्यापराधो भविष्यति।
     वाचा, लिखितेन, 'इलक्ट्रोणिक्' माध्यमैः,  जङ्गमदूरवाणीभिः वा एकस्मिन् समये तलाखत्रितयोक्तिः संवत्सरत्रयस्य कारागारवासं द्रव्यदण्डं च लभ्यमानः अपराधः भविष्यति! तलाखत्रितयविधेया महिला जीवनांशार्हा भविष्यति। महिलायाः परिवारस्य वा आवेदनानुसारमेव व्यवहारप्रक्रमः स्यात्! यदि भर्ता अनुरञ्जनाय प्रक्रमते तर्हि न्यायाधीशस्य सान्निध्ये अनुरञ्जनं साध्यते। तलाखत्रितयापराधः आरक्षकेभ्यः प्रातिभाव्यार्हः न भवति। महिलायाः आवेदनश्रवणानन्तरम्आवश्य़कं चेत् न्यायाधीशेन प्रातिभाव्यं दातुमर्हति।

Thursday, September 20, 2018

मुसलमानविभागान् एवं सर्वानपि जनविभागान् अन्तर्भावयति हिन्दुत्वम्- इति मोहनभागवतः।
 - रम्या पी यू। 
        नवदिल्ली>  मुसलमानविभागान् तथा सर्वानपि जनविभागान् अन्तर्भावयति हिन्दुत्वमिति राष्ट्रियस्वयंसेवकसङ्घस्य अध्यक्षः मोहनभागवतः। माहम्मदीयानां स्थानराहित्यमिति अवस्था हिन्दुत्वं नास्ति इति सः अवदत्। राष्ट्रिय स्वयं सेवक सङ्घस्य त्रिदिनसञ्चालनस्य द्वितीयदिने भाषमाणः आसीत् सः। हिन्दुत्वमित्युक्ते भारतीयता एव। तच्च सर्वानपि अन्तर्भावयति। समग्रसमाजस्य एकीकरणमेव सङ्घलक्ष्यम्। वसुधैव कुटुम्बकम् सङ्घस्य दर्शनं च। राष्ट्रे जातासु घटनासु सङ्घस्य स्वकीयदर्शनानि वर्तन्ते। किन्तु सर्वकारस्य नयेषु प्रवर्तनेषु वा कदापि न व्यवहरामः। सर्वकारस्य प्रवर्तनानि रा स्व से सङ्घः स्वाधीनीकरोति इति आरोपणानि सः प्राक्षिपद्दूरम्। सङ्घस्य प्रारम्भादेव राजनैतिकात् बहिः तिष्ठामः। सङ्घः कदापि निर्वाचने स्पर्धते। उत निर्वाचनराजनैतिकस्य भागश्च न भवति। कस्यापि राजनैतिकदलस्य भारवाहकाः भवितुं सङ्घप्रवर्तकाः न शक्नुवन्ति सः योजितवान्।
भारत-अफ्गानिस्थान वाणिज्यमार्गगः अस्माकं देशान्तर्भागद्वावारा मास्तु इति पाक्किस्थानः।

    इस्लामाबादः> भारत अफ्खानिस्थान वाणिज्य मार्गाय अस्माकं भूमिः न दास्यतीति पाक्किस्थानेन उक्तम्।  तदर्थं सन्नद्धाः इति माध्यमानां प्रतिवेदनं पाक् विदेशकार्यसचिवेन षा मेहमूद् खुरेषिणा तिरस्कृतम्।
चर्चायै पाक्किस्थानः अफ्गानिस्थानस्य पार्श्वं अगच्छदिति अफ्गाविस्थानस्य यु एस् अम्बासिडर् जोण् बासेन उक्तमिति गतदिने भारतदिनपत्रिकया  प्रतिवेदनं दत्तमासीत्। तदधिकृत्य अस्ति खुरेष्याः वाचः।अस्माकं भूमौ मार्गपुनः स्थापनाय अनुमतिः न दत्ता खुरेषी पाक् दिनपत्रिकायै एक्सैस् ड्रैब्यूणलाय दत्ते साक्षात्कारे अवदत्।

Wednesday, September 19, 2018

दिल्ली मुम्बै नगरयोः निशितान्वेषणे २९ लक्षं रूप्यकाणि गृहीतानि।

   नवदिल्ली>नवदिल्ली मुम्बै  नगरयोः विविधकेन्द्रेषु एन्फोर्समेन्ट् डयरक्टरेट् दलीयैः कृते निशितान्वेषणे २९ लक्षं रूप्यकाणि गृहीतानि। दुबाय् केन्द्रीकृय अलीकदुर्वृत्ताः धनपरिवर्तनं कुर्वन्तीति रहस्यज्ञानं लब्ध्वा एव ED विभागेन निशितान्वेषणं कृतम्। द्वयोः नगरयोः ११ केन्द्रेषु अन्वेषणं समभवत्।  संख्याधिकानि प्रमाणरेखापत्राणि गृहीतानि इति E D कर्मचारिणः अवदन्।
जनतन्त्ररीत्या विद्यालयीय निर्वाचनम्
-बिजिला किषोरः
    ओमश्शेरि>  मुक्कम् शैक्षिकोपजिल्लायां विद्यमाने लिटिल् फ्लवर् माध्यमिक विद्यालये अद्य निर्वाचनं प्रवृत्तम्। मुख्य-निर्वाचनाधिकारिण्याः श्रीमति वत्सम्मा महाभागायाः निर्देशानुसारं छात्राः स्वयमेव एतस्य दायित्वं कृतवन्तः।
       आधुनिक रीत्या सज्जीकृतं निर्वाचनयन्त्रमुपयुज्य निर्वाचनमिदं प्रवृत्तम्।विद्यालयनेता,सह नेता,एवं  कार्यदर्शी, सह कार्यदर्शी  स्थानेषु निर्वाचनमभवत्।आल्बीआन्टणी,आन्मरिया आर्टोम्,फर्हानसाधिक्, शरण्या राजीवः च विजयं प्राप्तवन्तः। सर्वे विद्यालयस्य संस्कृतछात्राः इति अभिमानस्य विषयः।
छात्रान्  निर्वाचन प्रक्रियां ज्ञापयितुमेव सामूहिकशास्त्र विभागेन इदमायोचितम्। औत्सुक्येन सर्वेभागं गृहीतवन्तः।
चित्रम्- निर्वाचनकार्याधिकारी अङ्गुल्योयोपरि मशीं लिम्पति।
भिन्नशेषियुतस्य एकस्य अध्यापकस्य कृते समाजमाध्यमानाम् महत् प्रशंसार्पणम्। 
-रम्या पी यू        
               हस्ते पुस्तकं सुधाखण्डं च गृहीत्वा कक्ष्यां प्रविशन् कश्चन; कस्मिश्चन पाठनीये विषये भाषमाणः यः, सः एव अध्यापकः इति चित्रम् अस्माकम् मनसि स्फुरेत्। किन्तु उत्थाय स्थातुमपि अशक्तः, साक्षादरुणः इव अनूरुः ज्ञानसूर्यस्य सारथिः इव ज्ञानकिरणप्रकाशान् छात्रेषु प्रसारयन्, सर्वोपरि शारीरिकपरिमित्या क्लेशं सहमानः सन्, स्वकीयं क्लेशं अविगणयन्, पाठे मग्नस्य कस्यचन आचार्यस्य महत्वं अधुना समाजमाध्यमेषु चर्चायते। राजस्थानदेशीयस्यास्य सञ्जयसेनः इति नाम। नवाधिकद्विसहस्रतः राजस्थानसर्वकारस्य शिक्षासम्भालपद्धत्याम् भागं गृहीत्वा प्रवर्तमानः अयम्। अधः उपविश्य श्यामफलके लेखनं कुर्वतः सञ्जयस्य चित्रं अनिता चौहानः इति उपयोक्ता ट्वीट्टर्द्वारा प्रैषयत्। अनेके अभिनन्दनानि व्याहरन् सञ्जयाय। सन्देशोयं नैकवारं च पुनःट्वीट्ट् कृतः। गणितम् आङ्गलेयम् आदिषु विषयेषु पृष्ठतः गच्छतां छात्राणां साहाय्यदानमेव शिक्षासंभालपद्धत्याः उद्देश्यम्।
लयनवीथ्यां वित्तकोशाः
-बिजिला किषोरः
    कोच्ची > विजया, बरोडा, देनेत्यादयः वित्तकोशाः लीयन्ते। एतेषां लयनेन देशे तृतीयस्य बृहत्तमवित्तकोशस्य उत्पत्तिर्भविष्यतीति केन्द्रधनकार्यसेवा कार्यदर्शिना  श्री राजीव कुमार महोदयेन सूचितम्। अनेन १४.८२ लक्षं कोटि रूप्यकाणां लाभः भविष्यति इति विश्वासः।
          वित्तकोशे विद्यमानानां कर्मकराणां संरक्षणं करिष्यतीति केन्द्रधनकार्यमन्त्रिणा अरुण् जय् टिली महोदयेन अद्य प्रख्यापितम्। लयनपर्यन्तं वित्तकोशाः स्वतन्त्ररूपेण व्यवह्रियन्ते स्म। भाविनि कालेपि एतादृशलयनं भविष्यतीति मन्त्रिणा सूचितम्।
मलिनीकरणस्य परिहारः- हैड्रजन् रेलयानम्‌ अगमिष्यति।
चित्रम् - रोयिट्टर् 
     ब्रेमर् वोडे> हैड्रजन् वातस्य साह्येन धावमानं विश्वस्य प्रप्रथमं रेल्यानं जर्मन् राष्ट्रेण निर्मितम्। डीसल् तैलस्य उपयोगेन जायमानं मलिनीकरणं विहाय परिस्थितिसौहृदतान्त्रिकविद्याम् उपयुज्य एव हैड्रजन् रेल् यानं अवतार्यते। 
     फ्रान्स् राष्ट्रस्य अतिवेग 'इन्टर् सिट्टि' सेवा इति सुज्ञाता टि जि वि इत्यस्य निर्मातृणा 'आल् स्टं' संस्थया निर्मिते द्वे याने एव बहिः प्रदर्शितम्। उतर जर्मन् प्रदेशस्य नगरद्वयं सम्बन्ध्य एते याने धावतः। हैड्रजन् ओक्सिजन् वातयोः मेलनेन वैद्युतिम् उद्पादयन्तः विद्युत्कोष्टाः एव अस्मिन् उपयुज्यन्ते। जलवातः जलं च बहिः उद्गच्छतः। उद्‌पादितः ऊर्जः याने स्थापितं 'लिथिय'कोष्टे समाहरति। एकवारस्य हैड्रजन् पूरणेन सहसं किलोमीट्टर् पर्यन्तं धावयितुं क्षमता अस्ति। डीसल्-यानस्य क्षमता अपि सहस्र किलोमीट्टर् एव।

Tuesday, September 18, 2018

मिलामो शुचित्वकेरलाय
 - विशेषावदनम्
        महाप्रलयानन्तरं केलस्य स्थितिः अस्मान् लज्यन्ते।  सर्वत्र मालिन्यानाम् आकरः एव। शुचित्वस्य नाम्नि अभिमानिभिः अस्माभिः उपयोगानन्तरं वस्तूनि परितः निक्षिप्यन्ते| तत् सर्वं इदानीं एकत्र एकत्र बृहदाकाररूपेण निक्षिप्य प्रलयजलं प्रतिनिवृत्तम्। मूषिकज्वरादिना मनुष्याः आक्रमिताः। पुनर्विचिन्तनाय समयः स्वीकरणीयः नाे चेत् भूमौ जीवितुं वयं योग्याः न इति विश्वस्यनिर्णयः समागच्छेत्। थार्थ्यमिदं मनसि निधाय खर-मालिन्यशोधनाय नूतन नयस्य परिकल्पना केरलसर्वकारेण कृता अस्ति। किन्तु पौराणां सहयोगेन एव परिकल्पनायाः विजयः। दैनिकजीवनस्य भागतया जयमानानि मालिन्यानि वैय्यक्तिकतया शोधनीयानि इत्यस्य प्राधान्यमस्ति। पौराः मालिन्य संस्करणाय निर्बन्धितः भवेयुः चेत् मालिन्यसमस्यायाः परिहारः भविष्यति।
विश्वप्रसिद्धः एष्यायाः बृहत्तमः कौमारकलोत्सवः 
 आलप्पुष़ा जनपदे।
-बिजिलाकिषोरः
   आलप्पुष़ा> एष्या भूखण्डे बृहतमः  केरलराज्यस्तरीयः विद्यालयकलोत्सवः ललितरीत्या भविष्यति इति शिक्षा मन्त्री श्री रवीन्द्रनाथः अवोचत्। छात्राणां प्रगतेः विघाताय किमपि न करिष्यति इति मन्त्रिवर्येण उक्तम्। मेलायाः भोजनव्यवस्था कुटुम्बश्री  द्वारा करिष्यति। इदानींतन रीत्या एव सम्मानिताङ्कः ('ग्रेस् मार्क्') यच्छति।प्राथमिकं एवं माध्यमिकस्तरे विद्यालयीयमेला भविष्यति। प्रलयस्य पश्चात्तले वर्षेस्मिन् उत्सवाचरणम् उपेक्षणीयमिति नर्दिष्टम्। अतः विश्वविद्यालयकलोत्सवः तथा अन्ताराष्ट्र चलनचित्रमेला च निष्कासितम्। उत्सवाचरणाय आर्जितं धनं मुख्यमन्त्रिणः दुरिताश्वास निध्यां यच्छन्ति।