OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 21, 2018

तलाखत्रितयस्य दण्ड्यापराधकल्पनं - त्वरितादेशाय अनुज्ञा।
नवदिल्ली > विपक्षदलस्य वैरुध्यप्रदर्शनेन राज्यसभायां लग्नं तलाखत्रितयविधेयकं  त्वरितादेशाज्ञारूपेण पुनरानेतुं केन्द्रमन्त्रिमण्डलेन अनुज्ञा दत्ता। एकस्मिन्नेव समये  त्रिवारं  विवाहभग्नकं वाक्यम्  (तलाखत्रितयं) उक्त्वा भार्याम् अपास्यते चेत् तत् दण्ड्यापराधो भविष्यति।
     वाचा, लिखितेन, 'इलक्ट्रोणिक्' माध्यमैः,  जङ्गमदूरवाणीभिः वा एकस्मिन् समये तलाखत्रितयोक्तिः संवत्सरत्रयस्य कारागारवासं द्रव्यदण्डं च लभ्यमानः अपराधः भविष्यति! तलाखत्रितयविधेया महिला जीवनांशार्हा भविष्यति। महिलायाः परिवारस्य वा आवेदनानुसारमेव व्यवहारप्रक्रमः स्यात्! यदि भर्ता अनुरञ्जनाय प्रक्रमते तर्हि न्यायाधीशस्य सान्निध्ये अनुरञ्जनं साध्यते। तलाखत्रितयापराधः आरक्षकेभ्यः प्रातिभाव्यार्हः न भवति। महिलायाः आवेदनश्रवणानन्तरम्आवश्य़कं चेत् न्यायाधीशेन प्रातिभाव्यं दातुमर्हति।

Thursday, September 20, 2018

मुसलमानविभागान् एवं सर्वानपि जनविभागान् अन्तर्भावयति हिन्दुत्वम्- इति मोहनभागवतः।
 - रम्या पी यू। 
        नवदिल्ली>  मुसलमानविभागान् तथा सर्वानपि जनविभागान् अन्तर्भावयति हिन्दुत्वमिति राष्ट्रियस्वयंसेवकसङ्घस्य अध्यक्षः मोहनभागवतः। माहम्मदीयानां स्थानराहित्यमिति अवस्था हिन्दुत्वं नास्ति इति सः अवदत्। राष्ट्रिय स्वयं सेवक सङ्घस्य त्रिदिनसञ्चालनस्य द्वितीयदिने भाषमाणः आसीत् सः। हिन्दुत्वमित्युक्ते भारतीयता एव। तच्च सर्वानपि अन्तर्भावयति। समग्रसमाजस्य एकीकरणमेव सङ्घलक्ष्यम्। वसुधैव कुटुम्बकम् सङ्घस्य दर्शनं च। राष्ट्रे जातासु घटनासु सङ्घस्य स्वकीयदर्शनानि वर्तन्ते। किन्तु सर्वकारस्य नयेषु प्रवर्तनेषु वा कदापि न व्यवहरामः। सर्वकारस्य प्रवर्तनानि रा स्व से सङ्घः स्वाधीनीकरोति इति आरोपणानि सः प्राक्षिपद्दूरम्। सङ्घस्य प्रारम्भादेव राजनैतिकात् बहिः तिष्ठामः। सङ्घः कदापि निर्वाचने स्पर्धते। उत निर्वाचनराजनैतिकस्य भागश्च न भवति। कस्यापि राजनैतिकदलस्य भारवाहकाः भवितुं सङ्घप्रवर्तकाः न शक्नुवन्ति सः योजितवान्।
भारत-अफ्गानिस्थान वाणिज्यमार्गगः अस्माकं देशान्तर्भागद्वावारा मास्तु इति पाक्किस्थानः।

    इस्लामाबादः> भारत अफ्खानिस्थान वाणिज्य मार्गाय अस्माकं भूमिः न दास्यतीति पाक्किस्थानेन उक्तम्।  तदर्थं सन्नद्धाः इति माध्यमानां प्रतिवेदनं पाक् विदेशकार्यसचिवेन षा मेहमूद् खुरेषिणा तिरस्कृतम्।
चर्चायै पाक्किस्थानः अफ्गानिस्थानस्य पार्श्वं अगच्छदिति अफ्गाविस्थानस्य यु एस् अम्बासिडर् जोण् बासेन उक्तमिति गतदिने भारतदिनपत्रिकया  प्रतिवेदनं दत्तमासीत्। तदधिकृत्य अस्ति खुरेष्याः वाचः।अस्माकं भूमौ मार्गपुनः स्थापनाय अनुमतिः न दत्ता खुरेषी पाक् दिनपत्रिकायै एक्सैस् ड्रैब्यूणलाय दत्ते साक्षात्कारे अवदत्।

Wednesday, September 19, 2018

दिल्ली मुम्बै नगरयोः निशितान्वेषणे २९ लक्षं रूप्यकाणि गृहीतानि।

   नवदिल्ली>नवदिल्ली मुम्बै  नगरयोः विविधकेन्द्रेषु एन्फोर्समेन्ट् डयरक्टरेट् दलीयैः कृते निशितान्वेषणे २९ लक्षं रूप्यकाणि गृहीतानि। दुबाय् केन्द्रीकृय अलीकदुर्वृत्ताः धनपरिवर्तनं कुर्वन्तीति रहस्यज्ञानं लब्ध्वा एव ED विभागेन निशितान्वेषणं कृतम्। द्वयोः नगरयोः ११ केन्द्रेषु अन्वेषणं समभवत्।  संख्याधिकानि प्रमाणरेखापत्राणि गृहीतानि इति E D कर्मचारिणः अवदन्।
जनतन्त्ररीत्या विद्यालयीय निर्वाचनम्
-बिजिला किषोरः
    ओमश्शेरि>  मुक्कम् शैक्षिकोपजिल्लायां विद्यमाने लिटिल् फ्लवर् माध्यमिक विद्यालये अद्य निर्वाचनं प्रवृत्तम्। मुख्य-निर्वाचनाधिकारिण्याः श्रीमति वत्सम्मा महाभागायाः निर्देशानुसारं छात्राः स्वयमेव एतस्य दायित्वं कृतवन्तः।
       आधुनिक रीत्या सज्जीकृतं निर्वाचनयन्त्रमुपयुज्य निर्वाचनमिदं प्रवृत्तम्।विद्यालयनेता,सह नेता,एवं  कार्यदर्शी, सह कार्यदर्शी  स्थानेषु निर्वाचनमभवत्।आल्बीआन्टणी,आन्मरिया आर्टोम्,फर्हानसाधिक्, शरण्या राजीवः च विजयं प्राप्तवन्तः। सर्वे विद्यालयस्य संस्कृतछात्राः इति अभिमानस्य विषयः।
छात्रान्  निर्वाचन प्रक्रियां ज्ञापयितुमेव सामूहिकशास्त्र विभागेन इदमायोचितम्। औत्सुक्येन सर्वेभागं गृहीतवन्तः।
चित्रम्- निर्वाचनकार्याधिकारी अङ्गुल्योयोपरि मशीं लिम्पति।
भिन्नशेषियुतस्य एकस्य अध्यापकस्य कृते समाजमाध्यमानाम् महत् प्रशंसार्पणम्। 
-रम्या पी यू        
               हस्ते पुस्तकं सुधाखण्डं च गृहीत्वा कक्ष्यां प्रविशन् कश्चन; कस्मिश्चन पाठनीये विषये भाषमाणः यः, सः एव अध्यापकः इति चित्रम् अस्माकम् मनसि स्फुरेत्। किन्तु उत्थाय स्थातुमपि अशक्तः, साक्षादरुणः इव अनूरुः ज्ञानसूर्यस्य सारथिः इव ज्ञानकिरणप्रकाशान् छात्रेषु प्रसारयन्, सर्वोपरि शारीरिकपरिमित्या क्लेशं सहमानः सन्, स्वकीयं क्लेशं अविगणयन्, पाठे मग्नस्य कस्यचन आचार्यस्य महत्वं अधुना समाजमाध्यमेषु चर्चायते। राजस्थानदेशीयस्यास्य सञ्जयसेनः इति नाम। नवाधिकद्विसहस्रतः राजस्थानसर्वकारस्य शिक्षासम्भालपद्धत्याम् भागं गृहीत्वा प्रवर्तमानः अयम्। अधः उपविश्य श्यामफलके लेखनं कुर्वतः सञ्जयस्य चित्रं अनिता चौहानः इति उपयोक्ता ट्वीट्टर्द्वारा प्रैषयत्। अनेके अभिनन्दनानि व्याहरन् सञ्जयाय। सन्देशोयं नैकवारं च पुनःट्वीट्ट् कृतः। गणितम् आङ्गलेयम् आदिषु विषयेषु पृष्ठतः गच्छतां छात्राणां साहाय्यदानमेव शिक्षासंभालपद्धत्याः उद्देश्यम्।
लयनवीथ्यां वित्तकोशाः
-बिजिला किषोरः
    कोच्ची > विजया, बरोडा, देनेत्यादयः वित्तकोशाः लीयन्ते। एतेषां लयनेन देशे तृतीयस्य बृहत्तमवित्तकोशस्य उत्पत्तिर्भविष्यतीति केन्द्रधनकार्यसेवा कार्यदर्शिना  श्री राजीव कुमार महोदयेन सूचितम्। अनेन १४.८२ लक्षं कोटि रूप्यकाणां लाभः भविष्यति इति विश्वासः।
          वित्तकोशे विद्यमानानां कर्मकराणां संरक्षणं करिष्यतीति केन्द्रधनकार्यमन्त्रिणा अरुण् जय् टिली महोदयेन अद्य प्रख्यापितम्। लयनपर्यन्तं वित्तकोशाः स्वतन्त्ररूपेण व्यवह्रियन्ते स्म। भाविनि कालेपि एतादृशलयनं भविष्यतीति मन्त्रिणा सूचितम्।
मलिनीकरणस्य परिहारः- हैड्रजन् रेलयानम्‌ अगमिष्यति।
चित्रम् - रोयिट्टर् 
     ब्रेमर् वोडे> हैड्रजन् वातस्य साह्येन धावमानं विश्वस्य प्रप्रथमं रेल्यानं जर्मन् राष्ट्रेण निर्मितम्। डीसल् तैलस्य उपयोगेन जायमानं मलिनीकरणं विहाय परिस्थितिसौहृदतान्त्रिकविद्याम् उपयुज्य एव हैड्रजन् रेल् यानं अवतार्यते। 
     फ्रान्स् राष्ट्रस्य अतिवेग 'इन्टर् सिट्टि' सेवा इति सुज्ञाता टि जि वि इत्यस्य निर्मातृणा 'आल् स्टं' संस्थया निर्मिते द्वे याने एव बहिः प्रदर्शितम्। उतर जर्मन् प्रदेशस्य नगरद्वयं सम्बन्ध्य एते याने धावतः। हैड्रजन् ओक्सिजन् वातयोः मेलनेन वैद्युतिम् उद्पादयन्तः विद्युत्कोष्टाः एव अस्मिन् उपयुज्यन्ते। जलवातः जलं च बहिः उद्गच्छतः। उद्‌पादितः ऊर्जः याने स्थापितं 'लिथिय'कोष्टे समाहरति। एकवारस्य हैड्रजन् पूरणेन सहसं किलोमीट्टर् पर्यन्तं धावयितुं क्षमता अस्ति। डीसल्-यानस्य क्षमता अपि सहस्र किलोमीट्टर् एव।

Tuesday, September 18, 2018

मिलामो शुचित्वकेरलाय
 - विशेषावदनम्
        महाप्रलयानन्तरं केलस्य स्थितिः अस्मान् लज्यन्ते।  सर्वत्र मालिन्यानाम् आकरः एव। शुचित्वस्य नाम्नि अभिमानिभिः अस्माभिः उपयोगानन्तरं वस्तूनि परितः निक्षिप्यन्ते| तत् सर्वं इदानीं एकत्र एकत्र बृहदाकाररूपेण निक्षिप्य प्रलयजलं प्रतिनिवृत्तम्। मूषिकज्वरादिना मनुष्याः आक्रमिताः। पुनर्विचिन्तनाय समयः स्वीकरणीयः नाे चेत् भूमौ जीवितुं वयं योग्याः न इति विश्वस्यनिर्णयः समागच्छेत्। थार्थ्यमिदं मनसि निधाय खर-मालिन्यशोधनाय नूतन नयस्य परिकल्पना केरलसर्वकारेण कृता अस्ति। किन्तु पौराणां सहयोगेन एव परिकल्पनायाः विजयः। दैनिकजीवनस्य भागतया जयमानानि मालिन्यानि वैय्यक्तिकतया शोधनीयानि इत्यस्य प्राधान्यमस्ति। पौराः मालिन्य संस्करणाय निर्बन्धितः भवेयुः चेत् मालिन्यसमस्यायाः परिहारः भविष्यति।
विश्वप्रसिद्धः एष्यायाः बृहत्तमः कौमारकलोत्सवः 
 आलप्पुष़ा जनपदे।
-बिजिलाकिषोरः
   आलप्पुष़ा> एष्या भूखण्डे बृहतमः  केरलराज्यस्तरीयः विद्यालयकलोत्सवः ललितरीत्या भविष्यति इति शिक्षा मन्त्री श्री रवीन्द्रनाथः अवोचत्। छात्राणां प्रगतेः विघाताय किमपि न करिष्यति इति मन्त्रिवर्येण उक्तम्। मेलायाः भोजनव्यवस्था कुटुम्बश्री  द्वारा करिष्यति। इदानींतन रीत्या एव सम्मानिताङ्कः ('ग्रेस् मार्क्') यच्छति।प्राथमिकं एवं माध्यमिकस्तरे विद्यालयीयमेला भविष्यति। प्रलयस्य पश्चात्तले वर्षेस्मिन् उत्सवाचरणम् उपेक्षणीयमिति नर्दिष्टम्। अतः विश्वविद्यालयकलोत्सवः तथा अन्ताराष्ट्र चलनचित्रमेला च निष्कासितम्। उत्सवाचरणाय आर्जितं धनं मुख्यमन्त्रिणः दुरिताश्वास निध्यां यच्छन्ति।

Monday, September 17, 2018

प्रत्येकं विद्यालयेषु ओसोण् दिनं समाचरितम्

कोच्ची सेन्ट् मेरीस् यु पि विद्यालयः तेवरा- पथ सञ्चलनात् पूर्वं।
    कोच्ची > विद्यालयेषु भूमेः संरक्षणमुद्दिश्य ओसोण् दिनं समाचरितम्। ओसोण् नाम वायुपुटः आतपात्‌ छत्रमिव भूमिं पालयति। किन्तु इदानीं तादृशरक्षाकवचः नष्टप्रायः भवति। भूमेः रक्षणम् अस्मादृशानां रक्षणं भवति। सूर्यकिरणे विद्यमानानाम् अतिशक्तानां किरणानां दुष्प्रभावात् भूमेः रक्षणम् ओसोण् पुटेन क्रियते। अतः अन्तरीक्षमलिनीकरणेन ओसोण् पुटस्य नाशः मा कुरुत इति छात्रान् बोधियितुं दिनमिदम् आभारतम् आघुष्टम्।
ब्रिटीष् उपग्रहाभ्यां सह पि एस् एल् वि ४२  भ्रमणपथं प्राराविशत् 
भारताय अभिमाननिमेषः।
        श्रीहरिक्कोट्टा>  ब्रिटीष् उपग्रहाभ्यां सह भारतबहिराकाश संस्थायाः  पि एस् एल् वि ४२ आकाशबाणेन ह्यः रात्रौ बाह्याकाशं प्राविशत्। यु के देशस्य सरे साटलैट् टेक्नोलजी लिमिटड् इति संस्थायाः  नोवा एस्.ए.आर्., एस्-४ उपग्रहावेव एतौ। भारतसमयं रात्रौ १०.०७ वादने श्रीहरिकोटातः सतीष् ध्यान् बाह्याकाशनिलयात् आसीत् विक्षेपणम्। द्वयोः उपग्रहयोः भारं ८००किलोग्राम् मितं भवति। वनभूपटनिर्माणाय जलोपप्लवादीनां प्रकृतिदुरन्तानां विशिष्टाध्ययनाय च उपग्रहौ उपकारकौ भवतःI 
डॉ.बलदेवानन्द-सागरः अभिनन्दितः 
 
     वडोदरा > गुजराते वडोदरा-नगरे देवसायुज्य-संस्कृत-प्रतिष्ठानेन आयोजिते कार्यक्रमे ऐषमः राष्ट्रपति-पुरस्काराय चितः डॉ.बलदेवानन्द-सागरः अभिनन्दितः। अवसरेsस्मिन् गुजरात-विधानसभा-सदस्यः श्री शैलेश-मेहता संस्कृत-शिक्षणस्य आवश्यकतां सबलं व्याहरत्। प्रतिष्ठान-प्रमुखः डॉ.प्रफुल्ल-पुरोहितः संस्कृतभाषायाः श्रीमद्भगवद्गीतायाः च प्रशिक्षणार्थं विधीयमानान् प्रयासान् वर्णितवान्।  'सञ्चार-माध्यमेषु संस्कृतम्'' इति विषये भाषमाणः डॉ.सागरः साम्प्रतिके वैद्युदाणविक -सूचना-प्रविधि-प्रमुखे काले विधीयमानं व्यापकं संस्कृत-प्रयोगं सोदाहरणं व्याहरत्।
मन्त्रिवर्योहं! इन्धनमूल्यं न बाधते इति केन्द्रमन्त्री अत्तावाले। 
-बिजिला किशोर्
     जयपुरम् >यदा मन्त्रिस्थानं विनष्टं  भविष्यति तदा एव सामान्यजनसदृशं इन्धनमूल्यवर्धनं मामपि बाधतेति केन्द्रमन्त्री अत्तावाले। जयपुरे शनिवासरे प्रवृत्ते पत्रकारमेलने भाषमाणः आसीदयं महाशयः।
 मन्त्रिणः सर्वे स्वकीयमानुकूल्यं उपयुज्यन्तेत्यतः सामान्यजनाः मूल्यवर्धनस्य क्लेशमनुभवन्ति। मूल्यं न्यूनीकर्तुं सर्वकारैः श्रद्धा देया। राज्यस्तरे करं विना इन्धनं यच्छति तर्हि मूल्यवर्धनं नियन्त्रणाधीनं भवति। केन्द्रसर्वकारेण तदर्थं प्रयत्नं कुर्वन्ति इति अत्तावाले उक्तवन्तः।
       भा.जा.पा राजनैतिकदलस्य सख्यदलस्य  रिप्पब्लिक्कन् पार्टी इत्यस्य अध्यक्षः भवति रामदास अत्तावाले ।नीतिन्याय शक्तीकरणविभागस्य नेतृत्वे राज्यस्थाने विद्यमानपद्धतेः पुरोगतिं ज्ञातुमागतवानयं महाशयः।
जीवनकलया श्री अभयं पुनरुद्धारण पद्धत्याः कार्यान्वयनं केरलेषु करिष्यति।
-डा अभिलाष् जे

      तिरुवनन्तपुरम् > केरलराज्यस्य पुनरुद्धारणयोजनायै श्री श्री रविशङ्करस्य साहाय्यः। जीवनकला संस्थया श्री अभयं कर्मपद्धत्याः कार्यान्वयनं सेप्तंबर पञ्चदशे दिने आरप्स्यते इति जीवनकला राज्यस्तरीय निदेशकेन एस् एस् चन्द्रसाबु महोदयेन उक्तम्।
मलप्पुरं जिल्लायाः ऊर्ङाट्टिरि इटुक्कि जिल्लायाः कोषिलाक्कुडि पत्तनंतिट्ट जिल्लायाः अट्टत्तोड् इति वनवासक्षेत्रैः सह प्लयबाधितक्षेत्रेषु आलप्पुषजिल्लायां पाङ्डनाड् देशे च श्री अभयं पद्धत्याः प्रारंभप्रवर्तनं आरप्स्यते।
        केरले प्रलयदुरितबाधितेभ्यः जनेभ्यः श्री श्री रविशङ्कर महोदयेन सार्धनव कोटि रूप्यकाणाम् उत्पन्नानि दत्तानि आसन्।तस्मादुपरि विविधराज्येभ्यः विदेशेभ्यः च जीवनकला सन्नद्धसेवकैः चतुर्दश कोटि ररुप्यकाणां उत्पन्नानि प्राथमिकतया दत्तम्।स्वास्थ्यं शुचित्वं शिक्षा इत्यादि क्षेत्राणां समग्रविकासाय विभिन्नानां पद्धतीनां कार्यान्वयीकरणं भविष्यति।
       छात्रेभ्यः छात्रशुल्कं पुस्तकानि विद्यालय स्यूतानि इत्यादीनतिरिच्य शौचालयानि ग्रन्थालयेभ्यः ग्रन्थाः दूरदर्शनं  सङ्गणक यन्त्राणि इत्यादीनि दास्यन्ति। भ्राष्ट्राणि वस्त्राणि जलशुद्धीकरणयन्त्राणि सौरोर्ज दीपाः इत्यादि क्षेत्रस्य  समग्रविकसनं लक्ष्यीकृत्य  आयोजिता एक संवत्‍सरात्मक-कर्मपद्धतिः अस्ति श्री अभयमिति चन्द्रसाबुना उक्तम्।
कोल्कत्तायाम् महती अग्निबाधा; अग्निशमनाय श्रमः द्वादशघण्टाः अपि उल्लङ्घ्य अनुवर्तते।
           -रम्या पी यू।
      कोल्कत्ता > कोल्कत्ता नगरस्य बग्रीविपण्याम् महती अग्निबाधा। रविवारे प्रभाते सार्धद्विवादने बह्वट्टगृहे अग्निबाधा जाता। अग्निशमनश्रमः द्वादशघण्टाः अपि उल्लङ्घ्य अनुवर्तमाना वर्तते। मनुष्यापायः नास्ति। मध्यकोल्कत्तायाः कानण्वीथ्याः गृहे एव अग्निबाधा अभवत्। अग्निशमनसेनायाः उपत्रिंशत् वाहनानि घटनास्थानम् प्राप्तानि।
 विशेषाङ्गयुतस्य एतस्य अध्यापकस्य कृते समाजमाध्यमानाम् महत् नमोवाकम्।
-रम्या पी यू।       
                हस्ते पुस्तकं सुधाखण्डं च गृहीत्वा कक्ष्यां प्रविशन् कश्चन; अध्यापकविषये भाषणे कृते एतदेव चित्रम् अस्माकम् मनसि स्फुरेत्। किन्तु उत्थाय स्थातुमपि अशक्तः, शारीरिकपरिमित्या तावन्तं क्लेशं सहमानः चेदपि तम् क्लेशं विगगण्य छात्राणाम् पाठने मग्नं कञ्चन अध्यापकमधिकृत्य समाजमाध्यमेषु अधुना चर्चा प्रवर्तते। राजस्थानदेशीयस्यास्य सञ्जयसेनः इति नाम। नवाधिकद्विसहस्रतः राजस्थानसर्वकारस्य शिक्षासम्भालपद्धत्याम् भागं गृहीत्वा प्रवर्तमानः अयम्। अधः उपविश्य श्यामफलके लेखनं कुर्वतः सञ्जयस्य चित्रं अनिता चौहानः इति उपयोक्ता ट्वीट्टर्द्वारा प्रैषयत्। अनेके अभिनन्दनानि व्याहरन् सञ्जयाय। सन्देशोयं नैकवारं च पुनःट्वीट्ट् कृतः। गणितम् आङ्गलेयम् आदिषु विषयेषु पृष्ठतः गच्छतां छात्राणां साहाय्यदानमेव शिक्षासंभालपद्धत्याः उद्देश्यम्।

Sunday, September 16, 2018

ब्रिटीष् उपग्रहसहितम् पि एस् एल् वि ४२ अद्य भ्रमणपथं प्रति उद्‌गच्छति
-बिजिला किशोर्
    श्रीहरिक्कोट्टा>  बहिराकाशे जाज्वल्यमाना भवति भारतम्। ब्रिटीष् उपग्रहान् भ्रमणपथं प्रति नयामः इति लक्ष्ये इस्रो (भारतबहिराकाश संस्था) संस्थया आरभ्यमाना पि एस् एल् वि ४२ आकाशबाणः अद्य उद्गच्छति। यु के देशस्य सरे साटलैट् टेक्नोलजी लिमिटड् इति संस्थायाः  नोव एस् ए आर् , एस् -४ इत्यादि उपग्रहाः अधुना भ्रमणपथं नयतः। भारतसमयं १०.०७ वादने श्रीहरिकोटातः निक्षिप्यते। ब्रिटन् देशात् उपग्रहद्वयं ५८३ किलोमीटर् उन्नतभ्रमणपथे प्रथमं विक्षिप्यते। द्वयोः उपग्रहयोः भारं ८००किलोग्राम्  भवति।
   वनभूपटनिर्माणम्, जलोपप्लवः, एवं प्रकृतिदुरन्तांनां  विशकलनं च भवति उपग्रहाणाम् लक्ष्यमिति इ स्रो वार्ता लेखने सूचितम्।