OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 17, 2018

मन्त्रिवर्योहं! इन्धनमूल्यं न बाधते इति केन्द्रमन्त्री अत्तावाले। 
-बिजिला किशोर्
     जयपुरम् >यदा मन्त्रिस्थानं विनष्टं  भविष्यति तदा एव सामान्यजनसदृशं इन्धनमूल्यवर्धनं मामपि बाधतेति केन्द्रमन्त्री अत्तावाले। जयपुरे शनिवासरे प्रवृत्ते पत्रकारमेलने भाषमाणः आसीदयं महाशयः।
 मन्त्रिणः सर्वे स्वकीयमानुकूल्यं उपयुज्यन्तेत्यतः सामान्यजनाः मूल्यवर्धनस्य क्लेशमनुभवन्ति। मूल्यं न्यूनीकर्तुं सर्वकारैः श्रद्धा देया। राज्यस्तरे करं विना इन्धनं यच्छति तर्हि मूल्यवर्धनं नियन्त्रणाधीनं भवति। केन्द्रसर्वकारेण तदर्थं प्रयत्नं कुर्वन्ति इति अत्तावाले उक्तवन्तः।
       भा.जा.पा राजनैतिकदलस्य सख्यदलस्य  रिप्पब्लिक्कन् पार्टी इत्यस्य अध्यक्षः भवति रामदास अत्तावाले ।नीतिन्याय शक्तीकरणविभागस्य नेतृत्वे राज्यस्थाने विद्यमानपद्धतेः पुरोगतिं ज्ञातुमागतवानयं महाशयः।
जीवनकलया श्री अभयं पुनरुद्धारण पद्धत्याः कार्यान्वयनं केरलेषु करिष्यति।
-डा अभिलाष् जे

      तिरुवनन्तपुरम् > केरलराज्यस्य पुनरुद्धारणयोजनायै श्री श्री रविशङ्करस्य साहाय्यः। जीवनकला संस्थया श्री अभयं कर्मपद्धत्याः कार्यान्वयनं सेप्तंबर पञ्चदशे दिने आरप्स्यते इति जीवनकला राज्यस्तरीय निदेशकेन एस् एस् चन्द्रसाबु महोदयेन उक्तम्।
मलप्पुरं जिल्लायाः ऊर्ङाट्टिरि इटुक्कि जिल्लायाः कोषिलाक्कुडि पत्तनंतिट्ट जिल्लायाः अट्टत्तोड् इति वनवासक्षेत्रैः सह प्लयबाधितक्षेत्रेषु आलप्पुषजिल्लायां पाङ्डनाड् देशे च श्री अभयं पद्धत्याः प्रारंभप्रवर्तनं आरप्स्यते।
        केरले प्रलयदुरितबाधितेभ्यः जनेभ्यः श्री श्री रविशङ्कर महोदयेन सार्धनव कोटि रूप्यकाणाम् उत्पन्नानि दत्तानि आसन्।तस्मादुपरि विविधराज्येभ्यः विदेशेभ्यः च जीवनकला सन्नद्धसेवकैः चतुर्दश कोटि ररुप्यकाणां उत्पन्नानि प्राथमिकतया दत्तम्।स्वास्थ्यं शुचित्वं शिक्षा इत्यादि क्षेत्राणां समग्रविकासाय विभिन्नानां पद्धतीनां कार्यान्वयीकरणं भविष्यति।
       छात्रेभ्यः छात्रशुल्कं पुस्तकानि विद्यालय स्यूतानि इत्यादीनतिरिच्य शौचालयानि ग्रन्थालयेभ्यः ग्रन्थाः दूरदर्शनं  सङ्गणक यन्त्राणि इत्यादीनि दास्यन्ति। भ्राष्ट्राणि वस्त्राणि जलशुद्धीकरणयन्त्राणि सौरोर्ज दीपाः इत्यादि क्षेत्रस्य  समग्रविकसनं लक्ष्यीकृत्य  आयोजिता एक संवत्‍सरात्मक-कर्मपद्धतिः अस्ति श्री अभयमिति चन्द्रसाबुना उक्तम्।
कोल्कत्तायाम् महती अग्निबाधा; अग्निशमनाय श्रमः द्वादशघण्टाः अपि उल्लङ्घ्य अनुवर्तते।
           -रम्या पी यू।
      कोल्कत्ता > कोल्कत्ता नगरस्य बग्रीविपण्याम् महती अग्निबाधा। रविवारे प्रभाते सार्धद्विवादने बह्वट्टगृहे अग्निबाधा जाता। अग्निशमनश्रमः द्वादशघण्टाः अपि उल्लङ्घ्य अनुवर्तमाना वर्तते। मनुष्यापायः नास्ति। मध्यकोल्कत्तायाः कानण्वीथ्याः गृहे एव अग्निबाधा अभवत्। अग्निशमनसेनायाः उपत्रिंशत् वाहनानि घटनास्थानम् प्राप्तानि।
 विशेषाङ्गयुतस्य एतस्य अध्यापकस्य कृते समाजमाध्यमानाम् महत् नमोवाकम्।
-रम्या पी यू।       
                हस्ते पुस्तकं सुधाखण्डं च गृहीत्वा कक्ष्यां प्रविशन् कश्चन; अध्यापकविषये भाषणे कृते एतदेव चित्रम् अस्माकम् मनसि स्फुरेत्। किन्तु उत्थाय स्थातुमपि अशक्तः, शारीरिकपरिमित्या तावन्तं क्लेशं सहमानः चेदपि तम् क्लेशं विगगण्य छात्राणाम् पाठने मग्नं कञ्चन अध्यापकमधिकृत्य समाजमाध्यमेषु अधुना चर्चा प्रवर्तते। राजस्थानदेशीयस्यास्य सञ्जयसेनः इति नाम। नवाधिकद्विसहस्रतः राजस्थानसर्वकारस्य शिक्षासम्भालपद्धत्याम् भागं गृहीत्वा प्रवर्तमानः अयम्। अधः उपविश्य श्यामफलके लेखनं कुर्वतः सञ्जयस्य चित्रं अनिता चौहानः इति उपयोक्ता ट्वीट्टर्द्वारा प्रैषयत्। अनेके अभिनन्दनानि व्याहरन् सञ्जयाय। सन्देशोयं नैकवारं च पुनःट्वीट्ट् कृतः। गणितम् आङ्गलेयम् आदिषु विषयेषु पृष्ठतः गच्छतां छात्राणां साहाय्यदानमेव शिक्षासंभालपद्धत्याः उद्देश्यम्।

Sunday, September 16, 2018

ब्रिटीष् उपग्रहसहितम् पि एस् एल् वि ४२ अद्य भ्रमणपथं प्रति उद्‌गच्छति
-बिजिला किशोर्
    श्रीहरिक्कोट्टा>  बहिराकाशे जाज्वल्यमाना भवति भारतम्। ब्रिटीष् उपग्रहान् भ्रमणपथं प्रति नयामः इति लक्ष्ये इस्रो (भारतबहिराकाश संस्था) संस्थया आरभ्यमाना पि एस् एल् वि ४२ आकाशबाणः अद्य उद्गच्छति। यु के देशस्य सरे साटलैट् टेक्नोलजी लिमिटड् इति संस्थायाः  नोव एस् ए आर् , एस् -४ इत्यादि उपग्रहाः अधुना भ्रमणपथं नयतः। भारतसमयं १०.०७ वादने श्रीहरिकोटातः निक्षिप्यते। ब्रिटन् देशात् उपग्रहद्वयं ५८३ किलोमीटर् उन्नतभ्रमणपथे प्रथमं विक्षिप्यते। द्वयोः उपग्रहयोः भारं ८००किलोग्राम्  भवति।
   वनभूपटनिर्माणम्, जलोपप्लवः, एवं प्रकृतिदुरन्तांनां  विशकलनं च भवति उपग्रहाणाम् लक्ष्यमिति इ स्रो वार्ता लेखने सूचितम्।
तैलेन्धनमूल्यं न्यूनीकर्तुं कर्मयोजना झटित्येव - अमित् षा।
        हैदराबाद् > तैलेन्धनमूल्यस्य न्यूनीकरणमुद्दिश्य कर्मयोजना विलम्बं विना आयोजयिष्ये  इति भा ज पा दलस्य राष्ट्रियाध्यक्षः अमित्‌ षा। तेलङ्काना राज्ये मेहबूबा नगरे निर्वाचनप्रचारण-पथसञ्चलने भाषमाणः आसीत् सः। पेट्रोल् डीसल् मूल्ये वर्धनम् रूप्यकाणां मूल्ये च्युतिः च विशेषतया परिगण्यते केन्द्रसर्वकारेण। एतदनुबन्ध्य जनानां उद्कण्डः जानीमः वयम्। अनेन संबन्ध्य केन्द्रसर्वकारेण शीघ्रमेव कर्मपद्धतिः अयोक्ष्यते इति अमित् षा अवदत्।
      आभ्यन्तर-विपणिषु शैलेन्धन मुल्यस्यवर्धनं अन्ताराष्ट्र विपण्यां क्रूडतैलस्य मूल्यवर्धनमनुसृत्य भवति इति सः अवदत्। रूप्यकाणां प्रति डोलर् धनस्य वर्धनं केवलं भारतस्य घटना न। विश्वे वर्तमानानां सर्वेषां धनानां प्रतिभवति। विषयोऽयमपि भा ज दलस्यापि आशङ्कावर्ताते इत्यपि अमित् षा महाभागः अवदत् ।
'स्वच्छता हि सेवा' समारब्धा। 
        नवदिल्ली >  स्वच्छभारतम् लक्ष्यीकृत्य केन्द्रसर्वकारेण आविष्कृता स्वच्छता हि सेवा इति शुचित्वप्रचारणाभियोजना प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटिता। दिल्ल्यां पहाड्गञ्चप्रदेशस्थे 'बाबा साहिब् अम्बद्कर् उच्चतरविद्यालये आयोजिते स्वच्छताप्रवर्तने  सः भागं स्वीकृतवान्। राष्ट्रपितुः महात्मागान्धिनः १५०तमस्य जन्मवार्षिकोत्सवस्य अंशतया आयोजितः अयं कार्यक्रमः अक्टूबर द्वितीयदिनाङ्कपर्यन्तं भविष्यति। 
      "जनानां शुचित्वसङ्कल्पने महत्परिवर्तनं कर्तुं चतुस्संवत्सरेभ्यः पूर्वमारब्धया स्वच्छभारतमित्यायोजनया साधिता। चतुर्भिः संवत्सरैः नवकोटिसंख्याकाः शौचालयाः निर्मिताः। सार्धचतुर्लक्षेषु ग्रामेषु अनावृते प्रदेशे मलविसर्जनं इत्येतत् अनया समापितम्। महात्मागान्धिनः शुचित्वभारतसङ्कल्पनस्य साक्षात्काराय अस्माभिः युगपत् प्रयतितव्यम्" मोदिना उक्तम्।
संस्कृत दिनाचरणम् सम्पद्यते
-बिजिला किषोर्
 
    तामरश्शेरी> तामरश्शेरि शैक्षिकजिल्लायाः संस्कृतदिनाचरणं तथा प्रलये दुरितबाधितानां छात्राणां कृते पुस्तकदानं च प्रवृत्तम्। नन्मण्ड उच्चविद्यालये प्रवृत्त कार्यक्रमस्य उद्घाटनं बालुश्शेरि उपजिल्ला अध्यक्षः (AEO) श्री रघुनाथमहोदयेन कृतम्। संस्कृतभारत्याः प्रचारकः श्री रणजित् महोदयः संस्कृतसन्देशं दत्तवन्तः। मानव सेवा माधव सेवा ,संस्कृतज्ञाः वयं संस्कृतभाषायाः विकासाय तन,मन,धन। समर्पणं कर्तुं उद्युक्ताः भवामः इति तेनोद्घोषितम्।
    
       प्रलये दुरितबाधितानां छात्रां कृते विविध उपजिल्लातः सञ्चितानि पुस्तकानि रघुनाथमहोदयाय  शौक्षिकजिल्लायाः संस्कृतशैक्षिकसमित्‍यः कार्यदर्शी विष्णुप्रसादः, उपकार्यदर्शी श्रीमति बिजिला च समर्पितवन्तौ।

     दिनाचरणानुबन्ध कार्यक्रमरूपेण रामायण-प्रश्नोत्तरमासीत्। उच्चविद्यालयतः पेराम्प्र विद्यालयस्य छात्राः प्रथमस्थानं, सरस्वती विद्यामन्दिरस्य छात्राः द्वितीयस्थानं च अलंकृतवन्तः। माध्यमिकस्तरे ए यु पि एस् कल्पत्तूर प्रथमस्थानं, ए यु पि एस् कावुन्तरा  द्वितीयस्थानं प्राप्तवन्तः। आदर्श विद्यापीठं बालुश्शेर्याः आचार्यः डोः मनोज् कुमारः पुरस्कारं समर्पितवान्। कुट्टम्पुर् उच्चविद्यालययस्य संस्कृतछात्राः नृत्त संगीतशिल्पस्य अवतारणम् कृतवन्तः। कार्यक्रमेस्मिन् टी के सन्तोष् कुमारः, श्री शङ्करनारायणः च आशंसाभाषणं कृतवन्तः।

Saturday, September 15, 2018

'स्वच्छता हि सेवा' अभियोजना अद्य आरभ्य।
    नवदिल्ली > राष्ट्रपितुः महात्मागान्धिनः  १५०तमस्य जन्मदिनाघोषस्य अंशतया नूतना स्वच्छतायोजना समारभ्यतेति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घुष्टम्। 'स्वच्छता हि सेवा' इति दत्तनामिकेयं योजना शनिवासरे आरभ्यते। प्रभाते सार्धनववादने आरभ्यमाणायामस्यांयोजनायां परमसंख्याकाः जनाः भागभाजिनः भवन्तु इति मोदी अभ्यर्थितवान्। राष्ट्रपितुः स्वच्छभारतमिति सङ्कल्पनं साक्षात्कर्तुं चतुर्भ्यो संवत्सरेभ्यः पूर्वम् आरब्धायाः स्वच्छभारताभियोजनायाः अनुवर्तनमेवेयं योजना । 

'फ्लोरन्स्' चक्रवातात् अमेरिका भीत्यां - 
       विल्मिङ्टण् > यू एस् राज्यसमूहे अस्य शताब्दस्य अत्यन्तं शक्तियुक्तः चक्रवातः 'फ्लोरन्स्' नामाख्यः गतदिने उत्तरकरोलैनातीरं  प्राप्तः। १४० कि मी परिमितेन वीजमानेन चक्रवातेन सह अतिवृष्टिरपि अस्ति। अतः जलोपप्लवस्य साध्यता वर्तते। चतुर्षु राज्येषु विपत्कालीनजाग्रता प्रख्यापिता। दशलक्षाधिकाः जनाः चक्रवातबाधां विशङ्कमानेभ्यः प्रदेशेभ्यः निर्वर्तिताः। १५०० विमानगतागतानि स्थगितानि।जलोपप्लवंसम्मुखीकर्तुं राष्ट्रं सुसज्जं  भवतीति राष्ट्रपतिना डोणाल्ड् ट्म्पेनोक्तम्। किन्तु जनाः जागरूकाः भवेयुः।

Friday, September 14, 2018

बोस्टण् देशे वातनालिकायां विस्फोटपरम्परा- क्षताः षट्जनाः। 
    बोस्टण् > अमेरिकराष्ट्रस्थ बोस्टण् देशे अग्निवातनालिकायां जायामानेन विस्फोटनेन षट्जनाः क्षताः।
शतशः जनाः ततः विनिवर्तिताः। गुरुवासरे एव अपघातः अभवत्। अपधातस्थाने षु भूरि गृहाणि एवI
बोस्टण् नगरस्थे  लोरन्स् , एन्डोवर्, नोर्त्त् एन्डोवर् इत्यत्र प्रदेशेषु विस्फोटनमभवत्। ४० किलोमीट्टर् दूरे ७० स्थानेषु जातेषु विस्फोटनेषु १०० सङ्ख्यामितानि गृहाणि भग्नानि। कोलम्बिय इत्याख्यायाः अग्निवातसंस्थायाः भवति नालिकाश्रेणी। नालिकायां जातः अतिमर्दः एव घटनायाः कारणत्वेन मन्यते। अग्निशमनसेना सेनाङ्गेन सहितः षड्जनाः क्षताः। 
संस्कृतदिनम् अमेरिकराष्ट्रे सुसम्पन्नम्
प.नन्दकुमारः U K मध्ये 
संस्कृतस्य कालिकप्राधान्यम् इति विषये प्रभाषणं करोतिI
उत्तराखण्डे षड्विधाः संस्कृतच्छात्रप्रतियोगिताः सम्पन्नाः
 -विशेषावेदनम्
    अतीव हर्षस्य विषयोऽयं यत् उत्तराखण्डराज्ये छात्राणां कनिष्ठवरिष्ठवर्गयोः 190 संस्कृतनाटक-प्रतियोगिताः, 190 समूहगान-प्रतियोगिताः, 190 नृत्य-प्रतियोगिताः, 190 वादविवाद-प्रतियोगिताः, 190 आशुभाषण-प्रतियोगिताः, 190 श्लोकोच्चारण-प्रतियोगिताः आहत्य 95×12= 1140 संस्कृतच्छात्रप्रतियोगिता अभवन्। एतासु प्रतियोगितासु 72,960 छात्राः भागं ग्रहीतवन्तः। उत्तराखण्ड संस्कृत अकादम्या आयोजिताः षडविधाः संस्कृतच्छात्रप्रतियोगिताः 07-09-2018 दिनांके 95 विकासखण्डेषु सम्पन्नाः। 

Thursday, September 13, 2018

कोल्कत्तातः चीनं प्रति पट्टिकायानसेवा समारम्भणीया- चीनः।
    कोल्कत्ता> बंगालस्थ कोल्कत्तानारात् बंगलादेश्, म्यान्मर् मार्गेण चीनस्थ कुन्मिङ् देशं प्रति अतिवेग-पट्टिकायानसेवां समारब्धुम् आसक्तिरस्तीति चीनः अवदत्। कोल्कत्तायां चीनस्य राजदूतः माष़ान् वु अवदत्I
     चीन, पूर्वभारतम् , म्यान्मर्, बंगलादेश् इत्यस्य वाणिज्य-साम्पतिकविकासं लक्षीकृत्य भवति नूतन रेल् मार्गाय चीनस्य उद्यमः। बंग्लादेश-चीन-भारत-म्यान्मर् (BCIM) साम्पतिक मध्यमार्गस्य संस्थापनेन मण्डलस्य समूलविकासः सम्भाव्यते इति ष़ान् वू अवदत्I भारतं चीनः च मिलित्वा एव मार्गनिर्माणः  करणीयः इत्यपि ष़ान् वु महोदयः अनुवर्तितः। भारतचीनयाेः लाभाय भवति इयं योजना इत्यस्ति चीनस्य भाष्यम्।
फ्लोरन्स् चक्रवातः तीरमुपगच्छति - अमेरिका जाग्रतायाम्।
     वाषिङ्टण् > शताब्ददस्य शक्तः चक्रवातः फ्लोरन्स् इत्याख्यः तीरं समा गच्छति। विर्जीनियदेशतः करोलैनदेशस्य उत्तरपूर्व तीरभागतः च १७ लक्षं जनाः सुरक्षितस्थानं प्रति नीयन्ते| गुरुवासरे चक्रवातः तीरं प्राप्स्यते इति पर्यावरण विभागेन उच्यते।
    होरायां २२० किलोमीट्टर् अस्ति चक्रवातस्य वेगः। भीकरतामनुसृत्य चत्वारः इति गणे अङ्कितः अस्य शक्तिः तीरोपगमे काले पञ्च इति गणे भविष्यति। उत्तरपूर्व करोलैन, मेरिलान्ट्, कोलम्बिय जनपदम् इत्यत्र  त्वरित जाग्रता निर्देशः  ख्यापितः। अमेरिक्कस्य पौराणां सुरक्षायै एव प्राधान्यम् । अतः आवश्यक्यः सुरक्षाप्रक्रमाः स्वीकृताः सन्ति इति राष्ट्रपतिना डोणाल्ड् ट्रम्पेण उक्तम्।

Wednesday, September 12, 2018

पाकिस्थाने कार् यानस्य चलदूरवाण्याः च राष्ट्रान्तरात् आनीय विक्रयणाय निषेधः।
    इस्लामबाद्>  सुखयानम् समर्थदूरवाण्यः, खरक्षीरादयः वस्तुनः राष्ट्रान्तरात् आनीय विक्रयणस्य निषेधाय पाकिस्थानस्य आर्थिकोपदेष्टृणा सर्वकारः उपदिष्टः। राष्ट्रान्तरात् अानीय विक्रयस्य नियन्त्रणेन अन्ताराष्ट्र नाणकनिधीतः ऋणस्वीकारस्य आवश्यकता न्यूनीकर्तुं शक्यतेति आर्थिकविचक्षणानां अभिमतः। विदेशविक्रयणे न्यूनतया  राष्ट्रान्तरात् आनीय विक्रयणे आधिक्येन च पाकिस्थानस्य साम्पतिकव्यवस्थायां डोलर् धनस्य न्यूनता अस्ति। अनेन कारणेन संरक्षित वैदेशिकधनसञ्चिकायां जायमानायां धनन्यूनतायां आर्थिकविचक्षणैः आशङ्क्यते। सुखवस्तूनाम् उपयोगं स्थगयित्वा  क्लेशावस्थायाः पारंगन्तुम् आलोच्यते इति पाकिस्थानस्य प्रधानमन्तिणा इम्रान् खानेन उक्तम्I
बन्धनसमरमुखात् शिशोः अतुरालयप्रापणे विलम्बः 
शिशिशोः मृत्युविषये  कोण्ग्रस् दलं विरुद्ध्य केन्द्रमन्त्री
            रम्या पी यू।
     पट्ना> जेहनाबादे भारतबन्दानुकूलिनः वाहनानि उपरोधितवन्तः। पश्चाज्जातेन गतागतसम्मर्द्देन शिशुं नीत्वा गतं जीवनरक्षायानम् विलम्बेनैव आतुरालयम् प्राप्तवत्। अतः शिशुमरणम् अभवत् इति मन्त्री रविशङ्करप्रसादस्य आरोपणम्। "प्रतिषेद्धुमवकाशः सर्वेषां वर्तते। किन्तु इन्धनपूरणशालानां लोकयानानां वा अग्निसंक्रमणम्, जीवनानाम् अपघातेषु पातनम् एतानि अक्षन्तव्यानि एव। जीवनरक्षायानं गतागतसम्मर्द्दे पतितमित्यतः शिशुमरणमभवत्। एतस्य उत्तरदायित्वं कस्य वा भवितुमर्हति?" -सः पृष्टवान्। किन्तु समयेस्मिन् शिशुमरणकारणम् गतागतसम्मर्द्दो नैवेति जेहनाबाद् उप-मण्डलाधिकारी  परितोषकुमारः वार्ताशृङ्खलाम् ए एन् ऐ प्रति आवेदयत्। गृहात् शिशुं नीत्वा निर्गमने बान्धवाः विलम्बमकुर्वन् इति सः योजितवान्।

Tuesday, September 11, 2018

४० सर्वकारीयसेवाः अद्य आरभ्य गृहद्वारेषु। 
       नवदिल्ली > राजनगर्यां सर्वकारीयसेवायै-सर्वकारकार्यालयं परितः अटनं समाप्यते। विवाहस्य प्रमाणपत्रम् यानचालनानुज्ञापत्रम् शुद्धजललब्धिः इत्यादि सेवाः अद्य आरभ्य गृहद्वारं प्रापयन्ति। सोमवासरादारभ्य  सेवाः लभन्ते इति दिल्ली सर्वकारः ज्ञापयति। अस्मिन् वर्षस्य प्रारम्भादारभ्य सेवां दातुं निर्णीयः असीत्। किन्तु दिल्ली राज्यपालस्य अनुकूलप्रक्रमस्य कालविलम्बः योजनायाः विलम्बस्य कारणत्वेन दिल्लीसर्वकारः वदति।
      किन्तु भाग्यवशात् पञ्चाङ्गयुक्त-संविधानपीठिकयाः अनुकूलादेशः विषयेऽस्मिन् समभवत्। अनेन कारणेन एव इयं योजना प्रवर्तिपथमागता इति सर्वकारस्य वक्ता वदति। ईदृश्यः योजनायाः अयोजकत्वरूपेण समागतः सर्वकारः विश्वे प्रप्रथमतया भवति। अलीकवृत्तिः अनेन न्यूनीकर्तुं शक्यते, जनानां सुविधा अपि भवति इति दिल्लीराज्यस्य मुख्यमन्त्री अरविन्दकेजरिवालः ट्विट्टर् मध्ये अलिखत्।