OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 15, 2018

'फ्लोरन्स्' चक्रवातात् अमेरिका भीत्यां - 
       विल्मिङ्टण् > यू एस् राज्यसमूहे अस्य शताब्दस्य अत्यन्तं शक्तियुक्तः चक्रवातः 'फ्लोरन्स्' नामाख्यः गतदिने उत्तरकरोलैनातीरं  प्राप्तः। १४० कि मी परिमितेन वीजमानेन चक्रवातेन सह अतिवृष्टिरपि अस्ति। अतः जलोपप्लवस्य साध्यता वर्तते। चतुर्षु राज्येषु विपत्कालीनजाग्रता प्रख्यापिता। दशलक्षाधिकाः जनाः चक्रवातबाधां विशङ्कमानेभ्यः प्रदेशेभ्यः निर्वर्तिताः। १५०० विमानगतागतानि स्थगितानि।जलोपप्लवंसम्मुखीकर्तुं राष्ट्रं सुसज्जं  भवतीति राष्ट्रपतिना डोणाल्ड् ट्म्पेनोक्तम्। किन्तु जनाः जागरूकाः भवेयुः।

Friday, September 14, 2018

बोस्टण् देशे वातनालिकायां विस्फोटपरम्परा- क्षताः षट्जनाः। 
    बोस्टण् > अमेरिकराष्ट्रस्थ बोस्टण् देशे अग्निवातनालिकायां जायामानेन विस्फोटनेन षट्जनाः क्षताः।
शतशः जनाः ततः विनिवर्तिताः। गुरुवासरे एव अपघातः अभवत्। अपधातस्थाने षु भूरि गृहाणि एवI
बोस्टण् नगरस्थे  लोरन्स् , एन्डोवर्, नोर्त्त् एन्डोवर् इत्यत्र प्रदेशेषु विस्फोटनमभवत्। ४० किलोमीट्टर् दूरे ७० स्थानेषु जातेषु विस्फोटनेषु १०० सङ्ख्यामितानि गृहाणि भग्नानि। कोलम्बिय इत्याख्यायाः अग्निवातसंस्थायाः भवति नालिकाश्रेणी। नालिकायां जातः अतिमर्दः एव घटनायाः कारणत्वेन मन्यते। अग्निशमनसेना सेनाङ्गेन सहितः षड्जनाः क्षताः। 
संस्कृतदिनम् अमेरिकराष्ट्रे सुसम्पन्नम्
प.नन्दकुमारः U K मध्ये 
संस्कृतस्य कालिकप्राधान्यम् इति विषये प्रभाषणं करोतिI
उत्तराखण्डे षड्विधाः संस्कृतच्छात्रप्रतियोगिताः सम्पन्नाः
 -विशेषावेदनम्
    अतीव हर्षस्य विषयोऽयं यत् उत्तराखण्डराज्ये छात्राणां कनिष्ठवरिष्ठवर्गयोः 190 संस्कृतनाटक-प्रतियोगिताः, 190 समूहगान-प्रतियोगिताः, 190 नृत्य-प्रतियोगिताः, 190 वादविवाद-प्रतियोगिताः, 190 आशुभाषण-प्रतियोगिताः, 190 श्लोकोच्चारण-प्रतियोगिताः आहत्य 95×12= 1140 संस्कृतच्छात्रप्रतियोगिता अभवन्। एतासु प्रतियोगितासु 72,960 छात्राः भागं ग्रहीतवन्तः। उत्तराखण्ड संस्कृत अकादम्या आयोजिताः षडविधाः संस्कृतच्छात्रप्रतियोगिताः 07-09-2018 दिनांके 95 विकासखण्डेषु सम्पन्नाः। 

Thursday, September 13, 2018

कोल्कत्तातः चीनं प्रति पट्टिकायानसेवा समारम्भणीया- चीनः।
    कोल्कत्ता> बंगालस्थ कोल्कत्तानारात् बंगलादेश्, म्यान्मर् मार्गेण चीनस्थ कुन्मिङ् देशं प्रति अतिवेग-पट्टिकायानसेवां समारब्धुम् आसक्तिरस्तीति चीनः अवदत्। कोल्कत्तायां चीनस्य राजदूतः माष़ान् वु अवदत्I
     चीन, पूर्वभारतम् , म्यान्मर्, बंगलादेश् इत्यस्य वाणिज्य-साम्पतिकविकासं लक्षीकृत्य भवति नूतन रेल् मार्गाय चीनस्य उद्यमः। बंग्लादेश-चीन-भारत-म्यान्मर् (BCIM) साम्पतिक मध्यमार्गस्य संस्थापनेन मण्डलस्य समूलविकासः सम्भाव्यते इति ष़ान् वू अवदत्I भारतं चीनः च मिलित्वा एव मार्गनिर्माणः  करणीयः इत्यपि ष़ान् वु महोदयः अनुवर्तितः। भारतचीनयाेः लाभाय भवति इयं योजना इत्यस्ति चीनस्य भाष्यम्।
फ्लोरन्स् चक्रवातः तीरमुपगच्छति - अमेरिका जाग्रतायाम्।
     वाषिङ्टण् > शताब्ददस्य शक्तः चक्रवातः फ्लोरन्स् इत्याख्यः तीरं समा गच्छति। विर्जीनियदेशतः करोलैनदेशस्य उत्तरपूर्व तीरभागतः च १७ लक्षं जनाः सुरक्षितस्थानं प्रति नीयन्ते| गुरुवासरे चक्रवातः तीरं प्राप्स्यते इति पर्यावरण विभागेन उच्यते।
    होरायां २२० किलोमीट्टर् अस्ति चक्रवातस्य वेगः। भीकरतामनुसृत्य चत्वारः इति गणे अङ्कितः अस्य शक्तिः तीरोपगमे काले पञ्च इति गणे भविष्यति। उत्तरपूर्व करोलैन, मेरिलान्ट्, कोलम्बिय जनपदम् इत्यत्र  त्वरित जाग्रता निर्देशः  ख्यापितः। अमेरिक्कस्य पौराणां सुरक्षायै एव प्राधान्यम् । अतः आवश्यक्यः सुरक्षाप्रक्रमाः स्वीकृताः सन्ति इति राष्ट्रपतिना डोणाल्ड् ट्रम्पेण उक्तम्।

Wednesday, September 12, 2018

पाकिस्थाने कार् यानस्य चलदूरवाण्याः च राष्ट्रान्तरात् आनीय विक्रयणाय निषेधः।
    इस्लामबाद्>  सुखयानम् समर्थदूरवाण्यः, खरक्षीरादयः वस्तुनः राष्ट्रान्तरात् आनीय विक्रयणस्य निषेधाय पाकिस्थानस्य आर्थिकोपदेष्टृणा सर्वकारः उपदिष्टः। राष्ट्रान्तरात् अानीय विक्रयस्य नियन्त्रणेन अन्ताराष्ट्र नाणकनिधीतः ऋणस्वीकारस्य आवश्यकता न्यूनीकर्तुं शक्यतेति आर्थिकविचक्षणानां अभिमतः। विदेशविक्रयणे न्यूनतया  राष्ट्रान्तरात् आनीय विक्रयणे आधिक्येन च पाकिस्थानस्य साम्पतिकव्यवस्थायां डोलर् धनस्य न्यूनता अस्ति। अनेन कारणेन संरक्षित वैदेशिकधनसञ्चिकायां जायमानायां धनन्यूनतायां आर्थिकविचक्षणैः आशङ्क्यते। सुखवस्तूनाम् उपयोगं स्थगयित्वा  क्लेशावस्थायाः पारंगन्तुम् आलोच्यते इति पाकिस्थानस्य प्रधानमन्तिणा इम्रान् खानेन उक्तम्I
बन्धनसमरमुखात् शिशोः अतुरालयप्रापणे विलम्बः 
शिशिशोः मृत्युविषये  कोण्ग्रस् दलं विरुद्ध्य केन्द्रमन्त्री
            रम्या पी यू।
     पट्ना> जेहनाबादे भारतबन्दानुकूलिनः वाहनानि उपरोधितवन्तः। पश्चाज्जातेन गतागतसम्मर्द्देन शिशुं नीत्वा गतं जीवनरक्षायानम् विलम्बेनैव आतुरालयम् प्राप्तवत्। अतः शिशुमरणम् अभवत् इति मन्त्री रविशङ्करप्रसादस्य आरोपणम्। "प्रतिषेद्धुमवकाशः सर्वेषां वर्तते। किन्तु इन्धनपूरणशालानां लोकयानानां वा अग्निसंक्रमणम्, जीवनानाम् अपघातेषु पातनम् एतानि अक्षन्तव्यानि एव। जीवनरक्षायानं गतागतसम्मर्द्दे पतितमित्यतः शिशुमरणमभवत्। एतस्य उत्तरदायित्वं कस्य वा भवितुमर्हति?" -सः पृष्टवान्। किन्तु समयेस्मिन् शिशुमरणकारणम् गतागतसम्मर्द्दो नैवेति जेहनाबाद् उप-मण्डलाधिकारी  परितोषकुमारः वार्ताशृङ्खलाम् ए एन् ऐ प्रति आवेदयत्। गृहात् शिशुं नीत्वा निर्गमने बान्धवाः विलम्बमकुर्वन् इति सः योजितवान्।

Tuesday, September 11, 2018

४० सर्वकारीयसेवाः अद्य आरभ्य गृहद्वारेषु। 
       नवदिल्ली > राजनगर्यां सर्वकारीयसेवायै-सर्वकारकार्यालयं परितः अटनं समाप्यते। विवाहस्य प्रमाणपत्रम् यानचालनानुज्ञापत्रम् शुद्धजललब्धिः इत्यादि सेवाः अद्य आरभ्य गृहद्वारं प्रापयन्ति। सोमवासरादारभ्य  सेवाः लभन्ते इति दिल्ली सर्वकारः ज्ञापयति। अस्मिन् वर्षस्य प्रारम्भादारभ्य सेवां दातुं निर्णीयः असीत्। किन्तु दिल्ली राज्यपालस्य अनुकूलप्रक्रमस्य कालविलम्बः योजनायाः विलम्बस्य कारणत्वेन दिल्लीसर्वकारः वदति।
      किन्तु भाग्यवशात् पञ्चाङ्गयुक्त-संविधानपीठिकयाः अनुकूलादेशः विषयेऽस्मिन् समभवत्। अनेन कारणेन एव इयं योजना प्रवर्तिपथमागता इति सर्वकारस्य वक्ता वदति। ईदृश्यः योजनायाः अयोजकत्वरूपेण समागतः सर्वकारः विश्वे प्रप्रथमतया भवति। अलीकवृत्तिः अनेन न्यूनीकर्तुं शक्यते, जनानां सुविधा अपि भवति इति दिल्लीराज्यस्य मुख्यमन्त्री अरविन्दकेजरिवालः ट्विट्टर् मध्ये अलिखत्।
बाह्याकाश-यात्रिकेभ्यः विशेषवस्त्रम् ऐ एस्आर् ओ संस्थया प्रदर्शितम्।
     बंगलूरू > २०२२ तमे मनुष्यान् बाह्याकाशं प्रेषयितुम् उद्धिश्य यः यत्नः क्रियते तस्य साहायक रूपेपो भवति बाह्याकाशयात्रिकेभ्यः ऐ एस्  आर् ओ संस्थया कृतं विशेषवस्त्र निर्मणम् । बंगलूरे आयोजिते बाह्याकाशप्रदर्शनस्य षष्टे वारे एव वस्त्रस्य प्रदर्शनमभवत्। तिरुवनन्तपुरस्थे विक्रं साराभाय् बाह्याकाशकेन्द्रे वर्षद्वयस्य  प्रयत्नेन एव वस्त्रस्य निर्माणमभवत्। कपिशवर्णयुक्तस्य वस्त्रस्य अन्तर्भागः प्राणवायुना पूरितं वर्तते । इदानीं वस्त्रद्वयं निर्मितम्। २०२२ तमे भारतेन निर्मिते बाह्याकाशयाने त्रयान् यात्रिकान् बाह्याकाशं प्रति प्रेषयितुं निश्चितम् अस्ति। सूक्ष्मगुरुत्वाकर्षणे कानिचन परीक्षणान्यपि सन्दर्भेऽस्मिन् प्रचलिष्यन्ति।

Monday, September 10, 2018

मृदंशेषु परिवर्तनं  मृत् अत्युष्णपूर्णं जातं बहुत्र।  
- रम्या पी यू। 
               तिरुवनन्तपुरम्> केरलराज्ये महाप्रलयनाशनष्टानन्तरम् मृत् अत्युष्णपूर्णा जायमाना  वर्तते तच्च प्रतिदिनं वर्धते अपि। दिने उष्णो वर्धितः  अमितमानत्वेन इति प्रतिभासः एतस्य कारणमिति वदन्ति। रात्रौ उष्णः तावता प्रमाणेन न्यूनः च जायते। मृदंशेषु जातं व्यत्ययं ज्ञातुं कार्षिकविश्वविद्यालयः दशमण्डलेभ्यः मृदंशान् स्वीकृत्य अध्ययनं आरभत। एकसप्ताहाभ्यन्तरे एतस्य फलं ज्ञातुं शक्यते।
राजीवगान्धिहत्या - सप्तापराधिनः विमोचयितुं तमिल्नाटु सर्वकारः I 
   चेन्नै > भारतस्य भूतपूर्वप्रधानमन्त्रिणः राजीवगान्धिनः हत्याप्रकरणे कारागारवासमनुभवतः सप्त अपराधिनः विमोचयितुं राज्यपालं बन्वारिलाल् पुरोहितं प्रति  तमिलनाडु सर्वकारेण उपदेशः कृतः। मुख्यमन्त्रिणः ए. पलनिस्वामिनः नेतृत्वे सम्पन्ने मन्त्रिसभामेलने एवायं निर्णयः! 
    अपराधिषु अन्यतमस्य 'पेररिवाल्' नामकस्य करुणायाचिका राज्यपालेन परिगणनार्हा इति सर्वोच्चन्यायालयस्य विधिमाधारीकृत्यैव अयं पदक्षेपः। पेररिवालस्य दयायाचिका परिगणनीया इत्यस्ति विधिरपि अन्ये षडपराधिन अपि दयायाचिकां समर्पितवन्तः इत्यतः एतेषां मोचनाय अपि उपदेशः कृतः आसीत्।
चौर्यलाभेन धनलवनं कुर्वताम् आतुरालयानाम् उपरि नियन्त्रणम् भविष्यति।
                                   - रम्या पी यू। 
    रोगिणां नीतिसंरक्षणं लक्षीक्रियमाणा नीतिपत्रिका यदा प्राबल्यमागच्छेत् तदा चौर्यलाभेन धनार्जनं कुर्वताम्  आतुरालयानामुपरि नियन्त्रणरज्जुः पतेत्। पत्रिकायाः सूक्ष्मरेखायाम् एकादशीं व्यवस्थामनुसृत्य औषधं स्वीकर्तुं रोगनिर्णयं कर्तुं च रोगिणा इच्छानुसारं स्थानं स्वीकर्तुं शक्यते। आतुरालयान् विहाय चौर्यलाभस्वीकर्तारः औषधशालाः परीक्षणशालाः च नियन्त्रयेदिति उद्देश्येन व्यवस्था योजिता।

        व्यवस्थामनुसृत्य वैद्याः  आतुरालयाधिकारिणः वा औषध, परीक्षणशालाः निर्देष्टुं औषधं चिकित्सां वा स्वीकर्तुं निर्बन्धं न कुर्युः। राष्ट्रियाङ्गीकारसमित्या अङ्गीकृतायां कस्मिन्नपि परीक्षणशालायां रोगी रोगनिर्णय, चिकित्साः कर्तुं शक्नोति। कार्यमेतत् रोगिणः बान्धवान् च ज्ञापयितुं दायित्वं वैद्यस्य तथा आतुरालयाधिकारिणां च। गतदिने एव केन्द्रारोग्यकार्यमन्त्रालयस्य कृते राष्ट्रियमनुष्याधिकारसमितिः रोगिणां नीतिपत्रिकायाः सूक्ष्मांशस्य प्रकाशनमकरोत्। आतुरालयेषु सूचीः हस्तावरणानि तः जीवनरक्षोपकरणानि पर्यन्तं उपकरणानां कृते अमितमूल्यं स्वीकुर्वन्तीति देशीयौषधमूल्यनिर्णय( एन् पी पी ए) समित्याः पठने निर्णीतम्। चिकित्सोपकरणानां विक्रयणेन कार्यशालाः विक्रेतारः आतुरालयाश्च 40 तः 600 प्रतिशतपर्यन्तं लाभं स्वीकुर्वन्ति। चिकित्सायाम् अतृप्तिश्चेत् अनुकूलमार्गमन्वेष्टुं च रोगी शक्नोति।
दशदिन संस्कृत संभाषणशिबिरं खान् पुरे सम्पन्नम्।
    खान्पुरम् > श्रीराम उच्चतर माध्यमिक विद्यालये दशदिन संस्कृतसम्भाष्णशिबिरं सम्पन्नम्। विद्यालयस्य प्राचार्यः रजनीश शर्मा समापनकार्यक्रमस्य अध्यक्षः आसीत् । दिव्यभारतम् शैक्षिक संस्थायाः सचिवः भागं स्वीकृतवान्I

Sunday, September 9, 2018

नेपालाय  नौकानिलयम् उद्घाटयन् चीनादेशः। 

    काठ्मण्डू > नेप्पालराष्ट्रस्य पण्यवस्तुगतागताय चीनाराष्ट्रेण चत्वारः  नौकानिलयाः उद्घाट्यन्ते। नेप्पालाय भूरिशः साह्यानि निक्षेपान् च दत्वा अस्य राष्ट्रस्य उपरि भारतस्य अधीशत्वहानिं सम्पादयितुमेव चीनस्य लक्ष्यम्।  नेपालस्य पण्यवस्तुवाणिज्याय  भारतीयनौकानाम् आश्रयत्वं अनेन प्रायेण न्यूनं स्यात्।
   भारतस्य चीेनस्य च सीमांशहरः  नेपालः इन्धनसहितानि अवश्यवस्तूनि देशान्तरादानेतुं भारतीयनौकास्थानानि एव आश्रयन्ते स्म। परन्तु २०१५ - १६ कालांशे भारतसीमायाम् आयोजितेन उपरोधेन  वस्तुगतागते स्थगिते नेपालः मासान् यावत् इन्धनेभ्यः औषधेभ्यश्च महान्तं क्लेशमनुभवति स्म।तस्मादारभ्य अस्मिन् विषये परिहारमन्विष्यते नेपालेन । गतदिने काठ्मण्डु मध्ये नेपालचीनयोः कार्यकर्तारैः कृतायां  चर्चायामेव नौकाश्रयोद्घाटनाय सन्धिः कृतःI
शिवकाश्यां स्फोटकनिर्माणशालायाम् अग्निबाधा-  द्वौ मृतवन्तौ। 
-रम्या पि यु
   शिवकाशी > तमिल्नाटु राज्ये शिवकाश्यां स्फोटकनिर्माणशालायां अग्निबाधया  द्वौ मृतवन्तौ। मारियप्पन्(35), कृष्णः(43) एतौ मृतवन्तौ। द्वयोः अवस्था गुरुतरा। पोन्नुस्वामी पाण्ड्यराजः नामकौ  भवतः गुरुतरावस्थायाम्। 90% अधिकम्  दग्धाः द्वावपि शिवकाश्याः सर्वकारातुरालयं प्रवेशितवन्तौ। शिवकाश्याः समीपे कक्किवाटन्पट्ट्यां शनिवासरे आसीत् अपघातः।  कर्मकरेषु स्फोटकनिर्माणं कुर्वत्सु  एव अपघातः । अग्निशमनसेना एक हाेराभ्यन्तरे  अग्निबाधां नियन्त्रणविधेयमकरोत्। मधुरायाः आरक्षकाः अन्वेषणम् आरब्धवन्तः।

Saturday, September 8, 2018

रूप्यकाणां मूल्यशोषणम् - ऋणस्य प्रत्यर्पणे ८०,०००० कोटि रूप्यकाणाम् अधिकभारः।
    मुम्बै> रूप्यकाणां मूल्यशोषणेन वैदेशिक- ह्रस्वकालिक ऋणानां प्रत्यर्पणे ७०,००० कोटि रूप्यकाणां अधिकभारः भविष्यति इति भारतीय स्टेट् बैंक संस्थायाः अनुसन्धान विभागेन गण्यते। भारतोद्योग संस्थानां विदेशऋणं विदेशेवर्तमानानां भारतीयानां निक्षेपः च आहत्य प्रत्यर्पणाय २१७६० डोलर् मितं भवतीति २०१७ तमस्य गणना। अस्मिन्  २०१८ तमस्य द्वितीय पादे ७.१ लक्षं कोटि रूप्यकाणि प्रत्यर्पणाय आसीत्I डोलर् धनस्य विनिमयमूल्यम् ६५.१ इति परिगण्यते चेत् भवति इदम् ।
जगति अद्य अन्ताराष्ट्रियसाक्षरतादिनत्वं समायोज्यते
-पुरुषोत्तमशर्मा
    यूनेस्को इति संस्थया पञ्चषष्ट्युत्तरैकोनविंशे वर्षे नवम्बरमासस्य सप्तदश दिनाङ्के अन्ताराष्ट्रियसाक्षरतादिनस्योद्घोषणा कृता। तदनु सर्वादौ १९६६ तमाब्दे सितम्बरमासस्य अष्टमे दिने जगति अन्ताराष्ट्रियसाक्षरतादिवस: समामानित:। अस्योद्देश्यं वैयक्तिक-सामुदायिक-सामाजिकस्तरेषु साक्षरताया: महत्वप्रकाशनं इति विद्यते। 
https://hi.m.wikipedia.org/wiki/अन्तर्राष्ट्रीय_साक्षरता_दिवस इत्यन्तर्जालसङ्केते प्रतिपादितं यत्   ७७.५ कोटि युवान: साक्षरताया: न्यूनतावशात् वशात् अप्रभाविताः सन्ति। ६.७ कोटि बाला: विद्यालयं नैव गच्छन्ति। अनियमितताभावादि-विविधकारणै: बाला: विद्यालयं परित्यजन्ति ।