OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 11, 2018

बाह्याकाश-यात्रिकेभ्यः विशेषवस्त्रम् ऐ एस्आर् ओ संस्थया प्रदर्शितम्।
     बंगलूरू > २०२२ तमे मनुष्यान् बाह्याकाशं प्रेषयितुम् उद्धिश्य यः यत्नः क्रियते तस्य साहायक रूपेपो भवति बाह्याकाशयात्रिकेभ्यः ऐ एस्  आर् ओ संस्थया कृतं विशेषवस्त्र निर्मणम् । बंगलूरे आयोजिते बाह्याकाशप्रदर्शनस्य षष्टे वारे एव वस्त्रस्य प्रदर्शनमभवत्। तिरुवनन्तपुरस्थे विक्रं साराभाय् बाह्याकाशकेन्द्रे वर्षद्वयस्य  प्रयत्नेन एव वस्त्रस्य निर्माणमभवत्। कपिशवर्णयुक्तस्य वस्त्रस्य अन्तर्भागः प्राणवायुना पूरितं वर्तते । इदानीं वस्त्रद्वयं निर्मितम्। २०२२ तमे भारतेन निर्मिते बाह्याकाशयाने त्रयान् यात्रिकान् बाह्याकाशं प्रति प्रेषयितुं निश्चितम् अस्ति। सूक्ष्मगुरुत्वाकर्षणे कानिचन परीक्षणान्यपि सन्दर्भेऽस्मिन् प्रचलिष्यन्ति।

Monday, September 10, 2018

मृदंशेषु परिवर्तनं  मृत् अत्युष्णपूर्णं जातं बहुत्र।  
- रम्या पी यू। 
               तिरुवनन्तपुरम्> केरलराज्ये महाप्रलयनाशनष्टानन्तरम् मृत् अत्युष्णपूर्णा जायमाना  वर्तते तच्च प्रतिदिनं वर्धते अपि। दिने उष्णो वर्धितः  अमितमानत्वेन इति प्रतिभासः एतस्य कारणमिति वदन्ति। रात्रौ उष्णः तावता प्रमाणेन न्यूनः च जायते। मृदंशेषु जातं व्यत्ययं ज्ञातुं कार्षिकविश्वविद्यालयः दशमण्डलेभ्यः मृदंशान् स्वीकृत्य अध्ययनं आरभत। एकसप्ताहाभ्यन्तरे एतस्य फलं ज्ञातुं शक्यते।
राजीवगान्धिहत्या - सप्तापराधिनः विमोचयितुं तमिल्नाटु सर्वकारः I 
   चेन्नै > भारतस्य भूतपूर्वप्रधानमन्त्रिणः राजीवगान्धिनः हत्याप्रकरणे कारागारवासमनुभवतः सप्त अपराधिनः विमोचयितुं राज्यपालं बन्वारिलाल् पुरोहितं प्रति  तमिलनाडु सर्वकारेण उपदेशः कृतः। मुख्यमन्त्रिणः ए. पलनिस्वामिनः नेतृत्वे सम्पन्ने मन्त्रिसभामेलने एवायं निर्णयः! 
    अपराधिषु अन्यतमस्य 'पेररिवाल्' नामकस्य करुणायाचिका राज्यपालेन परिगणनार्हा इति सर्वोच्चन्यायालयस्य विधिमाधारीकृत्यैव अयं पदक्षेपः। पेररिवालस्य दयायाचिका परिगणनीया इत्यस्ति विधिरपि अन्ये षडपराधिन अपि दयायाचिकां समर्पितवन्तः इत्यतः एतेषां मोचनाय अपि उपदेशः कृतः आसीत्।
चौर्यलाभेन धनलवनं कुर्वताम् आतुरालयानाम् उपरि नियन्त्रणम् भविष्यति।
                                   - रम्या पी यू। 
    रोगिणां नीतिसंरक्षणं लक्षीक्रियमाणा नीतिपत्रिका यदा प्राबल्यमागच्छेत् तदा चौर्यलाभेन धनार्जनं कुर्वताम्  आतुरालयानामुपरि नियन्त्रणरज्जुः पतेत्। पत्रिकायाः सूक्ष्मरेखायाम् एकादशीं व्यवस्थामनुसृत्य औषधं स्वीकर्तुं रोगनिर्णयं कर्तुं च रोगिणा इच्छानुसारं स्थानं स्वीकर्तुं शक्यते। आतुरालयान् विहाय चौर्यलाभस्वीकर्तारः औषधशालाः परीक्षणशालाः च नियन्त्रयेदिति उद्देश्येन व्यवस्था योजिता।

        व्यवस्थामनुसृत्य वैद्याः  आतुरालयाधिकारिणः वा औषध, परीक्षणशालाः निर्देष्टुं औषधं चिकित्सां वा स्वीकर्तुं निर्बन्धं न कुर्युः। राष्ट्रियाङ्गीकारसमित्या अङ्गीकृतायां कस्मिन्नपि परीक्षणशालायां रोगी रोगनिर्णय, चिकित्साः कर्तुं शक्नोति। कार्यमेतत् रोगिणः बान्धवान् च ज्ञापयितुं दायित्वं वैद्यस्य तथा आतुरालयाधिकारिणां च। गतदिने एव केन्द्रारोग्यकार्यमन्त्रालयस्य कृते राष्ट्रियमनुष्याधिकारसमितिः रोगिणां नीतिपत्रिकायाः सूक्ष्मांशस्य प्रकाशनमकरोत्। आतुरालयेषु सूचीः हस्तावरणानि तः जीवनरक्षोपकरणानि पर्यन्तं उपकरणानां कृते अमितमूल्यं स्वीकुर्वन्तीति देशीयौषधमूल्यनिर्णय( एन् पी पी ए) समित्याः पठने निर्णीतम्। चिकित्सोपकरणानां विक्रयणेन कार्यशालाः विक्रेतारः आतुरालयाश्च 40 तः 600 प्रतिशतपर्यन्तं लाभं स्वीकुर्वन्ति। चिकित्सायाम् अतृप्तिश्चेत् अनुकूलमार्गमन्वेष्टुं च रोगी शक्नोति।
दशदिन संस्कृत संभाषणशिबिरं खान् पुरे सम्पन्नम्।
    खान्पुरम् > श्रीराम उच्चतर माध्यमिक विद्यालये दशदिन संस्कृतसम्भाष्णशिबिरं सम्पन्नम्। विद्यालयस्य प्राचार्यः रजनीश शर्मा समापनकार्यक्रमस्य अध्यक्षः आसीत् । दिव्यभारतम् शैक्षिक संस्थायाः सचिवः भागं स्वीकृतवान्I

Sunday, September 9, 2018

नेपालाय  नौकानिलयम् उद्घाटयन् चीनादेशः। 

    काठ्मण्डू > नेप्पालराष्ट्रस्य पण्यवस्तुगतागताय चीनाराष्ट्रेण चत्वारः  नौकानिलयाः उद्घाट्यन्ते। नेप्पालाय भूरिशः साह्यानि निक्षेपान् च दत्वा अस्य राष्ट्रस्य उपरि भारतस्य अधीशत्वहानिं सम्पादयितुमेव चीनस्य लक्ष्यम्।  नेपालस्य पण्यवस्तुवाणिज्याय  भारतीयनौकानाम् आश्रयत्वं अनेन प्रायेण न्यूनं स्यात्।
   भारतस्य चीेनस्य च सीमांशहरः  नेपालः इन्धनसहितानि अवश्यवस्तूनि देशान्तरादानेतुं भारतीयनौकास्थानानि एव आश्रयन्ते स्म। परन्तु २०१५ - १६ कालांशे भारतसीमायाम् आयोजितेन उपरोधेन  वस्तुगतागते स्थगिते नेपालः मासान् यावत् इन्धनेभ्यः औषधेभ्यश्च महान्तं क्लेशमनुभवति स्म।तस्मादारभ्य अस्मिन् विषये परिहारमन्विष्यते नेपालेन । गतदिने काठ्मण्डु मध्ये नेपालचीनयोः कार्यकर्तारैः कृतायां  चर्चायामेव नौकाश्रयोद्घाटनाय सन्धिः कृतःI
शिवकाश्यां स्फोटकनिर्माणशालायाम् अग्निबाधा-  द्वौ मृतवन्तौ। 
-रम्या पि यु
   शिवकाशी > तमिल्नाटु राज्ये शिवकाश्यां स्फोटकनिर्माणशालायां अग्निबाधया  द्वौ मृतवन्तौ। मारियप्पन्(35), कृष्णः(43) एतौ मृतवन्तौ। द्वयोः अवस्था गुरुतरा। पोन्नुस्वामी पाण्ड्यराजः नामकौ  भवतः गुरुतरावस्थायाम्। 90% अधिकम्  दग्धाः द्वावपि शिवकाश्याः सर्वकारातुरालयं प्रवेशितवन्तौ। शिवकाश्याः समीपे कक्किवाटन्पट्ट्यां शनिवासरे आसीत् अपघातः।  कर्मकरेषु स्फोटकनिर्माणं कुर्वत्सु  एव अपघातः । अग्निशमनसेना एक हाेराभ्यन्तरे  अग्निबाधां नियन्त्रणविधेयमकरोत्। मधुरायाः आरक्षकाः अन्वेषणम् आरब्धवन्तः।

Saturday, September 8, 2018

रूप्यकाणां मूल्यशोषणम् - ऋणस्य प्रत्यर्पणे ८०,०००० कोटि रूप्यकाणाम् अधिकभारः।
    मुम्बै> रूप्यकाणां मूल्यशोषणेन वैदेशिक- ह्रस्वकालिक ऋणानां प्रत्यर्पणे ७०,००० कोटि रूप्यकाणां अधिकभारः भविष्यति इति भारतीय स्टेट् बैंक संस्थायाः अनुसन्धान विभागेन गण्यते। भारतोद्योग संस्थानां विदेशऋणं विदेशेवर्तमानानां भारतीयानां निक्षेपः च आहत्य प्रत्यर्पणाय २१७६० डोलर् मितं भवतीति २०१७ तमस्य गणना। अस्मिन्  २०१८ तमस्य द्वितीय पादे ७.१ लक्षं कोटि रूप्यकाणि प्रत्यर्पणाय आसीत्I डोलर् धनस्य विनिमयमूल्यम् ६५.१ इति परिगण्यते चेत् भवति इदम् ।
जगति अद्य अन्ताराष्ट्रियसाक्षरतादिनत्वं समायोज्यते
-पुरुषोत्तमशर्मा
    यूनेस्को इति संस्थया पञ्चषष्ट्युत्तरैकोनविंशे वर्षे नवम्बरमासस्य सप्तदश दिनाङ्के अन्ताराष्ट्रियसाक्षरतादिनस्योद्घोषणा कृता। तदनु सर्वादौ १९६६ तमाब्दे सितम्बरमासस्य अष्टमे दिने जगति अन्ताराष्ट्रियसाक्षरतादिवस: समामानित:। अस्योद्देश्यं वैयक्तिक-सामुदायिक-सामाजिकस्तरेषु साक्षरताया: महत्वप्रकाशनं इति विद्यते। 
https://hi.m.wikipedia.org/wiki/अन्तर्राष्ट्रीय_साक्षरता_दिवस इत्यन्तर्जालसङ्केते प्रतिपादितं यत्   ७७.५ कोटि युवान: साक्षरताया: न्यूनतावशात् वशात् अप्रभाविताः सन्ति। ६.७ कोटि बाला: विद्यालयं नैव गच्छन्ति। अनियमितताभावादि-विविधकारणै: बाला: विद्यालयं परित्यजन्ति ।

Friday, September 7, 2018

विश्वसंस्कृतप्रतिष्ठानस्य शिक्षक-प्रशिक्षण-शिबिरं तृश्शूर् जनपदे।
     कोटिलिङ्गपुरम्> विश्व संस्कृतप्रतिष्ठानेन आयोक्ष्यमाणं राज्यस्तरीय शिक्षक प्रशिक्षणशिबिरम् अस्मिन् संवत्सरे तृश्शिवपेरूर् जनपदे भविष्यति। डिसंबर्मासस्य विरामदिनेषु भविष्यमाणे शिबिरे भागं कर्तुं सर्वेषां संस्कृतज्ञानां सन्दर्भः अस्ति। शिबिरे भागं कर्तुं  ये इच्छन्ति तेषां कृते भाषाबोधनवर्गः निश्चितः अस्ति।
सेप्तंबर् २०, २१, २२, २३ दिनाङ्केषु एव भाषाबोधनवर्गः। भाषाबोधनवर्गे उपस्थितेभ्यः एव प्रशिक्षणशिबिरप्रवेशः। तत्परैः दूरवाणिद्वारा सम्पर्क: करणीय : इति शिक्षणविभागेन उक्तम्। दूरवाणी- 944630 3586, 9539058960   ॥
बंगलूरु विमाननिलयः मुखं दृष्ट्वा यात्रायै अनुज्ञां प्रदास्यति।
     बंगलूरु> यात्रिकाणां मुखं दृष्ट्वा यात्रायै अनुज्ञां दातुं बंगलूरस्थविमाननिलयेन नूतनविद्या सज्जीक्रियते। अनया सुविधया यात्रानुज्ञापत्रस्य कृते समयनष्टः न भविष्यति। विमानिलयस्य द्वारे प्रवेशनकाले एव प्रत्यभिज्ञाभविष्यति। नूतन संविधानानुबन्धतय लिस्बणस्थ डिजिट्टल् आन्ट् बयोमेट्रिक् सोलूषन्स् इति संस्थया सह सन्धिः कृता अस्तीति बंगलूरु अन्ताराष्ट्र विमान-निलयाधिकारिभिः उक्तम्। बयोमेट्रिक् रीत्या यात्रानुज्ञाप्रक्रिया सुकरा इति तैः उक्तम्। प्रमाणपत्राणाम् आधिक्यं विना यात्रानुज्ञा सुललिता भविष्यति।
    केन्द्रसर्वकारेण निर्दिष्टा 'डिजि' यात्रायोजनायै साहाय्यकी भवति इयं सुविधा। २०१९ तमे एप्रिल्मासात् पूर्वं काकदरहितं  कर्तुम् इयं सुविधा प्रबलं भविष्यति।

चीनः भारतात् भीतः भविष्यति।
निगुढचलनानि भारतं प्रति अमेरिकेन आवेद्यते।
     नवदिल्ली > चीनादयानां शत्रुराष्ट्राणां अन्तर्वाहिनीनां युद्ध नौकानां निगूढप्रक्रमान् प्रत्यभिज्ञातुं भारत नाविकसेनायै अमेरिका राष्ट्रस्य साह्यःभविष्यति। अमीरिकीय सख्यराष्ट्रान् प्रति दीयमाना CENTRIXS इति विशेषविद्या भवति इयम्।
   भारत-यु एस् बन्धं प्रबलं कृत्वा उभयोः राष्ट्रयोः मिथः हस्ताक्षरीकृतस्य COMCASA - Communications Compatibility and Security Agreement सम्मतिपत्रस्य हस्ताक्षरीकरणस्य भागतया भवति इयम् सुविधा। अनया शत्रुराष्ट्रस्य युद्धनौकायाः अन्तर्वाहिन्यः वा सन्निधिः स्यात् चेत्‌ तदधिकृत्य विवरणानि भारत नाविकसेनायै लब्स्यते इत्येव लाभः।

Thursday, September 6, 2018

पर्यावरणव्यतियानम्-  पश्चिमघट्टे इतोपि आघाताः सम्भवेयुरिति विदग्धाभिप्रायः।  
    कोच्ची > पर्यावरणव्यतियानेन पश्चिमघट्टे इतोपि आघाताः सम्भवेयुरिति विदग्धाभिप्रायः। कोच्ची शास्त्रसाङ्केतिकविश्वविद्यालयस्य  पर्यावरणानुसन्धानविभागः केरलीयधीवरैक्यवेदिश्च मिलित्वा सञ्चालितायां शिल्पशालायामेव एषः अभिप्रायः प्रादुरभूत्।
   आरबसागरे प्रादुर्भूयमानः न्यूनमर्द्दः केरलराज्यमेव अधिकाधिकम् बाधते। तीरसंरक्षणम्, पश्चिमघट्टसंरक्षणं च अतिजाग्रतया जनसहकारेण च कुर्यात्। राज्येन साक्षीभूतस्य महाप्रलयस्य कारणं प्रकृतिचूषणं  जलबन्धनिर्वावाहकसमित्याः अनवधानता तथा अशास्त्रीयनिर्माणानि च। पर्यावरणव्यतियानसम्बन्धीनां सूचनानानां  परिगणना न कृता इत्यपि अपघातस्य व्याप्तिमवर्धयत् इति च शिल्पशालायाः निरीक्षणम्।
जापानराष्ट्रे भूचलनम् - १९ जनाः अदर्शनं गताः।
  टोक्यो > उत्तरजापानस्य हो क्कायिडो द्वीपे जायमानेन भूचलनेन १९ जनाः अदर्शनं गताः इत्यावेद्यते। रिक्टर् मापिन्यां शक्तिः ६.७ इति अङ्कितं भूचलनं गुरुवासरे प्रभातात् पूर्वमेव अभूत्। भूचलनानुबन्धतया जायमानेन मृत्पातेन संख्याधिकानि गृहाणि विशीर्णानि। विद्युत्बन्धः विनष्टाः। १२० जनाः क्षताः अभवन्। पट्टिकायानविमानादिसेवाः स्थगिताः च।
गुरुणा समं न गूगिलः - वेङ्कय्यनायिडुः।
      नवदिल्ली> राष्ट्रस्य शिक्षामण्डले उत्तरोत्तरं वर्धमाने सत्यपि गुरुणा तुल्यः गुरुरेव। न गूगिलः इति उपराष्ट्रपतिना वेङ्कय्यनायिडुवर्येण उक्तम्। राष्ट्रिय अध्यापक-पुरस्काराणां वितरण-वेदिकायाम्  आसीत् उपराष्ट्रपतेः परामर्शः। प्राथमिकशिक्षा मातृभाषायां दातव्या इति अध्यापकैः मनसि सदा कल्पनीयम्। विषयेस्मिन् राज्य-केन्द्रसर्वकारैः उपक्रमाः स्वीकरणीयाः इत्यपि तेन महोदयेन उक्तम्। अन्ध्राप्रदेशस्य नेल्लूर्देशे गुरोः पुरतः सिकतायां विलिख्य अध्ययनमारभ्य, मम भारतस्य द्वितीयस्थानं प्राप्तुम् अवसरः लब्धः इति सः साभिमानेन उक्तम्। 

Wednesday, September 5, 2018

कोलक्कत्ताराज्ये गतागत सेतुः भग्नीभूय एकः हतः।
       कोल्कत्ता > दक्षिण कोल्कत्तादेशे बहु सम्मर्दयुक्तमार्गस्य गतागतसेतोः कश्चन भागः भग्नः अभवत्। एकः हतः। क्षताः नवजनाः आतुरालयं प्रविष्टाः। अलिपुरप्रदेशस्थ 'मजेर्हट्' सेतोः भागः एव मङ्गलवासरे सायंकाले आसीत् इयं दुर्घटना। नैकाः द्विचक्रिकाः कार्यानानि च सेताः भग्नावशिष्टानां मध्ये बद्धाः अभवन्I पञ्चविंशति जनाः ततः रक्षिताः इति पि टि ऐ वार्तासंस्थया निगदितम्। यन्त्रखनित्राणि उपयुज्य रक्षाप्रवर्तनानि अनुवर्तन्ते।
      घटनायां पञ्चजनाः हताः इति आवेदनम् आगतं चेदपि राज्यसर्वकारेण न प्रमाणीकृतम्। ४० वर्षाणां पुरातनत्वमस्ति सेतोः। समीप प्रदेशं प्रति गतागताः स्तगिताः। सैनिकाः स्वेच्छया सुरक्षाप्रवर्तनाय अवतरिताः।

Tuesday, September 4, 2018

भारताय धनसाहाय्यः- ब्रिट्टीष् विधानसभायां प्रतिषेधः।
      लन्टन् > चन्द्रयानादयः बृहत्याः योजनायाः यजमानाय  दातुं निश्चितं  आर्थिकसाहाय्म् विरुद्ध्य ब्रिट्टीष् विधानसभायाम्  प्रतिषेधः अभवत्I प्रशाशासनदलीयः कण्सर्वेट्टीव् दलस्य केचन अङ्गाः एव एवं विप्रतिपत्तिं प्रकाशितवन्तः । भारताय साक्षात् धनसाहाय्यं ब्रिट्टनेन अवसितं आसीत्। चेदपि नूतन-विकास-परियोजनायै कोटिशः पौन्ट् धनम् इदानीमपि ददाति स्म। २०१८-१९ संवत्सरे ५२ दशलक्षं पौण्ट्, २०१९-२० संवत्सरे ४६ दशलक्षं पौण्ट् च राष्ट्रान्तरविकसन विभागेन भारताय साहाय्यं ख्यापितम्। ईदृशसाहायं संसूच्य आसीत्  विप्रतिपत्ति प्रकाशनम्।
      ९५.४ दशलक्षं पौण्ट् व्ययीकृत्य भवति चन्द्रयानपरियोजना। अवसरेस्मिन् दीयमानः आर्थिक साहाय्यः तेषां परियोजनायाः प्रायोजक रूपेण परिणीयमानाः वयं इति भावनोत्पादनाय हेतुः भविष्यति इति कण्सर्वेट्टीव् दलस्य अङ्गेन डेविड्डेविसेन उक्तम्।
उत्तरध्रुवे आधार-निलयसंस्थापनाय ISRO; प्रथम वैदेशिकनिलयः निर्मीयते।
      बेङ्गलूरु> भारत बाह्याकाश अनुसन्धान संस्थया उत्तर ध्रुवे भौमाधारनिलयस्य संस्थापनाय सज्जः भवति। ऐ एस् आर् ओ संस्थायाः प्रथम वैदेशिकाधारनिलयः भवत्येषः इति अधिकृतानां नाम्नि टैंस् आफ् इन्ट्यया आवेदितम्।
    वर्षद्वयात् पूर्वं चीनः उत्तरध्रुवे आधरनिलयस्य स्थापनमकरोत्।
'इन्ट्यन् रिमोट् सेन्सिङ् ओपरेष़न्स्' सुविधा संवर्धनीया इत्यस्ति निलयसंस्थापनस्य लक्ष्यः। तथापि अन्ताराष्ट्रानुज्ञा आवश्यकी इत्यनेन योजनायाः संस्थापने कालविलंबः भाविष्यति इति वैज्ञानिकवृत्तानां पक्षतः लब्धा सूचना ।