OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 25, 2018

कोच्ची अन्तराष्ट्रिय विमाननिलयः २९ तमे प्रवर्तनसज्जः भविष्यति।
  कोच्ची > महाप्रलयमनुबन्ध्य प्रवर्तनविरतः कोच्ची अन्ताराष्ट्रिय विमाननिलयः (सियाल्) आगस्ट् नवविंशतिदिनाङ्कादारभ्य पूर्णतया प्रवर्तनसज्जः भविष्यतीति सियाल् अधिकारिवर्गेण निगदितम्। पञ्चदश दिनाङ्के (१५) पिहितस्य निलयस्य प्रवर्तनं षट्विंशति दिनाङ्कतः (२६) पुनरारब्धुं शक्यतेति पूर्वमुक्तमासीत्।
कुल्दीप् नय्यारः दिवं गतः।
  नवदिल्ली > भारतीयपत्रकारमण्डलस्य अनन्यव्यक्तित्वेषु अन्यतमः कुलदीप नय्यारः दिवंगतः। पञ्चनवतिवयस्कः आसीत्! पत्रिकास्वतन्त्रतायै पोैराधिकाराय च अनवरतं प्रयत्नं कृतवानेषः अनन्यसामान्यवार्तानां (Exclusive) नामान्तरमासीत्। 
    जवहर् लाल् नह्रोः अनुगामिरूपेण लाल् बहदूर् शास्त्रिणः नियुक्तिः, आकस्मिककालानन्तरं पुनरपि स्पर्धयितुम् इन्दिरागान्धिनः निर्णयः, पाकिस्थानस्य भूतपूर्वप्रधानमन्त्रिणः सुल्फिक्कर् अलि भूट्टोवर्यस्य मृत्युदण्डवार्ता च नय्यारेणैव प्रथमतया बहिर्नीताःI

Friday, August 24, 2018

दुरिते समाश्वासाय स्वस्य भूमिं प्रदातुं विद्यालयछात्रा
    कण्णूर् > केरले दुरापन्ने महाप्रलयात् रक्षां प्राप्तुं प्रयतन्ते केरलाः। सर्वेषां नैजं सर्वं विनष्टम् अभवत्। सन्दर्भेऽस्मिन् काचन बालिका स्वस्य पैतृकं भूमिं दानाय निश्चितवती। पय्यन्नूरस्थ षेणायी स्मारक विद्यालयस्य विद्यार्थिनी स्वाहा भवति एषा। तस्यै तस्याः अनुजाय च लब्धं पैतृकभूमिः 'एकर्' मितम् अस्ति। पञ्चाशत् लक्षं मूल्यमस्ति भूमेः।
     अस्याः पिता शङ्करः कृषकः एव। माता विधुबाला सोदरः ब्रह्म च भवतः। दुरितबाधितानां कृते किमपि वा दातव्यमिति तस्याः अभिलाषःI सा केरलस्य मुख्यमन्त्रिणः दुरिताश्वास निधिम् प्रति भूमिं समर्पितवती। कालेऽस्मिन् दानविमुखाः भूरिः वर्तन्ते। अस्मिन् काले ईदृशदानकर्म सर्वेस्मै आदर्शभूतः एवः। अनेन दानेन सर्वे इदानीम् अद्भुत-स्तब्धाः अभवन्।

Thursday, August 23, 2018

राफेल् सन्धिः- आरोपणं स्थगनीयम्  - कोण्ग्रस् दलं प्रति रिलयन्स्  संस्थायाः सूचनापत्रम्।
     नवदिल्ली> राफेल् युद्धविमान सन्धिमधिकृत्य आरोपणं स्थगनीयं  नो चेत् नियमप्रक्रमः भविष्यति इति  कोण्ग्रस् दलं प्रति रिलयन्स् संस्थया सूचनापत्रम् प्रेषितम्।
     अनिल् अम्बानी इत्याख्यस्य स्वामितायां वर्तमानेन रिलयन्स् इन्फ्रास्ट्रक्चर् , रिलयन्स् डिफन्स्, रिलयन्स् एयरोस्टेर् इत्यादिभिः संस्थाभिः एव सूचनापत्रं प्रेषितम्। कोण्ग्रस् नेतारः उत्तरवादित्वेन वर्तितव्याः। राजनैतिक दलनेतारः  तेषाम् अभिमत-प्रकाशनाधिकारः स्वेच्छया निरुत्तरवादरूपेण कूर्वन्ति। सः अधिकारः  अनुज्ञापत्रमिति विचारः मास्तु, इत्यपि सूचनापत्रे लिखितम् अस्ति।

तृतीया निकषस्पर्धा - भारतस्य विजयः।
    नोट्टिङ्ङाम् > ट्रन्ट् ब्रिज मध्ये सम्पन्नायां तृतीयायां क्रिकेट् निकषस्पर्धायां आतिथेयराष्ट्रं इङ्लण्टं विरुध्य भारतदलस्य त्र्यधिकद्विशतं  (२०३) धावनाङ्कानां समुज्वलविजयः। एषो विजयः केरलेषु प्रलयक्लेशबाधितानां कृते समर्प्यते इति नायकः विराट् कोली उक्तवान्। क्रीड़या लब्धमाना  सम्मानसंख्या (match fee) सर्वा प्रलयबाधितेभ्यः दीयते इत्यपि तेनोक्तम्।  गतं क्रीड़ाद्वयमपि भारतेन पराजितमासीत्! ततः उत्साहोज्वलं प्रत्यागमनमेव भारतदलेन कृतम्। परं निकषद्वयम् अवशिष्यते।
'मिषन् गगनयान्' कर्मभूमै नेतृत्वं वोढुं स्त्रीशक्तिः।
    बंगलूरु > ऐ एस् आर् ओ संस्थायाः नूतनपरियोजनायाः कर्मभूमौ नेतृत्वपदे  डा. वि आर् ललिताम्बिका। विक्रं साराभाय् बाह्याकाशकेन्द्रस्य उपनिर्देशिकास्थाने विराजमाना आसीत् एषा। मानवं द्वाविंशत्यधिक द्विसहस्र तमे बाह्याकाशं प्रेषयितुमुद्दिश्य भवति नूतन परियोजना।  भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना गते स्वतन्त्रतादिने प्रकाशितेयं योजना। नव सहस्रंकोटि रुप्यकाणि एतदर्थं परिकल्पितानि सन्ति। परियोजनायाः प्राथमिक प्रवर्तनानि मासत्रयात् पूर्वं समारब्धानि। एषा केरलीयवनिता त्रिंशत् वर्षाणि यावत् ऐ एस् आर् ओ संस्थायां कर्मचारी रूपेण अस्ति।  संख्याधिकाः पुरास्काराः अपि तस्यै लब्धाः सन्ति।
जगति अद्य संस्कृतसप्ताहोत्सव: प्रारभते
-पुरुषोत्तम शर्मा 
   संस्कृतदिवस: आगामि रविवासरे आयोजयिष्ये। ऐषम: संस्कृतसप्ताह: ऑगस्तमासस्य त्रयोविंशतिदिनाङ्कात् नवविंशतिदिनाङ्कं यावत् समाचर्यते। अस्मिन् सप्ताहे जगति संस्कृतजनै: नैके कार्यक्रमा: उत्सवत्वेनायोज्यन्ते। संस्कृतशिक्षणसंस्थानेषु विद्यार्थिभ्य: विविधस्पर्धा: समायोज्यन्ते। 
  प्रशासनेतर-संस्कृतसंस्थाभि: संस्कृतप्रचाराय शोभायात्रा: सम्भाषणशिबिराणि प्रदर्शिन्य: परिसंवादकार्यक्रमाश्च विधीयन्ते। भाषाप्रचाराय संस्कृतज्ञा: सामाजिकसञ्चारमाध्यमेषु विविधस्तरेषु लेखनं चित्रप्रदर्शनं दृश्याङ्कनञ्च कुर्वन्ति।

Wednesday, August 22, 2018

मुम्बय्यां भवनसमुच्चये अग्निबाधा - द्वौ मृत्यू। 
मुम्बई > मुम्बय्यां परेलस्थे अधिवाससमुच्चये सञ्जातायाम् अग्निबाधायां द्वौ मृत्युमुपगतौ। चतुर्दश जना आहताः।  रक्षां प्राप्तवन्तः के ई एम् आतुरालयं प्रवेशिताः! परेलस्थे 'हिन्द् माता' चलनचित्रालयस्य समीपे वर्तमाने 'क्रिस्टल टवर्' नामकस्य भवनसमुच्चयस्य द्वादशस्तरे आसीत् अग्निबाधा।
एष्यन् गेयिंस् - वनितानां होकी क्रीडायां भारताय विजयः
          जक्कार्ता>एष्यन् गेयिंस् मध्ये वनितानां होकी क्रीडायां प्राथमिकचक्रे कसाकिस्थानस्योपरि भारतस्य एकपक्षीयविजयः। क्रीडायां भारतवनिताः २१अवसरेषु लक्ष्यं प्रापयन्। भारतसंघे लक्ष्यरक्षिकाम् अतिरिच्य अन्याः सर्वाः अपि लक्ष्यं प्राप्तवत्‍यः इति क्रीडायाः सविशेषता भवति। भारतस्य चतस्रः वनिताः वारत्रयं लक्ष्यं प्राप्तवत्यः। 'एष्यन् गेयिंस् '  प्रगतचक्रस्य पित्तलस्य जेता भवति भारतम्।
क्लेशार्णवात् केरलम् उत्तरति, स्वच्छप्रवर्तनं कठिनतरम्।
        कोच्ची > प्रलयजले अवतर्तुमारब्धे   प्रलयदुरन्तात् केरलराज्यं मन्दं मन्दम् उत्तरति। किन्तु कुट्टनाट् प्रदेशः इदानीमपि जलनिमग्नः वर्तते। समुद्रवितानात् नीचस्तरे एव कुट्टनाट् प्रदेशस्य स्थानम्! अत एव जलस्य बहिर्गमनविलम्बः। 
       क्लेशसमाश्वासशिबिरेभ्यः जनाः स्ववासस्थानानानि प्राप्नुवन्ति। किन्तु गृहाणि पङ्कनिमग्नानि वर्तन्ते। सर्पादिविषजन्तूनां सान्निद्ध्यमपि भीतिजनकं वर्तते। अतः गृहाणां स्वच्छप्रवर्तनं कठिनतरमस्ति। केरले सर्वत्र सन्नद्धसेवकाः स्वयंसेवकसंघाश्च स्वच्छप्रवर्तने निरताः सन्ति।

Thursday, August 16, 2018

अटलजी इत:परं स्मृतिपथे। 
   भारतराष्ट्रियस्य मानविकताया: मुखम् इति सुज्ञातः अटलबिहारी वाजपेयी दिवंगत:। त्रिणवतिवयस्क:। देहल्या: एयिंस् आतुरालये आसीदन्त्यम्। वृक्करोगबाधया जूण् एकादशे आतुरालयम् प्रविष्टः आसीत्। त्रिवारम् प्रधानमन्त्रिपदमारूढवान्  सः  शासनकालम् पूर्णम् अकरोत्। 

Wednesday, August 15, 2018

सामाजिकजीवने गान्धिमार्गः समुचितः - राष्ट्रपतिः। 
नवदिल्ली > महात्मागान्धिनः अहिंसादर्शनाय प्राधान्यं ददन् राष्ट्रपतेः रामनाथकोविन्दस्य स्वतंत्रतादिनसन्देशः। सामाजिकजीवने अक्रममार्गः निष्कासितव्यः। सर्वैः महात्मागान्धिनः अहिंसासिद्धान्तः अनुकर्तव्य इति राष्ट्रपतिना उद्बोधितम्। राष्ट्रे सर्वत्र जनसमूहहत्याः अतिक्रमाश्च वर्धमाने सन्दर्भे एव राष्ट्रपतेः  एतादृशं निरीक्षणम्।
पुनरपि केरले प्रलयकोपावेशः - १२ जनपदेषु अतिजाग्रतानिर्देशः - कोच्चि विमाननिलयः पिहितः।
     कोच्ची > केरलराज्ये कतिपयदिनानां विरामानन्तरं पुनरपि महाप्रलयः। अतिवर्षानुबन्धप्रकृतिदुरन्तेषु जनाः दैन्यमनुभवन्ति। केरलस्य ३३ जलबन्धाः जलवितानोद्गमनेन जलबहिर्गमनद्वाराणि उद्घाटितानि। सर्वाः नद्यः आप्लुतोदकाः प्रवहन्ति। नदीतटनीचप्रदेशाः उपप्लवे निमज्जिताः। तन्निवासिनः क्लेशसमाश्वासशिबिराणि प्रति नीताः।
     कोषिक्कोट् जनपदे नवस्थानेषु भूस्खलनानि अभवन्। दुष्प्रभावे १२ जनाः मृताः। कोच्ची अन्तर्राष्ट्रविमाननिलयः चत्वारि दिनानि यावत् पिहितः वर्तिष्यते।
स्वतन्त्रता दिनस्य शुभाशंसाः।
   अद्य भारतस्य द्विसप्ततितमं स्वातन्त्र्यदिनम्। भारतस्य प्रधानमन्त्री श्री नरेन्द्रमोदी 
  आशंसाभाषणम् अकरोत्‌ , भारतस्ववतन्त्रतायाः ध्वजारोहणं च अकरोत्।
भग्नभीषायां वर्तमानः मुल्लपेरियार् जलबन्धः जलेन पूर्यते। केरलजनाः पुनरपि भीत्याम्I
        कुमळी /केरलम् > मुल्लपेरियार् नाम जलबन्धे जलवितनं षट्त्रिंशदधिकै कशतं पादमितम् अभवत्I अस्य संवहनक्षमता द्विच त्वारिंशदधि कैकशत-पादपरिमिता भवतिI जलबन्धस्य वृष्टिप्रदेशेषु इदानीमपि वृष्टिः अनुवर्तते। जलवितानां द्विचत्वारिंशादधिकैकशतं (१४२) आगच्छति चेत् अधिकं जलं तमिल् नाड् राज्यं प्रति नेष्यति।

      वृष्टिपातेन अधिकं जलं जलबन्धे समागच्छति चेत् जलं बहिः नेतुं अधिकारः तमिल् नाट् सर्वकारस्य एवI जलबन्धः भग्नः चेत्  महाहानिः केरलस्येव इत्यस्थि वैरुद्ध्यम्। केवलं पञ्चदशवर्षपर्यन्तं यावत् भवति पुरातनोऽयं जलबन्धस्य आयुः इति विचारितःI जलबन्धस्य पुरातनत्वं तथा अबलत्वं च परिकल्प्प्य जलविधानं न्यूनं करणीयमित्यस्ति केरलस्य आवश्यम्। किन्तु सर्वोच्चच न्यायालयस्य आदेशस्य बलेन जलवितानं १४२ इति उपरि वितानं स्थातुम् तमिल् नाट् सर्वकाराय सन्दर्भः अलभत्। किन्तु प्रकृतिदुरन्तस्य पुरतः सर्वोच्च न्यायालयस्य आदेशस्य स्थानं वर्तते वा इति जनाः पृच्छन्ति।

Monday, August 13, 2018

पुण्यकोटिः- अनुप्राणित-उल्लिखित-चल-चित्रे भागं कर्तुम् अवसरः।

     कोच्चीची> पुण्यकोटिः नाम दक्षिणभारतस्य एकेन प्रख्यातजानपदगीतेन प्रेरितम् आदिममं संस्कृतभाषामयं अनुप्राणित-उल्लिखित-चल-चित्रं भवितुं सिद्धं वर्तते । इन्फोसिस्-नामिकायां सङ्गणकसूचना-प्रौद्योगिकी-संस्थायां प्रौद्योगिकी-तन्त्रज्ञत्वेन कार्यं कुर्वाणेन रविशङ्कर-नाम्ना संस्कृत-अनुरागातिरेकात् लिखित-निर्मितम् इदम् चित्रम् अद्यतनीयेषु युवसु संस्कृतप्रचारार्थम् । एतत् कर्म भारते तत्र तत्र निवसताम् अनेकेषां चित्र-अनुप्राणन-तज्ज्ञानाम् सश्रद्धं कठिनपरिश्रमस्य परिणामः अस्ति, येषु केचन निस्स्वार्थाः  इदं सत्कर्मार्थम् इति भावयन्तः धन-लाभ-अनपेक्षाः अपि । अपि च बहुप्रख्यातः इलयराजा-नामकः सङ्गीतनिर्माता अस्य चित्रस्य सङ्गीतरचयिता अस्ति। तथा दक्षिणभारते अतिविख्याता रेवती-नामा चल-चित्र-अभिनेत्री अस्मिन् चित्रे स्वध्वनिदानेन भागं निरवहत् ।

      एतन्निमित्तं रवि-वर्येण अद्यावधि प्रायः ५३ लक्षं रूप्यकाणि सञ्चितानि सन्ति स्वहितैषिणाम् अपि च चित्रस्य तद्गतसन्देशस्य च अनुमोदकानाम् च साहाय्यात् । विश्बेरी-नामिकायाः संस्थायाः मञ्चस्य द्वारा परिकल्पितां जन-समूह-अर्थ-दान-व्यवस्थाम् उपयुज्य आभारतं निवसन्तः अनेके जनाः अग्रे आगत्य यथाविधं स्वभागदानं कृतवन्तः । तेषां एवं करणस्य मुख्यकारणम् अस्ति संस्कृते अनुरागः । तथाऽपि इदं विश्वस्तरे श्लाघनीयम् अनुप्राणित-चित्रं निर्मातुम् इतोऽपि अधिकं २३ लक्षं अपेक्ष्यते रवि-वर्येण । एतस्य समुद्यमस्य साहाय्यकर्तृषु अनुमोदकेषु अन्यतमाः राजन्ते भूतपूर्वः इन्फ़ोसिस्-निर्देशकः मोहनदास-पाय्-वर्यः, कर्णाटकस्य प्रथमा महिला ऐ.पी.एस्. अधिकारिणी जीजा-हरिसिङ्ग्-वर्या , राष्ट्रियपुरस्कारभाक् सम्पादकः मनोज-कन्नत्-वर्यः तथा लोकविदित-पाञ्चालिकाचालकौ अनुपमा विद्याशङ्कर-होस्केरेवर्यः च। स्वयं रवि-वर्यस्य पुत्री बहुभाषापटुः संस्कृतभाषिणी च स्नेहा-नामिका अपि अत्र स्वध्वनिदानेन उपकृतवती।

        पाश्चात्य-संस्कृतेः सङ्कलनात् संस्कृतभाषा अद्य शनैः  किञ्चित् पृष्टमेव अवशिष्यते। पुण्यकोटि-चित्र-द्वारा एतां दिव्यां भाषाम् उद्धरन् सत्ययुक्तस्य जीवनस्य महिमानं, निसर्गानुकूलां जीवनरीतिं च युवजनेभ्यः प्रतिबोधयितुं रविवर्यः आशास्ते।

        संस्कृतजगति अन्तर्भूतानां भवतां अधुना अस्माकं संस्कृतिं इतिहासं च प्रपञ्चकलाक्षेत्रपथे स्थापयितुं कश्चिदयं अवकाशः । प्रचारोऽयम् अधुना चित्रं सम्पूर्णतां नेतुं आर्थिकव्यवस्थां परिकल्पयन् वर्तते यत्र भवन्तः साहाय्यं कर्तुम् अवकाशः जातः ।   भवन्तः अत्र (http://bit.ly/2M3cBDm) भागदानेन स्वानुमोदनं दर्शयन्तु अन्यजनेषु च सूचनामिमां प्रसारयन्तु ।
अतिवृष्टिः न्यूना; केन्द्रगृहमन्त्री प्राप्तः; दैन्याय आश्वासः। 
     कोच्ची > केरलस्य जलबन्धवृष्टिप्रदेशेषु अतिवृष्टेः अल्पमात्रन्यूनता इत्यतः प्रलयदैन्यस्य आशङ्का अपगम्यमाना वर्तते। किन्तु जलबन्धेभ्यो बहिर्नीयमानजलपरिमाणे न्यूनता न कृता। अतः यत्र यत्र जलोपप्लवः सञ्जातः तत्रत्याः जनाः इदानीमपि दैन्याश्वासशिबिरेषु एव वर्तमानाः सन्ति। 
   केन्द्रगृहमन्त्री राजनाथसिंहः ह्यः केरलमागत्य जलोपप्लवदैन्यानि साक्षात्सन्दृष्टवान्। राज्यचरिते बृहत्तमः प्रकृदुरन्त इति दुरन्तमण्डलानि साक्षाद्दृष्ट्वा तेनोक्तम्। शतकोटिरूप्यकणां धनसाहाय्यं  शीघ्रसाह्यरूपेण केन्द्रमन्त्रिणा प्रख्यापितम्। 
     गतदिने मुख्यमन्त्री पिणरायि विजयः उदग्रयानेन केरलानां दुरन्तबाधितप्रदेशान् सन्दृश्य स्थितिगतयः अवलोकितवान्। ८३१६कोटिरूप्यकाणां विनष्टः केरलेषु प्रकृतिदुरन्तेन सञ्जात इति मुख्यमन्त्रिणा प्रोक्तम्। १२२० कोटि रूप्यकाणां साहाय्यं केन्द्रसर्वकारं प्रति अपेक्षितम्। अतिवृष्टिदुष्प्रभावे केरलेषु इतःपर्यन्तं ३४ जनाः मृत्युमुपगताः। ५३,००० अधिकं जनाः दैन्याश्वासकेन्देषु अभयं प्राप्ताः सन्ति।
सूर्यं स्प्रष्टुम् उद्गच्छति 'पार्कर् सोलार् प्रोब्'।

     फ्लोरिड> सूर्यं लक्ष्यीकृत्य नसा संस्थायाः पार्कर् सोलार् नाम पर्यवेषणयानं विक्षिप्तम्।  फ्लोरिड देशस्य केन्नडि भौमान्तरकेन्द्रतः आसीत् विक्षेपणम्। शनिवासरे बह्मयामे आसीत् विक्षेपणम् I 'कोरोण' इति व्यवह्रियमाणां सूर्यस्य अन्तरिक्षनिगूढतामधिकृत्य अध्ययनमेव पार्कर् सोलार् प्रोबस्य लक्ष्यम्। 'डेल्ट फोर्' नाम आकाशबाणमारुह्य आसीत् प्रोबस्य विक्षेपणम्।

    सूर्यस्य उपरितलात्‌ अष्टनवतिलक्षं किलोमीट्टर् समीपस्थे भ्रमणपथे एव प्रेटकं सूर्यं प्रदक्षिणीकरोति। एतावत् समीपस्थभ्रमणपथे जायमानम् अत्यधिकं तापमपि सोढुं शक्तं भवति पेटकम्। ग्रहाणां वातावरणे सौरवाताः कथं स्वाधीनतां कुर्वन्ति इति ज्ञातुम् अनेन प्रभवति। '१.५ बिल्यन् डोलर्' मितं धनं भवति अस्याः परियोजनायाः व्ययः।