OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 22, 2018

क्लेशार्णवात् केरलम् उत्तरति, स्वच्छप्रवर्तनं कठिनतरम्।
        कोच्ची > प्रलयजले अवतर्तुमारब्धे   प्रलयदुरन्तात् केरलराज्यं मन्दं मन्दम् उत्तरति। किन्तु कुट्टनाट् प्रदेशः इदानीमपि जलनिमग्नः वर्तते। समुद्रवितानात् नीचस्तरे एव कुट्टनाट् प्रदेशस्य स्थानम्! अत एव जलस्य बहिर्गमनविलम्बः। 
       क्लेशसमाश्वासशिबिरेभ्यः जनाः स्ववासस्थानानानि प्राप्नुवन्ति। किन्तु गृहाणि पङ्कनिमग्नानि वर्तन्ते। सर्पादिविषजन्तूनां सान्निद्ध्यमपि भीतिजनकं वर्तते। अतः गृहाणां स्वच्छप्रवर्तनं कठिनतरमस्ति। केरले सर्वत्र सन्नद्धसेवकाः स्वयंसेवकसंघाश्च स्वच्छप्रवर्तने निरताः सन्ति।

Thursday, August 16, 2018

अटलजी इत:परं स्मृतिपथे। 
   भारतराष्ट्रियस्य मानविकताया: मुखम् इति सुज्ञातः अटलबिहारी वाजपेयी दिवंगत:। त्रिणवतिवयस्क:। देहल्या: एयिंस् आतुरालये आसीदन्त्यम्। वृक्करोगबाधया जूण् एकादशे आतुरालयम् प्रविष्टः आसीत्। त्रिवारम् प्रधानमन्त्रिपदमारूढवान्  सः  शासनकालम् पूर्णम् अकरोत्। 

Wednesday, August 15, 2018

सामाजिकजीवने गान्धिमार्गः समुचितः - राष्ट्रपतिः। 
नवदिल्ली > महात्मागान्धिनः अहिंसादर्शनाय प्राधान्यं ददन् राष्ट्रपतेः रामनाथकोविन्दस्य स्वतंत्रतादिनसन्देशः। सामाजिकजीवने अक्रममार्गः निष्कासितव्यः। सर्वैः महात्मागान्धिनः अहिंसासिद्धान्तः अनुकर्तव्य इति राष्ट्रपतिना उद्बोधितम्। राष्ट्रे सर्वत्र जनसमूहहत्याः अतिक्रमाश्च वर्धमाने सन्दर्भे एव राष्ट्रपतेः  एतादृशं निरीक्षणम्।
पुनरपि केरले प्रलयकोपावेशः - १२ जनपदेषु अतिजाग्रतानिर्देशः - कोच्चि विमाननिलयः पिहितः।
     कोच्ची > केरलराज्ये कतिपयदिनानां विरामानन्तरं पुनरपि महाप्रलयः। अतिवर्षानुबन्धप्रकृतिदुरन्तेषु जनाः दैन्यमनुभवन्ति। केरलस्य ३३ जलबन्धाः जलवितानोद्गमनेन जलबहिर्गमनद्वाराणि उद्घाटितानि। सर्वाः नद्यः आप्लुतोदकाः प्रवहन्ति। नदीतटनीचप्रदेशाः उपप्लवे निमज्जिताः। तन्निवासिनः क्लेशसमाश्वासशिबिराणि प्रति नीताः।
     कोषिक्कोट् जनपदे नवस्थानेषु भूस्खलनानि अभवन्। दुष्प्रभावे १२ जनाः मृताः। कोच्ची अन्तर्राष्ट्रविमाननिलयः चत्वारि दिनानि यावत् पिहितः वर्तिष्यते।
स्वतन्त्रता दिनस्य शुभाशंसाः।
   अद्य भारतस्य द्विसप्ततितमं स्वातन्त्र्यदिनम्। भारतस्य प्रधानमन्त्री श्री नरेन्द्रमोदी 
  आशंसाभाषणम् अकरोत्‌ , भारतस्ववतन्त्रतायाः ध्वजारोहणं च अकरोत्।
भग्नभीषायां वर्तमानः मुल्लपेरियार् जलबन्धः जलेन पूर्यते। केरलजनाः पुनरपि भीत्याम्I
        कुमळी /केरलम् > मुल्लपेरियार् नाम जलबन्धे जलवितनं षट्त्रिंशदधिकै कशतं पादमितम् अभवत्I अस्य संवहनक्षमता द्विच त्वारिंशदधि कैकशत-पादपरिमिता भवतिI जलबन्धस्य वृष्टिप्रदेशेषु इदानीमपि वृष्टिः अनुवर्तते। जलवितानां द्विचत्वारिंशादधिकैकशतं (१४२) आगच्छति चेत् अधिकं जलं तमिल् नाड् राज्यं प्रति नेष्यति।

      वृष्टिपातेन अधिकं जलं जलबन्धे समागच्छति चेत् जलं बहिः नेतुं अधिकारः तमिल् नाट् सर्वकारस्य एवI जलबन्धः भग्नः चेत्  महाहानिः केरलस्येव इत्यस्थि वैरुद्ध्यम्। केवलं पञ्चदशवर्षपर्यन्तं यावत् भवति पुरातनोऽयं जलबन्धस्य आयुः इति विचारितःI जलबन्धस्य पुरातनत्वं तथा अबलत्वं च परिकल्प्प्य जलविधानं न्यूनं करणीयमित्यस्ति केरलस्य आवश्यम्। किन्तु सर्वोच्चच न्यायालयस्य आदेशस्य बलेन जलवितानं १४२ इति उपरि वितानं स्थातुम् तमिल् नाट् सर्वकाराय सन्दर्भः अलभत्। किन्तु प्रकृतिदुरन्तस्य पुरतः सर्वोच्च न्यायालयस्य आदेशस्य स्थानं वर्तते वा इति जनाः पृच्छन्ति।

Monday, August 13, 2018

पुण्यकोटिः- अनुप्राणित-उल्लिखित-चल-चित्रे भागं कर्तुम् अवसरः।

     कोच्चीची> पुण्यकोटिः नाम दक्षिणभारतस्य एकेन प्रख्यातजानपदगीतेन प्रेरितम् आदिममं संस्कृतभाषामयं अनुप्राणित-उल्लिखित-चल-चित्रं भवितुं सिद्धं वर्तते । इन्फोसिस्-नामिकायां सङ्गणकसूचना-प्रौद्योगिकी-संस्थायां प्रौद्योगिकी-तन्त्रज्ञत्वेन कार्यं कुर्वाणेन रविशङ्कर-नाम्ना संस्कृत-अनुरागातिरेकात् लिखित-निर्मितम् इदम् चित्रम् अद्यतनीयेषु युवसु संस्कृतप्रचारार्थम् । एतत् कर्म भारते तत्र तत्र निवसताम् अनेकेषां चित्र-अनुप्राणन-तज्ज्ञानाम् सश्रद्धं कठिनपरिश्रमस्य परिणामः अस्ति, येषु केचन निस्स्वार्थाः  इदं सत्कर्मार्थम् इति भावयन्तः धन-लाभ-अनपेक्षाः अपि । अपि च बहुप्रख्यातः इलयराजा-नामकः सङ्गीतनिर्माता अस्य चित्रस्य सङ्गीतरचयिता अस्ति। तथा दक्षिणभारते अतिविख्याता रेवती-नामा चल-चित्र-अभिनेत्री अस्मिन् चित्रे स्वध्वनिदानेन भागं निरवहत् ।

      एतन्निमित्तं रवि-वर्येण अद्यावधि प्रायः ५३ लक्षं रूप्यकाणि सञ्चितानि सन्ति स्वहितैषिणाम् अपि च चित्रस्य तद्गतसन्देशस्य च अनुमोदकानाम् च साहाय्यात् । विश्बेरी-नामिकायाः संस्थायाः मञ्चस्य द्वारा परिकल्पितां जन-समूह-अर्थ-दान-व्यवस्थाम् उपयुज्य आभारतं निवसन्तः अनेके जनाः अग्रे आगत्य यथाविधं स्वभागदानं कृतवन्तः । तेषां एवं करणस्य मुख्यकारणम् अस्ति संस्कृते अनुरागः । तथाऽपि इदं विश्वस्तरे श्लाघनीयम् अनुप्राणित-चित्रं निर्मातुम् इतोऽपि अधिकं २३ लक्षं अपेक्ष्यते रवि-वर्येण । एतस्य समुद्यमस्य साहाय्यकर्तृषु अनुमोदकेषु अन्यतमाः राजन्ते भूतपूर्वः इन्फ़ोसिस्-निर्देशकः मोहनदास-पाय्-वर्यः, कर्णाटकस्य प्रथमा महिला ऐ.पी.एस्. अधिकारिणी जीजा-हरिसिङ्ग्-वर्या , राष्ट्रियपुरस्कारभाक् सम्पादकः मनोज-कन्नत्-वर्यः तथा लोकविदित-पाञ्चालिकाचालकौ अनुपमा विद्याशङ्कर-होस्केरेवर्यः च। स्वयं रवि-वर्यस्य पुत्री बहुभाषापटुः संस्कृतभाषिणी च स्नेहा-नामिका अपि अत्र स्वध्वनिदानेन उपकृतवती।

        पाश्चात्य-संस्कृतेः सङ्कलनात् संस्कृतभाषा अद्य शनैः  किञ्चित् पृष्टमेव अवशिष्यते। पुण्यकोटि-चित्र-द्वारा एतां दिव्यां भाषाम् उद्धरन् सत्ययुक्तस्य जीवनस्य महिमानं, निसर्गानुकूलां जीवनरीतिं च युवजनेभ्यः प्रतिबोधयितुं रविवर्यः आशास्ते।

        संस्कृतजगति अन्तर्भूतानां भवतां अधुना अस्माकं संस्कृतिं इतिहासं च प्रपञ्चकलाक्षेत्रपथे स्थापयितुं कश्चिदयं अवकाशः । प्रचारोऽयम् अधुना चित्रं सम्पूर्णतां नेतुं आर्थिकव्यवस्थां परिकल्पयन् वर्तते यत्र भवन्तः साहाय्यं कर्तुम् अवकाशः जातः ।   भवन्तः अत्र (http://bit.ly/2M3cBDm) भागदानेन स्वानुमोदनं दर्शयन्तु अन्यजनेषु च सूचनामिमां प्रसारयन्तु ।
अतिवृष्टिः न्यूना; केन्द्रगृहमन्त्री प्राप्तः; दैन्याय आश्वासः। 
     कोच्ची > केरलस्य जलबन्धवृष्टिप्रदेशेषु अतिवृष्टेः अल्पमात्रन्यूनता इत्यतः प्रलयदैन्यस्य आशङ्का अपगम्यमाना वर्तते। किन्तु जलबन्धेभ्यो बहिर्नीयमानजलपरिमाणे न्यूनता न कृता। अतः यत्र यत्र जलोपप्लवः सञ्जातः तत्रत्याः जनाः इदानीमपि दैन्याश्वासशिबिरेषु एव वर्तमानाः सन्ति। 
   केन्द्रगृहमन्त्री राजनाथसिंहः ह्यः केरलमागत्य जलोपप्लवदैन्यानि साक्षात्सन्दृष्टवान्। राज्यचरिते बृहत्तमः प्रकृदुरन्त इति दुरन्तमण्डलानि साक्षाद्दृष्ट्वा तेनोक्तम्। शतकोटिरूप्यकणां धनसाहाय्यं  शीघ्रसाह्यरूपेण केन्द्रमन्त्रिणा प्रख्यापितम्। 
     गतदिने मुख्यमन्त्री पिणरायि विजयः उदग्रयानेन केरलानां दुरन्तबाधितप्रदेशान् सन्दृश्य स्थितिगतयः अवलोकितवान्। ८३१६कोटिरूप्यकाणां विनष्टः केरलेषु प्रकृतिदुरन्तेन सञ्जात इति मुख्यमन्त्रिणा प्रोक्तम्। १२२० कोटि रूप्यकाणां साहाय्यं केन्द्रसर्वकारं प्रति अपेक्षितम्। अतिवृष्टिदुष्प्रभावे केरलेषु इतःपर्यन्तं ३४ जनाः मृत्युमुपगताः। ५३,००० अधिकं जनाः दैन्याश्वासकेन्देषु अभयं प्राप्ताः सन्ति।
सूर्यं स्प्रष्टुम् उद्गच्छति 'पार्कर् सोलार् प्रोब्'।

     फ्लोरिड> सूर्यं लक्ष्यीकृत्य नसा संस्थायाः पार्कर् सोलार् नाम पर्यवेषणयानं विक्षिप्तम्।  फ्लोरिड देशस्य केन्नडि भौमान्तरकेन्द्रतः आसीत् विक्षेपणम्। शनिवासरे बह्मयामे आसीत् विक्षेपणम् I 'कोरोण' इति व्यवह्रियमाणां सूर्यस्य अन्तरिक्षनिगूढतामधिकृत्य अध्ययनमेव पार्कर् सोलार् प्रोबस्य लक्ष्यम्। 'डेल्ट फोर्' नाम आकाशबाणमारुह्य आसीत् प्रोबस्य विक्षेपणम्।

    सूर्यस्य उपरितलात्‌ अष्टनवतिलक्षं किलोमीट्टर् समीपस्थे भ्रमणपथे एव प्रेटकं सूर्यं प्रदक्षिणीकरोति। एतावत् समीपस्थभ्रमणपथे जायमानम् अत्यधिकं तापमपि सोढुं शक्तं भवति पेटकम्। ग्रहाणां वातावरणे सौरवाताः कथं स्वाधीनतां कुर्वन्ति इति ज्ञातुम् अनेन प्रभवति। '१.५ बिल्यन् डोलर्' मितं धनं भवति अस्याः परियोजनायाः व्ययः।

Sunday, August 12, 2018

दिनद्वयं यावत् अतिशक्तावर्षा स्यात् राष्ट्रिय दुरन्तनिवारणायोगः।
    नव दिल्ली > भारते षोडश राज्येषु दिनद्वयं यावत् अतिशक्तावर्षा स्यात् इति राष्ट्रिय दुरन्तनिवारणायोगेन (NDMA)पूर्वसूचना प्रदत्ता। उत्तराघण्डः पश्चिमवंगाः केरलं च षोडश राज्यानां पट्टिकायां सन्ति। मत्स्य बन्धनाय मा गच्छातु इति धीवराणां कृते पूर्वसूचना अस्ति। बंगाल्समुद्रस्य समान्तर भागेषु अपि वृष्टिसूचना अस्ति। ७१८ जनाः इदानीं विगतप्राणाः सन्ति। 

  केरलं तमिळ् नाड् कर्णाटकअन्ध्राप्रदेशस्य कोङ्गणभूदेशः मेघालयम् असम् अरुणाचल प्रदेशम्  ओड़ीषा जार्खण्डं  बिहारं छत्तीस्घढ् उत्तर प्रदेशम् हिमाचलप्रदेशम्‌ सिक्किम् पश्चिमवंगम् उत्तराघण्डम् इत्यत्रापि अतिशक्तया रीत्या वृष्टिः भविष्यति। सप्त राज्येषु वृष्टिदुर्भावे ७१८ संख्याकाः जनाः मृताः। ओगस्ट १५ दिनाङ्क पर्यन्तम् वृष्टिः भविष्यति इति सूचना अस्ति।

Saturday, August 11, 2018

अफ्गानिस्थाने तालिबानीयाक्रमणम् - २० मृत्यवः।
        काबूल् > अफ्गानिस्थानस्य विविधेषु स्थानेषु तालिबान् भीकरैः कृतेषु आक्रमणेषु विंशतिः आरक्षकाः हताः। गुरुवासरादारभ्य एव भीकराणाम् आक्रमणं संवृत्तम्। गस्नि प्रविश्यायां गृहेषु अतिक्रम्य प्रविष्टवन्तः भीकराः निलीयमानाः सन्तः सैन्यं आरक्षकवृन्दं प्रति च आक्रमणं कृतवन्तः। तत्र १४ आरक्षकाः हताः।विंशति सैनिकाः व्रणिता इति सूच्यते। किन्तु १४० सैनिकाः व्यापादितवन्त इति तालिबानेन स्वाभिमतं प्रकटितम्।

Friday, August 10, 2018

केरलेषु सर्वत्र पुनरपि अतिवृष्टिदुष्प्रभावः, २३ मरणानि। 
    कोच्ची > केरलराज्ये पुनरपि अतिवृष्टिदुष्प्रभावः। विविधेषु जनपदेषु भूच्छेदः, मृत्पातः, जलोपप्लवः इत्यादिभिः दुष्प्रभावैः २३ जनाः मृत्युमुपगताः! बहवः अदृष्टाः अभवन्! देशीयमार्गान् अभिव्याप्य राज्यस्य गतागतसुविधाः विशीर्णाः अभवन्। 
     इटुक्की, कोल्लं, पालक्काट्, वयनाट्, कोष़िक्कोट्, कण्णूर् जनपदाः एव मुख्यतया अतिदैन्यमनुभवन्ति। इटुक्कीजनपदे अटिमाली प्रदेशे भूच्छेदकारणेन ११ जनाः मृत्युमुपगताः! एषु पञ्च जनाः  परिवारैकस्थाः भवन्ति! सेतूनां वृष्टिप्रदेशेषु  अतिशक्ता वृष्टिरनुभूयते इत्यतः सरित्तीरवासिनः नितान्तजाग्रतावर्तिनः वर्तन्ते! बहूनां वासपरिवर्तनमप्यभवत्!
हरिवंशनारायणसिंह राज्यसभायाः उपाध्यक्षः।
नवदिल्ली > शासनपक्षसख्यस्य एन् डि ए सङ्घस्य स्थानाशी जे डि .यू दलस्य प्रतिनिधिः हरिवंशनारायणसिंहः राज्यसभायाः उपाध्यक्षरूपेण चितः।गतदिने सम्पन्ने निर्वाचने विपक्षस्थीनाशिनं बि के हरिप्रसादं २० मतदानैः सः पराजितवान्।
     विपक्षदलानाम् अनैक्यम् आश्रित्य एव शासनपक्षप्रतिनिधिः विजयं प्राप्तवान्! एन् डि ए पक्षतः १२५ मतदानानि हरिवंशाय लब्धानि! विपक्षस्थानाशिने हरिप्रसादाय १०५ मतदानानि लब्धानि।
न्या. राजेन्द्रमेनवः दिल्ली मुख्यन्यायाधिपपदं स्वीकृतवान्।
    नवदिल्ली > विश्वनीतिन्यायमण्डले स्थानमाप्तः  न्यायमूर्तिः राजेन्द्रमेनवः दिल्ली उच्चन्यायालयस्य मुख्यन्यायाधिपरूपेण कर्तव्यमग्रहीत्। दिल्ली मुख्यमन्त्रिणः अरविन्द् केज्रिवाल् वर्यस्य सान्निध्ये  राज्यपालस्य अनिल् बैजालस्य समक्षे सः शपथग्रहणमकरोत्। 
      यदा राजेन्द्रमेनवः मध्यप्रदेशस्य उच्चन्यायाधिपः आसीत् तदा भोप्पाल् वायुदुरन्तविधेयानां कृते द्विसहस्रं कोटिरूप्यकाणि नष्टपरिहाररूपेण दातुं स आदेशं कृतवान्।  वायुदुरन्तनष्टपरिहारायोगस्य अध्यक्षरूपेण पञ्चसंवत्सराणि सेवनं कृतवानयम्।  एतावत्संख्यकानां नष्ट परिहारनिर्देशः विश्वनीतिन्यायचरित्रे अत्यपूर्वघटना आसीत्। केरलदेशीयः भवति एषः।

Thursday, August 9, 2018

सौदिराष्ट्रे  प्रतिमासं लक्षं कर्मकराः कर्मविनष्टाःभवन्ति।
    रियादः> सौदि-अरेब्य राष्ट्रे प्रतिमासं लक्षं वैदेशिक-कर्मकराः कर्मविनष्टाःभवन्ति इत्यावेदनम्। जनरल्  ओर्गनैैसेषन् फोर् सोष्यल् इन्षुरन्स् इति संस्थया आवेदनं निर्धारितम्। संवत्सरेस्मिन् एप्रिल् मासादारभ्य जूण् मासपर्यन्तं ३.१३ लक्षं वैदेशिकाः कर्मविनष्टाः सन्तीत्यस्ति आवेदने। गतषण्मासाभ्यन्तरे  विनष्टकर्माणां संख्या ५.१२ लक्षम् भवति। किन्तु विनष्टकर्मणां वैदेशिकानाम् आनुपातिकतया स्वदेशीयानां कर्मलब्धिः न अभवत्।


Wednesday, August 8, 2018

द्विस्तरमन्दिरं विच्छिन्नं जातम्। सर्वे रक्षां प्राप्तवन्तः।


  बाङ्गुरा> अतिशक्त्या वृष्ट्या बंगालराज्ये द्विस्तरमन्दिरं विच्छिन्नं जातम्। भाग्यवशात् अपघातात् कतिपय निमिषेभ्यः पूर्वं अन्तेवासिनः ततः  निष्कासिताः आसन् । मन्दिरं पूर्णतया समीपस्थायां जलपातायां अपतत्। जनाः स्थगिताः अभवन्।
      बंगालराज्ये बागुराजिल्लायां जनबेदियायां दुर्घटना जाता। मन्दिरस्य दुर्घटनादृश्यं समूहमाध्यमेषु इदानीं प्रचलत् वर्तते। बृहत्या वृष्ट्या मन्दिरस्य भित्तीनां क्षयं जातम्। तदेव  दुर्घटनायाः हेतुः इति वदन्ति।दुर्घटनायां कस्यापि क्षतं न अभवत्। केवलं मेई मासे द्विशताधिक-गृहाणि विच्छिन्नानिअभवत् तत्र।

Tuesday, August 7, 2018

करुणानिधिः दिवंगतः।
-राजेष् आर्
       चेन्नै> पञ्चवारं तमिल्नाट् राज्यस्य मुख्यमन्त्रिपदं अलंकृतः द्वाविड मुन्नेट्ट कष़कं दलस्य अध्यक्ष:  श्रीमान् मुत्तुवेल् करुणानिधिवर्य: (९४) दिवंगतःl चलनचित्रमण्डले चिरप्रतिष्ठ: अयं विख्यातः पटकथाकारः आसीत्। अस्य महाशयस्य पूर्वनाम मुत्तुवेल् दक्षिणामूर्त्तिः इति आसीत् ।  कलैञ्जर् इति नाम्नि विख्यातः असीत् अयं महाभागः। शताधिकानि साहित्यपुस्तकानि अनेन महाभागेन विरचितानि। वार्धक्यसहजेन आमयेन कावेरि चिकित्सालये चिकित्सायामासीत्। अद्य सायं ६.१० वादने आमय : मूर्छितः तेन मृतःI संस्कारं  गिण्डि गान्धिमण्डपे भविष्यति इति इदानिं निश्चितःI
भारतीयपादकन्दुकाय ऐतिहासिकं  दिनं; पादकन्दुकराजानौ भारतेन पराजितौ।
      माड्रिड् (स्पेयिन्)/ अम्मान् > 'स्वपन् भीमः' भवति भारतीयपादकन्दुकम् इति फिफायाः भूतपूर्वाध्यक्षेण सेप् ब्लाटर् वर्येण पूर्वमुक्तमासीत्। रविवासररात्रौ तस्मिन् भीमे सुप्तोत्थिते   पादकन्दुकमण्डलस्य द्वौ शक्तौ पतितौ। ऊनविंशति वयस्कानां पादकन्दुकस्पर्धायां (अण्डर् २०) षड्वारं विश्वविजेतभूतं अर्जन्टीना राष्ट्रं तथा 'अण्डर् १७' एष्यन् विजयी इराखराष्ट्रं च भारतकौमारेण पराजिते अभवताम्।
     स्पेन राष्ट्रे सम्पद्यमाने 'ऊनविंशति कोट्टिफ्' पादकन्दुकस्पर्धायां भारतदलेन षड्वारं विश्ववीरभूतं अर्जेन्टीना दलं एकं विरुध्य लक्ष्यकन्दुकद्वयेन पराजितम्।
    तथा च अम्मान् प्रदेशे सम्पद्यमाने पश्चिमेष्या पादकन्दुकसंस्थायाः (WAFF) ऊनषोडशवयस्कानां स्पर्धापरम्परायामपि भारतस्य ऐतिहासिकविजयः।  अतिशक्तम् इराखराष्ट्रं १-० इति लक्ष्यकन्दुकक्रमेण  भारतीयकौमारशूरतया पराजितम्।