OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 10, 2018

हरिवंशनारायणसिंह राज्यसभायाः उपाध्यक्षः।
नवदिल्ली > शासनपक्षसख्यस्य एन् डि ए सङ्घस्य स्थानाशी जे डि .यू दलस्य प्रतिनिधिः हरिवंशनारायणसिंहः राज्यसभायाः उपाध्यक्षरूपेण चितः।गतदिने सम्पन्ने निर्वाचने विपक्षस्थीनाशिनं बि के हरिप्रसादं २० मतदानैः सः पराजितवान्।
     विपक्षदलानाम् अनैक्यम् आश्रित्य एव शासनपक्षप्रतिनिधिः विजयं प्राप्तवान्! एन् डि ए पक्षतः १२५ मतदानानि हरिवंशाय लब्धानि! विपक्षस्थानाशिने हरिप्रसादाय १०५ मतदानानि लब्धानि।
न्या. राजेन्द्रमेनवः दिल्ली मुख्यन्यायाधिपपदं स्वीकृतवान्।
    नवदिल्ली > विश्वनीतिन्यायमण्डले स्थानमाप्तः  न्यायमूर्तिः राजेन्द्रमेनवः दिल्ली उच्चन्यायालयस्य मुख्यन्यायाधिपरूपेण कर्तव्यमग्रहीत्। दिल्ली मुख्यमन्त्रिणः अरविन्द् केज्रिवाल् वर्यस्य सान्निध्ये  राज्यपालस्य अनिल् बैजालस्य समक्षे सः शपथग्रहणमकरोत्। 
      यदा राजेन्द्रमेनवः मध्यप्रदेशस्य उच्चन्यायाधिपः आसीत् तदा भोप्पाल् वायुदुरन्तविधेयानां कृते द्विसहस्रं कोटिरूप्यकाणि नष्टपरिहाररूपेण दातुं स आदेशं कृतवान्।  वायुदुरन्तनष्टपरिहारायोगस्य अध्यक्षरूपेण पञ्चसंवत्सराणि सेवनं कृतवानयम्।  एतावत्संख्यकानां नष्ट परिहारनिर्देशः विश्वनीतिन्यायचरित्रे अत्यपूर्वघटना आसीत्। केरलदेशीयः भवति एषः।

Thursday, August 9, 2018

सौदिराष्ट्रे  प्रतिमासं लक्षं कर्मकराः कर्मविनष्टाःभवन्ति।
    रियादः> सौदि-अरेब्य राष्ट्रे प्रतिमासं लक्षं वैदेशिक-कर्मकराः कर्मविनष्टाःभवन्ति इत्यावेदनम्। जनरल्  ओर्गनैैसेषन् फोर् सोष्यल् इन्षुरन्स् इति संस्थया आवेदनं निर्धारितम्। संवत्सरेस्मिन् एप्रिल् मासादारभ्य जूण् मासपर्यन्तं ३.१३ लक्षं वैदेशिकाः कर्मविनष्टाः सन्तीत्यस्ति आवेदने। गतषण्मासाभ्यन्तरे  विनष्टकर्माणां संख्या ५.१२ लक्षम् भवति। किन्तु विनष्टकर्मणां वैदेशिकानाम् आनुपातिकतया स्वदेशीयानां कर्मलब्धिः न अभवत्।


Wednesday, August 8, 2018

द्विस्तरमन्दिरं विच्छिन्नं जातम्। सर्वे रक्षां प्राप्तवन्तः।


  बाङ्गुरा> अतिशक्त्या वृष्ट्या बंगालराज्ये द्विस्तरमन्दिरं विच्छिन्नं जातम्। भाग्यवशात् अपघातात् कतिपय निमिषेभ्यः पूर्वं अन्तेवासिनः ततः  निष्कासिताः आसन् । मन्दिरं पूर्णतया समीपस्थायां जलपातायां अपतत्। जनाः स्थगिताः अभवन्।
      बंगालराज्ये बागुराजिल्लायां जनबेदियायां दुर्घटना जाता। मन्दिरस्य दुर्घटनादृश्यं समूहमाध्यमेषु इदानीं प्रचलत् वर्तते। बृहत्या वृष्ट्या मन्दिरस्य भित्तीनां क्षयं जातम्। तदेव  दुर्घटनायाः हेतुः इति वदन्ति।दुर्घटनायां कस्यापि क्षतं न अभवत्। केवलं मेई मासे द्विशताधिक-गृहाणि विच्छिन्नानिअभवत् तत्र।

Tuesday, August 7, 2018

करुणानिधिः दिवंगतः।
-राजेष् आर्
       चेन्नै> पञ्चवारं तमिल्नाट् राज्यस्य मुख्यमन्त्रिपदं अलंकृतः द्वाविड मुन्नेट्ट कष़कं दलस्य अध्यक्ष:  श्रीमान् मुत्तुवेल् करुणानिधिवर्य: (९४) दिवंगतःl चलनचित्रमण्डले चिरप्रतिष्ठ: अयं विख्यातः पटकथाकारः आसीत्। अस्य महाशयस्य पूर्वनाम मुत्तुवेल् दक्षिणामूर्त्तिः इति आसीत् ।  कलैञ्जर् इति नाम्नि विख्यातः असीत् अयं महाभागः। शताधिकानि साहित्यपुस्तकानि अनेन महाभागेन विरचितानि। वार्धक्यसहजेन आमयेन कावेरि चिकित्सालये चिकित्सायामासीत्। अद्य सायं ६.१० वादने आमय : मूर्छितः तेन मृतःI संस्कारं  गिण्डि गान्धिमण्डपे भविष्यति इति इदानिं निश्चितःI
भारतीयपादकन्दुकाय ऐतिहासिकं  दिनं; पादकन्दुकराजानौ भारतेन पराजितौ।
      माड्रिड् (स्पेयिन्)/ अम्मान् > 'स्वपन् भीमः' भवति भारतीयपादकन्दुकम् इति फिफायाः भूतपूर्वाध्यक्षेण सेप् ब्लाटर् वर्येण पूर्वमुक्तमासीत्। रविवासररात्रौ तस्मिन् भीमे सुप्तोत्थिते   पादकन्दुकमण्डलस्य द्वौ शक्तौ पतितौ। ऊनविंशति वयस्कानां पादकन्दुकस्पर्धायां (अण्डर् २०) षड्वारं विश्वविजेतभूतं अर्जन्टीना राष्ट्रं तथा 'अण्डर् १७' एष्यन् विजयी इराखराष्ट्रं च भारतकौमारेण पराजिते अभवताम्।
     स्पेन राष्ट्रे सम्पद्यमाने 'ऊनविंशति कोट्टिफ्' पादकन्दुकस्पर्धायां भारतदलेन षड्वारं विश्ववीरभूतं अर्जेन्टीना दलं एकं विरुध्य लक्ष्यकन्दुकद्वयेन पराजितम्।
    तथा च अम्मान् प्रदेशे सम्पद्यमाने पश्चिमेष्या पादकन्दुकसंस्थायाः (WAFF) ऊनषोडशवयस्कानां स्पर्धापरम्परायामपि भारतस्य ऐतिहासिकविजयः।  अतिशक्तम् इराखराष्ट्रं १-० इति लक्ष्यकन्दुकक्रमेण  भारतीयकौमारशूरतया पराजितम्।
चीनेन निर्मितानि अध्ययनोपकरणानि कक्ष्यायाम् क्रीडनीयकानि  भवन्ति।
      कोच्ची> चीनेन निर्मितानि क्रीडनीयकानि अस्माकं विपण्यां सुलभतया लभन्ते। छात्रानुद्दिश्य निर्मितानि उपकरणपेटिकाम् अधिकृत्य भवति इदं नूतनम् अावेदनम्। छात्रैः इदानीं कक्ष्यायाम् उपयुज्यमानाः उपकरणपेटिकाः  क्रीडनीयकत्वेन परिवर्तिताः भवन्ति इति भीतिदा घटना एव। अध्ययनसमये अपि कक्ष्यायाम् उपविश्य क्रीडन्ति छात्राः। सामान्येन सर्वेषां हस्ते अस्ति ईदृशी पेटिका। चीनेन निर्मिता वा  चीनस्य आदर्शवत् निर्मिता वा भवन्ति इमाः। अस्याः उपयोगेन छात्राणां मतिः सर्वदा सर्वथा च क्रीडाज्वरे वर्तते। 
      चीनेन कृतपरोक्षयुद्धवशात् भवति   ईदृशानां वस्तूनां विपणनमिति शैक्षिकविचक्षणः
 अय्यम्पुष़ हरिकुमारः अवदत्। सर्वकारस्य श्रद्धा अस्यां घटनायां विशेषरूपेण भवतु इति  सः अभ्यर्थितवान्।
त्रिंशदधिकशतं कोटि रूप्यकाणाम्  पण्यकरसेवनकरे ( GST)  अलीकवृत्तिः - प्रमुखः केरळराज्ये  गृहीतः।
   कोच्ची> दारुफलकनिर्माण संस्थायाः पृष्ठतः  त्रिंशत्यधिकशतं कोटि रूप्यकाणां पण्यसेवनकरं चोरणं कृतम्। व्यवहारे अस्मिन् मुख्यदोषी गृहीतः। दारुफलकसंस्थायाः व्याज-विक्रयपत्रं निर्माय अासीत् करचोरणम्। उद्योगसंस्थायाः स्वामिनः नम्नः स्थाने परेषां नाम्नि विक्रयपत्रं निर्माय वस्तूनि प्रेषितवान् आसीत्। सामान्य-जनानां पान्- पत्रसंख्या आधारपत्रसंख्या च स्वायत्तीकृत्य आसित् विक्रयपत्रनिर्माणम्। गतदिने पण्य-सेवनकर-विभागेन कृतान्वेषणे निषाद् नामकः गृहीतः अभवत्। निषादस्य पेरुम्बावूर् देशस्थकार्यालयतः त्रिंशत्  (३०) लक्षं रूप्यकाणि तथा विविध-वित्तकोशानां वित्तलेखानां विवरणानि च लब्धानि। अन्वेषणम् अनुवर्तते।

Monday, August 6, 2018

भारताय 'नाटोराष्ट्राणां समानस्थाम् अमेरिक्कया दत्तम्।
     नवदिल्ली > प्रतिरोधादानप्रदानसन्धिषु भारताय नाटोराष्ट्राणां समानं स्थानम् यू एस् राष्ट्रेण दत्तम्I  अमेरिकातः नूतनसाङ्केतिकरीतिमुपयु्ज्य निर्मितानि प्रतिरोधोत्पन्नानि लब्धुं क्रियाविधयः ललिताः भवेयुः। यू एस् राष्ट्रस्य परिकल्पना भारतेन स्वागतीकृता।
     Strategic Trade Authorisation - 1 नामकं स्थानमेव एतदर्थं भारताय दत्तम्। प्रप्रथमतया एव कस्मैश्चित् दक्षिणेष्याराष्ट्राय एतद्विशिष्टं स्थानं लभते I
स्वतन्त्रतादिने राष्ट्रे भीकराक्रमणसाध्यता इति दक्षतासूचना। 
      नवदिल्ली > भारतस्य स्वतन्त्रतादिनं पुरस्कृत्य राष्ट्रे विस्तारितया भीकराक्रमणानां साध्यता अस्तीति दक्षतासंस्थायाः जाग्रतानिर्देशः। जम्मू काश्मीरस्थानि सैनिकशिबिराणि लक्ष्यीकृत्य आक्रमणं कर्तुं पद्धतिः अस्ति। लष्कर् ई तोय्बा, जय्षे ई मुहम्मद्, इत्याद्यः आतङ्कवादिसंस्थाः एव आक्रमणानां सूत्रधारित्वं वहन्तीति सूच्यते। अस्मिन् विषये सुरक्षाप्रवर्तनानि दृढीकर्तुं सर्वकारेण निश्चितम्।
संस्कृतकुलपतीनां मेलनम् अद्य कालट्याम्। 
      कालटी > भारतस्य संस्कृत विश्वविद्यालययानां कुलपतीनां दिनद्वयात्मकं राष्यट्रियसम्मेलनं अद्य कालट्यां श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य आस्थानमन्दिरे आरभते। श्रीशङ्कराचार्य विश्वविद्यालयस्य 'रजतजयन्ती' आघोषाणाम् अंशत्वेनैव सम्मेलनम् आयोज्यते। 
    ज्ञानपीठविजेता संस्कृत-साहित्यकारः सत्यव्रतशास्त्री सम्मेलनस्य उद्घाटनं करिष्यति। कालटी विश्वविद्यालयस्य कुलपतिः डो. धर्मराज् अटाट्ट् अध्यक्षो भविष्यति। सायं सार्धपञ्चवादने "नमामि शङ्करं" नामकः नृत्ताविष्कारः प्रसिद्धया नर्तक्या गोपिकावर्मणा अवतारयिष्यते।
एय्रो इन्त्य बंगलूरतः परिवर्तितुम् आलोच्यते। प्रतिषेधः व्यापकः।
        बंगलूरु> एय्रो इन्त्य इति प्रस्तुतिः बंगलूरतः लख्नौ नगरं प्रति परिवर्तयितुं केन्द्रसर्वकारेण आलोच्यते इत्यावेदनं बहिरागतम्।   प्रस्तुतेः स्थानपरिवर्तनं विरुद्ध्य कर्णाटकस्य नेतारः रङ्गं प्रविष्टवन्तः प्रतिरोधमण्डले बंगलूरस्य प्राधान्यम् अस्ति। तत् मार्जयितुमुद्दिश्य भवति केन्द्रसर्वकारस्य अयं प्रक्रमः इति कर्णाटकस्य उपमुख्यमन्त्रिणा जि परमेश्वरेण आरोपितम्। 1996 तमात्  संवसरात् आरभ्य  'एय्रो इन्त्य' प्रस्तुतिः बंगलूरे सविजयं प्रचलती आसीत् इत्यपि तेन संसूचितम्।
        एय्रो इन्त्य २०१९ इति प्रस्तुतिं संबन्ध्य वेदिकानिर्णयस्य अन्तिमनिर्णयः न प्रचलिता इति प्रधिरोधमन्त्रिण्या निर्मलासीताराम महाभागयाउक्तम्। 

Sunday, August 5, 2018

सामान्यावशिष्टं- चतुस्संवत्सराभ्यन्तरे वित्तकोशाः ११.५०० कोटि रूप्यकाणि दण्डितानि।
     नवदेहली> विगते चतुसंवत्सराभ्यन्तरेण राष्ट्रस्य सार्वजनिक वित्तकोशेन दण्डशुल्करूपेण ११.५०० रूप्यकाणि स्वीकृतानि इत्यावेदनम्।  वित्तलेखे सामान्यावशिष्टं न पालितम् इत्यस्य दण्डमात्रः भवति अयम्। शुक्रवासरे लोकसभायां केन्द्रधनमन्त्रालयेन निवेदितम् इदम् अावेदनम्।

   निर्धनव्यक्तीनां वित्तलेखात् स्वीकृतं भवति इदं धनम् इति गौरवं अस्ति घटनायाः। विविध सर्वकारीय अार्धिक साहायार्थम् वित्तलेखाः अवश्यकाः भवन्ति। अत एव निर्धनाः अपि तु बहवः वित्तकोशस्य वित्तलेखं स्वीकृताः अासन्।

      राष्ट्रस्य सार्वजनिक वित्तकोशः इत्यङ्कितेन  भरतीय स्टेट् बाङ्केन गते आर्थिकसंवत्सरे २,५०० कोटिरुप्यकाणि एवं दण्ड-शुल्कवत्  स्वीकृतानि।  निजीय वित्तकोशेषु   HDFC वित्तकोशेन अधिकं स्वीकृतम्। अनेन  ५९०कोटि रूप्यकाणि एवं सञ्चितानि।
अतिक्रम्य आगन्तुं षट्शत तीव्रवादिनः। रहस्यान्वेषकानां पूर्वसूचना।

      नवदेहली> षट्शताधिकाः तीव्रवादिनः अचिक्रम्य प्रवेष्टुं भारतस्य सीमाक्षेत्रेषु तिष्ठन्तीति रहस्यान्वेषकानां प्रतिवेदनम्।सी न्यूस् माध्यमद्वारा आगतमिदम्।भीरकराणां कृते पाक्किस्थान सेनायाः साहाय्यः वर्तते।तेषु सेनाङ्काः सन्तीति शङ्का वर्तते। ते पाक्किस्थान बोर्टर आक्षन् दलस्य सदस्याः स्युः इति निगमनम्।
      भीकराणां संकेतान् निष्कासितुं पाक् अधीन काश्मीर् क्षेत्रे भारतेन कृत आक्रमणानन्तरं प्रथमतया अस्ति तेषां अतिक्रमश्रमः। मछिल् क्षेत्रे षण्णवति तीव्रवादिनः केरान् क्षेत्रे सप्तदशाधिक एकशत तीव्रवादिनः टाङ्धर क्षेत्रे एकोनाशीति तीव्रवादिनः इत्येवं तेषां संख्या प्रतिवेदने दत्तमस्ति।

         गृहमन्त्रालयस्य प्रतिवेदने अस्मिन् वर्षस्य जुलाई पर्यन्तं दशाधिक एकशतं तीव्रवादीन् सुरक्षासेना अघनत्। २०२७ तमे त्रयोदशाधिक द्विशतं २०१६ तमे पञिचाशदधिक एकशतं १०१५ तमे अष्टाधिक एकशतं च तीव्रवादीन् सुरक्षासेना अघनत्।
विश्वपिच्छकन्दुकप्रतियोगिता - पि वि सिन्धू अन्तिमचरणे।
  नान्जिङ् > विश्वपिच्छकन्दुकप्रवीणताप्रतियोगितायाः वनिताविभागस्य अन्तिमे चरणे भारतस्य पि वि सिन्धू स्पेयिन् राष्ट्रस्य करोलिना मेरिन् इत्यनया सह स्पर्धिष्यते। पूर्वान्तिमचरणे जापनराष्ट्रस्य अकाने यमागुच्ची नामिकां २१- १६, २४ - २२ इति क्रमेण पराजित्य एव अन्तिमचक्रं प्रविष्टा। 
      गतसंवत्सरे अस्यां प्रतियोगितायां जापानक्रीडकया सह स्पर्धयित्वा द्वितीयस्थानेन तृप्तिं प्राप्तवती सिन्धू रियो ओलिम्पिक्स् मध्ये अपि करोलिना मरिनेन सह स्पर्धयित्वा रजतपतकं प्राप्तवती! अतो अद्य प्रचलन्ती अन्तिमस्पर्धा रियो ओलिम्पिक्स् स्पर्धायाः पुनरावर्तनं भविष्यति!

Saturday, August 4, 2018

परमोन्नतनीतिपीठे  त्रयो नूतनो न्यायाधीशाः।
       नवदिल्ली > नूतनानां त्रयाणां न्यायाधीशानां नियुक्त्यर्थं परमोच्चन्यायालयस्य समित्या दत्तः निदेशः केन्द्रसर्वकारेण अङ्गीकृतः। उत्तराखण्डस्य उच्चन्यायालयस्य मुख्यन्यायाधीशः केरलीयश्च के एम् जोसफः, तमिलनाडु उच्चन्यायालयस्य न्यायाधीशमुख्या इन्दिरा बैनर्जी , ओडीषा राज्यस्य मुख्यन्यायाधीशः विनीत् सरणः इत्येतेषां नियुक्तिनिर्देश एव सर्वकारेण अङ्गीकृतः। एषु के एं जोसफस्य नामान्तर्गतः  नियुक्तिनिर्देशः पूर्वं निरस्त आसीत्। किन्तु तस्य नाम पृथक् पुनर्निर्दिष्टमासीत्।  इन्दिराबानर्जीसहिता वनितान्यायाधीशानां संख्या तिस्रः भविष्यति। आहत्य न्यायमूर्तयः २५ भविष्यन्ति तथापि ६ स्थानानि रिक्तानि अनुवर्तन्ते।

Friday, August 3, 2018

पाकिस्थाने १२ विद्यालयाः अग्निसात् कृताः। 
   इस्लामाबाद्> भीकरदलैः पाकिस्थाने १२ विद्यालयाः अग्निसात् कृताः। एतेषु भूरि विद्यालयाः बालिकानां विद्यालयाः। PTI वार्ताहरसंस्थसा आवेदितम् एवम्। ग्लिल्गित् ब्लाट्टिस्ताने एव विद्यालयं विरुद्ध्य आक्रमणमभवत्। एतदनुबन्धतया शिक्षासंस्थायाः सुरक्षाः निश्चयेन  करणीयः इत्युक्त्वा जनाः प्रतिषिद्धाः। आक्रमणस्य दायित्वम् इतःपर्यन्तं यः कोपि न स्वीकृतः। बालिकानां विद्यालयं प्रति तालिबानस्यआक्रमणं साधारमिति पि टि एे द्वारा आवेदितम्।
जनसञ्चारमाध्यमेन प्रतियोगितया संस्कृतशिक्षणम्
आमुखपटले संस्कृतज्ञानवर्धकं जीवन्तप्रश्नोत्तरिप्रतियोगिता-३४
        जनसञ्चारमाध्यमेन शिक्षणाय संस्कृतस्य प्रचाराय-प्रसाराय च आमुखपटले संस्कृतज्ञानवर्धकं जीवन्तप्रश्नोत्तरिप्रतियोगिता "online संस्कृतशिक्षणम्" (https://www.facebook.com/groups/214643672457937/) इति आमुखपटलसमूहे प्रत्येकं रविवासरे आयोज्यते । एषा प्रतियोगिता प्रत्येकं रविवासरे रात्रौ नववादनत: दशवादनपर्यन्तं भवति । अस्यां प्रतियोगितायां संस्कृतस्य दश प्रश्नाः भवन्ति । अस्या: प्रतियोगिताया: आयोजकौ गुजरातत: जगदीश: डाभी, विश्वस्य वृत्तान्तम् च स्त: । सहायका: अमित: ओली, प्रकाश रंजन मिश्र:, डॉ. नरेन्द्र: राणा च सन्ति । 

       अस्या: प्रतियोगिताया: पुरस्कारस्य प्रायोजकौ विजयकुमार: छिब्बर: - देहली, बिहारत: अभिषेककुमार: दूबे च स्त: ।  गतरविवासरे २९/०७/२०१८ तमे दिनाङ्के प्रतियोगितायाम् २०५ जनाः आहत्य उत्तराणि दत्तवन्तः तेषु नियमानुसारेण सम्यक्तया त्रयः जनाः उत्तरं दत्तवन्त: तेषां नामानि --प्रथमा विजयिनी निरुपमा प्रधान: (ओडिशा) द्वितीय विजेता आशीष कंसवाल: (उत्तराखण्ड) तृतीय विजेता पंकज पाण्डेय: (हरियाणा) च ।
 आगामिनी प्रतियोगिता ०५/०८/२०१८ तमे दिनाङ्के रात्रौ ९:०० वादने भविष्यति।