OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 6, 2018

संस्कृतकुलपतीनां मेलनम् अद्य कालट्याम्। 
      कालटी > भारतस्य संस्कृत विश्वविद्यालययानां कुलपतीनां दिनद्वयात्मकं राष्यट्रियसम्मेलनं अद्य कालट्यां श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य आस्थानमन्दिरे आरभते। श्रीशङ्कराचार्य विश्वविद्यालयस्य 'रजतजयन्ती' आघोषाणाम् अंशत्वेनैव सम्मेलनम् आयोज्यते। 
    ज्ञानपीठविजेता संस्कृत-साहित्यकारः सत्यव्रतशास्त्री सम्मेलनस्य उद्घाटनं करिष्यति। कालटी विश्वविद्यालयस्य कुलपतिः डो. धर्मराज् अटाट्ट् अध्यक्षो भविष्यति। सायं सार्धपञ्चवादने "नमामि शङ्करं" नामकः नृत्ताविष्कारः प्रसिद्धया नर्तक्या गोपिकावर्मणा अवतारयिष्यते।
एय्रो इन्त्य बंगलूरतः परिवर्तितुम् आलोच्यते। प्रतिषेधः व्यापकः।
        बंगलूरु> एय्रो इन्त्य इति प्रस्तुतिः बंगलूरतः लख्नौ नगरं प्रति परिवर्तयितुं केन्द्रसर्वकारेण आलोच्यते इत्यावेदनं बहिरागतम्।   प्रस्तुतेः स्थानपरिवर्तनं विरुद्ध्य कर्णाटकस्य नेतारः रङ्गं प्रविष्टवन्तः प्रतिरोधमण्डले बंगलूरस्य प्राधान्यम् अस्ति। तत् मार्जयितुमुद्दिश्य भवति केन्द्रसर्वकारस्य अयं प्रक्रमः इति कर्णाटकस्य उपमुख्यमन्त्रिणा जि परमेश्वरेण आरोपितम्। 1996 तमात्  संवसरात् आरभ्य  'एय्रो इन्त्य' प्रस्तुतिः बंगलूरे सविजयं प्रचलती आसीत् इत्यपि तेन संसूचितम्।
        एय्रो इन्त्य २०१९ इति प्रस्तुतिं संबन्ध्य वेदिकानिर्णयस्य अन्तिमनिर्णयः न प्रचलिता इति प्रधिरोधमन्त्रिण्या निर्मलासीताराम महाभागयाउक्तम्। 

Sunday, August 5, 2018

सामान्यावशिष्टं- चतुस्संवत्सराभ्यन्तरे वित्तकोशाः ११.५०० कोटि रूप्यकाणि दण्डितानि।
     नवदेहली> विगते चतुसंवत्सराभ्यन्तरेण राष्ट्रस्य सार्वजनिक वित्तकोशेन दण्डशुल्करूपेण ११.५०० रूप्यकाणि स्वीकृतानि इत्यावेदनम्।  वित्तलेखे सामान्यावशिष्टं न पालितम् इत्यस्य दण्डमात्रः भवति अयम्। शुक्रवासरे लोकसभायां केन्द्रधनमन्त्रालयेन निवेदितम् इदम् अावेदनम्।

   निर्धनव्यक्तीनां वित्तलेखात् स्वीकृतं भवति इदं धनम् इति गौरवं अस्ति घटनायाः। विविध सर्वकारीय अार्धिक साहायार्थम् वित्तलेखाः अवश्यकाः भवन्ति। अत एव निर्धनाः अपि तु बहवः वित्तकोशस्य वित्तलेखं स्वीकृताः अासन्।

      राष्ट्रस्य सार्वजनिक वित्तकोशः इत्यङ्कितेन  भरतीय स्टेट् बाङ्केन गते आर्थिकसंवत्सरे २,५०० कोटिरुप्यकाणि एवं दण्ड-शुल्कवत्  स्वीकृतानि।  निजीय वित्तकोशेषु   HDFC वित्तकोशेन अधिकं स्वीकृतम्। अनेन  ५९०कोटि रूप्यकाणि एवं सञ्चितानि।
अतिक्रम्य आगन्तुं षट्शत तीव्रवादिनः। रहस्यान्वेषकानां पूर्वसूचना।

      नवदेहली> षट्शताधिकाः तीव्रवादिनः अचिक्रम्य प्रवेष्टुं भारतस्य सीमाक्षेत्रेषु तिष्ठन्तीति रहस्यान्वेषकानां प्रतिवेदनम्।सी न्यूस् माध्यमद्वारा आगतमिदम्।भीरकराणां कृते पाक्किस्थान सेनायाः साहाय्यः वर्तते।तेषु सेनाङ्काः सन्तीति शङ्का वर्तते। ते पाक्किस्थान बोर्टर आक्षन् दलस्य सदस्याः स्युः इति निगमनम्।
      भीकराणां संकेतान् निष्कासितुं पाक् अधीन काश्मीर् क्षेत्रे भारतेन कृत आक्रमणानन्तरं प्रथमतया अस्ति तेषां अतिक्रमश्रमः। मछिल् क्षेत्रे षण्णवति तीव्रवादिनः केरान् क्षेत्रे सप्तदशाधिक एकशत तीव्रवादिनः टाङ्धर क्षेत्रे एकोनाशीति तीव्रवादिनः इत्येवं तेषां संख्या प्रतिवेदने दत्तमस्ति।

         गृहमन्त्रालयस्य प्रतिवेदने अस्मिन् वर्षस्य जुलाई पर्यन्तं दशाधिक एकशतं तीव्रवादीन् सुरक्षासेना अघनत्। २०२७ तमे त्रयोदशाधिक द्विशतं २०१६ तमे पञिचाशदधिक एकशतं १०१५ तमे अष्टाधिक एकशतं च तीव्रवादीन् सुरक्षासेना अघनत्।
विश्वपिच्छकन्दुकप्रतियोगिता - पि वि सिन्धू अन्तिमचरणे।
  नान्जिङ् > विश्वपिच्छकन्दुकप्रवीणताप्रतियोगितायाः वनिताविभागस्य अन्तिमे चरणे भारतस्य पि वि सिन्धू स्पेयिन् राष्ट्रस्य करोलिना मेरिन् इत्यनया सह स्पर्धिष्यते। पूर्वान्तिमचरणे जापनराष्ट्रस्य अकाने यमागुच्ची नामिकां २१- १६, २४ - २२ इति क्रमेण पराजित्य एव अन्तिमचक्रं प्रविष्टा। 
      गतसंवत्सरे अस्यां प्रतियोगितायां जापानक्रीडकया सह स्पर्धयित्वा द्वितीयस्थानेन तृप्तिं प्राप्तवती सिन्धू रियो ओलिम्पिक्स् मध्ये अपि करोलिना मरिनेन सह स्पर्धयित्वा रजतपतकं प्राप्तवती! अतो अद्य प्रचलन्ती अन्तिमस्पर्धा रियो ओलिम्पिक्स् स्पर्धायाः पुनरावर्तनं भविष्यति!

Saturday, August 4, 2018

परमोन्नतनीतिपीठे  त्रयो नूतनो न्यायाधीशाः।
       नवदिल्ली > नूतनानां त्रयाणां न्यायाधीशानां नियुक्त्यर्थं परमोच्चन्यायालयस्य समित्या दत्तः निदेशः केन्द्रसर्वकारेण अङ्गीकृतः। उत्तराखण्डस्य उच्चन्यायालयस्य मुख्यन्यायाधीशः केरलीयश्च के एम् जोसफः, तमिलनाडु उच्चन्यायालयस्य न्यायाधीशमुख्या इन्दिरा बैनर्जी , ओडीषा राज्यस्य मुख्यन्यायाधीशः विनीत् सरणः इत्येतेषां नियुक्तिनिर्देश एव सर्वकारेण अङ्गीकृतः। एषु के एं जोसफस्य नामान्तर्गतः  नियुक्तिनिर्देशः पूर्वं निरस्त आसीत्। किन्तु तस्य नाम पृथक् पुनर्निर्दिष्टमासीत्।  इन्दिराबानर्जीसहिता वनितान्यायाधीशानां संख्या तिस्रः भविष्यति। आहत्य न्यायमूर्तयः २५ भविष्यन्ति तथापि ६ स्थानानि रिक्तानि अनुवर्तन्ते।

Friday, August 3, 2018

पाकिस्थाने १२ विद्यालयाः अग्निसात् कृताः। 
   इस्लामाबाद्> भीकरदलैः पाकिस्थाने १२ विद्यालयाः अग्निसात् कृताः। एतेषु भूरि विद्यालयाः बालिकानां विद्यालयाः। PTI वार्ताहरसंस्थसा आवेदितम् एवम्। ग्लिल्गित् ब्लाट्टिस्ताने एव विद्यालयं विरुद्ध्य आक्रमणमभवत्। एतदनुबन्धतया शिक्षासंस्थायाः सुरक्षाः निश्चयेन  करणीयः इत्युक्त्वा जनाः प्रतिषिद्धाः। आक्रमणस्य दायित्वम् इतःपर्यन्तं यः कोपि न स्वीकृतः। बालिकानां विद्यालयं प्रति तालिबानस्यआक्रमणं साधारमिति पि टि एे द्वारा आवेदितम्।
जनसञ्चारमाध्यमेन प्रतियोगितया संस्कृतशिक्षणम्
आमुखपटले संस्कृतज्ञानवर्धकं जीवन्तप्रश्नोत्तरिप्रतियोगिता-३४
        जनसञ्चारमाध्यमेन शिक्षणाय संस्कृतस्य प्रचाराय-प्रसाराय च आमुखपटले संस्कृतज्ञानवर्धकं जीवन्तप्रश्नोत्तरिप्रतियोगिता "online संस्कृतशिक्षणम्" (https://www.facebook.com/groups/214643672457937/) इति आमुखपटलसमूहे प्रत्येकं रविवासरे आयोज्यते । एषा प्रतियोगिता प्रत्येकं रविवासरे रात्रौ नववादनत: दशवादनपर्यन्तं भवति । अस्यां प्रतियोगितायां संस्कृतस्य दश प्रश्नाः भवन्ति । अस्या: प्रतियोगिताया: आयोजकौ गुजरातत: जगदीश: डाभी, विश्वस्य वृत्तान्तम् च स्त: । सहायका: अमित: ओली, प्रकाश रंजन मिश्र:, डॉ. नरेन्द्र: राणा च सन्ति । 

       अस्या: प्रतियोगिताया: पुरस्कारस्य प्रायोजकौ विजयकुमार: छिब्बर: - देहली, बिहारत: अभिषेककुमार: दूबे च स्त: ।  गतरविवासरे २९/०७/२०१८ तमे दिनाङ्के प्रतियोगितायाम् २०५ जनाः आहत्य उत्तराणि दत्तवन्तः तेषु नियमानुसारेण सम्यक्तया त्रयः जनाः उत्तरं दत्तवन्त: तेषां नामानि --प्रथमा विजयिनी निरुपमा प्रधान: (ओडिशा) द्वितीय विजेता आशीष कंसवाल: (उत्तराखण्ड) तृतीय विजेता पंकज पाण्डेय: (हरियाणा) च ।
 आगामिनी प्रतियोगिता ०५/०८/२०१८ तमे दिनाङ्के रात्रौ ९:०० वादने भविष्यति।

Thursday, August 2, 2018

यात्राविमाने अग्निबाधा १०३ यात्रिकाः अतिशयतया रक्षां प्राप्तवन्तः।
    मेक्सिक्को सिट्टी> मेक्सिक्को राष्ट्रस्य दुरङ्को क्षेत्रे १०३ यात्रिभिः सह गतं एय्रोमेक्सिक्को विमानं डयनावसरे विच्छिन्नम्। सर्वे यात्रिकाः अतिशयतया रक्षां प्राप्तवन्तः। प्रायः  ज्वलतः विमानात्  सर्वे स्वयं अवरोहणं कृतवन्तः आसन्। विमानं पूर्णतया अग्निना खादिम् अभवत्। वैमानिकः क्षतबाधितः भवति। ९७ यात्रिकाः लघु क्षतबाधिताः।
   गुवाडलुपे विक्टोरिया अन्ताराट्रिय व्योमयानक्षेत्रात् मेक्सिक्को सिट्टीं प्रति गतं विमानं अग्निबाधितम्।विमाने पूर्णरूपेण यात्रिकाः आसन्। प्रचण्डवायुः हिमखण्डपतनं वा  स्यात् दुर्घटनायाः हेतुः इति प्राथमिकं निगमनम्। व्योमयानक्षेत्रात् दश कि.मी दूरे दुर्घटना जाता।

Wednesday, August 1, 2018

इङ्ग्लैण्डभारतयो: क्रिकेटनिकषशृङ्खला अद्य प्रारभते
  बर्मिघम: क्रिकेटनिकषस्पर्धायां श्रेष्ठदलं भारतमद्य इङ्ग्लैण्डवृन्देन सह पञ्चस्पर्धान्विताया: शृङ्खलाया:  प्रथमस्पर्धायां खेलिष्यति। स्पर्धेयम् एजबेस्टन-क्रीडाङ्गणे भविष्यति। इङ्ग्लैण्डदलस्य सहस्रतमा इयं स्पर्धा विद्यते। ङ्ग्लैण्डप्रस्थानात् पूर्वं भारतीयदलनायकेन विराटकोहलिना मुख्यप्रशिक्षकेन रविशास्त्रिणा च प्रोक्तमासीत् यत् निकषशृङ्खलाम् अन्तिमक्रमे निर्धारणेन भारतीयक्रीडकेभ्य: सामञ्जस्य स्थापने साहाय्यं भविष्यति।
असमे पौरत्वरहितेषु भूतपूर्वराष्ट्रपतेः परिवाराङ्गाश्च! 
    नवदिल्ली > गतदिने प्रकाशितातायां राष्ट्रिय-पौरत्वपञ्जीकरण-नामावल्यां प्रमुखाः अप्राप्तस्थानाः सन्ति। भूतपूर्वराष्ट्रपतेः फक्रुदीन् अलि अहम्मदस्य सोदरः एक्रमुद्दीन् अलि अहम्मदः तस्य पुत्रः सियावुद्दीन् अलि अहम्मदः इत्यादयः पट्टिकायां स्थानं न प्राप्तवन्तः। तथा च भाजपादलसामाजिकः रमाकान्त दियोरी, ए ऐ यु   डि एफ् सामाजिक अनन्तकुमारः, उल्फा नेतुः परेष् बरुवा इत्यस्य पत्नी इत्यादयः बहवः प्रमुखाः तेषां परिवाराश्च नामावल्याः बहिः भवन्ति।
केरले कालवर्षो वृद्धिं प्राप।
     कोच्ची > सप्ताहद्वयम् अनवरतं वर्षितस्य अतिवृष्टेः क्लेशमोचनात्पूर्वं कतिपयदिनानां विरामानन्तरं पुनरपि केरले मण्सूण् वर्षा वृद्धिं प्राप्तवती। ओडीषातीरे सम्भूतः अन्तरिक्षावर्तः  भवति वृष्ट्याः कारणमिति पर्यावरणनिरीक्षणविभागः न्यवेदयत्।  वृष्ट्या सह अतिशक्तः चक्रवातः अपि भविष्यतीत्यतः धीवराः मत्स्यबन्धनाय समुद्रगमनात् निरुद्धाः सन्ति।
पञ्चवयस्कया द्विचक्रिका चालिता- पितुः यानचालनानुज्ञापत्रं स्तथगायिम्।
  कोच्ची> कोच्ची राजवीथिद्वारा पञ्चवयस्कायै पुत्रिकायै द्विचक्रिका चालनाय सन्दर्भं  प्रदत्तवान् इत्यस्मात् कारणात् पितुः यानचालनानुज्ञापत्रं निवारितम्। कोच्ची पल्लुरुत्ती देशीयः षिबु फ्रान्सिस् इत्याख्यः एव एवं गृहीतः। रविवासरे इडप्पल्ली नाम प्रदेशस्थ राजमार्गेण द्विचक्रिकायाम् गच्छन् आसीत्। तेन सह भार्या अपत्यद्वयं च आसन् । तस्मिन् सन्दर्भे पुरतः उपविशन्तीं पुत्रिकां यान चालनाय सन्दर्भं दत्तवान्। तदा पृष्टतः समागतः कश्चन यात्रिकः चलनखण्डं स्वीकृत्य सामूहिकमाध्यमेन प्रसारितम्।  दृष्ट्वैतत् यन्त्रवाहन -विभागाधिकारिणा तस्य यानचालनानुज्ञापत्रं स्थगायितम्
महिलानां विश्वचषकहॉकिस्पर्धायां भारतस्य विजय:
प्रागुपान्त्यचक्रे श्व: भारत-आयरलैण्डयो: स्पर्धा भविष्यति

      भारतीयमहिलादलं विश्वचषकहॉकिस्पर्धायां भव्यप्रदर्शनं विधाय प्रागुपान्त्यचक्रे प्रविष्टम् । गतरात्रौ क्रीडितायां स्पर्धायां भारतेन इटली वृन्दं त्रीणि शून्यमति गोलाङ्केन पराजितम् । रानी रामपालस्य नेतृत्वे 'क्रियतां म्रियतां' वेति स्पर्धायां प्रारम्भादेव भारतेनाक्रामकरीत्या क्रीडितम्।  भारतस्य लालरेमसियामी (नवमे निमेषे) नेहागोयल: (पञ्चत्वारिंशे निमेषे) वन्दना कटारिया च (पञ्चपञ्चारिंशे निमेषे) गोलाङ्कानि कृतवत्य:। 
    प्रागुपान्त्यचक्रे श्व: भारतीयमहिला: आयरलैण्डदलेन सह स्पर्धिष्यन्ति । प्रागुपान्त्यचक्रं भारताय सरलं नास्ति, यतोहि  समूहस्पर्धायां भारतेन आयरलैण्डदलात् पराजयं सम्मुखीकृतमासीत् । तथापि भारतीयमहिलानाम् आत्मबलं सुदृढमस्ति ।

Tuesday, July 31, 2018

असमराज्ये ४० लक्षं जनाः पौरत्वरहिताः।
  नवदिल्ली > असमराज्ये राट्रिय पौरत्वपञ्जीकरणस्य ‍(एन् आर् सि) प्रकाशितायाम् अन्तिमायां नामावल्यां  चत्वारिंशत् लक्षाधिकं जनाः पौरत्वविनष्टभीत्यां वर्तन्ते। ३.२९ कोटि जनाः पौरत्वाय अपेक्षिताः अपि २.८९  लक्षं जनाः एव नामावल्याम् अन्तर्भूताः। यदि पैरत्वं न प्रमाणीकृतं तादृशाः जनाः अनधिकृतोपनिविष्टाः इति मत्वा प्रतिनिवर्तनीयाः बन्धनीयाः वा स्युः इति जनानाम् आशङ्का। 
      किन्तु एषा प्राथमिकी नामावली भवति अन्तिमा नेति भारतस्य पञ्जीकरणाधिकारी सैलेषः न्यवेदयत्। पट्टिकातः बहिष्कृताः तेषां कृते पौरत्वं प्रमाणीकर्तुं एकोपि सन्दर्भः दीयते इति केन्द्रगृहमन्त्रिणा राजनाथसिंहेन लोकसभायामुक्तम्।
    परं असमे एतस्मिन् विषये संघर्षसाध्यतां परिगणय्य २२,००० अर्धसैनिकाः विन्यस्ताः।

पञ्चदशम्यां वयसि अभियान्त्रिक बिरुदम्।
   वाषिङ्टण्>पञ्चदश्यां वयसि बिरुदं स्वीकृत्य भारतवंशजः।तनिष्क् एब्रहामिति कुमारः  बाल्ये एव युवकानां पाठान् पठित्वा स्वप्रतिभां व्यक्तीकृतवान्। यु, सी डेविड् मेडिक्कल् सेन्टरतः बयोमेडिक्कल् अभियान्त्रिक क्षेत्रे आसीत् तस्य बिरुदम्।

  अमेरिक्कायां जन्तुविभाग भिषजस्य ताजि एब्रहामस्य तथा तन्त्राधिगम अभियान्त्रिकस्य बिजोवस्य च पुत्रः अस्ति तनिष्क्।पूर्वं एकादशम्यां वयसि कालिफोर्णिया कम्यूनिट्टी महाविद्यालयात् बिरुदं स्वीकृत्य वार्तायां आगतमासीत्।पितुः दिने एव तस्य बिरुदलब्धिः।

  षष्ठे वयसि एव तनिष्क् अन्तर्जालद्वारा माध्यमिक महाविद्यालय स्तरान् पाठान् पठितुं आरभत। तत्र बहु समीचीनानि उन्नतानि च अङ्कानि च स्वीकृतवान्। तस्य कृते पितरौ अवश्यं सहाय्यं कृतवन्तौ। 

  पाठ्येतर विषयेषु सङ्गीतम्, तरणं, गीतालापनं, चलनचित्रं इत्यादयः तस्य विनोदाः भवन्ति।आगामिनि पञ्चवर्षाभ्यन्तरे अस्मिन् विषये बिरुदान्तरबिरुदमस्ति तस्य लक्ष्यम्।

Monday, July 30, 2018

करुणानिधेः स्वास्थ्यस्थितिः आशङ्काजनकः।
     चेन्नई > डि एम् के दलस्य अध्यक्षः तथा तमिळनाट् राज्यस्य भूतपूर्वमुख्यमन्त्री एम् करुणानिधिः आसन्नमरणः सन् चेन्नै नगरस्थे कावेरी आतुरालये वर्तते! उपराष्ट्रपतिः एम् वेङ्कय्यनायिडु सहिताः नेतारः ह्यः आतुरालयं प्राप्य करुणानिधिं सन्दृष्टवन्तः। सहस्रशः आराधकाः अभ्युदयकांक्षिणश्च आतुरालयपरिसरे सन्निहिताः! 
    रक्तसम्मर्दन्यूनतया एव ९४ वयस्कः करुणानिधिः शनिवासरे कावेरी आतुरालयस्य तीव्रपरिचरणविभागं प्रविष्टः! विदग्धचिकित्सया रक्तसम्मर्दः सामान्यस्थितिं प्राप्तः तथापि सः तीव्रपरिचरणविभागे एव अनुवर्तते!
एष्याभूखणडस्य बृहत्तमजलबन्धः सम्पूर्यते- जाग्रतानिर्देशः प्रसारितः 
इटुक्की जलबन्धे जलवितानं २३९५ पादपरिमितं, तीरवासिनां कृते अतिजाग्रतानिर्देशः।
  कुमली > केरलस्य इटुक्की जलसम्भरणी तोयाप्लावमुगच्छति। वृष्टिप्रदेशे लब्धेन अतिवर्षेण जलवितानं २३९५ पादपरिमितं प्राप्नोति इदानीम्। जलवितानं पादद्वयमपि यदा अधिकमिति उद्गच्छति तदा नियन्त्रितरीत्या बहिर्प्रस्रावयितुं प्रयत्नः आरभ्यते