OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 22, 2018

संस्कृतमेव जीवनम् आमुखपटले संस्कृतसामान्यज्ञान प्रतियोगिता सम्पन्ना

       सीवान(बिहार)>संस्कृतभाषा भारतस्य आत्मा अस्ति। एषा हि सुरभारती कथ्यते।मानवजीवने अस्याः अध्ययनम् अत्यावश्यकम्।संस्कृतभाषा अतीव सरला मधुरा च अस्ति। अस्मिन् काले संस्कृतस्य उत्थानं समीचीनम् अस्ति।संस्कृतभाषायाः संवर्द्धनाय प्रसाराय च बृहस्पतिवासरे संस्कृतमेव जीवनम्आ  आमुखपटले तृतीयसंस्कृतप्रश्नोत्तरी-प्रतियोगिता आयोजिता। बिहारस्य सीवानतः डा० सुशील नारायण तिवारीवर्यः अस्याः प्रतियोगितायाः आयोजकः। डा० तिवारीवर्यः उक्तवान् यत् एषा भाषा प्राचीना, चिरनवीना, धार्मिकी च अपि पूर्णव्यावहारिकी। अतः सर्वैः पठनीया।प्रतियोगितायाः सञ्चालनं दीपकवात्स्येन कृतम्। प्रतियोगितायां सहयोगं दीपकवात्स्यः, नीलमपात्रा, रवि सोनी च कृतवन्तः।
        शनिवासरे पुरस्कारस्य उद्घोषणा अभवत्। तत्र प्रथमस्थाने सौरभशर्मा (हिमाचलप्रदेशतः), द्वितीयस्थाने धीरजशास्त्री(बिहारतः) तथा तृतीयस्थाने नवीनीतशर्मा(हिमाचलतः) क्रमशः वर्तन्ते। समेभ्यः विजेतृभ्यः पुरस्कारप्रायोजकेन चिन्मयानन्देन(बिहारतः) पुरस्कारत्वेन प्रतियोगिपरीक्षासु अतीवोपयोगिपुस्तकानि दास्यन्ते।

जि एस् टि न्यूनीक्रियते -गृहोपकरणानां मूल्यं न्यूनं भविष्यति

Representational Image. Courtesy: PTI
    नवदिल्ली> लघु दूरदर्शनस्य क्षालनयन्त्रस्य शीतीकरण्याः च जि एस् टी न्यूनीकृतम् इत्यनेन मूल्यन्यूनीकरणं भविष्यति। ‍शनिवासरे  सम्मिलिते पण्य-सेवनकरायोगस्य उपवेशने आसीत् निर्णयः।  जूलै सप्तविंशति दिनाङ्कतः नूतना करव्यवस्था प्रबलं भविष्यति।
      शुचिवस्त्राणां दारु-शिलाविग्रहयोः रत्नरहिता राखी तथा संस्कृतक्षीरस्य च करः नावश्यकम् इति च आयोगेन निर्णीतम्।

Saturday, July 21, 2018

 कोटित्रयाणां रूप्यकाणां निर्मूल्यीकृतरूप्यकपत्राणि संग्रहीतानि।
      पूने> कोटित्रयाणां रूप्यकाणां निर्मूल्यीकृतरूप्यकपत्राणि आरक्षकैः ग्रहीतानि। महाराष्ट्रराज्यस्थ अहम्मद् नगरात् एव तानि लब्धानि। घटनानुबन्धतया पञ्च जनाः अरक्षकैः ग्रहीताः। सहस्राणां पञ्चशतानां च ४८००० पत्राणि सन्ति ग्रहीतेषु। अाहत्य २.९९ कोटि रुप्यकाणि सन्ति इति अारक्षकवृन्तैः उक्तम्। गुप्तसन्देशेन एव आरक्षकाणां प्रक्रमः। विस्तरेण अन्वेषणं प्राचलत् अस्ति।
छात्रारक्षकसैन्याभियोजना आराष्ट्रं समारभ्यते। 
     अनन्तपुरी > केरलस्य आरक्षकविभागस्य स्तुत्यर्हा अभियोजना छात्रारक्षकसैन्यं ( Students'  Police Cedet -   SPC ) राष्ट्रव्यापिका भविष्यति। अस्याः राष्ट्रियतलस्योत्घाटम् अद्य हरियानाराज्यस्थे गुड्गाव् ग्रामे केन्द्रगृहमन्त्री राजानाथसिंहः निर्वक्ष्यति।

    भारते प्रथमतया २००६ तमे संवत्सरे केरले एव इयं योजना अारब्धा। छात्रेषु व्यवहारनियमः, नेतृसामर्थ्यं राष्ट्राभिमाम् इत्यादिकं संवर्धयितुं लक्ष्यीकृत्य एवेयं समारब्धा। एतावदाभ्यन्तरे सप्तलक्षाधिकं छात्राः अनया परियोजनया परिशीलिताःI अस्मिन् समये केरलस्थेषु ६०० विद्यालयेषु ५०००० छात्राः भागभागित्वं कुर्वन्ति। इदानीं केरलं विना हरियाना राजस्था-कर्णाटक-राज्येषु अपि  योजनेयं प्रचलन्ती अस्ति।

Friday, July 20, 2018

 क्रूड् तैलस्य मूल्यम् अधःपतितम्। इन्धनमूल्यम् न्यूनं भविष्यति।
    नवदिल्ली> अन्ताराष्ट्रविपण्याम् असंस्कृततैलस्य मूल्यम् अधिकतया न्यूनमभवत् इत्यनेन आभ्यन्तरविपण्यामपि तैलेन्धनमूल्यस्य न्यूनता स्यात्। नवदिनाभ्यन्तरेण क्रूडस्य मूल्ये बारल् मितस्य ७ डोलर् इति न्यूनमभवत्।
    तस्मिन् समये पेट्रोल् तैलस्य ६ डीसलस्य १२ पैसा एव सार्वजनिक तैलशालाः न्यूनीकृताः।  दिल्यां पेट्रेल् तैलस्य ७६.७८ रुप्यकाणि तथा डीसलस्य ६८.३५ एव लिट्टर् मितस्यस्य   मूल्यम्। 
अद्य जनतन्त्रस्य सुप्रधानं दिनम् - नरेन्द्रमोदी।
    नवदल्ली> जनतन्त्रस्य सुप्रधानं दिनं भवति अद्य इति प्रधानमन्त्री नरेन्द्रमोदी टिट्वर् मध्ये लिखितवान्। लोकसभायाम् अद्य समारब्धमाणस्य अविश्वासचर्चायाः आधारे एव प्रधानमन्त्रिणः ट्वीट् समागतम्। समग्रायै क्रियात्मकायै अविघनायै चर्चायै मम सहकारिणः सन्दर्भोयम् उपयोक्तुं प्रयत्नं करिष्यन्ति इति मम प्रतीक्षा इत्यपि तेन ट्वीट् कृतम्। एतस्य कृते राष्ट्रपैरान् तथा भारतसंविघनं प्रति वयं ऋणबद्धाः भवामः। अस्मिन् दिने जनाः श्रद्धया तिष्ठन्तः सन्ति।  इति च तेन ट्वीट् कृतम्।
     
      नरेन्द्रमोदीसर्वकारं विरुद्ध्य प्रप्रथमः अविश्वासप्रमेयः लोकसभायाम् अद्य (२०-०७-२०१८) परिगण्यते। अविश्वासचर्चायै सम्मदिदानायैै च अद्यतन मेलनस्य सम्पूर्णं दिनं कल्पितम् अस्ति। ५३४ अङ्गयुक्त सभायाम् ३१२ अङ्गाः सन्ति शासनपक्षे। अत एव अविश्वासप्रक्रमः पराजयी भविष्यति इति राजनैतिकनिरीक्षकाः   अभिप्रेति।

Thursday, July 19, 2018

भारतनाविकसेनाम् आक्रमितुं भीकराणां कृते  ISI प्रशिक्षणम्।
     नवदिल्ली> पठान् कोट् घटनाम् अादर्शं कृत्वा स्थल नाविकसेनाम् आक्रमितुं पाकिस्थानेन सज्जीक्रियते इति बैद्धिकप्रमुखाः अवेदयन्ति। पाकिस्थानम् अधिवसन्ताः अतङ्कवाददलीयाः लष्कर् इ त्वैब, जैष् इ महम्मद् आदयाः एव आक्रमणाय सज्जतां कुर्वन्ति इत्यावेदनम्। 
      सन्दर्भेस्मिन् सीमासुरक्षाम् अवर्धयत्। आक्रमणोत्सुकाः भूत्वा दशानां सङ्घः निलीयप्रवेशनाय सज्जाः भूत्वा सीमासमीपे तिष्टन्तः सन्ति। केल् आत्मुकं, टुदिन् हल्, लीप् इत्याख्येन सानु प्रदेशेन स्यात् निलीनाधिनिवेशः इत्यपि बैद्धिकप्रवराणाम् अावेदने अस्ति। अपि च  भारतसेनाम् आक्रमितुं एल् इ टि जय्ष दलयोः उपरि ऐ एस् ऐ द्वारा शक्तः सम्मर्दः अस्ति इत्यपि आवेदने अस्ति।  अपि च जय्ष् इ मेहम्मद् भीकराणां पाकिस्थानस्थ बहवल्पुरे भारतनाविकसेनाम् आक्रमितुं प्रशिक्षणमपि प्रचलति इति च आवेदने अस्ति।
स्वतन्त्र-प्राथमिकमात्रे विद्यालये संस्कृताध्ययनं प्रारंभणीयम् - बालाधिकार आयोगः
समीक्षा अजित् प्रसाद्
     अनन्तपुरी- केरलम्> प्राथमिकमात्रे विद्यालये अपि संस्कृताध्ययनं प्रारम्भणीयम् इति राज्यस्थरीयबालाधिकार- आयोगः  निर्देशम् अकरोत्। तृतीयकक्ष्यायाः छात्रायाः समीक्षायाः निवेदने अासीत् आयोगस्य निर्णयः। कोल्लम् जनपदस्थे एष़ुकोण् प्रदेशीयस्य अजित् प्रसादस्य पुत्री  भवत्येषा।प्राथमिकमात्रविद्यालस्य छात्रा भवत्यपि  संस्कृताध्ययनस्य सन्दर्भः भवतु इत्युक्त्वा आसीत् अस्याः न्यवेदनम्।
      2012 तमे संवत्सरे आसीत् केरलसर्वकारेण राज्येषु संस्कृताध्ययनं समारब्धम्। किन्तु प्रथमकक्ष्यातः सप्तमपर्यन्तं विद्यमानेषु  विद्यालयेषु एव अध्ययनाय अनुज्ञा प्रदत्ता। बालाधिकार-आयोगस्य आदेशेन प्रथमकक्ष्यातः चतुर्थपर्यन्तं विद्यमानेषु  स्वतन्त्रविद्यालयेषु अपि संस्कृताध्ययनं साध्यम् इति प्रतीक्षायाम् सन्ति संस्कृतप्रेमिणः।
     प्रथमकक्ष्यातः संस्कृताध्ययनं समारभ्य पाठपुस्तकम् , अध्यापकसाहायी, प्रश्नपत्रं, अध्यापकप्रशिक्षणं,  छात्रवृत्तिः च वर्तन्ते। किन्तु अध्यापकनियुक्तिविषये प्राथमिककक्ष्यायाः संस्कृताध्यापनं न परिगण्यते। अत एव पर्याप्तिमात्रम् अध्यापकानां सेवनं नास्ति तत्र। प्रथमकक्ष्यातः दशमपर्यन्तं विद्यमानेषु विद्यालयेषु ५० होरात्मकम् एकेन अध्यापकेन अध्यापनीयम् इत्यस्ति इदानीन्तनस्थितिः।

Wednesday, July 18, 2018

काण्डहारे व्योमाक्रमणे ६२ भीकराः हताः
   काबूलम्> गान्धारदेशे संवृत्ते अफ्गान् सैन्यस्य व्योमाक्रमणे ६२ भीकराः हताः। मरूफ् जनपदे भीकराणां निलीयवासस्थानं लक्ष्यीकृत्य आसीत् आक्रमणम्। तालीबानस्य निर्देशकः अपि हतः इति सैनिकोद्योगस्थैः उक्तम्।
क्षीरे स्नात्वा प्रतिषेधसमरः।
    मुम्बै >क्षीरस्य मूल्यं वर्धयितव्यम् इत्युक्त्वा कृषकः क्षीरे स्नात्वा प्रतिषेधं प्रकटितवान्। स्वाभिमानि शेत्कारि संगतन इति दलस्य प्रतिषेधसमरस्य अनुकूलतायै एव अस्य विशेषसमरः। महाराष्ट्र-सोलापुरस्य मंगलवेध-नगरवासी सागरः भवति एषः। ३५ लिट्टर् मितं क्षीरं स्नानाय एषः उपयुक्तवान्। धेनवः अपि क्षीरे स्नापयिताः। 
     क्षीरस्य मूल्यवर्धनं उन्नीय  दिनद्वयं यावत्  अान्दोलनं प्रचलति। स्वाभिमान षेतकारीसंगतन, महाराष्ट्र किसान् सभा च समरं नयतः। केरलं, गोव, कर्णाटक राज्यवत् लिट्टर् मितस्य क्षीरस्य ५ रुप्यकाणि क्षीरकृषकाणाम् उपसाहाय्यरूपेण दातव्यानि इति च ते अभिलषन्ति। 
सौदी  उत्पादनं वर्धनं करोति। तैलेन्धनमूल्यं न्यूनं भविष्यति।
    नवदिल्ली> अन्ताराष्ट्र विपण्यां  शिलातैलमूल्यं (क्रूडोयिल्) न्यूनीभवितुं सन्दरभः सज्जः भविष्यति। तैलोत्पादनस्य वर्धनं कृत्वा अवश्यकानां कृते अधिकतया प्रदातुं सौदिराष्ट्रः सिद्धतां प्राप्नोति।  शिलातैलोत्पादनं वर्धनं कर्तुं अमेरिक्क राष्ट्रस्य राष्ट्रपतेः डोणाल्ड् ट्रंपस्य सम्मर्देन एव नूतन निर्णयः।  अन्ताराष्ट्रविपण्यां तैलस्य मूल्यं न्यूने पतितम् इत्यनेन उत्पादनं न्यूनीकर्तुं अोपक् राष्ट्रैः निश्चितम्। अङ्गराष्ट्रेभ्यः निर्णयात्  समाश्वासः भविष्यति।

Tuesday, July 17, 2018

सौन्दर्यवर्धकचूर्णम् अर्बुदस्य कारणम्- जोण्सन् अान्ट्  जोण्सणाय ३२००० केटि रुप्यकाणि  दण्डितानि। 
        वाषिङ्टण्> औषधनिर्माण संस्थायै जोण्सण् आन्ट् जोण्सणाय अमेरिक्कराष्ट्रस्य  न्यायालयः ४७० कोटि   डोलर् धनम् अदण्डयत्। अस्बट्टोस् (Asbestos) इति वस्तुना संयुतस्य सैन्दर्यवर्धकवस्तुनः (Talcum Powder) उपयोगेन २२ स्त्रियः अर्बुदरोगबाधिताः अभवन् इति न्यायव्यवहारे एव न्यायालयस्य अयम् आदेशः। 
       षट् सप्ताहपर्यन्तं कृते वादप्रतिवादान्ते अासीत् दण्डनिर्णयः। वैयक्तिकशुचये उपयोक्तुं निर्धारितम् आसीत् इदं चूर्णम्। विगतानि  ४० वर्षाणि यावत् चूर्णमिदं एवं रीत्या विक्रीतवान् जोण्सण् अन्ट्जोण्सणः। पूर्वस्मिन् कालेടपि एषः एवं दण्डितः अासीत्।
केरलेषु वर्षाकालदुष्प्रभाव अनुवर्तते; मरणानि १३।
     कोच्ची > केरलराज्ये दिनत्रयं यावत्  अतिवृष्टिरनुवर्तते। वर्षाकालदुष्प्रभावे अद्यावधि त्रयोदशानां जीवहानिरभवत्। त्रयो जना अदृष्टाः अभवन्! इटुक्कि जनपदे सप्तस्थानेषु कोट्टयं जनपदे त्रिषु स्थानेषु च भूच्छेदः जातः। गृहाणि कृषिक्षेत्राणि च विनाशमुपगतानि। 
      राजवीथिसहिताः मार्गाः वृष्टिजले निमग्नाः इत्यतः गतागतानि स्थगितानि! शुक्रवासरं यावत् वृष्टिरनुवर्तिष्यते इति सूचना।

Monday, July 16, 2018

फ्रान्स् पादकन्दुकसार्वभौमः। 
    मोस्को > विश्वपादकन्दुकमहोत्सवे   प्रतिलोमाय सन्नद्धभूतं क्रोयेष्याराष्ट्रं ४-२ इति लक्ष्यकन्दुकक्रमेण पराजित्य पूर्वभूतलोकविजयिना फ्रान्स् राष्ट्रेण पादकन्दुकस्य राजसिंहासनम् अवाप्तम्। अत्यन्तम् उत्साहोज्वले प्रतिद्वन्द्वे नवपरिवर्तनाय कोयेष्यादलं सर्वदा सर्वथा स्वेदजलं प्रावाहयत्तथापि फ्रान्स्दलस्य तन्त्रज्ञतां परिचयसम्पन्नतां च पराजेतुम् अशक्तमासीत्। 
    १८तमे निमिषे क्रोयेष्यादलस्य मान्सूकिच् नामकस्य आत्मनिष्ठलक्ष्यकन्दुकदानेनैव क्रोयेष्यायाः दौर्भाग्यस्य वीथिः प्रकाशिता। अनन्तरं पेरिसिच् नामकस्य लक्ष्यकन्दुकप्रत्यर्पणं ३८निमिषे संजाते क्रीडा उत्तेजनभरिता जाता। किन्तु अनवधानतया वशंवदेन दण्डार्हलक्ष्यकन्दुकेन (पोग्बा - ५९) तथा एम् बापे नामकेन प्राप्तेन लक्ष्यकन्दुकेन (६५) च क्रोयेष्यायाः विधिः निर्णीता। एतदाभ्यन्तरे मान्सूकिचेन प्रायश्चित्तः कृतः अपि न पर्याप्तः अभवत्। तथा फ्रान्स् दलं ४-२ क्रमेण विजयीभूतम्। चषकसमर्पणवेलायां जाता वृष्टिः फ्रान्स्दलाय हर्षवर्षः क्रोयेष्यादलाय अश्रुवर्षश्चाभवत्।

Sunday, July 15, 2018

'सम्प्रतिवार्ता' छात्रवार्तावतारिका अनुमोदिता। 
       कालटी > नवमाध्यममण्डले प्रशस्तिमार्जितायाः सम्प्रतिवार्तायाः ओण् लैन् वार्तावतरणकार्यक्रमे नैकवारं वार्तामवतार्य विचक्षणैः 'श्रेष्ठवार्तावतारिके'ति चिता फात्तिमा मुण्डेत्त् नामिका छात्रायै संस्कृताध्यापकफेडरेषन् संघटनस्य  अनुमोदनम्। फेडरेषन् संघटनस्य नेतृत्वे कालट्याम् आयोजिते राज्यस्तरीयवनितासम्मेलने (मातृकं २०१८) कालटी आदिशङ्करजन्मभूमिमन्दिरस्य शृंगेरी मठस्य़ च निदेशकः प्रोफ. ए सुब्रह्मण्यअय्यर् वर्यः फात्तिमायै प्रशस्तिफलकं दत्वा अनुमोदितवान्। नवमाध्यमद्वारा संस्कृतभाषायाः प्रचारणे नववंशश्रेण्याः अभिरुचिः श्लाघनीयेति तेनोक्तम्।
      कार्यक्रमे$स्मिन् कालटी ग्रामसभाध्यक्षा के तुलसी, के एस् टि एफ् संघटनस्य राज्याध्यक्षः पि पद्मनाभः, 'मातृकस्य' मुख्यसंयोजिका पी. रती इत्येते सन्निहिताः आसन्।

Saturday, July 14, 2018

रोगनिर्णयाय वर्णयुक्तः एक्स्-रे- न्य़ूसिलान्टस्य वैज्ञानिकाः।
    वेल्लेङ्टण्> वैद्यशास्त्रे सुकररेगनिर्णयायै नूतनानुसन्धानेन विजयं प्राप्तवन्तः  न्यूसिलान्टस्य वैज्ञानिकाः। विश्वे इदम्प्रथमतया त्रिमान एक्स् रे संविधानं कृतवन्तः एते। वर्णयुक्त एक्स् रे संविधानेन शरीरभागस्य सुव्यक्तचित्राणि लभन्ते। अनेन क्लेशं विना सुव्यक्तरोगनिर्णयः शक्यते। छायाग्राहीवत् प्रवर्तमानेन अेन संविधानेन शरीरान्तर्गत लघुक्षताः अपि  प्रत्यभिज्ञातुं शक्यते।
केरलस्य राज्यस्तरीयसंस्कृतवनिताध्यापकसम्मेलम्  अद्य कालट्याम्।
      कोच्ची >अधुनातनकाले वनिताशक्तीकरणस्य बोधवत्करणं तथा संस्कृतभाषाशिक्षणं संस्कृतेः पुनरुज्जीवनम् इति उद्घोषणं च लक्ष्यीकृत्य 'केरल संस्कृताध्यापकफडरेषन्' नाम्नः संघटनस्य नेतृत्वे जुलाई १४ दिनाङ्के 'मातृकम् २०१८' इति नामधेये वनिताध्यापकसंगमः आदिशङ्करजन्मग्रामे कालट्यां  सम्पद्यते। ब्रह्मानन्दोदयं विद्यालये समायोज्यमानं सम्मेलनं राज्यस्तरीयवनिता आयोग समित्याः अध्यक्षा एम् सि जोसफैन् उद्घाटनं करिष्यति। विधानसभासामाजिकः रोजि एम् जोण्, श्रीशंकराचार्य संस्कृतविश्वविद्यालयस्य संस्कृतप्रचरणविभागाधिकारी डो. के वि अजित्कुमारः , श्रीरामकृष्ण अद्वैताश्रमस्य अधिपतिः विद्यानन्दस्वमिनः, कालटिग्रामाध्यक्षा के तुलसी च विशिष्टातिथयः भवन्ति। 
       सम्मेलने$स्मिन् भाषापण्डिता प्रोफ. ओ. वत्सला आद्रियते, संस्कृतभाषायां लघुचलनचित्रं निर्मितवती अध्यापिका श्रुती सैमण् अनुमोदते च। अनन्तरं सम्पद्यमानायां सङ्गोष्ठ्यां डो. एम् लक्ष्मीकुमारी प्रबन्धावतरणं करोति। अस्मिन् कार्यक्रमे सम्प्रतिवार्तायाः श्रेष्ठतरा वार्तावतारिका फात्तिमा मुण्टेत्त् नामिका छात्रा अनुमोदनमावहति।

Friday, July 13, 2018

विद्यार्थिनः केन्द्रीकृत्य प्रवर्तयितुं मावोवादिनः उद्दिश्यन्ते।
    कालिकाव्(केरलम्)> केरलेषु मावोवादिनः प्रवर्तनशैली परिवर्त्यते। अन्यराज्यवत् केरलेषु तेषां मूलस्थापनं असाध्यं इति ज्ञात्वा भवति नूतनं परिवर्तनम्। प्रौढान् जनान् दलान् प्रति आनयनम् न शक्यते इति प्रत्यभिज्ञाय एव छात्रान् लक्ष्यीकृत्य  नूतनयत्नः। मलप्पुरं एरणाकुलं पालक्काट् त्रिश्शिवपेरूर् जनपदेषु कलाशालाः केन्द्रीकृत्य कलाशाला-राजनैतिकमणडले प्रवर्तनम् अभिलषन्ति ते। स्वेछया प्रवर्तितदलम् इति रूपेण भवति तेषां कलालयप्रवेशः इति अनुमन्यते।  इतःपर्यन्तं आरक्षकाणां पट्टिकायाम् अनागताः एव कार्यनिर्वहणं कुर्वन्ति। एतैः प्रवर्तनम् आरब्धम् इत्यस्ति सूचना