OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 18, 2018

सौदी  उत्पादनं वर्धनं करोति। तैलेन्धनमूल्यं न्यूनं भविष्यति।
    नवदिल्ली> अन्ताराष्ट्र विपण्यां  शिलातैलमूल्यं (क्रूडोयिल्) न्यूनीभवितुं सन्दरभः सज्जः भविष्यति। तैलोत्पादनस्य वर्धनं कृत्वा अवश्यकानां कृते अधिकतया प्रदातुं सौदिराष्ट्रः सिद्धतां प्राप्नोति।  शिलातैलोत्पादनं वर्धनं कर्तुं अमेरिक्क राष्ट्रस्य राष्ट्रपतेः डोणाल्ड् ट्रंपस्य सम्मर्देन एव नूतन निर्णयः।  अन्ताराष्ट्रविपण्यां तैलस्य मूल्यं न्यूने पतितम् इत्यनेन उत्पादनं न्यूनीकर्तुं अोपक् राष्ट्रैः निश्चितम्। अङ्गराष्ट्रेभ्यः निर्णयात्  समाश्वासः भविष्यति।

Tuesday, July 17, 2018

सौन्दर्यवर्धकचूर्णम् अर्बुदस्य कारणम्- जोण्सन् अान्ट्  जोण्सणाय ३२००० केटि रुप्यकाणि  दण्डितानि। 
        वाषिङ्टण्> औषधनिर्माण संस्थायै जोण्सण् आन्ट् जोण्सणाय अमेरिक्कराष्ट्रस्य  न्यायालयः ४७० कोटि   डोलर् धनम् अदण्डयत्। अस्बट्टोस् (Asbestos) इति वस्तुना संयुतस्य सैन्दर्यवर्धकवस्तुनः (Talcum Powder) उपयोगेन २२ स्त्रियः अर्बुदरोगबाधिताः अभवन् इति न्यायव्यवहारे एव न्यायालयस्य अयम् आदेशः। 
       षट् सप्ताहपर्यन्तं कृते वादप्रतिवादान्ते अासीत् दण्डनिर्णयः। वैयक्तिकशुचये उपयोक्तुं निर्धारितम् आसीत् इदं चूर्णम्। विगतानि  ४० वर्षाणि यावत् चूर्णमिदं एवं रीत्या विक्रीतवान् जोण्सण् अन्ट्जोण्सणः। पूर्वस्मिन् कालेടपि एषः एवं दण्डितः अासीत्।
केरलेषु वर्षाकालदुष्प्रभाव अनुवर्तते; मरणानि १३।
     कोच्ची > केरलराज्ये दिनत्रयं यावत्  अतिवृष्टिरनुवर्तते। वर्षाकालदुष्प्रभावे अद्यावधि त्रयोदशानां जीवहानिरभवत्। त्रयो जना अदृष्टाः अभवन्! इटुक्कि जनपदे सप्तस्थानेषु कोट्टयं जनपदे त्रिषु स्थानेषु च भूच्छेदः जातः। गृहाणि कृषिक्षेत्राणि च विनाशमुपगतानि। 
      राजवीथिसहिताः मार्गाः वृष्टिजले निमग्नाः इत्यतः गतागतानि स्थगितानि! शुक्रवासरं यावत् वृष्टिरनुवर्तिष्यते इति सूचना।

Monday, July 16, 2018

फ्रान्स् पादकन्दुकसार्वभौमः। 
    मोस्को > विश्वपादकन्दुकमहोत्सवे   प्रतिलोमाय सन्नद्धभूतं क्रोयेष्याराष्ट्रं ४-२ इति लक्ष्यकन्दुकक्रमेण पराजित्य पूर्वभूतलोकविजयिना फ्रान्स् राष्ट्रेण पादकन्दुकस्य राजसिंहासनम् अवाप्तम्। अत्यन्तम् उत्साहोज्वले प्रतिद्वन्द्वे नवपरिवर्तनाय कोयेष्यादलं सर्वदा सर्वथा स्वेदजलं प्रावाहयत्तथापि फ्रान्स्दलस्य तन्त्रज्ञतां परिचयसम्पन्नतां च पराजेतुम् अशक्तमासीत्। 
    १८तमे निमिषे क्रोयेष्यादलस्य मान्सूकिच् नामकस्य आत्मनिष्ठलक्ष्यकन्दुकदानेनैव क्रोयेष्यायाः दौर्भाग्यस्य वीथिः प्रकाशिता। अनन्तरं पेरिसिच् नामकस्य लक्ष्यकन्दुकप्रत्यर्पणं ३८निमिषे संजाते क्रीडा उत्तेजनभरिता जाता। किन्तु अनवधानतया वशंवदेन दण्डार्हलक्ष्यकन्दुकेन (पोग्बा - ५९) तथा एम् बापे नामकेन प्राप्तेन लक्ष्यकन्दुकेन (६५) च क्रोयेष्यायाः विधिः निर्णीता। एतदाभ्यन्तरे मान्सूकिचेन प्रायश्चित्तः कृतः अपि न पर्याप्तः अभवत्। तथा फ्रान्स् दलं ४-२ क्रमेण विजयीभूतम्। चषकसमर्पणवेलायां जाता वृष्टिः फ्रान्स्दलाय हर्षवर्षः क्रोयेष्यादलाय अश्रुवर्षश्चाभवत्।

Sunday, July 15, 2018

'सम्प्रतिवार्ता' छात्रवार्तावतारिका अनुमोदिता। 
       कालटी > नवमाध्यममण्डले प्रशस्तिमार्जितायाः सम्प्रतिवार्तायाः ओण् लैन् वार्तावतरणकार्यक्रमे नैकवारं वार्तामवतार्य विचक्षणैः 'श्रेष्ठवार्तावतारिके'ति चिता फात्तिमा मुण्डेत्त् नामिका छात्रायै संस्कृताध्यापकफेडरेषन् संघटनस्य  अनुमोदनम्। फेडरेषन् संघटनस्य नेतृत्वे कालट्याम् आयोजिते राज्यस्तरीयवनितासम्मेलने (मातृकं २०१८) कालटी आदिशङ्करजन्मभूमिमन्दिरस्य शृंगेरी मठस्य़ च निदेशकः प्रोफ. ए सुब्रह्मण्यअय्यर् वर्यः फात्तिमायै प्रशस्तिफलकं दत्वा अनुमोदितवान्। नवमाध्यमद्वारा संस्कृतभाषायाः प्रचारणे नववंशश्रेण्याः अभिरुचिः श्लाघनीयेति तेनोक्तम्।
      कार्यक्रमे$स्मिन् कालटी ग्रामसभाध्यक्षा के तुलसी, के एस् टि एफ् संघटनस्य राज्याध्यक्षः पि पद्मनाभः, 'मातृकस्य' मुख्यसंयोजिका पी. रती इत्येते सन्निहिताः आसन्।

Saturday, July 14, 2018

रोगनिर्णयाय वर्णयुक्तः एक्स्-रे- न्य़ूसिलान्टस्य वैज्ञानिकाः।
    वेल्लेङ्टण्> वैद्यशास्त्रे सुकररेगनिर्णयायै नूतनानुसन्धानेन विजयं प्राप्तवन्तः  न्यूसिलान्टस्य वैज्ञानिकाः। विश्वे इदम्प्रथमतया त्रिमान एक्स् रे संविधानं कृतवन्तः एते। वर्णयुक्त एक्स् रे संविधानेन शरीरभागस्य सुव्यक्तचित्राणि लभन्ते। अनेन क्लेशं विना सुव्यक्तरोगनिर्णयः शक्यते। छायाग्राहीवत् प्रवर्तमानेन अेन संविधानेन शरीरान्तर्गत लघुक्षताः अपि  प्रत्यभिज्ञातुं शक्यते।
केरलस्य राज्यस्तरीयसंस्कृतवनिताध्यापकसम्मेलम्  अद्य कालट्याम्।
      कोच्ची >अधुनातनकाले वनिताशक्तीकरणस्य बोधवत्करणं तथा संस्कृतभाषाशिक्षणं संस्कृतेः पुनरुज्जीवनम् इति उद्घोषणं च लक्ष्यीकृत्य 'केरल संस्कृताध्यापकफडरेषन्' नाम्नः संघटनस्य नेतृत्वे जुलाई १४ दिनाङ्के 'मातृकम् २०१८' इति नामधेये वनिताध्यापकसंगमः आदिशङ्करजन्मग्रामे कालट्यां  सम्पद्यते। ब्रह्मानन्दोदयं विद्यालये समायोज्यमानं सम्मेलनं राज्यस्तरीयवनिता आयोग समित्याः अध्यक्षा एम् सि जोसफैन् उद्घाटनं करिष्यति। विधानसभासामाजिकः रोजि एम् जोण्, श्रीशंकराचार्य संस्कृतविश्वविद्यालयस्य संस्कृतप्रचरणविभागाधिकारी डो. के वि अजित्कुमारः , श्रीरामकृष्ण अद्वैताश्रमस्य अधिपतिः विद्यानन्दस्वमिनः, कालटिग्रामाध्यक्षा के तुलसी च विशिष्टातिथयः भवन्ति। 
       सम्मेलने$स्मिन् भाषापण्डिता प्रोफ. ओ. वत्सला आद्रियते, संस्कृतभाषायां लघुचलनचित्रं निर्मितवती अध्यापिका श्रुती सैमण् अनुमोदते च। अनन्तरं सम्पद्यमानायां सङ्गोष्ठ्यां डो. एम् लक्ष्मीकुमारी प्रबन्धावतरणं करोति। अस्मिन् कार्यक्रमे सम्प्रतिवार्तायाः श्रेष्ठतरा वार्तावतारिका फात्तिमा मुण्टेत्त् नामिका छात्रा अनुमोदनमावहति।

Friday, July 13, 2018

विद्यार्थिनः केन्द्रीकृत्य प्रवर्तयितुं मावोवादिनः उद्दिश्यन्ते।
    कालिकाव्(केरलम्)> केरलेषु मावोवादिनः प्रवर्तनशैली परिवर्त्यते। अन्यराज्यवत् केरलेषु तेषां मूलस्थापनं असाध्यं इति ज्ञात्वा भवति नूतनं परिवर्तनम्। प्रौढान् जनान् दलान् प्रति आनयनम् न शक्यते इति प्रत्यभिज्ञाय एव छात्रान् लक्ष्यीकृत्य  नूतनयत्नः। मलप्पुरं एरणाकुलं पालक्काट् त्रिश्शिवपेरूर् जनपदेषु कलाशालाः केन्द्रीकृत्य कलाशाला-राजनैतिकमणडले प्रवर्तनम् अभिलषन्ति ते। स्वेछया प्रवर्तितदलम् इति रूपेण भवति तेषां कलालयप्रवेशः इति अनुमन्यते।  इतःपर्यन्तं आरक्षकाणां पट्टिकायाम् अनागताः एव कार्यनिर्वहणं कुर्वन्ति। एतैः प्रवर्तनम् आरब्धम् इत्यस्ति सूचना

Thursday, July 12, 2018

मशकानां वन्ध्यंकरणेन डङ्किज्वरव्यापनं रोद्धुं शक्यते।
   सिड्नि> मशकदंशनेन व्याप्यमानाः डङ्कि सिक्क इत्याख्याः रोगाः मशकानां वन्ध्यंकरणेन निवारयितुं शक्यते इति वैज्ञानिकाः वदन्ति।  ओस्ट्रेलिया राष्ट्रस्य सि एस् ऐ आर् ओ, 'जयिंस् कुक्' विश्वविद्यालयः च मिलित्वा कृते अनुसन्धाने एव नूतनज्ञानप्राप्तिः। परीक्षणशालायां पुरुषमशकान् संवर्ध्य प्रजननशक्तिनाशकं वोल् बाच्चि नाम  सूक्ष्माणुं मशकानाम् अन्तः प्राविशन्।  एतान् मशकान् स्त्री मशकानां समीपं प्रेषयन्ति। एवं जायमानः  नूतनाण्डात् कदापि मशकः न जायते इत्यस्ति आवेदनम्।
वनिताशक्तीकरणाय राष्ट्रियसङ्गोष्ठी।
   कालटी>संस्कृताध्यापकफेडरेषन् दलस्य राज्यस्तरीयवनितामेलनं शनिवासरे कालटी देशे प्रारप्स्यसे। वनिताअायोगस्य राज्याध्यक्षा श्रीमति एम् सि जेसफैन् मेलनस्य उद्घाटनं करिष्यति। विवेकानन्द वेदिक् विषन् इत्यस्य निदेशका डा एम् लक्ष्मीकुमारी स्त्रीशक्तीकरणस्य आनुकालिकप्रसक्तिः इति विषयमधिकृत्यसङ्गोष्ठ्यां मुख्यभाषणं करिष्यति। संस्कृतक्षेत्रे येगदानं कृतवती निवृत्ताध्यापिका विदुषी ओ वत्सलामहाभागा समादरिष्यते।   केरळराज्यस्य विविध प्रान्तेभ्यः बहवः सङ्गोष्ट्यां भागभाजः भविष्यन्ति।

Wednesday, July 11, 2018

कर्मयज्ञसाफल्म् - गुहायां संलग्नाः पादकन्दुकदलीयाः १२ ताय्बालकाः परिशीलकश्च बहिर्नीताः। 
     बाङ्कोक् > आविश्वजनततेः प्रार्थनायाः रक्षादौत्यसङ्घस्य कर्मयज्ञस्य च शुभान्त्यम्। ताय्लान्ट् राष्ट्रस्य उत्तरस्यां तां लुवाङ् नामिकायां गुहायां संलग्नाः १२ पादकन्दुकक्रीडकाः छात्राः तेषां परिशीलकश्च सुरक्षिततया बहिर्नीताः।   दशकिलोमीटर् दैर्घ्ययुक्तायां गुहायां गुहामुखात् ४ कि. मी. अन्तः घोरान्धकारे मलपङ्कयुक्ते जलप्रवाहे उन्नते शिलाग्रे प्राणभयेन १८अहोरात्राणि नीताः ते ९० संख्यकानां निमज्जनविदग्धानां नेतृत्वे कृतस्य भगीरथप्रयत्नस्य फलेनैव रक्षिताः! गुहान्तर्भागं प्रति १३ अन्ताराष्ट्रनिमज्जनविदग्धाः ५ नाविकाश्च प्लवनं कृतवन्तः। बहिश्च सर्वसज्जाः रक्षिपुरुषाः सैनिकाश्च उपसहस्रं सन्नद्धभटाः। एतेषां संयोजितपरिश्रमफलेनैव १३ जनानाम् अतिजीवनं साध्यमभवत्। 
    परन्तु कठिनप्रयत्नस्य मध्ये कश्चन निमज्जनविदग्धः स्वप्राणानपि त्यक्तवान्।
    फ्रान्स् अन्तिमपादं प्रविष्टम्। 
मोस्को > २१तमपादकन्दुकमहोत्सवस्य प्रथमे उपान्त्यपादप्रतिद्वन्द्वे   फ्रान्स् दलेन बल्जियं दलं पराजितम्।  प्रत्यादानरहितेन एकेन लक्ष्यकन्दुकेन आसीत् फ्रान्स् दलस्य विजयः। स्पर्धायाः प्रथमार्धे सामुवल् उम् टिटि नामकेनैव लक्ष्यकन्दुकं प्राप्तम्।

Tuesday, July 10, 2018

स्त्रियः यानं चालितवत्यः- सौदिराष्ट्रे ३०,००० चालकाः बहिरगच्छन्।
    रियादः>सौदिराष्ट्रे वनिताभ्यः यानचालकानुमतिपत्रम् अलभन्त। अत एव गार्हिकयानचालकानाम् आवश्यकता न्यूना अभवत्। एवं षण्मासाभ्यन्तरे त्रिंशत्सहस्रं वैदेशिकयानचालकाः स्वराष्ट्रं प्रति प्रेषिताः।  सार्वजनिकगणना संस्थया  उक्तम्। स्वदेशीवत्करणयेजनया कर्मविनष्टानाम् प्रतिदिनसङ्ख्या 2602 इति भवति। आगमिष्यमाणे संवत्सरे २५% तः ५०% भविष्यति कर्मनष्टम्। त्रिसहस्राधिकं  भारतवाहनचालकाः सन्ति इदानीं सौदि राष्ट्रे।
प्रार्थना साफल्यम् - ताय्लान्टे गुहायां पतितेषु ८ छात्राः बहिरानीताः। 
     बाङ्कोक् > विश्वजनतायाः प्रार्थना सफलतां प्राप्नोति। ताय्लान्टराष्ट्रे तां लुवाङ् नामिकायां गुहायां सप्ताहद्वयात् पूर्वं निपतितेषु परिशीलकसहितेषु १२ पादकन्दुकक्रीडकेषु छात्रेषु ८ बालकाः रक्षादौत्यसेनया बहिर्नीताः। रविवासरे एव रक्षाप्रयत्नः प्रारब्धः। तीव्रे कठिने च प्रथमचरणे चत्वारः बालकाः बहिर्नीताः।  ह्यः अन्ये चत्वारश्च बहिरागताः।
लवणं विना खादिष्यामः। लवणस्य दौर्लभ्यं भविष्यति। 
-डा अभिलाष् जे
    राज्कोट्>अतिरूक्षं लवणदौर्लम् आगच्छतीति संस्तुतिः। लवणस्य उत्पादने न्यूनता नास्ति चेदपि लवणं नेतुं रेल्यानानि न लभन्ते इत्यतः क्षामः संजातः। अष्ट लक्षं टण् मितं लवणं गुजरात् राज्यस्य कच् मध्ये गान्धीधाम क्षेत्रे वर्तते।
   गुजरात् राज्ये विंशति लवणसंस्करणशालाः सन्ति। तेषु चतुर्दश गान्धीधामे एव वर्तते। रेल्यानानि सर्वाणि कच्चे कट्ल मुद्रा टुण इत्यादि क्षेत्रेभ्यः कृषिसामग्र्यः नेतुं प्रवर्तन्ते।
2016-तमे  55,000 शिशवः अप्रत्यक्षाः।
    नवदिल्ली> बालापहरणम् इति अारोप्य व्याजसन्देशाः प्रसार्यमाणाः सन्ति। बालकन् अपहृतवान् इत्युक्त्वा केचन हताः। अवसरेस्मिन् भीतितां वार्तां प्रसार्य केन्द्रीय आभ्यन्तरमन्त्रालयः।
    2016-तमे एव 55,000 शिशवः राष्ट्रस्य विविधभागेभ्यः अपहृताः इति गणितेन प्रकाश्यते। घटनेयं प्रतिसंवत्सरं प्तिशतं त्रिंशत् इति क्रमेण वर्धमाना अस्ति।  2016-तमे 54,723 शिशवः अपहृताः। किन्तु  40.4 ℅ घटनायां अपराधव्यवहारपत्रमपि न समर्पितम्। व्यवहारे आगतेषु घटनासु  22.7 ℅एव दण्डिताः 2015-तमे 41,893,  2014-तमे 37,854 संख्यामितानि विकल्पनियामकविधानानि पञ्चीकृतानि। 2017 तमस्य  आवेदनम् इतःपर्यन्तम् न प्रकाशितम्। 

Monday, July 9, 2018

सप्तदश विश्वसंस्कृतसम्मेलनस्योद्घाटनमद्य कनाडाया: वैङ्कूवरनगरे
-पुरुषोत्तमशर्म
    केन्द्रीयमानवसंसाधनविकासमन्त्री प्रकाशजावडेकर: अद्य कनाडादेशस्य वैंकूवरनगरे जुलाई मासस्य नवमदिनाङ्कात् त्रयोदशदिनाङ्कं यावत् आयोक्ष्यमाणस्य सप्तदश विश्वसंस्कृतसम्मेलनस्योद्घाटनं करिष्यति ।
     अस्मिन् सम्मेलने पञ्चशताधिकसंस्कृतविद्वांस: चत्वारिंशद्देशानां शिष्टमण्डलानि च सहभागं करिष्यन्ति। विभिन्नविषयेषु शोधपत्रै: संस्कृतज्ञानस्य  आदानप्रदानं भविष्यति। ऐतिहासिके साहित्ये वैदिकसाहित्ये च  महिलानां शिक्षा संस्कृतं बौद्धधर्म: मनुस्मृति: योगशाला मीमांसा गार्गीया-ज्योतिषनुसन्धानादिविषयेषु विशेषचर्चा भविष्यति । 
     पञ्चदिवसीयसम्मेलनस्योद्देश्यं जगति दैनन्दिनव्यवहारे संस्कृतभाषाप्रयोग: संस्कृतसंवर्धनं साहित्यप्रसारश्च विद्यते। विश्वसंस्कृतसम्मेलनस्ययोजनं जगिति पृथक्-पृथग्राष्टेषु वर्षत्रयान्तराले भवति। भारते इदानीं यावत्  त्रिवारं विश्वसंस्कृतसम्मेलनमभवत् । अस्मिन् वर्षे  भारतीयशिष्टमण्डल दश विद्वांस: द्वौ अधिकारिणौ च विद्यन्ते।
गूगिल् निर्मितबुद्धिसङ्घेषु भारतस्य  तान्त्रिकनवोन्मेषशालिरपि।  निष्कृतिः 1.2 कोटिः। 
    बंगलूरु> द्वाविंशति वर्षदेशीयाय भारततन्त्रज्ञाय  गूगिलस्य निर्मितबुद्धिसङ्घं प्रति निमन्त्रणम्। निष्कृतिः 1.2 कोटिः आदित्य पलिवाल् इति विद्यार्थिने भवति अयं दुर्लभावसरप्राप्तिः। मुम्बै देशीयः आादित्यः बंगलूरु नगरस्थे ऐ ऐ टि मध्ये छात्रः भवति।
     सेरच् एन्जिन् (अन्वेषणयन्त्रम्) भीमेन गूगिलेन कृते आगोलतल परीक्षायामेव आदित्यस्य चयनमभवत्। आहत्य 6000 संख्यामितः परीक्षार्थिनः आासन् । तेषु   50 कुशलाः एव चिताः।  जूलै मासस्य  16 दिनाङ्के सः गूगिलेन सह मिलिष्यति।  आधुनिकयुगे अग्रे सरन्तां गूगिल् संस्थायां कर्मणे निमन्त्रितः इत्यनेन सन्तुष्टिरस्तीति सः अवदत्।