OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 6, 2018

क्रू एस्केप् संविधानं परीक्षितम् - एे एस् आर् ओ
    श्रीहरिक्कोट्ट> बाह्याकाशयात्रावेलायां जायमानात् अपघातात् यात्रिकान् रक्षितुं क्रू एस्केप् इति संविधानम् ऐ एस् आर् ओ संस्थया परीक्ष्य विजयः प्राप्तः।  भाविनिकाले निर्मीयमाणे तद्देशीये आकाशबाणे  भारत-बाह्याकाश यात्रिकान् शून्याकाशं प्रेषयितुमुद्दिश्य कृतयत्नस्य भागतया अासीत् परीक्षणम्।
    बाह्याकाशयात्रिकान् वहमानं यानं विक्षेपणस्य मध्ये विस्फोटो जाते सति यात्रिकानां सुरक्षायै भवति नूतनसंविधानम्।

Thursday, July 5, 2018

शताब्दस्य दीर्घतमः चन्द्रग्रहणं २७ दिनाङ्के।
           कोल्कत्ता> आभारतं द्रष्टुं शक्यं चन्द्रग्रहणं जूलै मासस्य २७ दिनाङ्के भविष्यतीति कोल्कत्त नगरे विद्यमान एम् पि बिर्ल प्लानिट्टोरियसंस्थायाः अनुसन्धानाध्यक्षः देबीप्रसाद् दुरारिः अवदत्। ग्रहणं १.४३ होरापर्यन्तं पूर्णतया दृष्टुं शक्यते इत्यस्ति विशेषता। पूर्णग्रहणात् पूर्वं तथा पश्चात् च भागिकग्रहणं द्र्ष्टुं शक्यते। दक्षिण अमेरिक्का, आफ्रिक्का, पश्चिमेष्या मध्येष्या, इत्यत्रापि ग्रहणं दृष्टुं शक्यते। जूलै २७ दिनाङ्के रात्रौ ११.५४ वादने भागिकग्रहणस्य समारम्भः भविष्यति। २८ दिङ्के १.५२ वादनतः २.४३ पर्यन्तं पूर्णचन्द्रग्रहणं द्रष्टुं शक्यते। नग्ननेत्राभ्यां ग्रहणस्य मनोहरदृश्यम् आस्वदितुं सन्दर्भः भवत्यम्।

Wednesday, July 4, 2018

वैदेशिकाः संघशः प्रतिगच्छन्ति- सौदिराष्ट्रस्य विद्यालयाः प्रतिसन्धौ वर्तन्ते।
     रियादः> आश्रितशुल्कं स्वदेशीवत्करणं च प्रचाल्यानन्तरं वैदेशिककुटुम्बानां स्वदेशगमनेन सौदिराष्ट्रस्य निजीयविद्यालयाः प्रतिसन्धौ अपतन्। छात्राणां संख्यायां आपन्ना न्यूनता एव प्रतिसन्धेः कारणम्। इदानीं शतशः वैदेशिककुटुम्बाः प्रतिगन्तुम् उद्युक्ताः सन्ति। छात्राणां न्यूनतया शुल्कवर्धापनाय निर्बन्धिताः वयम्  इति निजीयविद्यालयस्य अधिपाः वदन्ति। आर्थिकक्लेशेन केचन विद्यालयाः  पिधानं कृतवन्तः इति जिद्दा चेंबर् ओफ् कोमेर्स् संस्थायाः अधः विद्यमानस्य विद्यालयस्य समित्यंगः डो. सुहैल् गुनम् अवदत्।

Tuesday, July 3, 2018

भारतीयाः भाषन्ते 19,500तः अधिकं  मातृभाषाः 
       भारतेषु 19,569 मातृभााः सन्ति इति जनसङ्ख्यागणना-विभागेन कृते अवलोकने स्पष्टीक्रियते। अस्मिन् ‍ 121 भाषाः 10,000 जनाः भाषन्ते। भारतसंविधानस्य अनुबपट्टिकायाम्  22 भाषाः अन्तर्भवन्ति। एतस्मात् एका वा भवति जनेषु प्रतिशतं 96.71 जनानां मातृभाषा। प्रतिशतं 3.29 जनाः पट्टिकातः बहिः विद्यमानाः भाषाः भाषन्ते। 2011 तमस्य  जनगणनायाः अवलोकनानुसारं भवति इदम् आवेदनम्।
       2001-तमस्य जनगणनानन्तरम् अन्यस्मिन् विभागे  (संविधानस्य पट्टिकायां नास्ति किन्तु 10,000 अधिकाः भाषन्ति) 100 भाषाः अासन्। 2011-तमे एषा  99 अभवत्। सिंते पार्सि भाषे च परित्यज्य  मावो भाषा स्वीकृता इत्येव व्यत्ययस्य कारणम्।  सिंते पार्सि भाषमाणानां संख्या 10,000-तः नयूनमभवत्। मावो भाषमाणानां सङ्ख्या 10,000 तः वर्धितम्।
राष्ट्रस्य विविधभागेषु शुक्रवासरपर्यन्तं शक्ता वर्षा। 
      नवदिल्ली>  आगामि दिनेषु राष्ट्रस्य विविधभागेषु अतिवृष्टिः स्यात् इति राष्ट्रियवातावरण निरीक्षणकेन्द्रेण पूर्वसूचना प्रदत्ता। जम्मुकाश्मीरम्, तमिल् नाट् , असम्, गुजरात् इत्येतेषु राज्येषु शुक्रवासरपर्यन्तम् वर्षा स्यात् इति पूर्वसूचना।  छत्तीस् घट्, ओडीषा, असम्, मेघालयं, महाराष्ट्रं, सीमान्ध्रं, कर्णाटकं, केरलम् इत्यादि प्रदेशेषु गुरुवासरे शक्ता वृष्टिः स्यात् इति पूर्वसूचनायाम् अस्ति।
      संवत्सरेस्मिन् १७ दिनात् पूर्वं वृष्टिकालः समारव्धः इति वातावरणनिरीक्षणकेन्द्रेण उक्तम्। मासचतुष्टयस्य वृष्टिकालः जूण्मासस्य प्रथमदिनाङ्के अागत्य सेप्तम्बर् ३० तमे दिनाङ्के पर्यवस्यति साधारणतया। किन्तु अस्मिन् वर्षे मेय् मासस्य एकोनत्रिंशत् दिनाङ्गादारभ्य वर्षाकालः समारब्धः अासीत्। 

Monday, July 2, 2018

दिल्ली हरियाना देशयोः भूचलनम्। 
     नवदिल्ली> भूचलनात् भीताः दिल्ली-हरियानदेशस्थाः। रविवासरे मध्याह्नानन्तरं 3.37 वादने अासीत् भूचलनम्। दिल्लीतः 45 किलोमीट्टर् दूरस्थे हरियान समीपे सोनापेट् एव चलनस्य प्रभवकेन्द्रः ।  रिक्टर् मापिन्यां  4.0 इति अङि्कितम् अासीत् चलनम्। उत्तरप्रदेशस्य पश्चिमभागेषु अपि मन्दतया चलनम् अनुभूतम्। जनापायः नाशनष्टानि च न आवेदितम्।
१६४ वर्षाभ्यन्तरे  ब्रिटन् राष्ट्रे तडित्भयेन प्रप्रथमतया पूर्वसूचना
    लण्डन् > १६४ वर्षाभ्यन्तरे प्रप्रथमतया ब्रिट्टन् राष्ट्रे वातावरणनिरीक्षणकेन्द्रेण तडित्भयेन अपायसूचना दत्ता। रविवासरे अतिशक्त तडित् स्यात्  इति सूचना। दक्षिणपश्चिम-इङ्गलण्ट् मध्ये तथा वेयिल्स् मध्ये च अतिशक्ता वर्षा प्रचण्डवायुः तथा तडित्प्रवाहः अपि भविष्यतीति पूर्वसूचना। प्रति होरायां ३० तः ४० मिल्ली इति  मापनाङ्के वृष्टिः भविष्यतीति सूचना। तडिदपाय-सूचनादानार्थं गतमासे नूतनेपकरणानां स्थापना कृता। अतिशक्तः उष्णवायुः ब्रिट्टने बहुत्र प्रचलति। उष्णं सोढुमशक्ताः भूत्वा जनाः समुद्रतीरं प्रति गच्छन्तः सन्ति।
मुम्बई नगरे  पतितस्य विमानस्य अन्तिमं डयनं दशवर्षात् पूर्वम् अभवत्।
     मुंबई> गतदिने मुंबई नगरे पतितस्य  विमानस्य अन्तिमं डयनं दशवर्षपूर्वम् आसीत्। एवं इदानीं विमानस्य डयनानुमतिः नास्तीति च प्रस्तावः। गतगुरुवासरे किङ् एयर्  सी ९० विमानं पतितमासीत्। उत्तरप्रदेश -सर्वकारस्य विमानं २००८ तमे वर्षे फेब्रुवरी मासे अन्तिमतया डयितम्। अनन्तरं २०१४ तमे वर्षे  महाराष्ट्रस्य यु वै एवियेषन् द्वारा विमानमिदं स्वीकृतम्। गतसार्थैकवर्षे अस्मिन् निर्माणप्रवर्तनानि प्रचलितानि आसन्। अनन्तरं कृते प्रथमे डयने एव विमानं पतितम्। किन्तु अधिकृतानाम् अनुज्ञां  विना डयनं जातमिति आवेदनमस्ति।

     नियमान् अनुसृत्य परीक्षणडयनात् पूर्वं डयनक्षमतायाः प्रमाणपत्रं अधिकृतेभ्यः स्वीकरणीयम् इत्यस्ति। किन्तु सः प्रक्रमः अत्र न पालितः।  गुरुवासरे विमानदुर्घटनायां वैमानिकेन सह पञ्च जनाः हताः।

Sunday, July 1, 2018

ताय्लान्ट् राष्ट्रे १२ छात्राः गह्वरे लग्नाः , आविश्वं प्रार्थनायाम्। 
       बाङ्कोक्क् > ताय्लान्ट् राष्ट्रे 'चियाङ् रायि' प्रविश्यायां  पादकन्दुकक्रीडकाः १२ विद्यालयीयछात्राः तेषां परिशीलकश्च तद्देशीये तां लुवाङ् नामके गह्वरे निपतिताः। ऊनषोडशवयस्कानां पादकन्दुकक्रीडादले वर्तमानाः ते अष्टदिनेभ्यः पूर्वम् अतिवृष्ट्या प्रस्तुते गह्वरे अभयं प्राप्तवन्तः आसन्। किन्तु अनुवर्तिते प्रकृतिविक्षोभे पङ्कैः मृत्पिण्डैश्च गुहामुखं पिहितमभवत्। 
      ताय् राष्ट्रस्य नाविकाः निमज्जनविदग्धाः, अमेरिक्कासैनिकसङ्घः, ब्रिट्टनतः गुहाविदग्धाश्च सप्ताहैकं यावत् रक्षाप्रवर्तने मग्नाः अपि आपतितान् अधिकृत्य कापि सूचना न लब्धा। दशकिलोमीटर् परिमिता दूरयुक्ता अस्ति गुहा।  ताय् निवासिनः , विद्यालयछात्राः, लोकवासिनश्च प्रार्थनानिरताः प्रतीक्षमाणाः वर्तन्ते।
अाधार-पान् पत्रबन्धनम् तिथिः पुनरपि दीर्घिता।
       नवदिल्ली > अाधारपत्रेण सह पान्पत्रबन्धनस्य अन्तिमा तिथिः पुनरपि दीर्घम् अकरोत्। समागतवर्षस्य मार्च् मासस्य ३१ तमे दिनाङ्कपर्यन्तमस्ति नूतनकालावधिः। गतरात्रौ आसीत् पूर्वनिर्णीतः कालः। केन्द्र-प्रत्यक्षकरायोगेन कृतः तिथिविन्यासप्रक्रमः पञ्चमं वारम् आसीत्। 

Saturday, June 30, 2018

अलीकधनिकानां विवरणानि स्विट्सर्लन्ट्  राष्ट्रात् २०१९ तमे लप्स्यते- पीयूष् गोयलः।  
      नवदिल्ली> २०१९ तमस्य आर्थिकसंवत्सरस्य समापनकाले भारतीयानां अलीकधनानां निक्षेपमधिकृत्य पूर्णविवरणानि स्विट्सर्लन्टतः लप्स्यते इति धनकार्यमन्त्री पीयुष्  गोयलः अवदत्। तत्रत्ये वित्तकोशे भारतीयानां निक्षेपः प्रतिशतं ५०.२ इति वर्धितः। एवं सप्तसहस्रं कोटि समभवत् इति स्विट्सर्लन्ट् राष्ट्रस्य राष्ट्रियवित्तकोशस्य अावेदनं बहिरागतम्। २०१७  तमस्य गणना भवत्ययम्। एतत् अनुगम्य आसीत्  गोयलस्य अभिमतप्रकाशनम्। अपराधिनं प्रति कर्कशप्रक्रमाः भविष्यन्ति इति च तेन उक्तम्।

Friday, June 29, 2018

रुप्यकस्य मूल्यं सर्वकालादपि अधः। 
     नवदिल्ली> रुप्यकस्य मूल्यं सर्वकालादपि अधः पतितम्। डोलरं प्रति ६९ रुप्यकाणि एव मानकम्।  विगतदिवसस्य पिधानश्रेण्यां ६८.६१ रुप्यकात् ६८.८९ इति मानकस्य अधः  पतितम्। इतःपूर्वं २०१३ तमे आसीत् एतावत् मूल्यापचयं सम्पन्नम्। असंस्कृततैलस्य मूल्यवर्घनम् विदेशनिक्षेपकाः   निक्षेपस्य प्रतिग्रहणं क्रियन्ते इति च रूप्यकाणां मूल्यापचयस्य कारणत्वेन वदन्ति।
रेलयानयात्रामध्ये दश सीमासंरक्षणभटाः तिरोभूताः।
डा. अभिलाष् जे
   कोल्कत्ता>पश्चिमबंगतः जम्मुकाश्मीरं प्रति विशिष्टरेलयाने यात्रां कुर्वन्तः दश सीमासंरक्षकभटाः तिरोभूताः। पश्चिमबंगालस्थ बरधमानस्य बिहारस्थ धनबादस्य च मध्ये ते तिरोभूताः इति आरक्षकैः उक्तम्। ८३ भटाः अस्मिन् याने आसन्। दीन दयाल उपाध्याय रयिल् निस्थाने याने आगते सति भटानां संख्यागणनासमये  दशभटानां अदृश्यतावार्ता विज्ञाता। अनन्तरं भटानां नेता  रेल् निस्थानकार्यकर्त्रे आरक्षकाय आवेदम् अयच्छत्।

Thursday, June 28, 2018

आक्रमणं न भविष्यति भवन्तः अस्माकम् अतिथयः - हिस् बुल्ल् सन्देशः। 
      श्रीनगरम्> अमरनाथ तीर्थाटकान् प्रति हिस् बुल्ल् दलीयानां सन्देशः एवं प्रचलत् अस्ति। आक्रमणं न भविष्यति भवन्तः अस्माकम् अतिथयः आक्रमणाय उद्देशः नास्ति अतः सुरक्षायाः आवश्यकता नास्ति इत्यस्ति सन्देशः। हिस्बुल्  मुजाहीतीन् भीकरदलानां कमान्टर् रियास् अहम्मद् नाय्कू इत्यस्य भवति अयं सन्देशः इति अनुमन्यते। पञ्चदशनिमेषदैर्ख्यमितः शब्दसन्देशः सामाजिकमाध्यमद्वारा एव प्रचलति।
तीर्थाटकान् प्रति आक्रमणः स्यात् इति केन्द्रप्रज्ञातृभिः पूर्वसूचना प्रदत्ता आसीत्। अत एव शक्ता सुरक्षा कृता अस्ति। अवसरेस्मिन् भवति एतादृश शब्दसन्देशस्य प्रसारणम्। गतवर्षस्य आक्रमणे अष्टतीर्थाटकाः भीकराक्रमणेन हताः अासन्।
इरान् राष्ट्रात् भारतं तैलानयनं निरुद्धव्यमिति अमेरिका।
     वाषिङ्टण्> इरान् राष्ट्रात् भारतेन साकं अन्ये राष्ट्राः च नवंबरमासात् तैलानयनं निरुद्धव्यमिति अमेरिक्कया  उक्तम्।अस्मिन् विषये भारतं तथा भारतस्य संस्थाः च अनुकूलता न दास्यति इति अमेरिक्कया व्यक्तीकृतम्।इरान् प्रति कृतोपरोधस्य भागत्वेन अस्ति अमेरिक्कायाः एतत् कर्म।भारतस्य तथा चैनायाः च एतत् बाधकमस्तीति अमेरिक्कया उक्तम्।
     इरान् राम् एकं कारयित्वा तेषां आयमार्गान् सर्वान् बव्धितुमुद्दिश्य अमेरिक्का प्रयत्नं करोति।आगमिनि वारे भविष्यमाणे भारत अमेरिक्का संवादे विषयममुं प्रधानविषयत्वेन अमेरिक्का आनयिष्यति।विदेशकार्य मन्त्री सुषमा स्वराजः,प्रतिरोधमन्त्री निर्मला सीताकामन् च भारतं प्रतिनिध्य संवादे भागभाजौ भविष्यतः।

Wednesday, June 27, 2018

रसना संस्कृतमासपत्रिका दशमं वयः प्राप्ता।

      कोच्ची> केरलदेशतः डा. के श्यामलामहाभागायाः सम्पादकत्वेन प्रकाश्यमाना रसना नामिका संस्कृतमासपत्रिका  दशमेवयसि सम्प्रविष्टा। केरलस्य अद्वितीया संस्कृतमासपत्रिकेयं संस्कृतभाषायाः प्रचाराय अद्वितीयं स्थानम् आवहति। कथा कविता प्रश्नोत्तरम् निबन्धः  शोधात्मकरचना बालकविता सांस्कृतिकविषये आवेदनम् वैज्ञानिकविषयाः  इतरविषयाः च पत्रिकायाः पुटेषु विस्तृतानि सन्ति। पत्रिकायाः पठितारः विदेशराष्ट्रेषु अपि सन्ति। डा.के श्यामलायाः अश्रान्तपरिश्रमस्य पृष्टतः तस्याः पतिदेवस्य के एम् जनार्दनस्य अभिप्रेरणा च वर्तते। पत्रिकायाः प्रबन्धसम्पादकः भवति एषः।  सोടपि  अस्मिता पब्लिकेषन् नाम पुस्तकप्रकाशकसंस्थया संस्कृतमातुः सेवायां निरतो वर्तते।  www.rasanamagazine.com इति भवति पत्रिकायाः अन्तर्जालपुटसङ्केतः 
जैवाधिनिवेशः भारतस्य वार्षिकनष्टः ६.१७ कोटिः
     कोच्ची> केरळस्य प्रकृत्याम् अधिनिवेशं कृत्वा सस्यजनतुजालाः  स्वाभाविकां प्रकृतिं नाशयन्ति। अनेन कोटिशानां रुप्यकाणां नाशः अभवत्। २००१ तमे संवत्सरे कृताध्ययनस्य गणनाभवत्ययम्। जैवीकाधिनिवेशः इदानीं वर्धिताः इति परिस्थिति वैज्ञानिकाः वदन्ति।   किन्तु घटनेടयं निवारयितुम् काടपि योजना इतःपर्यन्तम् न समारब्धा। 

     वनेषु अधिनिवेशनसस्यानां अधिव्यापनेन वन्यपशूनां भक्ष्यतृणानि अन्यानिसस्यानि च नाशं गतानि।  वन्यमृगाः भक्ष्यम् अन्विष्य ग्रामगमनाय सन्दर्भः भविष्यति। तद्देशीयसस्यानाम् वंशनाशाय हेतुः भविष्यति । नष्टानां सस्यानां  गणना इतःपर्यन्तं नास्ति। संवत्सरेभ्यः पूर्वं वैज्ञानिकेन डेविड् पिमिन्टलेन कृतम् अध्ययनमेव साकाशे अस्ति। 
 ८५ प्रकाराः सस्याः २० जीविनः च एवम् अघिनिविष्टाः सन्ति।
एक्स्प्रस् हैवे विरुध्य अायोजितं समरम् आवेदितुम् आगतान् माध्यमप्रवर्तकान्  कारयां प्राविशत्।
   चेन्नै>चेननै-सेलं अतिवेगमार्गं विरुध्य जनानाम् आन्दोलनम् आवेदितुं समागतान् वार्ताहरान् अपि तमिल् नाट् राज्यस्य आारक्षकाः अबन्धयन्। कैरलीभाषामाध्यमस्य मातृभूमि नाम दृश्यवाहीन्यः चेनै वार्ताहरः अनूप् दासः छायाग्राहकः मुरुगः तीकेकतिरस्य वार्ताहरः रामदासः च बन्धितेषु सन्ति।  व्यापकप्रतिषेधेन अनूप् दासः मुरुगः च कारान्मुक्तौ किन्तु तीक्कनलस्य वार्ताहरः इदानीमपि बन्धने भवति। मङ्गलवासरे मध्याह्ने द्वादशवादने सेलं तिरुवण्णामलै जनपदशासनकार्यालयस्य समीपे छायाग्रहणं कुर्वन्तौआस्तां मुरुग अनूपदासौ। तस्मिनेवसमये आगताः आरक्षकाः वार्ताहरान् अबन्धयत् च। घटनानुबन्धतया तमिल्नाट् सर्वकारं प्रति परिदेवनं दातुं वार्तासंस्थाभिः निश्चितमस्ति।