OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 16, 2018

फिफा विश्वचषकपादकन्दुकक्रीडायाम् उरुग्वायदलस्य विजयः। 
रजीश् नम्पीशः
   एकतरीनबेर्ग >   फिफा विश्वचषकपादकन्दुकक्रीडायाः द्वितीयस्फर्धायाम् ईजिप्तदलस्योपरि उरुग्वायदलस्य लक्ष्यमेकेन विजयः(१-०)। प्रमुखक्रीडकं मुहम्मदसलां विना अपि ईजिप्तदलम् उरुग्वायं प्रति अन्तिमनिमेषपर्यन्तम् उत्तमरीत्या एव क्रीडितम्। स्पर्धायाः अन्तिमनिमेषे उरुग्वायदलाय होसे जिमेनेस् उज्वलशिरताडनेन लक्ष्यं समपादयत्। सुवारस्, कवानी इत्येतयोः प्रमुखक्रीडकयोः सान्निध्येऽपि उरुग्वायदलस्य प्रकटनं निराशापूर्णमासीत्।
चरित्रटेस्ट् क्रिकेट् मध्ये अफ्गानिस्थानस्य पराजयः ।
-रजीष् नम्पीशः
      बङ्गलुरु > टेस्ट् क्रिकट् मण्डलं प्रति अफ्गानिस्थानस्य दुःखपूर्णप्रवेशः। टेस्।ट् क्रिकेट् पदवीं सम्पाद्य प्रथमस्पर्धायै भारतमागतवतः अफ्गानसंघस्योपरि भारतस्य विजयः। भारतेन अफ्गानिस्थानदलं क्रमेनैकेन २६२ धावनाङ्कैः च पराजितम्। प्रथमक्रमे भारतेन धवानस्य विजयस्य च शतकबलेन ४७४ धावनाङ्काः सम्पादिताः। किन्तु अफ्गानदलं प्रथमक्रमे १०९ धावनाङ्केषु निष्कासितम्। भारतेन फोलो ओण्‌ क्रमाय निर्बन्धितम् अफ्गानदलं द्वितीयक्रमे १०३ धावनाङ्केषु निष्कासितम्। भारताय अश्विन्, जडेजः, उमेष‌यादवः च उत्तमरीत्या कन्दुकक्षेपणम् अकुर्वन्। शिखर्धवान् क्रीडापुरुषत्वेन चितः अभवत्।

Friday, June 15, 2018

आगमिष्यति जलदौर्लभ्यः - नीतिआयोगः।
   नवदिल्ली> राष्ट्रं इतिहासस्य अतिजलदौर्लभ्येन सह गच्छति इति नीति आयोगस्य आवेदनम्। राष्ट्रस्य ६० कोटि जनाः जलदोर्लभ्यन दुरितमनुभवन्ति। २ लक्षं जनाः सुरक्षितजलस्य अनुपलब्ध्या मृताः इति  च नीति अायोगस्य समग्रजल सुप्रयोगसूचिकायां वदति। २०३० तमे संवत्सरे जलस्य आवश्यकता  द्विगुणीभविष्यति इति आवेदने व्यक्तीकरोति। अन्येषां जीवजन्तुजालानां  दुरितं  अावेदने न परामृष्टम्।
 आराष्ट्रं शुद्धजलस्रोतांसि प्रतिशतं सप्तति अङ्कानि मलिनानि अभवन्। शुद्धजलस्य मानकपट्टिकासु १२२ राष्ट्राणां नामलेखन-प्रकरणेषु भारतस्य स्थानं १२० इति भवति। २०३० संवत्सरे समागते ४० कोटि जनाः पानजलाभावेन दुरितबाधिताः भविष्यति इत्यपि अावेदनं वदति।

Thursday, June 14, 2018

भारतस्य राष्ट्रपतिः क्यूबां प्रति।  भारतस्य प्रथमसन्दर्शनम्
   नवदिल्ली> भारतराष्ट्रपतिः रामनाथकोविन्दः त्रिराष्ट्रसन्दर्शनाय प्रस्थानमकरोत्।  ग्रीस् सुरीनां क्यूब राष्ट्रेषु एव भवति सन्दर्शनम्। स्वतन्त्रता लब्ध्यनन्तरं क्यूबराष्ट्रं सन्दृश्यमानः प्रथमः राष्ट्रपतिः भवति रामनाथकोविन्दः। भारतं कयूबेन सह चत्वारि सम्मतिपत्राणि हस्ताक्षरीक्रियते।  जूण् मासस्य १६ दिनाङ्कात् एव सन्दर्शनम्। अयोविभागसहमन्त्री विष्णुदेव साय् राष्ट्रपतिम् अनुगमिष्यति। द्वौ विधानसभा सामाजिकौ अपि उद्योगपरिवारैै सह भविष्यतः।
केरलेषु शक्ता वर्षा केषुचन जनपदेषु विद्यालयानां विरामः।
कोष़िक्कोट्> बुधवासरे रात्रौ प्रवृत्तमानया अतिवृष्ट्या कोष़िक्कोट् जनपदस्य पर्वतप्रदेशेषु भीषणः भौमजलप्रवाहः  अजायत। कोष़िक्कोट्- कोल्लगल् राष्ट्रियमार्गेषु पादपानि पतित्वा मार्गविघ्नमभवत्। तामरशेरि पर्वतमार्गे एव वृक्षाः पतिताः। नद्यः कूलम् अतिक्रम्य प्रवहन्ति। केदाराः जलान्तर्भागे वर्तन्ते। पेरिङ्ल्कुत्त् सेतोः पिघानी उद्घाटिता चालक्कुटी नदीप्रवाहः कूलमतिक्राम्य भवति। कोष़िक्कोट् वयनाट् जनपदयोः विद्यालयानां कृते अद्य विरामः प्रख्यापितः। कोष़िक्कोट् जनपदस्य कलालयानामपि अद्य विरामः इति जनपदाध्यक्षेण उक्तम्।

Wednesday, June 13, 2018

नवीनबन्धः इति  ट्रम्पः 
विस्मृतं सर्वम् इति 'किम्' महोदयः
  प्रतीक्षया आसन् ह्यस्तनदिने आविश्वं मानवाः। सिङ्गपुरस्थ सेन्टोस् द्वीपे उत्तरकोरिय-अमेरिकराष्ट्रयोः अधिपौ चर्चां समारब्धौ अास्ताम्। आविश्वं मानवाः निर्निमेषाः  जाताः। चर्चायाः अन्त्यं  युद्धं वा शान्तिः वा इति ज्ञातुं सर्वे तिष्ठन्नासीत्। किम् जोङ् उन्-डोणाल्ड् ट्रम्पयेः चतुर्होरापर्यन्तं कृतचर्चायाः  अन्ते शान्तिपाठमभवत्। गतंगतंसर्वमुपेक्षणीयम् इतिवत् विस्मरावः विगतं कष्टम् इत्युक्त्वा शान्तिपत्रं हस्ताक्षरीकृतम्। दशाब्दानां निश्चलावस्थां विहाय अाविश्वं शान्तेः प्रयाणमारभत। चर्चा शताब्दस्य संवादः इति   दक्षिणकोरियेण उक्तम्। नूतनेतिहासं निर्मितवन्तौ इति चीनः तेषां अभिमतं प्रकाशितवान् च।

Tuesday, June 12, 2018

प्राथमिक कक्ष्यायाः संस्कृताध्ययनम् - षष्ठदिनस्य छात्रसंख्याम् विगणय्य केरलसर्वकारः। 
   
कोच्ची> केरळस्य सामाजिक विद्यालयेषु प्राथमिक कक्ष्यायां अध्ययनं कुर्वतां संस्कृतछात्राणां गणना अस्मिन् वर्षेऽपि सर्वकारेण न कृता। प्रति संवत्सरं नूतनतया संस्कृताध्ययनाय अागतानां संख्या वर्धते च। किन्तु सामाजिक शिक्षासंरक्षणयज्ञम् अनुष्ठीयमानः सर्वकारः संस्कृताध्ययनं प्रति विप्रतिपत्या तिष्ठतीति संस्कृताध्यापकानां संघ (KSTF)नेतारः वदन्ति। सर्वकारस्य सम्पूर्ण नाम अन्तर्जालनिस्थान द्वारा एव गणनादिकार्याणि कुर्वन्ति। प्राथमिककक्ष्यासु पाठपुस्तकानि, परीक्षाः च सन्ति। तथापि कति छात्राः संस्कृताध्ययनं कुर्वन्ति इति सरर्वकारस्य पार्श्वे गणना नास्ति। अरबिक् भाषाध्ययनवत् संस्कृतस्यापि अवसरः भवतु इति उक्त्वा संस्कृताध्यापकाः शैक्षिकोपजनपदकार्यालयानां पुरतः समरं कृतवन्तः। मङ्गलवासरे विद्यालयसमयानन्तरम् आसीत्  अध्यापकानां मेलनम्। विविधावश्यकान् उन्नीय  निवेदनमपि प्रदत्तम्।

Monday, June 11, 2018

चीनस्य बेल्ट् आन्ट्  रोड् योजनायां भागं न स्वीकरिष्यति इति भारतम्।
      चिङ्दवो > चीनस्य नायकत्वेन चाल्यमानः चीनस्य बेल्ट् आन्ट्  रोड् योजनायां भागं न स्वीकरिष्यति इति उक्तवान् नरेन्द्रमोदी। षाङ्हाय् कोर्परेषन् ओर्गनैसेषन् इति उच्चकोटि मेलने भाषमाणावसरे एव सः स्वाभिमतान् प्राकाशयत्। प्रातिवेशिकराष्ट्रेण  सह तथा  एस् सि ओ राष्ट्रेण सह च गतागतसुविधां वर्धापयितुं भरतं प्रथमस्थानं कल्पयति। किन्तु राष्ट्राणां शासनाधिकारं सीमां च परिगणय्य भवितव्यं इयं सुविधा इति उच्चकोट्यां भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।

Sunday, June 10, 2018

विद्यार्थिनः अभीष्टकाले एव परीक्षा ।
    नवदिल्ली> छात्राः यदा अभिलषन्ति तस्मिन्नेवकाले परीक्षालेखनाय अवसरः (Exam On demand) दातुम् उद्दिश्यते विश्वविद्यालय अनुदानायोगेन (U G C)। परीक्षासंविधानेषु सर्वाङ्गपरिष्करणमेव लक्ष्यम्। एतदर्थम्  अध्ययनं कृत्वा अावेदनाय समितिरपि नियुक्ता अस्ति। परीक्षासंविधान-परिकरणसंबन्धतया उन्नतशिक्षायाः अध्यापकानां छात्राणां शिक्षाकोविदानां अभिमतानि आमन्त्रितानि सन्ति। जूण् मासस्य २२दिनाङ्कपर्यन्तं अभिमतानि निर्देशानि च प्ररेषयितुं शक्यते। cflougc@gmail.com इति अणुसङ्ते एव प्रेषणीयम्। कण्ठस्थीकरणकौशलमेव परीक्ष्यते  इदानीन्तन रीत्याम्।  विभिन्नया रीत्या ज्ञानावगाहपरीक्षां प्रबलीकर्तुमेव  विश्वविद्यालय अनुदानायोगस्य श्रमः।
अतिवर्षेण केरले नव मृत्यवः।
     कोच्ची > केरलराज्ये मण्सूण् नामकवर्षाकालः शक्तः। अतिवर्षेण सह प्रवृत्तेन प्रचण्डवातेन सञ्जातासु दुर्घटनासु विविधेषु जनपदेषु नव जनाः मृत्युमुपगताः। कण्णूर् जनपदे त्रयः, अनन्तपुर्यां त्रयः, कासर्गोडे द्वौ, कोष़िक्कोड् जनपदे एकश्च मृताः।
      मङ्गलवासरपर्यन्तं केरले अतिशक्ता वृष्टिः प्रतीक्षते। वातवेगः ६० कि.मी. यावत् भविष्यतीत्यतः केरल कर्णाटक लक्षद्वीपतीरवासिनः धीवराः जागरणीयाः भवेयुः।

Saturday, June 9, 2018

अतिशक्तेन धूलीवातेन सह वर्षा- दिल्लीनगरं निश्चलम्। 
   नवदिल्ली>  दिल्लीनगरे  इदानीं धूलीवातः वाति। कश्चन प्रदेशेषु शक्तः वातः  वर्षा च प्रचलत् अस्ति-  दिल्लीनगरं निश्चलम् अभवत्। वातावरणस्य व्यत्ययः झटित्येव आसीत् इत्यनेन नागरिकाः  वैक्लब्ये पतिताः। 
   वातावरणव्यत्ययेन दिल्ली राष्ट्रान्तर-विमाननिलयं  प्रति अगतानि   १८ विमानानि मार्गव्यत्ययं कृतानि।  सायं पञ्चवादने आकाशः मेघावृतमभवत्। पश्चात् वृष्टिः समारब्धा ।  तथा धूलीवातः अपि अारब्धः । दिल्ल्यां ७०-८०- वेगेन वातः संभव्यते इति पूर्वसूचना प्रसारिता अासीत्।
इक्षु कृषकाणां ८००० कोटि रुप्यकाणां साहाय्यः
     नवदिल्ली> केन्द्रसर्वकारेण इक्षु कृषकाणां कृते ८००० कोटि रुप्यकाणां साहाय्यः प्रख्यापितः। मध्यप्रदेशे कृषकाणां पथसञ्चलनं अभिभूय राहुलगान्धिनः प्रभाषणावसरे एव कृषकानुकूल विज्ञापनं बहिरानीतम्। २२००० कोटिरुप्यकाणि ऋणशेषंं कृतान् सितानिर्माणयन्त्राकारेभ्यः साहाय्यः उपाकरोति इति विचिन्तयति। २०१७-१८ संवत्सरे ३१६ टण् इति विशेषलाभः सितायाः उद्पादने आर्जितः आसीत्।

Friday, June 8, 2018

छात्राणां जलकुप्यः गुणहीनाः इति अध्ययनम्।
    मलप्पुरम्- राज्यस्थ विद्यालय महाविद्यालय छात्राणां जलकुप्यः गुणहीनाः इति पठअघ्ययनम्।अतिमारकाः पलास्तिक कुप्यः इदानीमपि  प्रतिशतं एकोनशतं (९९%) छात्राः उपयुज्यन्ते इति शुचित्वमिषन् कार्यकरत्रुः ज्योतिष् मणाश्शेरिणः अध्ययने वदति।

   विद्यार्थिनः अध्यापकाः रक्षाकर्तारः  आरक्षकाः धार्मिककार्यकर्तारः आदि २५०० उपरि जनैः सह कृतस्य अध्ययनस्य आवेदनमेतत्। पलास्तिक गुणतां अभिज्ञातुं वस्तूनामुपरि त्रिकोण रीत्या एकसंख्या आरभ्य सप्तमपर्यन्तं अङ्कनं करणीयमिति नियमः।किन्तु बहुभिः संस्थाभिः एतत् न पालयन्ति। कूपीनां गुणं विहाय रूपेषु मूल्यन्यूनत्वे च जनाः बद्धश्रद्धाः भवन्ति।  शिक्षितेषु अपि  प्रतिशतं सप्तति जनानां गुणस्तर विभागेषु ज्ञानं नास्ति।  प्रतिशतं विंशति जनाः समान्यज्ञातवन्तः सन्ति।तेषु सुरक्षितकुप्याः उपयोगं केवलं पञ्चदश प्रतिशतं कुर्वन्ति। अयोमय पात्रेषु अपि पलास्तिक पिघानी उपयुज्यन्ते।

Thursday, June 7, 2018

सामाजिक अन्तर्जालमाध्यमद्वारा महिलाः अवमन्यन्ते चेत् कठिनदण्डः।
   नवदिल्ली> वनिताशिशुक्षेममन्त्रालयेन नूतननियमनिर्माणाय पर्यालोच्यते यैः स्त्रियः अन्तर्जालमाध्यमद्वारा अवमन्यन्ते तेभ्यः कठिनदण्डः निश्चयेन दातव्यः इति भवति नियमः। वर्षत्रयं यावत् कारागारवासः लक्षद्वयस्य धनदण्डः च विहितः। १९८६ तमे मुद्रणमाध्यमानां कृते आसीनस्य नियमस्य परिष्कृतरूपमेव भवत्ययम्।
    परिष्कृतनियममनुसृत्य 'वाट्साप्' 'इन्स्टग्राम्' 'फेस्बुक्' इत्यादिषु स्त्रियः अमान्या इत्यादिरूपेण अन्तरिकाशययुक्त प्रकाशनस्येव दण्डः। प्रकाशितांशानां प्रचारकाः अपि दण्डार्हाः भवन्ति।
प्रसारयेम संस्कृतम्
-अभिषेक् पर्गायि
  ऋषिकेशम्> ज्येष्ठकृष्णस्य(अधिकस्य) पञ्चमीतिथित: ज्येष्ठशुक्लस्य(शुद्धस्य) द्वितीयापर्यन्तं  संस्कृतभारती- उत्तराञ्चलद्वारा उत्तराखण्डस्य ऋषिकेशस्थे श्रीमतीपुष्पाबढेरा-सरस्वतीविद्यामन्दिरे आयोज्यमानस्य आवासीय-संस्कृतप्रशिक्षणवर्गस्य द्वितीयदिवसस्य आरम्भ: प्रात:स्मरणेन सह अभूत्। तदनन्तरं सर्वे प्रशिक्षार्थिन: स्वास्थ्यलाभाय योगासनानि कृतवन्त:। योगासनात् परं प्रथमे सत्रे राष्ट्रियस्वयंसेवकसंघस्य जिलाव्यवस्थाप्रमुख: श्रीमान् सन्दीपमल्होत्रामहोदय: दीपं प्रज्वाल्य भगवत्या: सुरदेव्या: माल्यार्पणं विधाय सत्रारम्भं कृतवान्। तत: परं त्रिषु गणेषु आदर्शसम्भाषणशिविरं प्रवृत्तम्। यत्र सर्वेsपि शिक्षार्थिन: सरलेन संस्कृतेन सम्भाषणाभ्यासं कृतवन्त:। वर्गेस्मिन् संस्कृतमाध्यमेन शिक्षणस्य प्रशिक्षणं दीयते। वर्गेस्मिन् प्राय: पञ्चाशताधिकएकशतं(१५०) प्रशिक्षणार्थिन: सन्ति।

Wednesday, June 6, 2018

सर्वोच्चन्यायलयस्य मुद्रायां सत्यमेव जयते इति नास्ति- न्यवेदनं प्रदत्तम्। 
      नवदिल्ली> सर्वकारस्य मुद्रायाम् अशोकस्तम्भेन सह सत्यमेव जयते इति वाक्यस्य स्थाने अन्यत् किमपि लिखितुं शक्यते वा। तत् सर्वोच्चन्यायालयेन क्रियते चेत् ???? । 
    सर्वोच्चन्यायालयस्य मुद्रायाम् सत्यमेव जयते इति वाक्यस्य स्थाने यतो धर्मः ततो जयः इत्येव लिखितमस्ति। दोषोऽयं विरुद्ध्य ह्रस्वचलनचित्रसंविधायकः तथा सामूह्य सेवकः पि आर् उल्लासः केन्द्रसर्वकारं प्रति आरोपाक्षेपं प्रेषितवान्। आरोपाक्षेपं प्राधान्यत्वेन मत्वा केन्द्रनियम-मन्त्रालयः  आक्षषेपः सर्वोच्चन्यायालयस्य सर्वकार्यदर्शिने प्रेषितवानस्ति। याचिकां संलोक्य प्रक्रमाः स्वीकरिष्यति इति सर्वोच्चन्यालयस्य उत्तरदायिनः अवदन्।
तैलमूल्यनिर्णयप्रक्रिया नैव पुनःर्विचिन्तयते -पेट्रोलियम् मन्त्री।
   अहमदाबाद्>   प्रतिदिनम् पेट्रोल् डीसलादीनाम् मूल्यनिर्णयप्रक्रियां पुनर्निर्णेतुं केन्द्रसर्वकारः नैव सन्नद्धः इति केन्द्रपेट्रोलियम् मन्त्री धर्मेन्द्रप्रधानः। तैलमूल्यवर्धने सर्वकारस्य उत्कण्ठा वर्तते। शाश्वतपरिहाराय श्रमं करोति इत्यपि सः अवोचत्। राज्यसर्वकाराः करन्यूनीकरणाय सन्नद्धाः भवेयुः। वर्धितपेट्रोल्मूल्यस्य भागत्वेन लभ्यमानानि आनुकूल्यानि  च राज्यानि सन्त्यजेयुः। केरलसर्वकारः पूर्वम् करः मास्तु इति निश्चयमकरोत्। पूर्वतनस्य यू पी ए सर्वकारस्य अतिस्वामिमनोभावः एव अधुनातनसमस्यानां  कारणम्- सः व्यक्तीकृतवान्। अन्ताराष्ट्रविपण्यां क्रूडतैलस्य मूल्यवर्धनं, रूप्यकस्य मूल्यशोषणं, केचन करसम्बन्धिसमस्याः च   मूल्यवर्धनाय मूलभूतं कारणमिति तेनोक्तम्।

प्राथमिककक्ष्यायाः संस्कृतछात्राणां गणना नास्ति।  समराङ्कणं प्रविश्यति-KSTF
     कोच्ची> प्रथमकक्ष्यातः अारभ्य संस्कृताध्ययनाय अवसरः इदंप्रथमतया केरळेषु एव भवति।  किन्तु कति छात्राः संस्कृताध्यनं कुर्वन्ति इति सर्वकारस्य पार्श्वे गणना नास्ति। पुस्तकानि प्रश्नपत्राणि च सर्वकारेण प्रतिसंवत्सरं मुद्रितानि सन्ति। तथापि छात्राणां  संख्या सम्पूर्ण नाम सर्वकारीय-अन्तर्जालपुटे इतःपर्यन्तं न निवेशितम्।  संस्कृतभाषां प्रति राज्यसर्वकारस्य विप्रतिपत्तिः अनया स्पष्टा भवति इति केरल संस्कृताघ्यापक फेडरेषन् (KSTF) नेतारः वदन्ति। 
       संवत्सरपर्यन्तम् आवेदनं दत्वा प्रतीक्षया तिष्ठन्तः वयम्। इदनीं समरात् भिन्नः  मार्गः नास्ति अतः सप्तमे प्रवृत्तिदिने सायाह्नधर्णा निवेदनसमर्पणं च आयोजयिष्ये इति राज्याध्यक्षेण पि एन् मधुसूदनेन उक्तम्। अध्यायापकाः निवृत्ताध्यापकाः संस्कृतप्रेमिणः सास्कृतिकनायकाः च भागं स्वीकरिष्यन्ति इति कार्यदर्शिना  सि पि सनलचन्द्रेण च उक्तम्।  केरले विद्यमानेषु सर्वेषु  उपशैक्षिककार्यालयाङ्कणेषु एव प्रचलति धर्णासमरम्।