OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 11, 2018

चीनस्य बेल्ट् आन्ट्  रोड् योजनायां भागं न स्वीकरिष्यति इति भारतम्।
      चिङ्दवो > चीनस्य नायकत्वेन चाल्यमानः चीनस्य बेल्ट् आन्ट्  रोड् योजनायां भागं न स्वीकरिष्यति इति उक्तवान् नरेन्द्रमोदी। षाङ्हाय् कोर्परेषन् ओर्गनैसेषन् इति उच्चकोटि मेलने भाषमाणावसरे एव सः स्वाभिमतान् प्राकाशयत्। प्रातिवेशिकराष्ट्रेण  सह तथा  एस् सि ओ राष्ट्रेण सह च गतागतसुविधां वर्धापयितुं भरतं प्रथमस्थानं कल्पयति। किन्तु राष्ट्राणां शासनाधिकारं सीमां च परिगणय्य भवितव्यं इयं सुविधा इति उच्चकोट्यां भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।

Sunday, June 10, 2018

विद्यार्थिनः अभीष्टकाले एव परीक्षा ।
    नवदिल्ली> छात्राः यदा अभिलषन्ति तस्मिन्नेवकाले परीक्षालेखनाय अवसरः (Exam On demand) दातुम् उद्दिश्यते विश्वविद्यालय अनुदानायोगेन (U G C)। परीक्षासंविधानेषु सर्वाङ्गपरिष्करणमेव लक्ष्यम्। एतदर्थम्  अध्ययनं कृत्वा अावेदनाय समितिरपि नियुक्ता अस्ति। परीक्षासंविधान-परिकरणसंबन्धतया उन्नतशिक्षायाः अध्यापकानां छात्राणां शिक्षाकोविदानां अभिमतानि आमन्त्रितानि सन्ति। जूण् मासस्य २२दिनाङ्कपर्यन्तं अभिमतानि निर्देशानि च प्ररेषयितुं शक्यते। cflougc@gmail.com इति अणुसङ्ते एव प्रेषणीयम्। कण्ठस्थीकरणकौशलमेव परीक्ष्यते  इदानीन्तन रीत्याम्।  विभिन्नया रीत्या ज्ञानावगाहपरीक्षां प्रबलीकर्तुमेव  विश्वविद्यालय अनुदानायोगस्य श्रमः।
अतिवर्षेण केरले नव मृत्यवः।
     कोच्ची > केरलराज्ये मण्सूण् नामकवर्षाकालः शक्तः। अतिवर्षेण सह प्रवृत्तेन प्रचण्डवातेन सञ्जातासु दुर्घटनासु विविधेषु जनपदेषु नव जनाः मृत्युमुपगताः। कण्णूर् जनपदे त्रयः, अनन्तपुर्यां त्रयः, कासर्गोडे द्वौ, कोष़िक्कोड् जनपदे एकश्च मृताः।
      मङ्गलवासरपर्यन्तं केरले अतिशक्ता वृष्टिः प्रतीक्षते। वातवेगः ६० कि.मी. यावत् भविष्यतीत्यतः केरल कर्णाटक लक्षद्वीपतीरवासिनः धीवराः जागरणीयाः भवेयुः।

Saturday, June 9, 2018

अतिशक्तेन धूलीवातेन सह वर्षा- दिल्लीनगरं निश्चलम्। 
   नवदिल्ली>  दिल्लीनगरे  इदानीं धूलीवातः वाति। कश्चन प्रदेशेषु शक्तः वातः  वर्षा च प्रचलत् अस्ति-  दिल्लीनगरं निश्चलम् अभवत्। वातावरणस्य व्यत्ययः झटित्येव आसीत् इत्यनेन नागरिकाः  वैक्लब्ये पतिताः। 
   वातावरणव्यत्ययेन दिल्ली राष्ट्रान्तर-विमाननिलयं  प्रति अगतानि   १८ विमानानि मार्गव्यत्ययं कृतानि।  सायं पञ्चवादने आकाशः मेघावृतमभवत्। पश्चात् वृष्टिः समारब्धा ।  तथा धूलीवातः अपि अारब्धः । दिल्ल्यां ७०-८०- वेगेन वातः संभव्यते इति पूर्वसूचना प्रसारिता अासीत्।
इक्षु कृषकाणां ८००० कोटि रुप्यकाणां साहाय्यः
     नवदिल्ली> केन्द्रसर्वकारेण इक्षु कृषकाणां कृते ८००० कोटि रुप्यकाणां साहाय्यः प्रख्यापितः। मध्यप्रदेशे कृषकाणां पथसञ्चलनं अभिभूय राहुलगान्धिनः प्रभाषणावसरे एव कृषकानुकूल विज्ञापनं बहिरानीतम्। २२००० कोटिरुप्यकाणि ऋणशेषंं कृतान् सितानिर्माणयन्त्राकारेभ्यः साहाय्यः उपाकरोति इति विचिन्तयति। २०१७-१८ संवत्सरे ३१६ टण् इति विशेषलाभः सितायाः उद्पादने आर्जितः आसीत्।

Friday, June 8, 2018

छात्राणां जलकुप्यः गुणहीनाः इति अध्ययनम्।
    मलप्पुरम्- राज्यस्थ विद्यालय महाविद्यालय छात्राणां जलकुप्यः गुणहीनाः इति पठअघ्ययनम्।अतिमारकाः पलास्तिक कुप्यः इदानीमपि  प्रतिशतं एकोनशतं (९९%) छात्राः उपयुज्यन्ते इति शुचित्वमिषन् कार्यकरत्रुः ज्योतिष् मणाश्शेरिणः अध्ययने वदति।

   विद्यार्थिनः अध्यापकाः रक्षाकर्तारः  आरक्षकाः धार्मिककार्यकर्तारः आदि २५०० उपरि जनैः सह कृतस्य अध्ययनस्य आवेदनमेतत्। पलास्तिक गुणतां अभिज्ञातुं वस्तूनामुपरि त्रिकोण रीत्या एकसंख्या आरभ्य सप्तमपर्यन्तं अङ्कनं करणीयमिति नियमः।किन्तु बहुभिः संस्थाभिः एतत् न पालयन्ति। कूपीनां गुणं विहाय रूपेषु मूल्यन्यूनत्वे च जनाः बद्धश्रद्धाः भवन्ति।  शिक्षितेषु अपि  प्रतिशतं सप्तति जनानां गुणस्तर विभागेषु ज्ञानं नास्ति।  प्रतिशतं विंशति जनाः समान्यज्ञातवन्तः सन्ति।तेषु सुरक्षितकुप्याः उपयोगं केवलं पञ्चदश प्रतिशतं कुर्वन्ति। अयोमय पात्रेषु अपि पलास्तिक पिघानी उपयुज्यन्ते।

Thursday, June 7, 2018

सामाजिक अन्तर्जालमाध्यमद्वारा महिलाः अवमन्यन्ते चेत् कठिनदण्डः।
   नवदिल्ली> वनिताशिशुक्षेममन्त्रालयेन नूतननियमनिर्माणाय पर्यालोच्यते यैः स्त्रियः अन्तर्जालमाध्यमद्वारा अवमन्यन्ते तेभ्यः कठिनदण्डः निश्चयेन दातव्यः इति भवति नियमः। वर्षत्रयं यावत् कारागारवासः लक्षद्वयस्य धनदण्डः च विहितः। १९८६ तमे मुद्रणमाध्यमानां कृते आसीनस्य नियमस्य परिष्कृतरूपमेव भवत्ययम्।
    परिष्कृतनियममनुसृत्य 'वाट्साप्' 'इन्स्टग्राम्' 'फेस्बुक्' इत्यादिषु स्त्रियः अमान्या इत्यादिरूपेण अन्तरिकाशययुक्त प्रकाशनस्येव दण्डः। प्रकाशितांशानां प्रचारकाः अपि दण्डार्हाः भवन्ति।
प्रसारयेम संस्कृतम्
-अभिषेक् पर्गायि
  ऋषिकेशम्> ज्येष्ठकृष्णस्य(अधिकस्य) पञ्चमीतिथित: ज्येष्ठशुक्लस्य(शुद्धस्य) द्वितीयापर्यन्तं  संस्कृतभारती- उत्तराञ्चलद्वारा उत्तराखण्डस्य ऋषिकेशस्थे श्रीमतीपुष्पाबढेरा-सरस्वतीविद्यामन्दिरे आयोज्यमानस्य आवासीय-संस्कृतप्रशिक्षणवर्गस्य द्वितीयदिवसस्य आरम्भ: प्रात:स्मरणेन सह अभूत्। तदनन्तरं सर्वे प्रशिक्षार्थिन: स्वास्थ्यलाभाय योगासनानि कृतवन्त:। योगासनात् परं प्रथमे सत्रे राष्ट्रियस्वयंसेवकसंघस्य जिलाव्यवस्थाप्रमुख: श्रीमान् सन्दीपमल्होत्रामहोदय: दीपं प्रज्वाल्य भगवत्या: सुरदेव्या: माल्यार्पणं विधाय सत्रारम्भं कृतवान्। तत: परं त्रिषु गणेषु आदर्शसम्भाषणशिविरं प्रवृत्तम्। यत्र सर्वेsपि शिक्षार्थिन: सरलेन संस्कृतेन सम्भाषणाभ्यासं कृतवन्त:। वर्गेस्मिन् संस्कृतमाध्यमेन शिक्षणस्य प्रशिक्षणं दीयते। वर्गेस्मिन् प्राय: पञ्चाशताधिकएकशतं(१५०) प्रशिक्षणार्थिन: सन्ति।

Wednesday, June 6, 2018

सर्वोच्चन्यायलयस्य मुद्रायां सत्यमेव जयते इति नास्ति- न्यवेदनं प्रदत्तम्। 
      नवदिल्ली> सर्वकारस्य मुद्रायाम् अशोकस्तम्भेन सह सत्यमेव जयते इति वाक्यस्य स्थाने अन्यत् किमपि लिखितुं शक्यते वा। तत् सर्वोच्चन्यायालयेन क्रियते चेत् ???? । 
    सर्वोच्चन्यायालयस्य मुद्रायाम् सत्यमेव जयते इति वाक्यस्य स्थाने यतो धर्मः ततो जयः इत्येव लिखितमस्ति। दोषोऽयं विरुद्ध्य ह्रस्वचलनचित्रसंविधायकः तथा सामूह्य सेवकः पि आर् उल्लासः केन्द्रसर्वकारं प्रति आरोपाक्षेपं प्रेषितवान्। आरोपाक्षेपं प्राधान्यत्वेन मत्वा केन्द्रनियम-मन्त्रालयः  आक्षषेपः सर्वोच्चन्यायालयस्य सर्वकार्यदर्शिने प्रेषितवानस्ति। याचिकां संलोक्य प्रक्रमाः स्वीकरिष्यति इति सर्वोच्चन्यालयस्य उत्तरदायिनः अवदन्।
तैलमूल्यनिर्णयप्रक्रिया नैव पुनःर्विचिन्तयते -पेट्रोलियम् मन्त्री।
   अहमदाबाद्>   प्रतिदिनम् पेट्रोल् डीसलादीनाम् मूल्यनिर्णयप्रक्रियां पुनर्निर्णेतुं केन्द्रसर्वकारः नैव सन्नद्धः इति केन्द्रपेट्रोलियम् मन्त्री धर्मेन्द्रप्रधानः। तैलमूल्यवर्धने सर्वकारस्य उत्कण्ठा वर्तते। शाश्वतपरिहाराय श्रमं करोति इत्यपि सः अवोचत्। राज्यसर्वकाराः करन्यूनीकरणाय सन्नद्धाः भवेयुः। वर्धितपेट्रोल्मूल्यस्य भागत्वेन लभ्यमानानि आनुकूल्यानि  च राज्यानि सन्त्यजेयुः। केरलसर्वकारः पूर्वम् करः मास्तु इति निश्चयमकरोत्। पूर्वतनस्य यू पी ए सर्वकारस्य अतिस्वामिमनोभावः एव अधुनातनसमस्यानां  कारणम्- सः व्यक्तीकृतवान्। अन्ताराष्ट्रविपण्यां क्रूडतैलस्य मूल्यवर्धनं, रूप्यकस्य मूल्यशोषणं, केचन करसम्बन्धिसमस्याः च   मूल्यवर्धनाय मूलभूतं कारणमिति तेनोक्तम्।

प्राथमिककक्ष्यायाः संस्कृतछात्राणां गणना नास्ति।  समराङ्कणं प्रविश्यति-KSTF
     कोच्ची> प्रथमकक्ष्यातः अारभ्य संस्कृताध्ययनाय अवसरः इदंप्रथमतया केरळेषु एव भवति।  किन्तु कति छात्राः संस्कृताध्यनं कुर्वन्ति इति सर्वकारस्य पार्श्वे गणना नास्ति। पुस्तकानि प्रश्नपत्राणि च सर्वकारेण प्रतिसंवत्सरं मुद्रितानि सन्ति। तथापि छात्राणां  संख्या सम्पूर्ण नाम सर्वकारीय-अन्तर्जालपुटे इतःपर्यन्तं न निवेशितम्।  संस्कृतभाषां प्रति राज्यसर्वकारस्य विप्रतिपत्तिः अनया स्पष्टा भवति इति केरल संस्कृताघ्यापक फेडरेषन् (KSTF) नेतारः वदन्ति। 
       संवत्सरपर्यन्तम् आवेदनं दत्वा प्रतीक्षया तिष्ठन्तः वयम्। इदनीं समरात् भिन्नः  मार्गः नास्ति अतः सप्तमे प्रवृत्तिदिने सायाह्नधर्णा निवेदनसमर्पणं च आयोजयिष्ये इति राज्याध्यक्षेण पि एन् मधुसूदनेन उक्तम्। अध्यायापकाः निवृत्ताध्यापकाः संस्कृतप्रेमिणः सास्कृतिकनायकाः च भागं स्वीकरिष्यन्ति इति कार्यदर्शिना  सि पि सनलचन्द्रेण च उक्तम्।  केरले विद्यमानेषु सर्वेषु  उपशैक्षिककार्यालयाङ्कणेषु एव प्रचलति धर्णासमरम्।

Monday, June 4, 2018

सर्वाणि औषधानि मूल्यनियन्त्रणपट्टिकायां योजनीयानि इति केन्द्रसर्वकारः।
- रम्या पि यु
    नवदिल्ली>   राष्ट्रे विक्रीयमाणानि सर्वाण्यपि औषधानि मूल्यनियन्त्रणपट्टिकायां योजनीयानि इति केन्द्रसर्वकारः। एतदर्थं विद्यमानेषु औषधमूल्यनियन्त्रणविधानेषु भेदाः कल्पनीयाः इति स्वास्थ्यमन्त्रालयस्य श्रमाः आरब्धाः। जूण् अन्तिमे एव नवं विधानम् अवतारयितुं सर्वकारः यतते। अधुना सार्धाष्टशतम् औषधानि एव पट्टिकायां वर्तन्ते। एतेषाम् मूल्यं तु समयोचितम् परिष्कर्तुं मूल्यनियन्त्रणसमितिरपि सर्वकारेण आनीता आसीत्। समितेः पट्टिकायां यान्यौषधानि न विद्यन्ते तेषाम् मूल्यं तु प्रतिवर्षं दशप्रतिशतं यावत् वर्धयितुं औषधनिर्मातृणाम् कृते अनुज्ञा आसीत्। नूतनसंविधाने एतानि सर्वाणि औषधानि पट्टिकायाम् अन्तर्भाव्यानि इति टाईम्स् ओफ् इन्ड्या आवेदयति।
भारतस्य प्रथमा क्रीडकविश्वविद्यालयः मणिपुर राज्ये
-डा अभिलाष् ए जे
    नवदेहली-राष्ट्रस्य प्रथमक्रीडक विश्वविद्यालयः मणिपुर राज्ये आरब्धुं राष्ट्रपतेः रामनाथकोविन्दस्य अङ्गीकारः।मेय् २३ दिनाङ्के केन्द्रसर्वकारेण मणिपुर राज्यस्य इम्फाल् नगरे क्रीडकविश्वविद्यालयाय संस्तुतिः कृता।
    तदाभ्यन्तरे केचन विद्यार्थिनः मणिपुर राज्यस्य क्रीडकशासन कार्यालयं प्रति आक्रमणं कृतवन्तः। तत्रत्यानि उपकरणानि संगणकयन्त्राणि च विध्वंसितानि।टेमोक्राटिक् स्टुटन्स् अलियन्स् ओफ् मणिपुर इति संस्थायाः अङ्गैः आक्रमणं कृतमिति आरक्षकैः उक्तम्।
     २०१७ आगस्त मासे राष्ट्रीय क्रीडकविश्वविद्यालयस्य रूपरेखा लोकसभायां प्रस्तुता आसीत्।क्रीडककशिक्षायाः क्रीडकविज्ञानस्य क्रीडक प्रशासनस्य राष्ट्रस्य प्रथमः विश्वविद्यालयः स्याद् अयम्।प्रधानमन्त्रिणा नरेन्द्रमोदिना २०१४-१५ वर्षे अस्य प्रख्यापनं कृतम्।
पन्था - भारताय ५०० कोटि रुप्यकाणाम् ऋणसाहाय्यं विश्वविकत्तालयेन प्रदास्यते।
   नवदिल्ली> प्रधानमन्त्री पन्थानिर्माणयोजनायै विश्ववित्तालयेन ५००० कोटि डोलर् धनम् ऋणं प्रदत्तम्।  ग्राममार्गस्य निर्माणाय धनमिदं प्रदास्यते। ऋतुपरिवर्तनानुकूलमार्गस्य निर्माणाय धनमिदं व्ययीक्रियते। ७००० कि. मी दूरं यावत् मार्गनिर्माणम् अनयायोजनया उद्दिश्यते। अस्यां ३५०० कि मी दूरं हरितसाङ्केतिकविज्ञानम् उपयुज्य भविष्यति।

Sunday, June 3, 2018

वरिष्ठमाध्यमप्रवर्तका लीलामेनोन् चरमगतिं प्राप्तवती।
    कोच्ची> वरिष्ठमाध्यमप्रवर्तका लीलामेनोन् (८६) इहलोकं परित्यक्तवती। कोच्ची देशे आसीत् तस्याः वासः। जन्मभूमि पत्रिकायाः मुख्यसम्पादका असीत्। 
    1932 नवंबर् 10 दिनाङ्के अासीत् तस्याः जननम्। 1978 तमे संवत्सरे  इन्त्यन् एक्स्प्रस् पत्रिकायाः वार्ताहररूपेण कर्ममारब्धम्। नवदिल्ली, कोच्ची, कोट्टयम् इत्यत्र स्वकर्ममकरोत् एषा। निलय्क्कात्त सिंफणी,(आद्मकथा) हृदयपूर्वं(लेखसमाहारः) च अस्याः सुज्ञाते रचने भवतः।
   कालिफोर्णियायाः राज्यपालः भवितुम् द्वाविंशतिवयस्कः भारतवंशजोपि।
- रम्या पि यु
   वाषिङ्टण्> कालिफोर्णियायाः राज्यपालपदाय स्पर्थिषु स्थानाशिषु कनिष्ठः भारतवंशजः। उत्तरप्रदेशे मूलभूतः शुभं गोयलनामकः द्वाविंशतिवयस्कोयम्। जननं वर्धनं च कालिफोर्णियायां चेदपि शुभस्य मूलकुटुम्बम् उत्तरप्रदेशे एव। लखनौ स्वदेशिनः विपुलगोयलस्य पुत्रोयम्। तन्त्रज्ञान (सोफ्ट्वेयर्) संस्थायाः स्वामी भवति विपुलः। शुभस्य माता तु मीरट् स्वदेशिनी। डान्विल्लेयाम् अस्य वासः। कालिफोर्णिया विश्वविद्यालयात् बिरुदपठनम् पूर्तीकृत्य विर्च्वल् रियालिटी संस्थायाम् प्रबन्धकत्वेन कार्यं कुर्वन्नस्ति एषः। सामाजिकमाध्यमैः एवायम् जनसामान्यान् प्रति संवदते। राष्ट्रियव्यवस्थितौ सुतार्यता अनिवार्या इति प्रचारणे तस्य ध्येयवाक्यम्। डमोक्राटिकदलात् नियुक्तस्य विद्यमानराज्पालस्य जेरि ब्रौणस्य अनुवर्तको भवितुं सर्वथा योग्यः इति स्वयं विश्वसिति च शुभम्। आहत्य सप्तविंशतिः स्थानाशिनः निर्वाचने भागं गृह्णन्तः आसन्।
एवरस्ट् मालिन्यात् मुक्तम् अभवत्- २.३ टण् मनुष्यविसर्जयः चीेनेन निर्मार्जितः।
   बैजिङ्> सन्दर्शकैः  पर्वतारोहकैः च निक्षिप्यमानेन मलिनवस्तुभिः पर्वतः मालिन्यवान् अभवत्। एप्रिल् मासात् चीनेन ८.५ टण् मितं मालिन्यं निर्मार्जितम्। ग्लोबल् टैंस् वार्तापत्रिकया आवेदिता। ३० अङ्गैैर्युक्तेन सङ्घेन मालिन्यनिर्मार्जनमकरोत्। आहत्य ७.५ टण् मालिन्येषु २.३ टण् मनुष्यविसर्जयः अस्ति। पर्वतारोहकैः निक्षिप्तानि एकटण्मितानि मालिन्यानि अपि निर्मार्जितानि इति टिबटस्य पर्वतारोहकोद्योगस्थाः अवदन्। 
     विगते संवत्सरे मार्च् मेई मासेषु टिबट् प्रदेशतः २०२ नेपल प्रदेशतः ५५६ नागरिकाः पर्वतमधिगन्तुम् आगताः। अतिरिच्य सहस्राधिकाः सन्दर्शकाः च उभयत्र विद्यमानासु शिबिरेषु समागताः अासन्।
संवत्सरपर्यन्तं तैलेन्धनमूल्यं न वर्धते-  इन्धनमूल्यं न्यूनीकर्तुं  केन्द्रसरेवकारः प्रयतते।
    नवदिल्ली> आगामि लोकसभानिर्वाचनात् पूर्वं तैलेन्धनमूल्यवर्धनं  बन्धितुमुद्दिश्य केन्द्रसर्वकारः प्रयत्नं समारब्धम् अस्ति। विगते गुरुवासरे  एतदनुबन्धतया उपवेशनं केन्द्र पेट्रोलियं मन्त्रिणः   धर्मेन्द्रप्रधानस्य गृहे समभवत्। ओ एन् जि सि सस्थायाः साह्येन एव मूल्यवर्धननियन्त्रणम् इति राष्ट्रियमाध्यमेषु आवेदितम्।  
एकम्  आर्थिकसंवत्सरं यावत् मूल्यवर्धनं विना तैलं विक्रेतुम्  ओ एन् जि सि संस्था अादिष्टा भविष्यति।