OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 22, 2018

इतिहासं विरच्य भारतवनितागणः प्रत्यागतः
      पनजि> अष्टमासात् पूर्वं ताः गोवानगरात् यात्राम् आरब्धवत्यः। ऐ एस् तारिणी इति नाविकसेनायाः पटनौकायां षट् वनिताः भूमिं प्रदक्षणीकृत्य विगते दिने गोवां प्रत्यागताः। लफ्ट्टनन्ट् कमान्टर् वर्तिका जोषी असीत् नाविक-सागर-परिक्रमस्य नेत्री। लफ्. कमान्टर् प्रतिभा जंवाल् , स्वाती पि, ऐश्वर्या बद्धापतिः, एस् विजयादेवी, पायल् गुप्ता च वृन्दे आसन्। दृढनिश्चयेन प्रतिकूलावस्थायाः पारंगत्वा विजयं प्रावत्यः एताः। षट्शताधिक एकविंशति नोट्टिक्कल्मैल् इति दूरं ताः यात्रां कृतवत्यः। सोमवासरे प्रत्यागता  ताः  प्रतिरोधमन्त्रिण्या निर्माला सीताराममहाभागया नाविक-सेनाध्यक्षेण सुनिल् लाम्बा महोदयेन च स्वीकृताः।

अनुवैद्यानां निष्कृतिवर्धनादेशे आतुरालयस्वामिनां न्यवेदनं तिरस्कृतम्।
    नवदिल्ली> निजीय आतुरालयस्य अनुवैद्यानाम् आधारनिष्कृतिवर्धनविषये आधुरालयस्वामिनः न्यवेदनं सर्वोच्चन्यायालयेन अपि  निरस्थम्।  निष्कृतिं वर्धाप्य केरलसर्वकारेण कृतं विज्ञापनं स्थगयितुं दत्तं न्यवेदनं केरलस्य उच्चन्यायालयेन तिरस्कृतम्। उच्च न्यायालयस्य प्रक्रियां विरुद्घ्य  सप्ताहद्वयं वा विज्ञापनस्य स्थगनं भवितव्यम् इति आतुरालयप्रबन्धकानाम् आवश्यं सर्वोच्य-न्यायालयेनाऽपितिरस्कृम्। एकमासाभ्यन्तरेण विषयेस्मिन् अन्तिमनिर्णयः कार्यः इति सर्वोच्यन्यायालयेन उच्चन्यायालयः आदिष्टः।

Monday, May 21, 2018

पुतिन् मोदी मेलनं सोचिनगरे सम्पन्नम्।
सोचि> प्रधानमन्त्री नरेन्द्रमोदी रष्यस्य राष्ट्रपतिना व्लादिमिर् पुतिनेन सह मिलितवान्। अन्ताराष्ट्र उत्तर दक्षिण मध्यमार्गस्य  साक्षात्काराय उभयोः राष्ट्रयोः श्रमः भविष्यति इति मेलनानन्तरं  मोदी अवदत्। श्याम कृष्णणसागरस्य तीरस्थे सोची नगरे असीत्। इदं अनौद्योगिकमेलनम्। षाङ् हायि कोर्परेषन् ओरगनैसेषन् इति दलस्य स्थिराङ्गत्वरूप-प्रवेशाय भारतस्य साह्यमकरोत् रष्य इति  उक्त्वा मोदी धन्यवादम् अवदत् च।
ज्वरबाधया दश जनाः मृताः, 'निप्पा वैरस्' इति निर्णीतम्। 
     कोष़िक्कोड् > केरले कोष़िक्कोड् जनपदस्थे पेराम्प्र प्रदेशे सांक्रमिकज्वरबाधया दश जनाः मृताः,  एकः आतुरालये चिकित्साविधेयः अस्ति। निप्पा वैरस् नामक सूक्ष्माणुः एव रोगकारकः इति स्वास्थ्यविभागेन निर्णीतम्। 
     मणिप्पालस्थे 'वैरोलजि रिसर्च् सेन्टर्' संस्थायाः विदग्धसंघः ज्वरबाधितप्रदेशं प्राप्य संकलितानाम् आदर्शरक्तानां सूक्ष्मशोधनेनैव निप्पा वैरस् सूक्ष्माणुरिति निर्णीतम्। ज्वरेण मृतस्य सालिह् नामकस्य गृहे संरक्षिताः केचन शशकाः शशकाः समीपकाले युगपद् मृत्युमुपगताः आसन्। अतः मृगेभ्यः वा रोगव्यापनमभवदिति सन्देहात् पालकमृगाणां रक्तशोधना अपि क्रियमाणा अस्ति।

Sunday, May 20, 2018

प्रो.राजारामशुक्ल: सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्नूतनकुलपति: संवृत्त:
पुरुषोतमशर्मा
  नवदिल्ली >प्रो.राजारामशुक्ल: राजभवनद्वारा  सम्पूर्णानन्द - संस्कृतविश्वविद्यालयस्य नूतनकुलपतित्वेन नियुक्त प्रो.शुक्ल: सम्प्रति बनारस् हिन्दूविश्वविद्यालये प्राच्यविद्यासङ्कास्य न्यायदर्शनविभागे आचार्य: वर्तते। सम्पूर्णानन्दसंस्कृतविश्वविद्यालये प्रो.शुक्ल: अनुसन्धान-संस्थानस्य निदेशकपदमपि ऊढवान्  ।
जम्मुकाश्मीरस्य वृद्ध्यर्थं 25,000 कोटि; नरेन्द्रमोदी

    जम्मु> जम्मूकाश्मीरस्य अभिवृद्धिप्रवर्तनाय पञ्चच विंशाति सहस्रं ( 25,000) कोटि रुप्पकाणि दातव्यानि इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। ले नगरतः श्रीनगरं प्रति अष्टशताधिक  षट्सहस्रं (6800) कोटि रुण्यकाणि व्ययीकृत्य निर्मीयमाणस्य सोजिला गुहामार्गस्य कृते शिलान्यासं कुर्वन् भाषमाणः आसीत् सः। अनेन सह अन्येषां निर्माणयोजनानां कृतेऽपि आरम्भं कृतवान् च । नूतन्यः परियोजनाः जनानाम्  अधिकतया उपकारी भविष्यति इति सः उक्तवान्। 14 किलोमीट्टर् दीर्घमितः गुहामार्गः सदाकालं यात्रायै अनुयोग्यः भवति।  इदानीं ले नगरतः श्रीनगरं प्रति सर्धात्रिहोरा: आवश्यकाः। किन्तु गुहामार्गद्वारा १५ निमेषैरेवालम्

Saturday, May 19, 2018

संस्कृताध्यापक फेडरेषन् इति दलस्य नेतृपरिशीलनशिबिरम् समारब्धम्‌ ।

गुरुवायुपुरे शिक्षकसदने गुरुवायूपुरदेवस्वं प्रशासकः शशिधरः द्विदिनात्मकशिबिरस्य उद्घाटनं करोति। फेडरेषन् दलनेतारः सि पि सनलचन्द्रः पि एन् मधुसूदनः राजगोपालः च समीपे वर्तन्ते।

क्यूबाराष्ट्रे विमानापघातेन शताधिकाः मृताः।
       क्यूबाराष्ट्रे १०४ यात्रिकैः ९ विमानकर्मकरैः सह विमानम् अपघाते पतितम्। शताधिकाः मृताः गुरुतरया क्षतेन त्रयः आतुरालयं प्रविष्टाः।  हवान प्रदेशस्थ होसेमार्ति विमाननिलयात् उड्डयनं कृत्वा विलम्बं विना अपघातम् अभवत् ।  क्यूब सर्वकारस्य  बोयिङ् ७३७ विमानम्  एव भग्नम्। पूर्वदेशस्थ होल्ग्विन् नगरं प्रति गच्छत् आसीत् विमानम्। विमाननिलयस्य समीपे क्षेत्रे पतित्वा विस्फोटनम् अभवत्l भूरिजनाः अपघातेन मृताः इति क्यूबस्य राष्ट्रपतिः मिग्वेल डियासः अवदत्। 
तैलस्य मूल्यम् न्यूनीकरणीयम् - सौदिं प्रति भारतम्।
       नवदिल्ली> तैलेन्धनस्य निरन्तरमूल्यवर्धनं नियन्त्रितुं प्रक्रमः स्वीकरणीयः इति केन्द्र पेट्रोलियं मन्त्री धर्मेन्द्रप्रधानः सौदीअरेब्यराष्ट्रं प्रति अवदत्। तैलस्य मूल्यवर्धनं भारतस्य सम्पद् व्यवस्थायां प्रतिकूलताया बाधते इति सौदी अरेब्याराष्ट्रस्य व्यवसाय विभागमन्त्रिणा साकं कृते दूरवाणीभाषणे सूचितम्। प्रेट्रोल् तैलस्य मूल्यं बारल् मितस्य ८० डोलर् समागच्छति इत्यनेन कारणेन  आसीत् दूरवाणी भाषणम् । उभययोः राष्ट्रयोः साह्यकरणे तथा तैल विपण्यः इदानीन्तन अवस्थाम् अधिकृत्य च आसीत् भाषणम् इति औद्योगिकावेदनम्। उत्पादकैः सह भाषणं कृत्वा समस्यापरिहाराय क्रियान्वयः भविष्यति इति सौदीराष्ट्रेण उक्तम्॥

Friday, May 18, 2018

सर्वकारोद्योगिनां जैविकविशेषताम् अनुमीय उपस्थित्यालेखनम्।
      तिरुवनन्तपुरम्> केरलराज्ये सर्वकारोद्योगिनां  कृते उपस्थितिमुद्रणाय विशेषविधानं सज्जीक्रियते इति केरलस्य मुख्यमन्त्री पिणरायिविजयः अवदत्I ओक्टोबर् मासादारभ्य नूतनसंविधानस्य निवेशः भविष्यति। सर्वकारीयसेवनानि शक्तीकर्तुं सर्वकारेण प्रामुख्यं कल्पते। एवं चेत् प्रातः आगत्य हस्ताक्षरंकृत्वा अन्यत्र गतवतां बाधा भविष्यति। जनानां सौविध्यमेव उद्योगिनां लक्ष्यं भवितव्यम् इत्यपि तेनोक्तम्।
राज्यपालस्य यद्यूरप्पनिमन्त्रणं विरुद्घ्य दत्तानां परिदेवनानाम् अवलोकनम् सर्वोच्चन्यायालयेन अद्य क्रियते।
दिल्ली> कर्णाटकसर्वकारायोजनायै यद्यूरप्पः राज्यपालेन आमन्त्रितः इति विषयमधिकृत्य सर्वोच्चन्यायालये न्यायव्यवहारं प्रचलिष्यते। भूरिपक्षम् उक्त्वा तेन राज्यपालस्य समक्षं प्रदत्तौ लेखौ अपि न्यायालयस्य पुरतः समर्पयिष्ये। बि एस् यद्यूरप्प मुख्यमन्त्रित्वेन अनुवर्तिष्यते वा इति सर्वे अवलोकयन्ति।
आर् एस् पुर देशे पाकिस्थानस्य  गोलिकाप्रहरः - सीमासैनिकः मृतः।
           श्रीनगरम्>  गोलिकाप्रहरस्थगनवाचम् उल्लङ्घ्य पाकिस्थानः जम्मु काश्मीरस्थ आर् एस् पुरदेशे पुनरपि गोलिकाप्रहरमकरोत्I प्रवृते अत्याचारे सीमसुरक्षाभटः हतः। प्रदेशवासिषु द्वौ क्षतौ। नियन्त्रणरेखाम् उल्लङ्घ्य पाकिस्थानेन आक्रमणं कृतम् इति अस्ति आवेदनम्। सीमाप्रदेशस्थानां विद्यालयानां कृते सर्वकारेण विरामः ख्यापितः।

Thursday, May 17, 2018

कर्णाटके भा ज पा दलाय आमन्त्रणम्। 
    बेङ्गलुरु > कर्णाटके राजनैतिकाकाङ्क्षायाः तात्कालिकविरामः। १०४ स्थानानि प्राप्तवत् भाजपादलं मन्त्रिसभारूपवत्करणाय राज्यपालेन वाजुभायि वालवर्येण आमन्त्रितम्। दलनेतुः  यदूर्यप्पस्य   मन्त्रिमण्डलरूपवत्करणस्य अधिकारवादः राज्यपालेन अङ्गीकृतः आसीत्। विधानसभायां भूरिपक्षनिर्णयाय १५ दिनात्मकः कालश्च लब्धः।

Wednesday, May 16, 2018

विद्युत् चतुश्चक्रिकाणां द्विलक्षं तथा विद्युत् द्विचक्रिकाणां च कृते त्रिंशत् सहस्ररुप्यकाणां च न्यूनत्वम्।
डॉ अभिलाष् जे
     नवदेहली - राष्ट्रे पेट्रोल् टीसल् यानानि सम्पूर्णतया निष्कास्य परिस्थिति मित्र यानानां व्यापनाय केन्द्रसर्वकारेण ९४०० कोटि रूप्यकाणां योजना आविष्क्रियते। एतेन वायुमलिनीकरणं न्यूनीकर्तुं शक्यते। अतः अस्मिन् क्षेत्रे निक्षेपं प्रोत्साहयितुं बहूनि सौविध्यानि दातुं सर्वकारेण आलोच्यते। पुरातनानां यानानां   नाशं कृत्वा नूतनानां विद्युत् यानानां स्वीकरणाय अधिकाधिकं सार्धद्विलक्षात्मकं रूप्यकाणि न्यूनीकृत्य सर्वकारः दास्यति।
     वेगवतां सार्धैकलक्षोपरि मूल्यवतां द्विचक्रयानानां कृते त्रिंशत् सहस्ररूप्यकाणि तथा एकलक्षात्मकरूप्यकाणां द्विचक्रयानानां कृते विंशतिसहस्ररुप्यकाणां पञ्चलक्षात्मक त्रिचक्रिकाणां पञ्चसप्तति सहस्ररुप्यकाणां पञ्चदशलक्षात्मकस्य चतुस्चक्रिकाणां कृते द्विलक्षपर्यन्तं, दशलक्षवतां लघु व्यवसायिक यानानां कृते सार्धद्विलक्षं त्रिकोटि रूप्यकवतां बस्यानानां कृते पञ्चाशत् लक्षं च सर्वकारेण न्यूनीकरिष्यते। परिष्कारोयं निबन्धनाधिष्ठतं स्यात्।
    आगामिनि पञ्चवर्षेषु एतादृशपरिवर्तनाय १५०० कोट्रूप्यकाणां व्ययः भविष्यति। विद्युत् चार्जिङ् केन्द्राणि स्थापितुं १००० कोटि रूप्यकाणां व्ययः भविष्यति। प्रायः पञ्चलक्षयानानि एवं परिवर्तयन्ति। तेषु भूरिशः अशीतिप्रतिशतं द्विचक्र त्रिचक्रयानानि स्युः। एतादृशपरिवर्तनेन यानक्षेत्रे बहु बृहद् परिवर्तनं भविष्यति।
दिल्याम् अन्तिमे यामे धूलीवातः - व्यापकनाशः 
      नवदिल्ली> भारतराजधान्याम् अतिप्रभाते त्रिवादनात्‌ आरभ्य जातेन वातेन महान् नाशः जातः। ७० कि.मी वेगेन वातः वाति स्म। वाहनानाम् उपरि वृक्षाः  पतिताः। भवनानि भग्नानि। रविवासरात् आरभ्य इतःपर्यन्तं ८० जनाः मृताः । उत्तरप्रदेशे  ५१ जनाः मृताः।
      जम्मुकाश्मीर: हिमाचल प्रदेशः, उत्तरखण्डः, उत्तरप्रदेशस्य दक्षिणभगाः इत्येदेषु देशेषु वज्रपातः वातः च शक्तिं प्राप्स्यतः इति केन्द्रवातावाणविभागेन पूर्व सूचना प्रदत्ता। राजस्थानम् पश्चिमबंगालः बीहारः छत्तीस्घट् इत्येतेषु राज्येषु अपि धूलीवातः भविष्यति इत्यपि पूर्वसूचना अस्ति।

Tuesday, May 15, 2018

डॉ. वाई.एन्. राव् वर्यस्य ‘संस्कृत-पाठान् पठत’ इति पाठ्यक्रमस्य चक्रम्-8 इत्यस्य आरम्भः अभवत्

    हैदराबाद्> डॉ. वाई.एन्. राव्-वर्यः 80-वर्षीयः हैदराबाद्-नगरस्थः (तेलङ्गाणा राज्ये, भारते) लब्धप्रतिष्ठः भाषावैज्ञानिकः अस्ति।  सः षड्भ्यः वर्षेभ्यः देवभाषां – संस्कृतं पाठयन्नस्ति तदर्थम् अन्तर्जालमाध्यमेन ‘संस्कृत-पाठान् पठत’ इति आधारभूत-संस्कृत-पाठ्यक्रमं ई-मेल – द्वारा निश्शुल्कं चालयति च।   डॉ. राव्-वर्यः पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य (साफिक्) पक्षतः उपर्युक्तपाठ्यक्रमं चालयति।

     उपर्युक्तपाठ्यक्रमस्य सप्तचक्राणि सफलतया समाप्य सः 8-मस्य चक्रस्य     18-02-2018-दिनाङ्के प्रारम्भं कृतवान् अस्ति। अस्मिन् पाठ्यक्रमे 52 साप्ताहिकाः पाठाः भवन्ति।  अस्मिन् पाठ्यक्रमे 2,500 छात्राः प्रवेशं प्राप्तवन्तः।   तेषु 85 छात्राः आस्ट्रेलिया, दुबाई, जर्मनी,  ओमन्, सौदीअरेबिया, स्विट्जर्लैण्ड्, यू.के., यू.एस्.ए., इत्यादि-विभिन्न-अन्य-देशेभ्यश्च सन्ति। अतीव रुचिकरविषयः  तु  विविधदेशेभ्यः, मातृभाषाभ्यः, धर्मेभ्यः, विश्वासेभ्यः च, 7-तः 87-पर्यन्त-वयस्काः च सन्ति अस्मिन् पाठ्यक्रमे।

     यदा एषः 52-साप्ताहिक-पाठानां पाठ्यक्रमः समाप्तः भवति तदा अन्तर्जाल-माध्यमेन आन्-लाइन् वेब्-आधारित-परीक्षा भविष्यति।  तस्यां परीक्षायाम् उत्तीर्णानां छात्राणां प्रतिभापाटवानुसारं श्रेण्यः दीयन्ते। श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य (साफिक्) पक्षतः उत्तीर्णच्छात्राणां प्रमाणपत्राणि दीयन्ते।

    श्रीमान् जे.एस्. शास्त्री-वर्यः 62-वर्षीयः महाराष्ट्र वित्तकोशतः सेवानिवृत्तः सहायक-महानिदेशकः अस्मिन् पवित्रकार्ये डॉ. वाई.एन्. राव् महोदयेन साकं मिलित्वा निरन्तरं सहकारं कुर्वन् अस्ति।
'नास' संस्थायाः विमानछायाग्राही कुजग्रहं परितः भ्रमणं करिष्यति।
     वाषिङ्टण्> कुजस्य आकाशे विमानछायाग्राही डाययितुं  नासया नूतनी योजना आविष्क्रियते। योजनार्थं 'मार्स् हेलिकाप्टर्' इति नामनि नूतनविशेषयन्त्रः निर्मितः। 2020 संवत्सरस्य रोवर् योजनायाम् अयं विशेष विमानछायाग्राही अन्तर्भवति। कुजस्य आकाशदृश्यानां चित्रमुद्रणं कर्तुमुद्दिश्य भवति अस्य निवेशनम्। 1.8 किलो भारमिता भवति एषः। 
      सौरोर्जे प्रवर्तमानस्य रोवर् यन्त्रस्य निर्देशानुसारमेव भवति विमानछायाग्राह्यः प्रवर्तनम् I एकवारं 90 क्षणपर्यन्तं प्रवर्तनं करिष्यति अयं छायाग्राही।
जूण् प्रथमदिनाङ्कात् विद्यालयेषु अध्ययनारम्भः।
     तृश्शिवपेरूर् > ग्रीष्मकालविरामानन्तरं केरलानां सामान्यविद्यालयाः जूण् प्रथमदिनाङ्के शुक्रवासरे एव  नवीनाध्ययनाय उद्घाट्यन्ते। द्वितीयदिनं प्रवृत्तिदिनत्वेन च सर्वकारेण निर्णीतम्।  २२० प्रवृत्तिदिनानि आगामिनि अध्ययनसंवत्सरे भवितव्यानि इत्यत एव एतादृशः निर्णयः। विद्यालयेषु मध्याह्नभोजनपरियोजनायै केन्द्रसर्वकारस्य धनादेशं लब्धुं २२० प्रवृत्तिदिनानि आवश्यकानि।