OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 12, 2018

कर्णाटके विधानसभानिर्वाचनं समारब्धम्। 
    बङ्गुलुरु > कर्णाटकं केन दलेन  शासितव्यम् इति निश्चेतुं  राज्यविधानसभानिर्वाचनं समारब्धम्। राज्ये ५.१२ कोटि सम्मतिदायकाः जनाधिपत्यविधिनिर्णयाय मतदानकेन्द्राणि अभिगच्छन्ति। २६५५ स्थानाशिनः जनविधिमपेक्षन्ते।  मुख्यमन्त्रिणः सिद्धरामय्यस्य नेतृत्वे कोण्ग्रस् दलं, यदूर्यप्पावर्यस्य नेतृत्वे भाजपादलं, एछ् डि देवगौडावर्यस्य नेतृत्वे जनतादल् - एस् दलं च मुख्यतया त्रिकोणप्रतियोगिताम् आवहन्ति।
नेपालं विहाय भारतस्य पूर्णता नास्ति - भरतस्य प्रधानमन्त्री
       जनकपुरम्> नेपालं विहाय भारतस्य विश्वासः इतिहासः च सम्पूर्णं मा भविष्यति इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत्। दिनद्वयस्य नेपालसन्दर्शनस्य भागतया अयोध्यां जनकपुरं च बन्धितुं बस् यानस्य सेवां ध्वजवीजनं कृत्वा भाषमाणः आसीत् सः।  हिन्दुमतविश्वासानुसारं रामस्य जन्मदेशः भवति अयोध्या नेपालस्य जनकपुरं सीतायाः च । एतौ परोक्षतया उक्त्वा आसीत् मोदिनः भाषणम् । 
         'रामायण सर्क्यूट्' इति नाम्ना अविष्कृता आध्यात्मिक विनोदयात्रा-योजनायाः भागतया भवति अयोध्या जनकपुरम् बस् सेवा। शताब्दानां बन्धः एव अयोध्याजनकपुरयोः मध्ये अस्ति एषः  बन्धः भग्नं कर्तुं न शक्यते।   225 किलोमीट्टर् दूरमितं बस्यान सेवा मोदी तथा नेपालस्य प्रधानमन्त्री के पि शर्म ओली च मिलित्वा ध्वजवीजनं कृतवन्तौ। प्रातिवेशिक राष्ट्रनयेषु  प्रथमगणना नेपालस्य एव इति   सः अवदत् ॥

Friday, May 11, 2018

किलुवेय्य अग्निपर्वतस्फोटनेन महान् लावा प्रवाहः
     होणलूलु > हवायि द्वीपस्थ किलुवेय्य अग्निपर्वत स्फोटनेन महान्  द्रावकाग्निप्रवाहः ('लावा') अजायत। विस्फोटनेन सह भूभ्रंशः अपि अभवत्। किलुवेय्यपर्वतस्य पूर्वदक्षिणभागे जातस्य भूकम्पस्य शक्तिः  भूकम्पमापिन्यां ६.९ इति मापिता अस्ति।
सार्वजनिककर्मविभागे  अलीकः - केजरिवालस्य बन्धुः गृहीतः।
       नवदिल्ली> अलीकारोपणानुबन्धतया दिल्लीमुख्यमन्त्रिणः अरविन्द केजरिवालस्य बन्धुः बन्धितः। सार्वजनिक कर्मविभागस्य  मार्गमालिन्य कूल्यानिर्माणे व्यतिलोमः कृतः इति कारणेन विनय बन्सालि नामकः दिल्लीस्थ भ्रष्टाचारविरुद्धविभागेन बन्धितः ।
     बन्सालस्य अड्गत्वेन विराजमानायाः  निर्माणसंस्थायाः आसीत् निर्माणस्य उत्तरदायित्वम् ।  बन्सालस्य निर्माणसंस्थायाः  नियमान् उल्लङ्ख्य  निर्माणानुज्ञा दत्ता इत्यस्य २०१७ मेय् मासस्य अष्टमदिनाङ्के सार्वजनिक कर्मविभागेन अरविन्द् केजरिवालं विरुद्ध्य विकल्पनियामकविधानं पञ्जीकृतम् आसीत्॥
ऋषभ् पन्तस्य शतकं निष्फलम्
-रजीष् नम्पीशः
      दल्ही > विवो ऐ पि एल् २०१८ सपर्यायाः तृतीयं शतकम्‌ दल्हीदलस्य ऋषभपन्तस्य वल्लकात् जातायां क्रीडायां विजयस्तु हैदराबाददलेन प्राप्तः। ह्यः रात्रौ सम्पन्नकीडायां हैदराबाददलं ९ क्रीडकैः दल्हीदलं पराजयत्। प्रथमक्रीडनावसरे दल्हीदलं ऋषभपन्तस्य एकाङ्गप्रकटनेन ५ क्रीडकानां नष्टेन १८७ धावनाङ्‌कान् समपादयत्। ऋषभपन्तेन केवलं ६३ कन्दुकेभ्यः १२८ धावनाङ्काः प्राप्ताः। किन्तु प्रतिक्रीडनवेलायां हैदराबाददलं नायकस्य केन् विल्यंसस्य शिखर्धवानस्य च क्षमापूर्णप्रकटनेन १ क्रीडकनष्टेन विजयं समपादयत्। धवान् ९२(५०), विल्यंसः ८३(५३) च धावनाङ्कान् प्राप्तवन्तौ। हैदराबाददलं अङ्कपट्टिकायां प्रथमं वर्तते। पराजयेनानेन दल्हीदलस्य प्रतीक्षाः अस्तंगताः। अङ्कस्थितिः दल्ही डेर् डेविल्स्- १८७/५ सण् रैसेर्स् हैदराबाद्‌- १९१/१(१८.५).

Thursday, May 10, 2018

प्रधानमन्त्रिणं प्रतीक्ष्य स्थातुं न शक्यते। अतिवेग मार्गः विलम्बं विना उद्घाटनीयः - सर्वोच्चन्यायालयः। 
     नवदिल्ली> दिल्लीनगरस्य अतिरूक्षवाहनसम्मर्दं मलिनीकरण समस्यां च परिहर्तुम् उद्दिश्य निर्मितस्य अतिवेगमार्गस्य उद्घाटनं विलम्बायते इत्यस्य  विप्रतिपत्तिं विज्ञापयन् सर्वोच्यन्यायालयः ।  उद्घाटनाय प्रधानमन्त्रिणं प्रतिपाल्य किमर्थं स्थास्यते इति न्यायालयः अपृच्छत्। जूण् मासस्य प्रथमदिनाङ्के जनेभ्यः मार्गः उद्घाट्य दातव्यः इति न्यायालयः निरदिशत्। 
    राष्ट्रियमार्ग आयोगस्य अधीनतायां निर्मितस्य 'ईस्टेण् पेरिफरल् एक्स्प्रस् वे' इत्यस्य उद्घाटनानुबन्धतया एव उच्चन्यायालयस्य आदेशः। न्यायाधीशौ मदन् बि लोकूर् दीपक् गुप्तः च पीठे उपस्थितौ अस्ताम् I

Wednesday, May 9, 2018

राजस्थानदलस्य विजयः
रजीष् नम्पीशः
      जयपुरम् > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः सम्पन्नक्रीडायां राजास्थानदलेन १५ धावनाङ्कैः पञ्जाबदलं पराजितम्। राजस्थानदलं जोस् बट्लरस्य सामर्थ्येन १५८ धावनाङ्कान् समपादयत्। बट्लरः ८२ धावनाङ्‌कान् प्रापयत्। प्रतिक्रीडनवेलायां पञ्जाबदलेन ७ क्रीडकानां नष्टेन १४३ धावनाङ्काः एव सम्पादिताः। पञ्जाबदले के एल् राहुलं विना अन्यः यः कोऽपि सम्यक् कीडितुं समर्थ: नाभवत्। राहुलः ७० कन्दुकेभ्यः ९५ धावनाङ्कान् सम्पाद्य क्रीडान्तं यावत् स्थितः अभवत्। जयेनानेन राजस्थानदलम् अन्तिमस्थानात् षष्ठं स्थानं प्रति उन्नीतम्। पञ्जाबदलं तृतीयस्थाने वर्तते। अङ्कस्थितिः- राजस्थान् रोयल्स् १५८/८ किङ्स् इलवन् पञ्जाब् १४३/७.

Tuesday, May 8, 2018

पत्रकारस्य रामचन्द्रस्य हत्याप्रकरणे डेराप्रमुखं रामरहीमं विरुध्य वादश्रवणमद्य 
-पुरुषोत्तमशर्मा
      पञ्चकूला> पञ्चकूलायां केन्द्रीयान्वेषणाभिकरणस्य  विशेषन्यायालये अद्य पत्रकारस्य रामचन्द्रस्य हत्याप्रकरणे वादश्रवणं भविष्यति। विगतवादश्रवणावधौ प्रकरणस्य मुख्यसाक्ष्येन रामरहीमस्य पूर्ववाहनचालकेन खट्टासिंहेन समं परिपृच्छा अभवत्। अद्य खट्टासिंहस्य वक्तव्ये प्रश्नोत्तरं विधीयते। डेराप्रमुख: रामरहीम: वीडियोकॉन्फ्रेंसिंग इति दृश्यश्रव्याङ्नद्वारा न्यायालयम् उपस्थास्यति। पूर्णप्रतिवादप्रक्रियानन्तरं निर्णय: भविष्यति। उल्लेखनीयमस्ति यत् साध्वी यौनशोषणप्रकरणे सुनारिया कारावासे निगडितस्य गुरमीतरामरहीमस्य समस्या: प्रकरणेनानेन विवर्धन्ते। 
व्‍लादिमीरपुतिन: चतुर्थवारं राष्‍ट्रपतित्वेन शपथं स्वीकृतवान्
-पुरुषोत्तमशर्मा

    नवदिल्ली> व्लादिमीरपुतिन: भूयोsपि षड्सप्तति प्रतिशतं मतदानमधिगम्य राष्ट्रपतित्वेन प्रचित:। 65 वर्षीय: पुतिन: दशकद्वयं तावत् स्थानारूढ: अवर्तत। पुतिनेन जोज़फ-स्‍टालिनस्य अनन्तरं सर्वाधिकवर्षाणि यावत् राष्टपतित्वेन कार्यं कर्तुम् अवसर: प्राप्त:। २०२४ तमे ईशवीयाब्दे पुतिनस्य कार्यकाल: समाप्‍तिं यास्यति। २०२४ ईशवीयाब्दानन्तरं रष्याया: संविधानानुसारेण राष्ट्रपतिपदाय तस्मै अवसर: नैव प्रदास्यति। श्रीपुतिनेन समाश्वासितं यत् स्वीये कार्यकाले देशस्य आर्थिकस्थितिं पुनरितोऽप्यधिकतया सुदृढीकरिष्यामि अन्ताराष्‍ट्रियविवादानां समाधनामपि करिष्यामि इति॥
कत्वा उपधा जम्मोः बहिः। 
        नवदिल्ली > जम्मु काश्मीरस्य कत्वा प्रदेशे अष्टवयस्का बालिका बलात्कारेण मृत्युमुपगता इत्यस्य विषयस्य उपधां पञ्चाबस्थं पठान्कोट्ट् न्यायालयं प्रति परिवर्त्य सर्वोच्चन्यायालयस्य आदेशः। हत्याभीषा अस्तीति बालिकायाः परिवारस्य तेषां न्यायवादिन्यः च अभियाचिकायाः आधारेणैव अयं निर्णयः।
मुख्यन्यायाधीशं विरुद्ध्य दोषशोधनायै - कोण्ग्रस् दलं सर्वोच्चन्यायालये।
      नवदिल्ली> मुख्यन्यायाधीशं   दीपकमिश्रं विरुद्ध्य दोषशोधनापत्रं तिरस्कृतवान् उपराष्ट्रपतिः इति कारणेन द्वौ कोण्ग्रस् सामाजिकौ उच्चन्यायालये व्यवहारं पञ्जीकृतौ।  राज्यसभा सामाजिकौ प्रतापसिंहबज्व, अमीहर्षाद्रि यजनिकश्च एतौ। उपराष्ट्रपतेः प्रक्रमः पक्षपातसहितः राजनैतिकप्रभावेन च इति दोषारोपम् उन्नीतवन्तौ। अन्वेषणाय न्यायाधीशानां समितिः आवश्यकी इति सामाजिकौ न्यवेदितवन्तौ। राज्यसभानियमानि उल्लंघितानि इत्युक्त्वा आसीत्  सभाध्यक्षस्य  वेङ्कय्यनायिड्डुवर्यस्य  दोषशोधनापत्रतिरस्कारः। मुख्यन्यायाधीशं विरुद्ध्य दोषशोधनापत्रप्रदानाय दोषप्रकाशनाय  यानि प्रमाणानि आवश्यकानि तानि नास्तीति वेङ्कय्यनायिडुवर्यः असूचयत्।

Monday, May 7, 2018

काबूले षड् भारतीयाः बन्धिताः 
       काबूल्   >  अफ्गानिस्थानस्य 'बघ्लान्' प्रविश्यायां षट् भारतीयान् यन्त्रकुशलान् [engineers] तद्देशवासिनं चालकं च केचन आयुधधारिणः अपहृतवन्तः। अफ्गान् सर्वकारस्य स्वामित्वे वर्तमाने विद्युन्निलये कर्मकराः एते, ते एव रविवासरे अपहृताः बन्धिताश्च।
       घटनायाः उत्तरदायित्वं केनापि न स्वीकृतं तथापि तालिबान् भीकरैरेव आक्रमणं कृतमिति बघ्लान् प्रविश्यायाः राज्यपालः अब्दुल्ला नेमाती अवदत्। तत्रस्थानां गोत्रमुख्यानां साहाय्येन भारतीयान् मोचयितुं चर्चाः पुरोगच्छछन्ति इति नमेतिवर्येण उक्तम्।
काश्मीरे संघट्टनेन पञ्च भीकराः व्यापादिताः। 
      श्रीनगरम् > गतदिने जम्मु-काश्मीरे षोपियान् जनपदे सुरक्षासैन्यं भीकराश्च मिथः संवृत्ते नालिकाशस्त्रसंघट्टने पञ्च भीकराः व्यापादिताः। तेषु एकः काश्मीर् विश्वविद्यालयस्य अध्यापकः अस्ति। संघट्टनानन्तरम् अक्रमासक्तान् जनसञ्चयान् विरुध्य  रक्षिपुरुषैः कृते भुषुण्डिप्रयोगे ५ प्रदेशवासिनश्च निहताः।
शतंरुप्यकपत्राणां दौर्लभ्यम् अचिरादेव भविष्यति- वित्तकोशाः।
       मुम्बै> २०००, २०० रुप्यकपत्राणाम् इव शतानाम् (१००) अपि दौर्लभ्यं भविष्यति इति सूचना लब्धा। शतानां रुप्यकपत्राणां पूरणं धनस्वीकरणयन्त्रे आवश्यकानुसारं न प्रवर्तते। इदानीं विपण्यां प्रचार्यमाणेषु रुप्यकपत्रेषु भूयिष्ठानि अपि मालिन्येन आक्षिप्तानि भवन्ति। एतानि धनस्वीकरणयन्त्रे पूरयितुं न शक्यते इति कारणत्वेन वदन्ति वित्तकोशाधिकारिणः। शतानां रुप्यकपत्राणां वितरणं न्यूनीभवति इति वित्तकोशेन संरक्षितवित्तकोशान् प्रति आवेदितम् अस्ति। नूतनानां रुप्यकपत्राणाम् अभावेन पञ्चाशत् रुप्यकपत्राणां लघ्व्यः विनिमयः असाध्यः भवति इत्यपि आवेदितः अस्ति।
मुम्बैपञ्चाबदलयोः विजयः
रजीष्‌ नम्पीशः
         दल्ही > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः सम्पन्नक्रीडयोः मुम्बैदलेन कोल्कत्ता दलं १३ धावनाङ्कैः, पञ्चाबदलेन राजस्थानदलं षट्भिः क्रीडकैः च  पराजितम्। आरम्भक्रीडकः सूर्यकुमारयादवः मुम्बैदलाय ५९ धावनाङ्कान् समपादयत्। हर्दिक् पाण्डयः ३५ धावनाङ्कैः क्रीडान्तं यावत् स्थितः अभवत्। कोल्कत्तादलाय रोबिन् उत्तप्पा ५४ धावनाङ्कान् समपादयत्। अङ्कस्थितिः- मुम्बै इन्ड्यन्स् १८१/४ कोल्कत्ता नैट् रेडेर्स् १६८/६. ह्यः रात्राववसितक्रीडायां पञ्चाबदलेन राजस्थानदलं षट्भिः क्रीडकैः पराजितम्। प्रथमावसरे राजस्थानदलं ९ क्रीडकानां नष्टेन १५२ धावनाङ्कान् प्रापयत्। राजस्थानाय जोस् बट्लर् ५१ धावनाङ्कान् प्रापयत्। प्रतिक्रीडनावसरे पञ्चाबदलं के एल् राहुलस्य एकाङ्गप्रकटनेन ४ क्रीडकानां नष्टेन विजयं प्रापयत्। के एल् राहुलः ८४ धावनाङ्कैः सह अनिष्कासितः अभवत्। अङ्कस्थितिः- राजस्थान् रोयल्स् १५२/९ किङ्स् इलवन् पञ्चाब् १५५/४(१८.४).

Sunday, May 6, 2018

स्थगितानां न्याय-व्यवहाराणां निर्णयाय प्रभातपर्यन्तं न्यायलयः ॥ 
          मुम्बै> स्थगितानां न्याय-व्यवहाराणां निर्णयाय प्रभातपर्यन्तं न्यायलये उषित्वा  न्यायाधीशः इतिहासं रचितवान्। मुम्बै उच्चन्यायालयस्य न्यायाधीशः एस् जे कताव् ला वर्यः एव नूतनाम्  इमां सरणिं समारब्धवान्। मेय् मासस्य पञ्चमदिनाङ्कात् आरभ्य न्यायालयस्य विरामकालः भविष्यति इत्यनेन विधिनिर्णयाय यामान्तं यावत् न्यायाधीशः नीतिपीठे उपविष्टवान् आसीत्।  एवं १३५ न्यायव्यवहारेषु निर्णयं स्वीकृतवान्। विगतैकसप्ताहं यावत् अर्धरात्रपर्यन्तं न्यायावाद-विधिप्रस्तावौ अनुवर्तितौ च आस्ताम्।  एषु  व्यवहारेषु ७० सङ्ख्यामिताः  व्यवहाराः अधिकप्राधान्यं आवहन्तः सन्ति।
चलच्चित्रपुरस्कारकार्यक्रमः - राष्ट्रपतौ अतृप्तिः।
      नवदिल्ली > राष्ट्रियचलच्चित्रपुरस्कारवितरणं वार्तावितरणमन्त्रालयेन आयोजितम् आसीत्। तन्निर्वहणविषयये  कार्यकुशलता नासीत् इत्यतः राष्ट्रपतिभवनस्य अतृप्तिः। वितरणकार्यक्रमः अपक्वेन आयोजितः इत्यनेन राष्ट्रपतिः विचारितः   अभवदिति कार्यालयस्य मूल्यनिर्णयः। अस्मिन् विषये असन्तुष्टिं  प्रधानमन्त्रिकार्यालयं प्रति लेखद्वारा प्राकाशयत् च।
         कार्यान्तरबाहुल्येन राष्ट्रपतिः एकहोरापर्यन्तं पुरस्कारवितरणकार्यक्रमे सन्निहितः भवेदिति  मार्चमासे एव निगदितमासीत्। तदनुसारं राष्ट्रपतिहस्तात् पुरस्कारं स्वीक्रियमाणानां एकादश प्रतिभानां नामान्यपि निश्चित्य वार्तावितरणमन्त्रालयं निगदति स्म। किन्तु कार्यक्रमे अन्येषां कृते पुरस्कारं दातुं राष्ट्रपतिः असन्नद्धः आसीदिति  प्रतीतिः अजायत। राष्ट्रपतिः पुरस्कारदानं न करिष्यति इत्यतः ५५ जेतारः कार्यक्रमं बहिष्कृतवन्तः आसन्।
आधारपत्रस्य सुरक्षाभीषा नास्ति- बिल् गेट्स्
     वाषिङ्टण् >  भारतस्य अधारपत्रसुविधायाः साङ्केतिकत्रुटयः न सन्ति इति मैक्रोसोफ्ट् स्थापकः बिल्गेट्स् महोदयः वदति। विश्ववित्तकोशस्य साह्येन  आविश्वम् आधारपत्र सुविधा व्यापयितुं प्रयतते बिल् आन्ट् मेलिन्ड   गेट्स् फौन्टेषन् इति संस्थया आरब्धा इत्यपि तेन उच्यते।
     आधारपत्र-संस्थायाः‍ प्रथमाध्यक्षः इन्फोसिस् संस्थायाः सहस्थापकः इति च सुज्ञातः नन्दन् निलेकनि एव अस्यै परियोजनायैः विश्ववित्तकोशस्य कृते साहाय्यं क्रियते इति च तेनोक्तम्।
राष्ट्रान्तरेषु अपि व्यापनं कर्तुं योग्या वा भारतस्य इयं योजना इति प्रश्नस्य योग्या इति सः अवदत्। अधारपत्रस्य बहुमूल्यगुणानि सन्ति  राष्ट्रस्य त्वरितविकासाय जनानां शक्तीकरणाय च सुविधेयं अत्यन्तम् उपकरी इति बिल्गेट्स् महोदयेन उक्तम्॥