'मनोगतम्-४३’ ‘मन की बात’ नरेन्द्रमोदी
प्रसारण-तिथि: - 29.04.2018
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]
संस्कृत-भाषान्तर-कर्ता - डॉ.बलदेवानन्द-सागरः
मम प्रियाः देशवासिनः! नमस्कारः | नातिचिरं एप्रिल-मासे चतुर्थतः पञ्चदश-दिनाङ्कं यावत् ऑस्ट्रेलिया-देशे एकविंशति-तमाः राष्ट्र-मण्डलीयाः क्रीडा-स्पर्धाः आयोजिताः| भारत-सहिताः विश्वस्य एकसप्ततिः देशाः आसु क्रीडा-स्पर्धासु सहभागित्वम् आवहन्| यदा एतावत् बृहत् आयोजनं भवेत्, अशेष-विश्वस्मात् समागताः सहस्रशो हि क्रीडकाः अत्र सहभागित्वम् आवहन्तः सन्ति, कल्पयितुं शक्नुमः यत् कीदृशो नु परिवेशः भवेत् ? ऊर्जा, शक्तिः, उत्साहः, आवेगः आशाः, आकाङ्क्षाः, किञ्चित् विशिष्टं प्रदर्शयितुं शिव-सङ्कल्पः – यदा एतादृशः परिवेशो भवेत्, तदा को नाम अस्मात् आत्मानं पृथक् स्थापयितुं शक्नुयात्| अयं हि एतादृशः कालः आसीत् यदा प्रतिदिनं अशेष-देशस्य नागरिकाः विचारयन्ति स्म यदद्य कः कः क्रीडकः क्रीडिष्यति ? भारतस्य प्रदर्शनं कीदृशं भविष्यति? वयं कति पदकानि जेष्यामः? एतत् सर्वं सुतरां स्वाभाविकमपि आसीत्| अस्माकं क्रीडकाः अपि देशवासिनाम् आकाङ्क्षानुसारं भद्रतरं प्रदर्शनं कृतवन्तः, तथा च, अनुक्रमं पदकानि विजितवन्तः | भवतु नाम लक्ष्यवेधो वा मल्ल-युद्धम्, भवतु तत् भारोत्तोलनम् वा table tennis-स्पर्धा, आहोस्वित् badminton-स्पर्धा; भारतेन आभिलेख्यं प्रदर्शनं विहितम् | पदकानां षड्-विंशतिः सौवर्णानि [ 26 Gold], विंशतिः राजतानि [ 20 Silver], विंशतिश्च कांस्यमयानि [ 20 Bronze] – आहत्य भारतेन षट्-षष्टिः [66] पदकानि विजितानि |
प्रत्येकमपि भारतीयः अस्याः सफलतायाः विषये गौरवम् अनुभवति | पदक-विजयो हि क्रीडकानां कृते गौरवस्य प्रसन्नतायाश्च विषयो भवति| इदं हि अशेष-देशस्य कृते, सर्वेषामपि देशवासिनां कृते अत्यन्तं गौरवपर्व भवति| क्रीडा-स्पर्धायाः अन्ते यदा पदकैः साकं भारतस्य प्रतिनिधित्वं कुर्वन्तः क्रीडकाः तत्र सन्तिष्ठन्ते, त्रिवार्णिकेन ध्वजेन परिवेष्टिताः, राष्ट्रगानस्य स्वर-लहर्यश्च गुञ्जायमानाः भवन्ति तदा या नाम भावानुभूतिः भवति, यो हि सन्तोषो जा