OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 7, 2018

मुम्बैपञ्चाबदलयोः विजयः
रजीष्‌ नम्पीशः
         दल्ही > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः सम्पन्नक्रीडयोः मुम्बैदलेन कोल्कत्ता दलं १३ धावनाङ्कैः, पञ्चाबदलेन राजस्थानदलं षट्भिः क्रीडकैः च  पराजितम्। आरम्भक्रीडकः सूर्यकुमारयादवः मुम्बैदलाय ५९ धावनाङ्कान् समपादयत्। हर्दिक् पाण्डयः ३५ धावनाङ्कैः क्रीडान्तं यावत् स्थितः अभवत्। कोल्कत्तादलाय रोबिन् उत्तप्पा ५४ धावनाङ्कान् समपादयत्। अङ्कस्थितिः- मुम्बै इन्ड्यन्स् १८१/४ कोल्कत्ता नैट् रेडेर्स् १६८/६. ह्यः रात्राववसितक्रीडायां पञ्चाबदलेन राजस्थानदलं षट्भिः क्रीडकैः पराजितम्। प्रथमावसरे राजस्थानदलं ९ क्रीडकानां नष्टेन १५२ धावनाङ्कान् प्रापयत्। राजस्थानाय जोस् बट्लर् ५१ धावनाङ्कान् प्रापयत्। प्रतिक्रीडनावसरे पञ्चाबदलं के एल् राहुलस्य एकाङ्गप्रकटनेन ४ क्रीडकानां नष्टेन विजयं प्रापयत्। के एल् राहुलः ८४ धावनाङ्कैः सह अनिष्कासितः अभवत्। अङ्कस्थितिः- राजस्थान् रोयल्स् १५२/९ किङ्स् इलवन् पञ्चाब् १५५/४(१८.४).

Sunday, May 6, 2018

स्थगितानां न्याय-व्यवहाराणां निर्णयाय प्रभातपर्यन्तं न्यायलयः ॥ 
          मुम्बै> स्थगितानां न्याय-व्यवहाराणां निर्णयाय प्रभातपर्यन्तं न्यायलये उषित्वा  न्यायाधीशः इतिहासं रचितवान्। मुम्बै उच्चन्यायालयस्य न्यायाधीशः एस् जे कताव् ला वर्यः एव नूतनाम्  इमां सरणिं समारब्धवान्। मेय् मासस्य पञ्चमदिनाङ्कात् आरभ्य न्यायालयस्य विरामकालः भविष्यति इत्यनेन विधिनिर्णयाय यामान्तं यावत् न्यायाधीशः नीतिपीठे उपविष्टवान् आसीत्।  एवं १३५ न्यायव्यवहारेषु निर्णयं स्वीकृतवान्। विगतैकसप्ताहं यावत् अर्धरात्रपर्यन्तं न्यायावाद-विधिप्रस्तावौ अनुवर्तितौ च आस्ताम्।  एषु  व्यवहारेषु ७० सङ्ख्यामिताः  व्यवहाराः अधिकप्राधान्यं आवहन्तः सन्ति।
चलच्चित्रपुरस्कारकार्यक्रमः - राष्ट्रपतौ अतृप्तिः।
      नवदिल्ली > राष्ट्रियचलच्चित्रपुरस्कारवितरणं वार्तावितरणमन्त्रालयेन आयोजितम् आसीत्। तन्निर्वहणविषयये  कार्यकुशलता नासीत् इत्यतः राष्ट्रपतिभवनस्य अतृप्तिः। वितरणकार्यक्रमः अपक्वेन आयोजितः इत्यनेन राष्ट्रपतिः विचारितः   अभवदिति कार्यालयस्य मूल्यनिर्णयः। अस्मिन् विषये असन्तुष्टिं  प्रधानमन्त्रिकार्यालयं प्रति लेखद्वारा प्राकाशयत् च।
         कार्यान्तरबाहुल्येन राष्ट्रपतिः एकहोरापर्यन्तं पुरस्कारवितरणकार्यक्रमे सन्निहितः भवेदिति  मार्चमासे एव निगदितमासीत्। तदनुसारं राष्ट्रपतिहस्तात् पुरस्कारं स्वीक्रियमाणानां एकादश प्रतिभानां नामान्यपि निश्चित्य वार्तावितरणमन्त्रालयं निगदति स्म। किन्तु कार्यक्रमे अन्येषां कृते पुरस्कारं दातुं राष्ट्रपतिः असन्नद्धः आसीदिति  प्रतीतिः अजायत। राष्ट्रपतिः पुरस्कारदानं न करिष्यति इत्यतः ५५ जेतारः कार्यक्रमं बहिष्कृतवन्तः आसन्।
आधारपत्रस्य सुरक्षाभीषा नास्ति- बिल् गेट्स्
     वाषिङ्टण् >  भारतस्य अधारपत्रसुविधायाः साङ्केतिकत्रुटयः न सन्ति इति मैक्रोसोफ्ट् स्थापकः बिल्गेट्स् महोदयः वदति। विश्ववित्तकोशस्य साह्येन  आविश्वम् आधारपत्र सुविधा व्यापयितुं प्रयतते बिल् आन्ट् मेलिन्ड   गेट्स् फौन्टेषन् इति संस्थया आरब्धा इत्यपि तेन उच्यते।
     आधारपत्र-संस्थायाः‍ प्रथमाध्यक्षः इन्फोसिस् संस्थायाः सहस्थापकः इति च सुज्ञातः नन्दन् निलेकनि एव अस्यै परियोजनायैः विश्ववित्तकोशस्य कृते साहाय्यं क्रियते इति च तेनोक्तम्।
राष्ट्रान्तरेषु अपि व्यापनं कर्तुं योग्या वा भारतस्य इयं योजना इति प्रश्नस्य योग्या इति सः अवदत्। अधारपत्रस्य बहुमूल्यगुणानि सन्ति  राष्ट्रस्य त्वरितविकासाय जनानां शक्तीकरणाय च सुविधेयं अत्यन्तम् उपकरी इति बिल्गेट्स् महोदयेन उक्तम्॥

Saturday, May 5, 2018

विद्यार्थिनः न सन्ति- स्वाश्रययन्त्रवैज्ञानिक-कलाशालायाः  पिधानं क्रियते।
     तिरुवनन्तपुरम्> छात्राणां न्यूनसंख्यात्वात् स्वाश्रययन्त्र वैज्ञानिक कलाशालाः पिधानं कर्तुं अनुज्ञां निवेद्य  कलाशालायाः प्रबन्धकाः साङ्केतिक-वैज्ञानिक विश्वविश्वविद्यालयस्य पुरतः  अनुज्ञां प्रार्थितवन्तः। तिसृभिः  कलाशालाभिः  पोलिटेक्निक्‌ रूपेण परिवर्तयितुं न्यवेदनमपि प्रदत्तम्।
 स्वाश्रयमण्डलेषु 120 कलाशालाः  सन्ति। सर्वकारेण नियन्त्रिता द्वात्रिंशत् च । एतेषु अष्टाविंशति  कलाशालासु एव छात्राः संपूर्णतया प्रवेशिताः। अन्यासु प्रतिशतं पञ्चविंशति (२५%) छात्राः एव आगच्छन्ति। शेषस्थानानि शून्यायानि वर्तन्ते|
अन्ते मुम्बै दलेन विजयपथं प्राप्तम् 
   मोहाली > पराजयपरम्परायाः अन्ते मुम्बै दलाय समाश्वासविजयः। विवो ऐ पि एल् २०१८ सपर्यायाम् ह्यः सम्पन्नक्रीडायां मुम्बै दलेन पञ्जाबदलम् पराजितम्। क्रुनालपाण्ड्यस्य अतिवेगक्रीडनं मुम्बै दलाय सहायकम् अभवत्। सः १२ कन्दुकेभ्यः ३१ धावनाङ्कान् सम्पाद्य नायकेन रोहित् शर्मणा सह क्रीडान्तं यावत् स्थितः। मुम्बै दलाय सूर्यकुमारयादवः ५७ धावनाङ्कान् समपादयत्। अनेन विजयेन ऐ पि एल् २०१८ सपर्यायां मुम्बै दलस्य विजयप्रतीक्षाः उत्तेजिताः। अङ्कस्थितिः - किङ्स् इलवन् पञ्जाब् - १७४/६ मुम्बै इन्ड्यन्स् -१७६/४(१९).

Friday, May 4, 2018

उत्तरप्रदेशे राजस्थाने च कणिकासङ्घातवातप्रवाहेन १०८ मरणानि।
    नवदिल्ली > उत्तरभारते गतदिने संवृत्तेन अतिशक्तेन कणिकायुक्तवातप्रवाहेन तदनन्तरं सञ्जातेन मेघजर्जनेन वर्षेण च अष्टोत्तरशतं जनाः मृत्युमुपगताः। द्विशताधिकाः आहताः। उत्तरप्रदेशे राजस्थाने च मरणानि सम्भूतानि।
   नवदिल्ल्यामपि शतकिलोमीटर् परिमितया शीघ्रतया झंझावातः वाति स्म।
  विविधेषु राज्येषु बहूनि गृहाणि भवनानि च विशीर्णानि। वृक्षाः विद्युत्स्तम्भाश्च पतिताः।

Thursday, May 3, 2018

आधारपत्रं विना वित्तकोशे वित्तलेखं समारब्धुं न शक्यते ।
      नवदिल्ली> वित्तकोशेषु वित्तलेखेस्य समारम्भाय आधारपत्रसंख्यां निर्बन्धितं  कृत्वा  रिज़र्व् बाङ्क्  द्वारा एप्रिल् मासस्य विंशति दिनाङ्के ( 20) बहिरागते निर्देशोषु एव आधारपत्रं निर्बन्धितम् इति लिखितम् अस्ति। पान् पत्रम् अपि वित्तलेखाय आवश्यकं भवति। पान् पत्रं नास्ति चेत् फोर्म् ६० दातव्यम्।
के वै सि निर्देशपालनाय भवति अयम्।
     विविधसेवनानां कृते आधारपत्रम् अधिकृत्य आदेशः इतःपर्यन्तं सर्वोच्चन्यायालयेन न आदिष्टम्। तथापि अलीकधनसम्पादन- निवारणय आधारपत्रम् आवश्यकम् इति रिज़र्व् बाङ्क् संस्थायाः चाक्रिकादेशे उच्यते।
2022 तमे सर्वेषां ब्रोड्बान्ट् 5 जि च । 
   नवदिल्ली> दूरसञ्चारवार्ताविनिमय-मण्डले समग्रपरिवर्तनोन्मुख-नयस्य कृते केन्द्रसर्वकारेण प्राथमिकयत्नः   समारब्धः।   2022 तमे 40 लक्षं कर्मसन्दर्भाणि, 5 जि अन्तर्जालोपलब्धिः, सर्वेषां ब्रोड्बान्ड्, 50 एम् बि पि एस् वेगयुक्तम् अन्तर्जालबन्धं च भवन्ति प्रधाननिर्देशाः।  राष्ट्रिय-साङ्ख्यवार्ताविनिमय नयः  2018 इति नाम्ना एव नवीननयः आनयिष्यति। 
      राष्ट्रे प्रतिशतं पञ्चाशत्   (50%) गृहेषु ब्रोड्बान्ड् सैविध्यं तथा स्थावर-दूरवाणीबन्धः च  स्यातां इति भविष्यत्प्रवर्तनरेखाद्वारा उद्घोषयति। सर्वेष्वपि  पञ्चायत्तेषु 1 जि बि वेगमितम् अन्तर्जालबन्धं लभते। 2022 तमे  वेगः  10 जि बि  इति परिवर्त्यते । सांख्यकवार्ताविनिमय मण्डले ‍ 2022 तमे  10,000 कोटि डोलर् धनस्य आयः एव लक्ष्यी क्रियते इत्यपि नयरेखायां व्यक्तीक्रियते।

Wednesday, May 2, 2018

चलदूरवाणी लब्ध्यर्थम् आधारपत्रं नावश्यकम्।
         नवआधारपत्रं नास्तीति कारणेन सिम् पत्रं न लभते इति आक्षेपेण विषयेऽस्मिन् पुनरवलोकनं कृत्वा एव अयं निर्णयः स्वीकृतः इति केन्द्र दूरसञ्चार-विभाग-सचिवः अरुणा सुन्दरराजः अवदत्।
      वाहनचालक अनुज्ञापत्रम् पारपत्रम् मतदानप्रत्यभिज्ञापत्रम् च प्रमाणत्वेन स्वीकर्तुं मन्त्रालयः निर्देशः दूरवाणी संस्थाभ्यः अदात्। दूरवाणीसन्ध्यर्थं आधारपत्रं नावश्यकं इति सर्वोच्चन्यायालयेन निरीक्षितम् आसीत्।

Tuesday, May 1, 2018

इन्धनमूल्यम्  अधिकं मास्तु - केन्द्रनिर्देशः 
नवदिल्ली > कर्णाटकस्य नियमसभा-निर्वाचनभावनया इन्धनमूल्यवर्धनं केन्द्रसर्वकारेण निवारितम् इति आवेदनम्। विश्वविपण्याः मूल्यव्यत्ययानुसारं प्रतिदिनमूल्यनिर्णयम् निवारितम् इति मन्यते। लोकेसर्वत्र तैलेन्धनमूल्यम् वर्धितम् तथापि भारते न वर्धितम्। एक सप्ताहं यावत् मूल्यं निश्चलं भवति। मूल्यवर्धनं मास्तु इति सर्वकारेण तैलसंस्थाः निर्दिष्टाः इति भवति आवेदनम्। कर्णाटकनियमसभा निर्वाचने तैलेन्धनस्य मूल्यवर्धम्  प्रहराय भवति इति मत्वा एव अयं निर्देशः।    एप्रिल् मासस्य चतुर्विंशति दिनाङ्के एव अन्तिमतया मूल्यवर्धनमभवत्। मेय् मासस्य द्वादश दिनाङ्के भवति कर्णाटकस्य निर्वाचनम्।  

अफ्गानिस्थाने  त्रिषु स्थानेषु  आत्मघात्याक्रमणं - ४१ मरणानि। 
         काबूल् > अफ्गानिस्थानस्य राजधान्यां काबूल् नगरे तथा काण्डहारे च सम्पन्नेषु त्रिषु आत्मघात्याक्रमणेषु एकादश शिशवः अष्ट माध्यमप्रवर्तकाश्च अभिव्याप्य एकचत्वारिंशत् जनाः हताः। उपषष्ठिजनाः व्रणिताश्च। 
   काबूल् नगरे प्रवृत्तयोः आक्रमणयोः उत्तदायित्वं विश्वभीकरसंस्थया इस्लामिक् स्टेट् नामिकया स्वीकृतम्।  प्रथममाक्रमणम् आवेदयितुं  प्राप्तान् माध्यमप्रवर्तकान् लक्ष्यीकृत्य आसीत् द्वितीयमाक्रमणम्। अन्ताराष्ट्र वार्ताकरसंस्थायाः [ए एफ् पि] सुप्रसिद्धः वार्ताहरः 'षा मरायि' नामकः मृतेषु अन्तर्भवति।
 'मनोगतम्-४३’ ‘मन की बात’ नरेन्द्रमोदी
प्रसारण-तिथि: - 29.04.2018
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]
 संस्कृत-भाषान्तर-कर्ता    -  डॉ.बलदेवानन्द-सागरः  

             मम प्रियाः देशवासिनः! नमस्कारः |  नातिचिरं एप्रिल-मासे चतुर्थतः पञ्चदश-दिनाङ्कं यावत् ऑस्ट्रेलिया-देशे एकविंशति-तमाः राष्ट्र-मण्डलीयाः क्रीडा-स्पर्धाः आयोजिताः| भारत-सहिताः विश्वस्य एकसप्ततिः देशाः आसु क्रीडा-स्पर्धासु सहभागित्वम् आवहन्| यदा एतावत् बृहत् आयोजनं भवेत्, अशेष-विश्वस्मात् समागताः सहस्रशो हि क्रीडकाः अत्र सहभागित्वम् आवहन्तः सन्ति, कल्पयितुं शक्नुमः यत् कीदृशो नु परिवेशः भवेत् ? ऊर्जा, शक्तिः, उत्साहः, आवेगः आशाः, आकाङ्क्षाः, किञ्चित् विशिष्टं प्रदर्शयितुं शिव-सङ्कल्पः – यदा एतादृशः परिवेशो भवेत्, तदा को नाम अस्मात् आत्मानं पृथक् स्थापयितुं शक्नुयात्| अयं हि एतादृशः कालः आसीत् यदा प्रतिदिनं अशेष-देशस्य नागरिकाः विचारयन्ति स्म यदद्य कः कः क्रीडकः क्रीडिष्यति ? भारतस्य प्रदर्शनं कीदृशं भविष्यति? वयं कति पदकानि जेष्यामः? एतत् सर्वं सुतरां स्वाभाविकमपि आसीत्| अस्माकं क्रीडकाः अपि देशवासिनाम् आकाङ्क्षानुसारं भद्रतरं प्रदर्शनं कृतवन्तः, तथा च, अनुक्रमं पदकानि विजितवन्तः | भवतु नाम  लक्ष्यवेधो वा मल्ल-युद्धम्, भवतु तत् भारोत्तोलनम् वा  table tennis-स्पर्धा, आहोस्वित् badminton-स्पर्धा; भारतेन आभिलेख्यं प्रदर्शनं विहितम् | पदकानां षड्-विंशतिः सौवर्णानि [ 26 Gold], विंशतिः राजतानि [ 20 Silver], विंशतिश्च कांस्यमयानि [ 20 Bronze] – आहत्य भारतेन षट्-षष्टिः [66] पदकानि विजितानि |  
    प्रत्येकमपि भारतीयः अस्याः सफलतायाः विषये गौरवम् अनुभवति | पदक-विजयो हि क्रीडकानां कृते गौरवस्य प्रसन्नतायाश्च विषयो भवति| इदं हि अशेष-देशस्य कृते, सर्वेषामपि देशवासिनां कृते अत्यन्तं गौरवपर्व भवति| क्रीडा-स्पर्धायाः अन्ते यदा पदकैः साकं भारतस्य प्रतिनिधित्वं कुर्वन्तः क्रीडकाः तत्र सन्तिष्ठन्ते, त्रिवार्णिकेन ध्वजेन परिवेष्टिताः, राष्ट्रगानस्य स्वर-लहर्यश्च गुञ्जायमानाः भवन्ति तदा या नाम भावानुभूतिः भवति, यो हि सन्तोषो जा
दशदिनाभ्यन्तरे भारते बहुत्र अग्निबाधता। चित्रं संप्रेष्य नासा संस्था
डा अभिलाष् जे
         नवदेहली>गतदशदिनेषु भारते बहुत्र क्षेत्रेषु अग्निः बाधिता इति चित्राणि बहिः संप्रेष्य नासा संस्थया व्यक्तीकृता।उत्तरप्रदेशे मध्यप्रदेशे महाराष्ट्रायां, झत्तिस्गड् राज्ये एवं दक्षिणभारते केषुचित् क्षेत्रेषु अग्निः बाधिता इति चित्राणि व्यक्तीकुर्वन्ति। ग्रीष्मे संजातया अग्निबाधया उष्णाधिक्यं अन्तरीक्षमलिनीकरणं  च अभवताम्।
           नासया प्रेषितेषु चित्रेषु अग्निबाधितानि क्षेत्राणि रक्तवर्णे अङ्कितानि सन्ति।वनक्षेत्राणां अपेक्ष्य कृषिक्षेत्रेषु अधिकतया अग्निबाधा जाता इति नासा वदति।
राष्ट्रस्य सांस्कृतिकपरम्पर्ये अभिमानिनः भवेम - भारतस्य उपराष्ट्रपतिः
कासरगोड् > अध्ययनमस्माकं धर्मः, तथा वयं भारतीयाः इति चिन्ता अस्मासु सदा भवितव्या इत्याह्वयन् केन्द्रविश्वविद्यालयस्य एकीकृतं निवेशनस्थानम् उपराष्ट्रपतिः वेङ्कय्य नायिडुः  राष्ट्राय समार्पयत्। 
   जाति-धर्म-लिङ्ग-प्रादेशिक विवेचनेभ्यः अतीतो भवेत् शिक्षाक्रमः इति उपराष्ट्रपतिना उक्तम्। पुरा विश्वगुरुरासीत् भारतम्। नालन्दा तक्षशिला च अस्य प्रमाणे  आस्ताम्। वैदेशिकाक्रमणैः ब्रिट्टीष् शासनेन च एषः पारम्पर्यः विनष्टः - उपराष्ट्रपतिना उक्तम्। 
   कासर्गोड् प्रविश्यायां विविधेषु चतुर्षु  स्थानेषु विप्रकीर्णाः अध्ययनविभागाः इतःपरं 'पेरिय' प्रदेशे निर्मिते एकमात्रे भवनसमुच्चये प्रवर्तिष्यते। भवनानां नामान्यपि भारतस्य सांस्कृतिकपैतृकम् उद्घोषयन्ति - गङ्गोत्री, ब्रह्मपुत्रा, सिन्धू, कावेरी, कृष्णा, गोदावरी, नर्मदा, सबर्मती इति अष्ट नदीनां नामानि।
जयेन चेन्नै प्रथमस्थाने
-रजीष् नम्पीशः
         पूने > विवो ऐ पि ऐल् २०१८ सपर्यायां अष्ट स्पर्धासु षष्ठं जयं सम्पाद्य चेन्नै दलेन प्रथमस्थानं प्रतिगृहीतम्।ह्यः सम्पन्नक्रीडायां दल्ही दलस्योपरि चेन्नै दलं १३ धावनाङ्कानां विजयं सम्पादयत्।चेन्नै दलाय षैन् वाट्सन् ७८ धावनाङ्कान् सम्पादयत्।नायकः धोनिः ५१ धावनाङ्कैः क्रीडान्तः स्थितः अभवत्।क्रीडापुरुषपुरस्कारः वाट्सनाय लब्धः।अङ्कस्थितिः-चेनै सूपर् किङ्स् २११/४ डेल्ही डेर् डेविर्स् १९८/५.

Monday, April 30, 2018

क्रीडावार्ता-
पादकन्दुकक्रीडायां बार्सिलोना विजिता
     स्पेन्>  स्पानिष् लीग् पादकन्दुक क्रीडायोगे बार्सिलोना विजिता अभवत्। ह्यस्तननिशायां स्पर्धायाम् प्रतिद्वन्दिं डी पोर्टिवो सङ्घं विरुद्ध्य ४-२ गोल् कृत्वा बार्सिलोना २५ वारम् विजिता अभवत्। लयणल् मेसि अस्मिन् स्पर्धायां हाट्रिक् लब्धवान्।
डा विनोवन्  अब्दुल्करीम्
भारतनिरीक्षणाय बाह्याकाशयोजनया पाकिस्थानः।
        इस्लामाबादः> भारतस्योपरि निरीक्षणाय पाकिस्थानेन नूतनी बाह्याकाशपरियोजना समारभ्यते। आगामिनि संवत्सरे ४७० कोटिरुप्यकाणि आर्थसङ्कल्पे स्वीकृतानि । स्पेस् आन्ट् अप्पर् अट्मोस्फियर् रिसर्च् ओर्गनैसेषन्  नाम संस्थया एव अनुसन्धानं क्रियते। अनया योजनया सैनिक-सैनिकेतर आवश्यकानां कृते विदेशोपग्रहाणाम् उपयोगं न्यूनीकरणीयमिति तेषां लक्ष्यम्।
        भारतस्य उपग्रहयोजनां विस्तरेण निरीक्षितुं विशेषयोजनापि निश्चिता इति वार्तापत्रिकाः आवेदयन्ति। पाक् साट् एम् एम् १ इति विविधोद्देश्य उपग्रहमपि विन्यस्तुं लक्ष्यीष्यीक्रियते पाकिस्थानेन।