OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 28, 2018

समारब्धः विश्वसंस्कृत-प्रतिष्ठानस्य सांवत्‍सरीय-समारोहः ॥
किरणकुमारः आर् 
     अम्पलप्पुष़ा> विश्वसंस्कृतप्रतिष्ठानस्य अष्टात्रिंशत् राज्यस्तरीय सांंवत्सरीय-समारोहः अम्बलप्पुषा विद्याधिराजकेन्द्रीय विद्यालये समाारब्धः। राष्ट्रियसंस्कृतसंस्थानस्य कुलसचिवेन डा सुब्रह्मण्यशर्मवर्येण सम्मेलनं समुद्घाटितम्॥ प्रोफः कृष्णकुमारवर्यः पण्डितरत्न्  पुरस्कारेण तथा श्री केरलवर्मा महोदयः सहृदयतिलकम् इति पुरस्कारेण च समादृतौ। संस्कृतभारत्याः अखिलभारतसम्पर्कप्रमुखः श्री प नन्दकुमारवर्यायः मुख्यभाषणमकरोत्।   दिनद्वयात्मक मेलने २०० प्रतिनिधयः भागभाजिनः आसीत् ।
अपत्यानि वाहनं चालयति चेत् पितरौ दण्डितौ भविष्यतः।
         हैदराबाद्> गतागतनियमान् उल्लङ्घ्य बालाः वाहनं चालयन्ति इति अपघातदुर्घटनायाः सङ्ख्या वर्धयति। अतः गतागतनियमः कर्कशतया पालयितुं निश्चित्य नूतननियमः  प्रबलं जातम्। नियमलङ्घकानां पुरतः कर्कशप्रक्रमेण हैदराबादस्य गतागतविभागस्य आरक्षकाः घटीबद्धाः अभवन्। नियमस्य प्रबलतया गतमासद्वयाभ्यन्तरेण षट्विंशति (२६) रक्षाकर्तारः आरक्षकैः ग्रहीताः।
दिनद्वयात् पूर्वं यन्त्र विज्ञानार्थिनोः द्वयोः छात्रयोः अनवधानयान-चालनेन एकस्य अपघातमृत्युः अभवत्। मार्गदुर्घटनां न्यूनीकर्तुम्  उद्दिश्य बालकान् तथा तेषां पितॄन् च उपदेष्टुम् अयं सन्दर्भः उपयुज्यते इति आयोगाध्यक्षः कृष्णकुमारः अवदत्।
कोरियन् अग्रे परं शान्तिदिनानि; राष्ट्रपतिद्वयस्य मेलनं सफलम्। 
          सोल् > आविश्वम् आकांक्षया प्रतीक्ष्यमाणस्य कोरियन् उच्चकोटिसम्मेलनस्य आश्वासप्रदायकः समाप्तिः। दक्षिणोत्तरकोरियाराष्ट्रयोः भूशिरसि सम्पूर्णम् अण्वायुधनिराकरणं सम्पत्स्यति, भूमण्डले सर्वत्र स्थिरां शान्तिं पुनःस्थापयिष्यतीति  प्रख्यापनेन राष्ट्रयुगलस्य राष्ट्रपत्योः उन्नततलमेलनं परिसमाप्तम्। 
      "दौर्भाग्यकराणि गतदिनानि" न पुनरावर्तयितुम् एकमनसा प्रवर्तयिष्यतीति उत्तरकोरियाशासकः 'किं जोङ् उन्' नामकः तथा दक्षिणकोरियाशासकः 'मुन् जे इन्' नामकश्च संयुक्तप्रस्तावेन उक्तवन्तौ। कोरियन् संग्रामं शासकीयतले परिसमापयिष्यतीति ताभ्यां निगदितम्। शुक्रवासरे प्रादेशिकसमयानुसारं नववादने एव कोरियाराष्ट्रयोः सीमनि सैनिकरहितमण्डले 'पान् मुन् जोम्' प्रदेशे  वर्तमाने "शान्तिभवने" आविश्वं प्रतीक्ष्यमाणं मेलनं सम्पन्नम्।
पाक् होक्की कीडकाय भारतहृदयः
     मुम्बै > एकदा असामान्यक्रीडनैः भारतहृदयेषु वेदनां दत्ताय पाकिस्थानस्य भूतपूर्वक्रीडकाय मन्सूर् अहम्मदाय अधुना भारतेन हृदयदानं करणीयम्। हृदयरोगपीडितः सः भारते विदग्धचिकित्सायै वैद्यविसां लब्धुं भारतसर्वकारं प्रति आवेदनं समर्पयत्। तस्मै निशुल्कचिकित्सां दातुं 'होर्टिस्' नामकः आतुरालयसङ्घः सन्नद्धतां प्राकट्यत्। उचितं हृदयं स्वीकर्तुं सङ्घेन मुम्बई,चेन्नै मध्ये च पञ्जीकरणम्‌ अकरोत् इति सङ्घस्य कार्यकर्तृभिः सूचितम्। अधुना मन्सूर् अहम्मदः पाकिस्थाने कराच्च्यां जिन्ना आतुरालये चिकित्सां स्वीकुर्वन् वर्तते। तत्रत्याः वैद्याः एव भारते विदग्धचिकित्सां निरदिशन्। विसा अनुज्ञाविषये भारतसर्वकारस्य निर्णयः प्रधानः वर्तते।
नायकत्वं परिवर्तितम्-विजयः समागतः
 रजीष् नम्पीश ः 
     नवदल्ही > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः सम्पन्नक्रीडायां डेल्ही दलं ५५ धावनाङ्कैः कोल्कत्ता दलं पराजयत्।ह्यः डेल्ही दलं नूतननायकस्य श्रेयस् अय्यरस्य नेतृत्त्वे एव अक्रीडयत्। श्रेयस्‌ अय्यर् ४० कन्दुकेभ्यः ९० धावनाङ्कान् सम्पाद्य डेल्ही दलस्य विजयशिल्पी अभवत्।विजयोऽयं डेल्ही दलस्य आत्माविश्वासम् अवर्धयत्। अङ्कस्थितिः - डेल्ही डेर्डेविल्स् २१९/४ कोल्कत्ता नैट् रैडेर्स् १६४/९.

Friday, April 27, 2018

मेई २८ दिनाङ्के उपनिर्वाचनानि विहितानि।
       नवदेल्ही > राष्ट्रस्य विविधेषु विधानसभा - लौकसभामण्डलेषु म‌ईमासस्य २८ दिनाङ्के उपनिर्वाचनानि भविष्यन्ति। *केरलराज्ये* चेङ्ङन्नूर् मण्डलेन सह बीहारस्य लौकिहत्, झार्खण्डस्य गौमिया, सिल्ली  महाराष्ट्रराज्यस्य पलूस्, कडेगाव् तथा अम्पति (मेघालयः), षाक्कौट् (पञ्चाबः), तरली (उत्तराखंड), नूर्पुरं (उत्तरप्रदेशः), महेश तलं (वंगराज्यं) इत्येतेषु १० विधानसभामण्डलेषु  भण्डारगोण्डिया, पल्गारं  [महाराष्ट्रम्] ,नागालान्ड् [नागालान्ड्], कैरैना [उत्तरप्रदेशः] इत्येतेषु चतुर्षु लोकसभामण्डलेषु च निर्वाचनानि भविष्यनंति।  नामनिर्देशिकीपत्रसमर्पणस्य अन्तिमं दिनं मई १० भवति। मतगणना मई ३१दिनाङ्के च भविष्यति।
कन्दुकप्रेषकाः पुनरपि रक्षकाः
-रजीष् नम्पीशः
      हैदराबाद्‌ > विवो ऐ पि एल् २०१८ सपर्यायां हैदराबाद् दलेन पञ्चाबदलं १३ धावनाङ्कैः पराजितम्।ह्यः सम्पन्नक्रीडायां हैदराबाद् दलं १३२ इति सामान्यं न्यूनाः अङ्काः एव सम्पादिताः।किन्तु कन्दुकप्रेषकाणां सामर्थ्यं  हैदराबाद्‌ दलस्य कृते सहायकम् अभवत्।अनेन विजयेन अ‌ङ्कपट्टिकायां हैदराबाद्‌ दलं द्वितीयस्थानं सम्पादयत्।अङ्कः - स‌ण् रैसेर्स् हैदराबाद्‌ १३२/६ किङ्स् इलवन् पञ्चाब् ११९/१०
अत्यधिकसुरक्षया सह तृतीयपरम्परायाः  मतदानयन्त्रम् आगतम्।
          नवदिल्ली> तृतीय परम्परायाः विद्युतमतदानयन्त्राणि निर्वाचनायोगेन बहिरानीतानि। मार्क् ३ इ वि एम् इति नामाङ्कितः नूतनयन्त्रः शतमानतया संपूर्णरूपेण (१००%) सुरक्षि भवति। येनकेनापि प्रकारेण नाशं न याति, व्याजं कर्तुं न शक्यते,  एते भवतः यन्त्रस्य विशेषता इति निर्वाचनायोगः वदति। 
‍         इलट्रोणिक्स् कोरपरेषन् ओफ् इन्ट्या लिमिट्टड्  (इ सि ऐ एल्) भारत् इलट्रोणिक्स्  लिमिट्टड् च मिलित्वा नूतनयन्त्रस्य निर्माणं अकुरुताम् । येनकेनापि मार्गण त्रुटयः भविष्यन्ति चेत् सा त्रुटिः स्वयमेव प्रत्यभिज्ञात्वा परिहर्तुं सज्जः भवति नूतनः यन्त्रः।  कृत्रिमप्रवर्तनानि निवारयितुं यन्त्रः स्वयमेव सज्जः भवति इति मिर्वाचनायोगाध्यक्षेण उक्तं च।

Thursday, April 26, 2018

सर्वोच्चन्यायालयस्य सम्पूर्णोणोपवेशयनाय प्रार्थयन्ते न्यायाधीशाः
          नवदिल्ली> सर्वोच्चन्यायपीठस्य समस्याः परिहर्तुं सम्पूर्णन्यायालयः आमन्त्रितव्यः इति आवश्येन साकं न्यायाधीशाः । न्यायाधीशाः रञ्जन गोगो तथा मदन बि लोक्कूरश्च एतदुन्नीय मुख्यन्यायाधीशाय दीपकमिश्राय पत्रम् प्रैषयताम्। मुख्यन्यायाधीशं विस्तरेदिति आवश्यमुन्नीय गतदिने विपक्षदलेन निवेदनं दत्तमासीत्।  किन्तु राज्यसभाध्यक्षः वेङ्कय्य नायिडुः तन्निदनपत्रं तिरस्कृतवान्। एतदनुवर्त्य एव सम्पूर्णन्यायालयस्य उपवेशनं
आवश्यकमिति  उन्नीय न्यायाधीशाः पुरतः आगताः। सर्वोच्चन्यायपीठस्य सुरक्षायै भाविने च एतदत्यावश्यकमिति संसूच्यैव न्यायाधीशैः  आवश्यमेतत् पुरस्कृतम्।
          नैके न्यायाधीशाः समानं आवश्यं संसूच्य आगतवन्तश्च। समयेस्मिन् न्या. श्री मिश्रः पत्रस्य प्रतिकरणमेव नादात्। सोमवासरे प्रातः प्रवृत्ते न्यायाधीशानां मेलने तदनन्तरे प्रवृत्ते चायापान वेलायां च सम्पूर्णन्यायालयस्य आह्वयनसम्बद्धान् विषयान् न्यायाधीशाः असूचयन् चेदपि मिश्रया प्रतिकरणं किमपि न कृतम्।  नीतिन्यायव्यवस्थायां सुप्रधानसमस्याः यदा आगच्छन्ति तदा एव  मुख्यन्यायाधीशः सम्पूर्णन्यायालयम् आमन्त्रयति। तदा सर्वोच्चन्यायपीठस्य समस्ताः न्यायाधीशाः  उपवशने  भागं गृह्णीयुरिति नियमः।
विजयः-चेन्नै दलं प्रथमस्थाने
-रजीष्‌ नम्पीशः 
       बङ्गलुरु > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः संवृत्तस्पर्धायां चेन्नैदलेन बाङ्गलुरु दलं पञ्चभिः क्रीडकैः पराजितम्।उद्वेगभरितायां स्पर्धायां भारतस्य भूतूपूर्वनायकस्य एम् एस् धोनिनस्य अद्‌भुतप्रकटनमेव चेन्नै दलस्य कृते उपकारकम् अभवत्।बृहदङ्कान् अनुवर्तमाने सन्दर्भे पराजयमभिमुखीकृतवेलायां धोनिनः मनःसान्निध्यमेव चेन्नै दलस्य विजयकारणम्‌ अभवत्। धोनी ३४ कन्दुकेभ्यः ७० धावनाङ्कैः अपराजितः आसीत्। चेन्नै कृते अम्बाट्टि रायिडु ८२ धावनाङ्कान् प्राप्तवान्।अनेन विजयेन चेन्नै दलम् अङ्‌कपट्टिकायां प्रथमस्थानं प्रापयत्।अङ्काः- बाङ्गलुरु रोयल् चालञ्जेर्स् २०५/८ चेन्नै सूपर् किङ्स् २०८/५  ॥

Wednesday, April 25, 2018

'एफ् आर् एस् सोफ्ट् वेर्' - दिनचतुष्टयेन दिल्ली आरक्षकैः ३००० शिशवः  प्रत्यभिज्ञाताः।
      नवदिल्ली> अप्रत्यक्षाः त्रिसहस्रं शिशवः दिनचतुष्टयाभ्यन्तरे प्रत्यभिज्ञाताः। दिल्लीस्थ आरक्षकविभागस्य नूतनसङ्गणककार्यक्रमेण ( एफ्आर् एस् सोफ्ट्वेर्) विविधबालभवनेषु विद्यमानेषु  पञ्च चत्वारिंशत् (४५०००) बालकेषु त्रिंशदधिकनवशतोत्तरद्विसस्रं (२९३०) बालकबालिकान् प्रत्यभिजानीय तान् स्वस्व गृहं प्रति प्रषितवान्। उच्चन्यायालये प्रदत्ते सत्यवाङ्मूलपत्रे एव स्त्री- शिशु मन्त्रालयेन एवं लिखितम्। मुख-प्रत्यभिज्ञानव्यवस्था उपयुज्य एव दिन-चतुष्टयाभ्यन्तरेण शिशवः संग्रहीताः। सङ्गणक -व्यवस्थायाः परीक्षणार्थम् आसीत् आरक्षकाणाम् अयं प्रक्रमः। अप्रत्यक्षाणां चित्राणि तथा अन्यानि विवरणानि च उपयुज्य  बालभवनेषु संरक्षितानां बालकबालिकयोः मुखरुपस्य उपमानत्वेन प्रत्यभिज्ञाताः। सर्वोच्चन्यायालयस्य आदेशानुसत्य आसीत् अयं प्रक्रमः।
फिजि देशे भूचलनम् - रिक्टर् मापिकायां ५.५  अङ्कितम्
सुव> फिजि देशस्य राजधानी अतिशक्तेन भूचलनेन प्रकम्पितःI रिक्टर् मापिकायां ५.५ इति अङ्कितेन चलनेन जीवापायाः वस्तुनाशाः वा न आवेदितः। सुनामि (अत्यधिक जलोपप्लवः) पूर्व सूचना अपि न प्रदत्ता। 
केरलेषु 'जन् औषधि' योजना दुर्घटावस्थायाम्
     कोच्चि > केन्द्रसर्वकारेण आयोजितायां 'जन् औषधि' पद्धत्याम् अन्तर्भूतानाम् औषधविपणनकेन्द्राणां केरलेषु प्रवर्तनं मन्दगतौ वर्तते। औषधानां लभ्यतायाम् अनुभूयमाना न्यूनता एव मुख्यं कारणम्। वितरणाय आवश्यकानि विविधानि औषधानि न लभ्यन्ते इति विपणनशालाप्रवर्तकाः सूचयन्ति। अधुना ३४० जन् औषधि विपणनशालाः केरलेषु विविधमण्डलेषु प्रवर्तन्ते। एताभ्यः विपणनशालाभ्यः प्रतिमासं पञ्चकोटिरूप्यकाणाम् औषधानि आवश्यकानि सन्ति।सामान्यानां निर्धनरोगिणां कृते महदुपकारिकाः भवन्ति एताः जन् औषधिशालाः। अन्यान् औषधनिर्माणविभागान् अपेक्षया जन् औषधिद्वारा लभ्यमानानाम् औषधानां मूल्यं बहु न्यूनं भवति। औषधानां विपणनाधारेण एव आनुकूल्यं लभ्यते इत्यतः औषधलभ्यता मुख्या इति आपणिकाः अभिप्रयन्ति।

Monday, April 23, 2018

संस्कृतं न केवलं ज्ञानस्य भाषा अपितु विज्ञानस्यापि- भारतराष्ट्रपतिः ।
-पुरुषोत्तम शर्मा -

      नवदिल्ली> श्री लालबहादुरशास्त्री राष्ट्रियसंस्कृतविद्यापीठस्य सप्तदशदीक्षांतसमारोह: अप्रैलमासस्य एकविंशति: दिनांके समायोजित:। दीक्षान्तसमारोहे भारतस्य राष्ट्रपति: श्रीरामनाथकोविन्द: मुख्यातिथित्वेन स्वामी विवेकानन्दयोग-अनुसन्धानसंस्थानस्य कुलाधिपति: डॉ. एच. आर. नागेन्द्र: विशिष्टातिथित्वेन अथ च नीति आयोगस्य सदस्य: डॉ. बिबेकदेबराय: सारस्वतातिथित्वेन उपस्थिता: अभवन् | राष्ट्रपतिना श्रीकोविन्देन दीक्षांतभाषणे प्रोक्तं यत्  संस्कृते भारतस्य आत्मा दृश्यते। एतद् हि विश्वकल्याणाय प्रासंगिकं विद्यते। संस्कृतं न केवलं ज्ञानस्य अपितु विज्ञानभाषा भवति।  छात्रान् प्रेरयता तेनोक्तं यत् ते श्रीलालबहादुरशास्त्रिण: आदर्शान् जीवने आचरन्तु।
डा गङ्गाधरन् नायर महोदयाय महामहोपाध्याय पुरस्काकारं प्रयच्छति।
          आचार्यगंगाधरन् नायर् वर्यः  भारतीयव्याकरण-भाषाविज्ञान- भारतीयदर्शनविचार-पद्धतौ उल्लेखनीययोगदानाय महामहोपाध्यायोपाधिना विभूषित:। कुलपतिना प्रो. रमेशकुमारपाण्डेयेन विद्यापीठस्योपलब्धय: विस्तारपूर्वकं वर्णिता:। समारोहस्य अध्यक्षता कुलाधिपतिना डॉ. हरि-गौतमेन विहिता। दीक्षान्तसमारोहे 2016-17 वर्षे स्वर्णपदकप्राप्तकर्तार: 26 छात्रा: सम्मानिता:। अन्येभ्यश्च छात्रेभ्य: विद्यावारिधि: विशिष्टाचार्य-आचार्य-शिक्षाचार्य-शिक्षाशास्त्री-शास्त्री-वास्तु-पी.जी डिप्लोमा-ज्योतिषप्राज्ञ-ज्योतिषभूषणोपाधय: प्रदत्ता:।
समुद्रः प्रक्षुब्धः-तीरदेशवासिभ्यः जाग्रतानिर्देशः दत्तः।
    तिरुवनन्तपुरम् > केरलेषु समुद्रः प्रक्षुब्धावस्थायां वर्तते  इत्यतः सर्वकारेण तीरदेशप्रदेशेषु जाग्रतानिर्देशः दत्तः। समुद्रप्रक्षोभेण मत्स्यबन्धनकर्मकराः अतिदुरितमनुभवन्ति। तिरुवनन्तपुरे विष़िञ्ञं, वेली, कोच्चुवेली, अटिमलत्तुरा, वल्लक्कटव् इत्यादिषु प्रदेशेषु समुद्रः प्रक्षुब्धः भवति। एतेभ्यः प्रदेशेभ्यः जनाः दुरिताश्वासकेन्द्रं प्रति परिवर्तिताः। समीपस्थाः विद्यालया: एव दुरिताश्वासकेन्द्ररूपेण निश्चिताः वर्तन्ते।एतावता विंशत्यधिकानां परिवाराणां दुरिताश्वासकेन्द्रं प्रति परिवर्तनम् अभवत्।षष्ट्यधिकानि गृहाणि समुद्रक्षोभेण जलपूर्णानि अभवन्।कर्मकराः मत्स्यबन्धनाय समुद्रं प्रति न गन्तव्याः इति सर्वकारनिर्देशः वर्तते।
 उद्घाटनाय समागतः न्यायाधीशः संस्कृतानुरागेण कार्यशालायाः भागं स्वीकृतवान् ।
      कालटी > कालट्यां आयोजिते सरलमानकसंस्कृतकार्यशालायां सत्रचालकस्य भाषणे तथा  सत्रस्य सारल्ये आकृष्टः न्यायाधीशः वि एन्‌ सत्यानन्दः कार्यशालायाः सम्पूर्णतापर्यन्तं सत्रे पूर्णतया भागभाक् अभवत्।  एतादृशकार्यक्रमाः  अवश्यकाः  इति सत्रे भागं कृत्वा न्यायाधीशेन उक्तम्। प्रातः दशवादने आरब्धायां कार्यशालायां सायं सार्धचतुर्वादनपर्यन्तं सत्राङ्गत्वेन भागं स्वीकृतवानयम् ।
      सरलं संस्कृतं नित्यव्यवहारेण बालकानामपि क्रीडनकवत् कर्तुं शक्यत इति तृप्पूणित्तुरा सर्वकारीयसंस्कृतकलालयस्य ज्योतिषविभागाध्यक्षस्य ई एन् ईश्वरस्य  उक्तितिं श्रुत्वा सत्रे पूर्णतया भागं कर्तुं निश्चितवानासीत् न्यायाधीशः।  ओ एन् जी सि संस्थायाः CSR परियोजनायां संस्कृतसंवर्धनप्रतिष्ठानेन भारतस्य विभिन्नराज्येषु 'सरलमानकसंस्कृतम्' इति नाम्ना  कार्यक्रमाः  आयोजिताः वर्तन्ते। मार्च् मासे आरब्धाः एकदिवसीयाः कार्यशलाः एप्रिल् मासस्य  नवविंशति दिनाङ्के समाप्यते। 

Sunday, April 22, 2018

संस्कृतं जनसामान्यस्य भूषणं भवेत् - न्यायाधीशः वि एन् सत्यानन्दः। 
    कालटी > सरलां संस्कृतभाषां साधारणजनेषु भूषणरूपेण विराजयितुं यत्नः कार्यः इति निवृत्तः न्यायाधीशः वि एन् सत्यानन्दः अवदत्।  'सम्प्रतिवार्ता'याः नेतृत्वे संस्कृतसंवर्धकप्रतिष्ठानस्य सहयोगेन कालटीपुरे आयोज्यमानायाः एकदिवसीयकार्यशालायाः उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। संस्कृतं समाजव्यवहाराय कठिनं क्लिष्टं चेति विभावनां दूरीकर्तुम् अध्यापकैरेव सुकरं साधयेत्  तदिति तेनोक्तम्। सम्प्रतिवार्तापत्रिकायाः मुख्यसम्पादकः अय्यम्पुष़ हरिकुमारः अध्यक्षतामवहत्। कालटी श्रृङ्गेरीमठस्य शोधच्छात्रः श्रीनिवासकारन्तः आशंसां समार्पयत्।सम्प्रतिवार्तायाः निदेशकसमित्यङ्गीभूतौ ऐवर्काल रविकुमारः स्वागतं, पि रती कृतज्ञतां च व्याहृतवन्तौ। 
      विद्यालय-कलालयाध्यापकाः, शोधछात्राः, संस्कृत-पत्रप्रवर्तकाः संस्कृत-लेखकाः इतरे संस्कृतानुरागिणश्च चतुस्सत्रात्मिकायां कार्यशालायां भागमकुर्वन्। पञ्चाशत् जनानां कृते सप्ताहात् पूर्वं आन्तर्जालद्वारा पञ्चीकरणं स्वीकृत्य आयोजिता आसीत् इदं सत्रम्। तथापि बह्व्यः संस्कृतप्रेमिणः पञ्चीकरणं विनापि कार्यशालायां समागताः।
पुरस्कारशोभया गिन्नस् पक्रुः
-रजीष् नम्पीशः

     कोच्ची > कैरली सिनेमाप्रवर्तकाय गिन्नस् पक्रुः इति नाम्ना प्रसिद्धाय अजयकुमाराय विश्वस्य अतिवामनः सिनेमानिदेशकः इति ख्यात्या त्रयः पुरस्काराः लब्धाः। २०१३ तमे वर्षे प्रकाशितस्य  'कुट्टीं कोलुम्' इति नामकस्य चलनचित्रस्य निदेशकत्वनिर्वहणेनैव अजयकुमारः पुरस्काराय अर्हतां प्रापयत्।लिंका बुक् आफ्‌ रेकोर्ड्,यूणिवेर्सल् रेकोर्ड् फारं,बेस्ट् आफ् इण्ड्या रेकोर्ड् इत्यादयः त्रयः पुरस्काराः एव तेन प्राप्ताः।शनिवासरे एरणाकुलं प्रस् क्लब् मध्ये संवृत्ते समारोहे पुरस्कारदानम् अभवत्।एते पुरस्काराः आत्मविश्वासेन कलामण्डले अग्रे गन्तुं प्रचोदनं ददतीति पुरस्कारान् स्वीकृत्य अजयकुमारेण अभिप्रेतम्।