OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 23, 2018

संस्कृतं न केवलं ज्ञानस्य भाषा अपितु विज्ञानस्यापि- भारतराष्ट्रपतिः ।
-पुरुषोत्तम शर्मा -

      नवदिल्ली> श्री लालबहादुरशास्त्री राष्ट्रियसंस्कृतविद्यापीठस्य सप्तदशदीक्षांतसमारोह: अप्रैलमासस्य एकविंशति: दिनांके समायोजित:। दीक्षान्तसमारोहे भारतस्य राष्ट्रपति: श्रीरामनाथकोविन्द: मुख्यातिथित्वेन स्वामी विवेकानन्दयोग-अनुसन्धानसंस्थानस्य कुलाधिपति: डॉ. एच. आर. नागेन्द्र: विशिष्टातिथित्वेन अथ च नीति आयोगस्य सदस्य: डॉ. बिबेकदेबराय: सारस्वतातिथित्वेन उपस्थिता: अभवन् | राष्ट्रपतिना श्रीकोविन्देन दीक्षांतभाषणे प्रोक्तं यत्  संस्कृते भारतस्य आत्मा दृश्यते। एतद् हि विश्वकल्याणाय प्रासंगिकं विद्यते। संस्कृतं न केवलं ज्ञानस्य अपितु विज्ञानभाषा भवति।  छात्रान् प्रेरयता तेनोक्तं यत् ते श्रीलालबहादुरशास्त्रिण: आदर्शान् जीवने आचरन्तु।
डा गङ्गाधरन् नायर महोदयाय महामहोपाध्याय पुरस्काकारं प्रयच्छति।
          आचार्यगंगाधरन् नायर् वर्यः  भारतीयव्याकरण-भाषाविज्ञान- भारतीयदर्शनविचार-पद्धतौ उल्लेखनीययोगदानाय महामहोपाध्यायोपाधिना विभूषित:। कुलपतिना प्रो. रमेशकुमारपाण्डेयेन विद्यापीठस्योपलब्धय: विस्तारपूर्वकं वर्णिता:। समारोहस्य अध्यक्षता कुलाधिपतिना डॉ. हरि-गौतमेन विहिता। दीक्षान्तसमारोहे 2016-17 वर्षे स्वर्णपदकप्राप्तकर्तार: 26 छात्रा: सम्मानिता:। अन्येभ्यश्च छात्रेभ्य: विद्यावारिधि: विशिष्टाचार्य-आचार्य-शिक्षाचार्य-शिक्षाशास्त्री-शास्त्री-वास्तु-पी.जी डिप्लोमा-ज्योतिषप्राज्ञ-ज्योतिषभूषणोपाधय: प्रदत्ता:।
समुद्रः प्रक्षुब्धः-तीरदेशवासिभ्यः जाग्रतानिर्देशः दत्तः।
    तिरुवनन्तपुरम् > केरलेषु समुद्रः प्रक्षुब्धावस्थायां वर्तते  इत्यतः सर्वकारेण तीरदेशप्रदेशेषु जाग्रतानिर्देशः दत्तः। समुद्रप्रक्षोभेण मत्स्यबन्धनकर्मकराः अतिदुरितमनुभवन्ति। तिरुवनन्तपुरे विष़िञ्ञं, वेली, कोच्चुवेली, अटिमलत्तुरा, वल्लक्कटव् इत्यादिषु प्रदेशेषु समुद्रः प्रक्षुब्धः भवति। एतेभ्यः प्रदेशेभ्यः जनाः दुरिताश्वासकेन्द्रं प्रति परिवर्तिताः। समीपस्थाः विद्यालया: एव दुरिताश्वासकेन्द्ररूपेण निश्चिताः वर्तन्ते।एतावता विंशत्यधिकानां परिवाराणां दुरिताश्वासकेन्द्रं प्रति परिवर्तनम् अभवत्।षष्ट्यधिकानि गृहाणि समुद्रक्षोभेण जलपूर्णानि अभवन्।कर्मकराः मत्स्यबन्धनाय समुद्रं प्रति न गन्तव्याः इति सर्वकारनिर्देशः वर्तते।
 उद्घाटनाय समागतः न्यायाधीशः संस्कृतानुरागेण कार्यशालायाः भागं स्वीकृतवान् ।
      कालटी > कालट्यां आयोजिते सरलमानकसंस्कृतकार्यशालायां सत्रचालकस्य भाषणे तथा  सत्रस्य सारल्ये आकृष्टः न्यायाधीशः वि एन्‌ सत्यानन्दः कार्यशालायाः सम्पूर्णतापर्यन्तं सत्रे पूर्णतया भागभाक् अभवत्।  एतादृशकार्यक्रमाः  अवश्यकाः  इति सत्रे भागं कृत्वा न्यायाधीशेन उक्तम्। प्रातः दशवादने आरब्धायां कार्यशालायां सायं सार्धचतुर्वादनपर्यन्तं सत्राङ्गत्वेन भागं स्वीकृतवानयम् ।
      सरलं संस्कृतं नित्यव्यवहारेण बालकानामपि क्रीडनकवत् कर्तुं शक्यत इति तृप्पूणित्तुरा सर्वकारीयसंस्कृतकलालयस्य ज्योतिषविभागाध्यक्षस्य ई एन् ईश्वरस्य  उक्तितिं श्रुत्वा सत्रे पूर्णतया भागं कर्तुं निश्चितवानासीत् न्यायाधीशः।  ओ एन् जी सि संस्थायाः CSR परियोजनायां संस्कृतसंवर्धनप्रतिष्ठानेन भारतस्य विभिन्नराज्येषु 'सरलमानकसंस्कृतम्' इति नाम्ना  कार्यक्रमाः  आयोजिताः वर्तन्ते। मार्च् मासे आरब्धाः एकदिवसीयाः कार्यशलाः एप्रिल् मासस्य  नवविंशति दिनाङ्के समाप्यते। 

Sunday, April 22, 2018

संस्कृतं जनसामान्यस्य भूषणं भवेत् - न्यायाधीशः वि एन् सत्यानन्दः। 
    कालटी > सरलां संस्कृतभाषां साधारणजनेषु भूषणरूपेण विराजयितुं यत्नः कार्यः इति निवृत्तः न्यायाधीशः वि एन् सत्यानन्दः अवदत्।  'सम्प्रतिवार्ता'याः नेतृत्वे संस्कृतसंवर्धकप्रतिष्ठानस्य सहयोगेन कालटीपुरे आयोज्यमानायाः एकदिवसीयकार्यशालायाः उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। संस्कृतं समाजव्यवहाराय कठिनं क्लिष्टं चेति विभावनां दूरीकर्तुम् अध्यापकैरेव सुकरं साधयेत्  तदिति तेनोक्तम्। सम्प्रतिवार्तापत्रिकायाः मुख्यसम्पादकः अय्यम्पुष़ हरिकुमारः अध्यक्षतामवहत्। कालटी श्रृङ्गेरीमठस्य शोधच्छात्रः श्रीनिवासकारन्तः आशंसां समार्पयत्।सम्प्रतिवार्तायाः निदेशकसमित्यङ्गीभूतौ ऐवर्काल रविकुमारः स्वागतं, पि रती कृतज्ञतां च व्याहृतवन्तौ। 
      विद्यालय-कलालयाध्यापकाः, शोधछात्राः, संस्कृत-पत्रप्रवर्तकाः संस्कृत-लेखकाः इतरे संस्कृतानुरागिणश्च चतुस्सत्रात्मिकायां कार्यशालायां भागमकुर्वन्। पञ्चाशत् जनानां कृते सप्ताहात् पूर्वं आन्तर्जालद्वारा पञ्चीकरणं स्वीकृत्य आयोजिता आसीत् इदं सत्रम्। तथापि बह्व्यः संस्कृतप्रेमिणः पञ्चीकरणं विनापि कार्यशालायां समागताः।
पुरस्कारशोभया गिन्नस् पक्रुः
-रजीष् नम्पीशः

     कोच्ची > कैरली सिनेमाप्रवर्तकाय गिन्नस् पक्रुः इति नाम्ना प्रसिद्धाय अजयकुमाराय विश्वस्य अतिवामनः सिनेमानिदेशकः इति ख्यात्या त्रयः पुरस्काराः लब्धाः। २०१३ तमे वर्षे प्रकाशितस्य  'कुट्टीं कोलुम्' इति नामकस्य चलनचित्रस्य निदेशकत्वनिर्वहणेनैव अजयकुमारः पुरस्काराय अर्हतां प्रापयत्।लिंका बुक् आफ्‌ रेकोर्ड्,यूणिवेर्सल् रेकोर्ड् फारं,बेस्ट् आफ् इण्ड्या रेकोर्ड् इत्यादयः त्रयः पुरस्काराः एव तेन प्राप्ताः।शनिवासरे एरणाकुलं प्रस् क्लब् मध्ये संवृत्ते समारोहे पुरस्कारदानम् अभवत्।एते पुरस्काराः आत्मविश्वासेन कलामण्डले अग्रे गन्तुं प्रचोदनं ददतीति पुरस्कारान् स्वीकृत्य अजयकुमारेण अभिप्रेतम्।

Saturday, April 21, 2018

  संस्कृत-पत्रकारितायै अय्यम्पुष़ हरिकुमाराय अम्बेद्कर् हयर् एक्सलन्स्  पुरस्कारः।

    अनन्तपुरी > विशेष प्रवर्तनाय डा बि आर् अंबेदकरस्य नाम्नि  दीयमानपुरस्कारेषु पत्रकारिताविभागस्य पुरस्कारेण  'सम्प्रतिवार्ता'याः मुख्यसम्पादकः अय्यम्पुष़ हरिकुमारः समादृतः। अम्बेद्कर् जयन्ती समारोहसमित्या एव प्रतिसंवत्सरं दीयमानः पुरस्कारः  एवैषः।

      पत्रकारिताप्रवर्तनेषु विशिष्टम् अनुकरणीयं च भवति  सम्प्रतिवार्तायाः प्रवर्तनम् इति समित्यध्यक्षः आर् रामन्कुट्टिमहोदयः उक्वान् । आधुनिकपारिभाषिकसंकेतान् संस्कृतभाषां सन्निवेश्य छात्रेषु प्रचोदनम् उत्पादयन् विश्वे अपि इदंप्रथमतया छात्राः वार्तावतारकरूपेण अनुवर्तमानः 'सम्प्रतिवार्ता' इति ओण्लैन् दिनपत्रिकायाः दृश्यवार्तावाहिनी प्रसरणसंकेतः इत्यादीनि विविधानि योगदानानि परिगण्य  आसीत् पुरस्कारनिर्णयः। 

      अनन्तपुर्यां कनकक्कुन्न् प्रासादे आयोजिते अम्बेक्कर् जयन्ती समारोहे केरलराज्यस्य भूतपूर्व सचिवः मलयालं विश्वविद्यालयस्य भूतपूर्वकुलपतिः कविः के जयकुमारः  पुरस्कारं दत्तवान्।
कोच्चीनगरे अट्टस्य  भूरन्तर्गमनः - निर्माणे अपाकः इति सूच्यते।
      कोच्ची > कलूरस्थ मेट्रोरेल् यान निस्थानस्य समीपे निर्मीयमानः अट्टः भग्नीभूय भूमेः अन्तः प्रविष्टः। अस्य घटनायाः कारणं निर्माणस्य अपाकः इति सूच्यते। आधारविधानस्य क्षमताप्राप्त्याः पूर्वम् उपर्युपरि अट्टनिर्माणं कृतम् इति बलक्षयस्य कारणत्वेन उह्यते।
     अट्ट निर्माणस्वामिनः निर्माणाय परिकल्पितः अधिकारः  कोच्ची कोर्परेषन् अधिकारिभिः प्रतिस्वीकृतः। अस्मिन् घटनायाम् आरक्षकैः विकल्पनियामकविधानं स्वीकृतम्। गुरुवासरे रातौ एव अट्टः भग्नः। भूमेः अन्तर्भागे  त्रिंशत्पादमितेषु गर्ते  पञ्चशतं स्थम्भेषु निर्मितमासीत् अयम् अट्टः।
      अपघातकाले अट्टे कर्मकराः नासन् इत्यनेन जीवहानिः नास्ति। समीपस्थ अट्टाः च भीषायामेव। मार्गस्य पार्श्वे भूभङ्गः दृश्यते। अतः मार्गस्य बलं वर्धापयित्वा एव गतागतस्य पुनस्थापना भविष्यति।
ऐ पि एल् २०१८- शतकशोभया वाट्सन्
-रजीष् नम्पीशः
   पूने > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः सम्पन्नक्रीडायां चेन्नै दलस्य षेयिन् वाट्‌सनेन शतकं प्राप्तम्। सः १०६ धावनाङ्कैः सह अपराजितः आसीत्। स्पर्धायां चेन्नैदलेन राजस्थानदलस्योपरि ६४ धावनाङ्कानाम् उज्ज्वलविजयः प्राप्तः। अङ्कः - चेनै सूपर् किङ्स् २०४/५  राजस्थान्  रोयल्स् १४०/१०.

Friday, April 20, 2018

'लाेय' आदेशस्य प्रखापनानन्तरं सर्वोच्चन्यायालयस्य अन्तर्जालपुटं बलात् नीतम्।
       नवदिल्ली> न्यायाधीशस्य लोयवर्यस्य निधनम् अधिकृत्य स्वतन्त्रान्वेषणं नावश्यकम् इति सर्वोच्चन्यायालयेन आदेशे प्रदत्ते सति न्यायालयस्य अन्तर्जालपुटं चोरितम्। है टेक् ब्रसील् इति अन्तर्जाल चोराः एव घटनायाः पृष्टतः वर्तन्ते। २०१३ तमे संवत्सरे भारतस्य अन्तर्जालपुटेन साकं शताधिकानि अन्तर्जालस्थानानि एतैः चोरितानि। सि बि ऐ संस्थायाः विशेषन्यायालयस्य  न्यायाधिपस्य बि एच् लोयवर्यस्य निधनमधिकृत्य स्वतन्त्रान्वेषणम् आश्यकम् इत्युक्त्वा बहूनि सार्वजनिकपरिदेवनानि लब्धानि। परिदेवनानाम् अवलोकनानन्तरम् न्यायालयेन सर्वं परित्यक्तम् | परिदेवनानां परित्यक्त्यनन्तरं कतिपयनिमिषान्तरेण एव अन्तर्जालस्थानं चोरितम्।
विवो ऐ पि एल् मध्ये गेयिल् ताण्डवम्
रजीश् नम्पीपीशः
       चण्डीगड् > विवो ऐ पि एल् क्रिकेट् २०१८ सपर्यायाम्   पञ्चाबदलस्य कृते क्रिस् गेयिलेन ऐ पि एल् २०१८ मध्ये प्रथमशतकम् प्राप्तम्। ह्यः सम्पन्नक्रीडायां पञ्चाबदलं १५ धावनाड्कैः हैदराबाद्‌दलम् पराजयत्। अङ्काः - किङ्स् इलवन् पञ्चाब्-१९३/३ सण्रैसेर्स् हैदराबाद्-१७८/४ ।

Thursday, April 19, 2018

विद्यालयेषु छात्र-सुरक्षार्थं मार्गरेखा कार्या - सर्वोच्चन्यायालयः। 
     नवदिल्ली > आराष्ट्रं विद्यालयेषु छात्राणां सुरक्षायै क्रियापद्धतिः मासत्रयाभ्यन्तरे सिद्धा कार्या इति केन्द्रसर्वकारं प्रति सर्वोच्चन्यायालयेन आदिष्टम्। 
    गुरुग्रामे विद्यालये हतस्य सप्तवयस्कस्य पितुः केषाञ्चन नीतिज्ञानां च अभियाचनामनुसृत्य एवायम् आदेशः। क्रियापद्धत्यां सर्वकार निजीयमण्डलेषु विद्यमानाः सर्वे विद्यालयाः अन्तर्भाव्याः इति ए . के. गोयल् , आर् एफ् नरिमान् इत्येताभ्यां न्यायाधीशाभ्यां निर्दिष्टम्।
भारत-नेपाल्-चैना  आर्थिकोपकक्षा योजनया चीनः। 
          बैजिङ्ग् > हिमालयस्य मार्गेण भारत -नेपाल् -चीना साम्पत्तिकोपकक्षा इति नवीनयोजनया सह चीनाराष्ट्रः। नेपालराष्ट्रे के.पी. शर्मा उली महोदयस्य नेतृत्वे नूतनसर्वकारस्य प्रवेशनन्तरमेव चीनेन  इयं योजना आविष्कृता इति पि टि ऐ वार्ता संस्थया आवेदिता।
       चैना-नेपाल् राष्ट्रयोः विदेशकार्य मन्त्रिणोः संयुक्तोपवेशने एव अयं निर्देशः समागतः।  गतागत संविधानानाम् उद्कर्षाय अधिककोटिनां 'बेल्ट् आन्ट् रोड्' योजनायाः कृते नेपालचीना सख्यः पूर्वंमेव  हस्ताक्षरीकृतः आसीत्। राष्ट्रियमार्गाः रेल् मार्गाः नौकाश्रयकेन्द्राणि, विमाननिस्थानानि च मिथः बन्धयित्वा एव इयं नूतना योजना। तृभ्यः राष्ट्रेभ्यः अनया योजनया आर्थिकोन्नतिः भविष्यति इति नेपालचीनयोः मतम्। सन्दर्भेऽस्मिन्  योजनायाः सौविध्याय भारतचीनयोः साह्यकरणम्  नेपालेन अभ्यर्थितम्। पूर्वं पाकिस्थान-चीनयोः आर्थिकोपकक्षा भारतेन निवारिता इति निधाय एव नेपालस्य इयम् अर्थना।
बि सि सि ऐ संस्था विज्ञप्त्यधिकार-नियमस्य परिधौ बन्धनीया - नियमायोगः।
        नवदिल्ली> बि सि सि ऐ संस्था अपि विज्ञप्ति अधिकार नियमस्य परिधौ बध्नातुं भारतनियम आयोगेन केन्द्र सर्वकारः निर्दिष्टः। बि सि सि ऐ संस्थायाः परिरक्षायां विद्यमान: राज्य स्तरीय क्रिक्कट संस्थाः अपि विज्ञप्त्यधिकार नियमस्य परिधौ योजनीयमिति न्यायाधीशेन बि चौहानेन अध्यक्षतामलंकुर्विता नियम आयोगेन निर्दिष्टः। एतदर्थं प्रथमतया बि सि सि ऐ संस्थां राष्ट्रियकायिक समितिः इति अङ्गीकरणीया इत्यपि निर्देशे अस्ति।
 उपर्युक्तकार्याणां समवेक्षणाय नियमायोगः सर्वोच्चन्यायालयेन आदिष्टः आसीत्।

Wednesday, April 18, 2018

पलास्तिकस्य अन्तकः अवतरितः। परिस्थितिवादिनः सन्तुष्टाः।
लण्टन् > पलास्तिकस्य अन्त्यं कर्तुं शक्तः 'एन् सैं' नाम विशेषवस्तुः अमेरिका ब्रिट्टन् राष्ट्रयोः वैज्ञानिकैः संवर्धितः। ब्रिट्टणस्य पोर्ट्स् मौत्  विश्वविद्यालयस्य तथा अमेरिक्क राष्ट्रस्य ऊर्ज विभागस्य नाषणल् रिन्यूवबिल् एनर्जी लबोरट्टरी संस्थायाः वैज्ञनिकाः च मिलित्वा एव नूतनं 'एन् सैं'  संवर्धितम्। पलास्तिक कूपीनिर्माणाय उपयुज्यमाना पोलि एत्लीन् टेरिफ़्तलेट् इति वस्तुं व्ययीकर्तुमुपायः भवति नूतनानुसन्धानम् इति समाश्वासाय भवति।

रुप्यकपत्राणि अलभ्यानि - ५०० रुप्यकपत्राणं मुद्रणं पञ्चगुणितं वर्धाप्ययते।
       नवदिल्ली> राष्ट्रे रुप्यकपत्राणाम् आवश्यकता वर्धिता। सन्दर्भेऽस्मिन् पञ्चशतानां (५००) रुप्यकपत्राणां मुद्रणं पञ्चगुणितं वर्धानं कर्तुं सर्व कारेण निश्चितम्। आर्थिकमन्त्रालयस्य सजिवेन सुभाष् चन्द्रगार्गेण आवेदिता इयं वार्ता। राष्ट्रस्य कश्चन भागेषु रुप्यकपत्राणां  दौर्लभ्यं अस्ति इति आवेदनेन भवति अयं निर्णयः। इदानीं प्रतिदिनं पञ्चशतं कोटि रुप्यकाणं नूतनरुप्यकपत्राणि मुद्रणं कुर्वन्ति। एतस्य मुद्रणस्य पञ्चगुणितं  इति वर्धापयितुम् उद्दिशयते । दिनाभ्यन्तरेण एतत् भविष्यति।
        रुप्पकपत्राणां दौर्लभ्यं यथार्थतः नास्ति। अष्टादशलक्षं कोटिरुप्यकाणां पत्राणि इदानीं प्रचाल्यमानानि सन्ति।  आन्ध्राप्रदेशः तेलङ्काना कर्णाटकं मध्यप्रदेशः बीहारः इत्येतेषु राज्येषु रुप्यकपत्राणां दौर्लभ्यं अस्ति इति आवेदनम् आगतम् । अतः एव अधिकाया मुद्रणं करणीयम् इति निश्चयम् अभवत् ।
टि वि आर् षेणायी दिवं गतः। 
     मङ्गलुरु > प्रमुखः पत्रकारप्रवर्तकः  लेखकः च टि वि आर् षेणायी [७७] दिवंगतः। वृक्करोगबाधितः सः मणिप्पाल् कस्तूर्बा मेडिक्कल् कोलेज् आतुरालये चिकित्सायाम् आसीत्।  केरले एरणाकुलं जनपदे चेरायी स्वदेशीयः सः 'दि वीक्' साप्ताहिकस्य सम्पादकः आसीत्। मलयालमनोरमा, मातृभूमी इत्यादिषु पत्रिकासु बहुकालं सेवानिरतः आसीत्। २००३ तमे संवत्सरे पद्मभूषण् पुरस्कारेण आदृतः।   बुधवासरे सायं मृतशरीरंं दिल्लीं  नेष्यति। गुरुवासरे अन्त्येष्टिकर्माणि संपत्स्यन्ति।
डेङ्ग्यु ज्वरं विरुद्ध्य आयुर्वेद औषधं निष्पादितम्।
        बङ्गलूरु> भारतवैज्ञानिकाः डेङ्ग्यु ज्वरं विरुद्ध्य  आयुर्वेदौषधम् निर्मितवन्तः। केन्द्र आयुष्मन्त्रालयस्य  परिरक्षायां वर्तमाना सेन्टर् कौण्सिल् फोर् रिसर्च् इन् आयुर्वेदिक् सयन्स् इति नामिकया संस्थया  एव औषधनिर्माणं कृतम्।
औषधस्य क्षमतानिर्णयाय क्रियाविधयः समारब्धाः। कर्णाटकस्य बल्गामस्थ कोलारस्थयोः औषधकलाशालयोः एव क्षमतापरीक्षा प्रचलति।
       अस्य रोगस्य शमनाय सप्तौषधानां विशेषयोगेन एव औषधनिर्माणं  क्रियते । विश्वे इतःपर्यन्तं अस्य रोगस्यनिवारणाय औषधं न निर्मितम्।  नवति संख्याकानाम् जानानाम् उपरि चिकित्सां प्रचाल्य विजयप्राप्तिः चेत् आगामि संवत्सरे औषधम् अधिकतया निर्मातुम् शक्यते ।

Tuesday, April 17, 2018

सिन्धू-नदीतट-संस्कृतिः ग्रीष्मातपेन नष्टाः - ऐ ऐ टि वैज्ञानिकाः।
         खरग्पुरम्>  ९०० संवत्सरस्य अत्यातपेन सिन्धू नदीतटसंस्कृत्याः नाशः अभवत् इति खरग्पुर ऐ ऐ टि संस्थायाः वैज्ञानिकानां मतम्। तेषाम् अनुसन्धाने ४३५० संवत्सराणां पूर्वं अत्रत्याः संस्कृतिः पूर्णतया नाशं अभवत् इति वदति। गतपञ्चसहस्रं(५०००) संवत्सराणां वृष्टिलभ्यताम् अधिकृत्य भूगर्भ भौमोर्ज-विभागयोः संयुक्तानुसन्धाने एव इदं दर्शनम्।

         अनेन कारणेन हिमालयपर्वतस्थ जलस्रोतांसिरपि शुष्काः अभवत्। एवं सिन्धू-नदीतटनिवासिनः जलम् अन्विष्य पूर्वदक्षिणदिशिं प्रति पलायिताः इति च अध्ययने उच्यते। ले लडाक्कस्थ सोमोरि सरसः पञ्चसहस्रं    संवत्सरस्य वृष्टिमापनं कृत्वा एव अध्ययनफलं प्रकाशितम्।