OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 16, 2018

कोल्कत्त मेट्रो रेल्यानं गुहायां स्थगितम्।
            कोल्क्कत्त> साङ्केतिक भङ्केन  कोल्कत्त मेट्रो रेल्यानं गुहायां स्थगितम्। जनाः स्फाटिक-फलकानि भग्नीकृत्य रक्षां प्राप्तवन्तः। रविवासरे रातौ ९.३० वादने एव घटना जाता। नेताजी रेल् निस्थानस्य समीपे स्थगिते याने  वैद्युताभावेन अन्धकारं व्याप्तम्। यात्रिकाः गवाक्षाणां स्फाटिकफलकानि भग्नीकृत्य रक्षां प्राप्तवन्तः। विंशति निमिषेन सर्वान् बहिरानीतम् इति रेल् अधिकारिणा उक्तम्l कोऽपि व्रणिताः नास्ति इत्यपि तैः उक्तम्। दक्षिणं प्रति स्थगितं गमनं कतिपयनिमिषाभ्यन्तरेण पुनरारब्धम्।
भारतस्य प्रधानमन्त्री अद्य विदेशं प्रतिष्ठति। 
        नवदिल्ली > भारतप्रधानमन्त्री नरेन्द्रमोदी पञ्चदिनात्मकसन्दर्शनाय अद्य प्रतिष्ठति। स्वीडन् ब्रिट्टन् इत्यस्मिन् राष्ट्रद्वये प्रधानमन्त्रिणः पर्यटनं भविष्यति। द्वाभ्यां  राष्ट्राभ्यां सह परस्परसम्बन्धवर्धनार्थं बहूनि कार्याणि चर्चिष्यन्ति। नरेन्द्रमोदिनः प्रथमा स्वीडन् यात्रा भवति। परस्परव्यापारसम्बन्धीनि सम्भाषणानि आयोजितानि सन्तीति अभिज्ञवृत्तैः निगदितम्।
दिल्यां रोहिङ्यानाम्  अभयार्थिसत्रे अग्निबाधा।
         नवदिल्ली > म्यान्मर् राष्ट्रतः आगतानाम् अभयार्थिनां सत्रे अग्निबाधा अजयत। दिल्लीस्थे कलिन्दकुञ्च देशस्थे सत्रे एव अग्निबाधा अभवत्। अद्य प्रभातात् पूर्वं सर्धात्रिवादने (३:३०) अग्निबाधा अभवत्। अतिकठिनपरिश्रमेण दशकलोन षट् वादने अग्निः नियन्त्रण विधेया जाता। एकादश अग्निशमनसेनावृन्दानि मिलित्वा अत्यधिकश्रमेण एव अग्निः विधेयः अभवत्I आपघाते षट्चत्वारिंशत् (४६ ) लघु गृहाणि भस्मीभूतानि। २२८ अभयार्थिनाम् आवासकेन्द्राणि विनष्टानि। किन्तु अपमृत्युः न अभवत्। दिल्ली आरक्षकैः अन्वेषणम् आरब्धम्।

Sunday, April 15, 2018

अम्बेदकरप्रतिमा अयोमयकवचेन बन्धिता; आरक्षकाणां सुरक्षापि विधीता।
-रम्या पि यु
          बदायूम्>उत्तरप्रदेशस्थे बदायूमे अम्बेदकरप्रतिमा अयोमयकवचेन बन्धिता। व्यापकतया अम्बेदकरप्रतिमा: नाशोन्मुखीकृता: इति घटनानाम् अनुवर्तनमिदम् प्रवर्तनम्। प्रतिमाबन्धनस्य पृष्ठत: को वा स्यादिति ज्ञानं नास्ति- आरक्षका: अवदन्। प्रतिमाया: सुरक्षाविधानस्य श्रमस्य भाग: स्यादेदत् प्रवर्तनमिति आरक्षका: निरूपयन्ति। सुरक्षाभागतया त्रयः आभ्यन्तररक्षकाः  प्रतिमायाः समीपं नियुक्ताः ।

Saturday, April 14, 2018

मणिका बत्रायै सुवर्णं - डेबिल् टेन्नीस् स्पर्धायां भारताय लाभः।
        गोल्ड् कोस्ट्> कोमण् वेल्त्त् स्पर्धायां इतिहासं विरच्य भारतस्य टेबिल् टेन्नीस् क्रीडका मणिकाबत्र। कोमण् वेल्त्त्त्री स्पर्धायां टेबिल् टेन्नीस् क्रीडायां सुवर्णपतकं प्राप्ता प्रथमा भारतीयवनिता इति ख्यातिः मणिका बत्रया अवाप्ता। सिंगपुर राष्ट्रस्य ग्यु यु नामिकां विजित्य एव सुवर्णप्राप्तिः। अङ्कः  यथाक्रमं 11-7, 11-6, 11-2. 11-7. भारतस्य चतुर्विंशति (२४) तमं सुवर्णं भवति इदम्।
अमेरिक्का सहकारिणां सहयोगेन सिरियस्योपरि आक्रमणम् अकरोत्।

    वाषिङ्टण् > डूमा देशे रासायुधस्य प्रयोगः कृतः इत्यारोप्य सिरियाराष्ट्रं विरुद्ध्य स्वस्य युद्धसहकारिणः साहाय्येन अमेरिक्का सिरिया राष्ट्रस्योपरि आक्रमणम् अकरोत्। रासायुधानां सम्भृतकेन्दे एव आक्रमणम् अकरोत्। यु एस्, यु के, फ्रान्स् एते भवन्ति संयुक्तसेनादलेषु। आक्रमणस्य वार्ता यू एस् राष्ट्रपतिः ट्रम्पः तथा अन्ये राष्ट्राघिपाः प्रमाणीकृतवन्तः। दमास्कस् प्रदेशात् विस्फोटक शब्दाः श्रूयते इति आवेदनम् अस्ति। दमास्कसस्थ-सिरिय-वैज्ञानिक अनुसन्धानकेन्द्रः आक्रमितः इति 'सिरिय-ओब्सर्वेट्टरि फोर् ह्यूमन् रैट्' नामिका मानवाधिकार-संस्थया आवेदितः।
पाकिस्थानस्य भूतपूर्वप्रधानमन्त्रिणे  नवास् षेरीफाय आजीवनान्तनिरोधः।
        इस्लामबादः> अलीकारोपणविधेयं पाकिस्थानस्य भूतपूर्वप्रधानमन्त्रिणं  नवास् षेरीफं पाकिस्थानीयसर्वोच्चन्यायालयः अयोग्यं अकारयत्।  इदं दण्डनं यावज्जीवं इति रूपेण प्रबलं स्यात्। पानम पत्रिका विवादानन्तरं प्रधानमन्त्रीपदं  परित्यक्तवानासीत्। किन्तु सर्वोच्चन्यायालयस्य विधिनिर्णणयेेन प्रत्यागमन सन्दर्भः अस्तंगतः। पाकिस्थानस्य शासन-संविधानस्य विभागः ६२ (१) एफ् अनुसृत्य आजीवनान्तं निर्वाचनेषु स्पर्धितुं निरोधः एव सर्वोच्चन्यायालयः आदिशत्।  त्रिवारं प्रधानमन्त्रिपदम् अलङ्कृतवान् नवास् षेरीफः।
       पानमा-पत्रीका-विवादानन्तरम् अलीकव्यवहार-पत्रिकायाः पञ्जीकरणकारणेन  स्थानत्यागम् अकरोत्।  अयं व्यवहारः इदानीमपि न्यायालयस्य निर्णयाय वर्तते।

Friday, April 13, 2018

संस्कृते बालसाहित्यमित्याख्या राष्ट्रियसङ्गोष्ठी समायोजिता
विशेषावेदनम्
प्रत्ननगर्यां काञ्चीपुरे गत पञ्चविंशतिवर्षेभ्यः कश्चन मानितविश्वविद्यालयः विराजते श्रीचन्द्रशेखरेन्द्रसरस्वतीविश्वमहाविद्यालय इति नाम्ना। अस्य विश्वविद्यालयस्य संस्कृतभारतीयसंस्कृतिविभागः सर्वदा सर्वथा च संस्कृतस्याभिवर्धने सेवायां च विभिन्नानां संस्थानां सहयोगेन तत्परो भवति। सम्प्रति अनेन विभागेन पाण्डिचेरीस्थ श्री अरविन्द फाउण्डेशन् फोर् इण्डियन् कल्चर् (Sri Aurobindo Foundation for Indian Culture - SAFIC) इत्यस्याः संस्थायाः संस्कृतबालसाहित्यपरिषदा सह अप्रैल्-मासस्य चतुर्थदिनाङ्कादारभ्य षष्टमदिनाङ्कपर्यन्तं संस्कृते बालसाहित्यमित्याख्या राष्ट्रियसङ्गोष्ठी आयोजिता। संस्कृते बालसाहित्यमित्याख्या सङ्गोष्ठी आभारते द्वितीया भवति। अस्याः उद्घाटनं अप्रैल्-मासस्य चतुर्थदिनाङ्के श्रीचन्द्रशेखरेन्द्रसरस्वतीविश्वमहाविद्यालय इति मानितविश्वविद्यालये सञ्जाता।
कार्यक्रममुं विश्वविद्यालयस्य
परमाधिकारी मुख्यन्यायाधीश एवेति सर्वोच्चन्यायालयः।
     नवदिल्ली> पीठिकारूपीकरणे दण्डनविधीन्‌ विभक्तुञ्च अधिकारः मुख्यन्यायाधीशस्येति सर्वोच्चन्यायालयः। मुख्यन्यायाधीशस्य पीठे द्वौ ज्येष्ठन्यायाधीशौ योजनीयौ इति निवेदनं अवलोक्य एव न्यायालयस्य अयं आदेशः। लख्नौ स्वदेशिना अशोकपाण्डे नामकेन समर्पितं निवेदनं एवं तिरस्कृतम्। सर्वोच्चन्यायाधीशस्य दीपकमिश्रस्य आध्यक्ष्ये वर्तमाना पीठिका एव निवेदनं पर्यगणयत्।
   सर्वोवोच्चन्यायालयस्य उच्चन्यायालयस्य च विधीन् परिगणितुम् पीठिकां निर्णेतुञ्च मार्गनिर्देशाः विधेयाः इति अशोकपाण्डे नामकः निवेदनमयच्छत्। उन्नतन्यायालयानां दायित्वम् मुख्यन्यायाधीशे निक्षिप्तं भवति शासनव्यवस्थया। मुख्यन्यायाधीशः एव उन्नतन्यायालयानां नायकः। न्यायालयप्रक्रियायाः सुगमचालनाय नियुक्तः भवति मुख्यन्यायाधीशः इति अशोकपाण्डस्य निवेदनं तिरस्कृत्य न्यायालयः व्यक्तम् अकरोत्।  
राष्ट्रे अर्धभागः अध्यापकाः असंतृप्ताः। 
    नवदिल्ली > भारते सर्वकार - आर्थिकसाह्याधिष्ठित विद्यालयेषु सेवां कुर्वत्ससु अध्यापकेषु अर्धांशः असंतृप्ताः इति एन् सि ई आर् टि संस्थया कृतेन समग्रान्वेषणे स्पष्टीकृतम्। ४३ शतमितम् अध्यापकाः पाठ्यपद्धतेः लक्ष्यं किमिति अज्ञाः भवन्ति।
    ७०१जनपदेषु १,१०,००० विद्यालयेषु ३, ५ , ८ कक्ष्याणां २,७०,०६१ अध्यापकेषु कृतं बृहत्तमं  समग्रान्वीक्षणं भवत्येतत्। ५०.९७% अध्यापकाः सेवायां पूर्णतृप्तिं प्रकाशितवन्तः। ५६.६२% शिक्षकाः पाठ्यपद्धतिलक्ष्यज्ञाः भवन्ति।  *केरले* ७७% अध्यापकाः लक्ष्यज्ञाः सन्ति।  ५२% अध्यापकाः स्वकर्मणि संतृप्ताः भवन्ति! *उत्तरप्रदेशस्य* अवस्था दयनीया भवति। संतृप्ताः केवलं ५% अध्यापकाः। लक्ष्यज्ञाः ३% चI

Thursday, April 12, 2018

अल्जीरिया राष्ट्रे सैनिकविमानापघातः १०० जीवनाशः
         अल्जियेर्स्> अलजीरियराष्ट्रस्य राजधान्याम् अळ्जियेर्स्  नगरे सैनिकविमानापघातेन शताधिकाः मृताः इति आवेदितम्। बुधवासरे प्रभाते बफरिक् सैनिक विमाननिलयस्य समीपे इल्यूषिन् II-76 इति विमानम्  अपतत् ।  १२० आसन्तक्षमता युक्तम् आसीत् विमानम्। दक्षिण-पश्चिम अल्जीरियस्थे बच्चार् नगरं प्रति गम्यमानम् आसीत् विमानम्। विमाननिलयात् उड्डयित्वा तस्मिन् क्षणे एव अधः पतितम्। अपघातस्य कारणं न ज्ञातम्। रक्षाप्रवर्तनानि अनुवर्तन्ते। राजधानीतः ३० किलोमीट्टर् दूरे एव  अपघातस्यस्थानम् । मेडिट्टरेनियन् सागरः अपि विमाननिलयस्य नातिदूरे वर्तते।
'कोमण् वेल्त्' क्रीडाचक्रं - भारतस्य पुरोधावनमनुवर्तते। 
       गोल्ड् कोस्ट् > आस्ट्रेलियायां सम्पद्यमानायां कोमण् वेल्त् राष्ट्राणां क्रीडापरम्परायां १२सुवर्णकीर्तिमुद्राः अभिव्याप्य २४ मुद्राभिः भारतस्य पुरोधावनमनुवर्तते। इदानीमपि भारतं तृतीयस्थानमावहति। ५७ सुवर्णमुद्राभिः सह १४५ मुद्राभिः आस्त्रेलिया एव अग्रे सरति। २५ सुवर्णैः सह ४५कीर्तिमुद्राभिः इङ्लण्ट् राष्ट्रमेव  द्वितीयस्थाने।

Wednesday, April 11, 2018

मुखपुस्तकसुहृद्भिः निजीयसूचनाः अपहार्यमाणा इति निर्धारणम्। 
बोस्टण् > केम्ब्रिज् अनलटिका विवादमनुगम्य 'फेस् बुक्' नामकेन समाजमाध्यमद्वारा व्यक्तीनां गोप्यमानाः  निजीयवृत्तान्ताः अपि अपहार्यन्ते इति न्यूयोर्कस्थस्य स्टान्फड् विश्वविद्यालयस्य केनचन सङ्घेन कृते गवेषणे एवायमधिगमः। 
      फेस् बुक् उपयोक्तॄणां वृत्तान्ताः तेषां सुहृद्भिः प्रसुहृद्भिश्च अपह्रियन्ते इत्येव अधिगमः! सामाजिकमाध्यमेषु अङ्गभूतः तर्हि निजीयं गोप्यवृत्तान्तसंरक्षणं दुष्करमिति सञ्जातम्।
अय्यम्पुष़ हरिकुमाराय दीनदयाल्जी प्रतिभापुरस्कारः।
      कोच्ची > संस्कतभाषायाः कृते इतःपर्यन्तं दत्तं समग्रं योगदानं परिगणय्य 'सम्प्रतिवार्ता'याः मुख्यसम्पादकाय अय्यम्पुष़ हरिकुमाराय दीनदयाल् जी प्रतिभापुरस्कारः दत्तः। सेवाभारती नामिकया सन्नद्धसेवासंस्थया दीयमानः पुरस्कार एवैषः।
     बाबा अटोमिक् रिसर्च् केन्द्रस्य  भूतपूर्वस्य वरिष्ठ वैज्ञानिकस्य डो. सि के के नायर् वर्यस्य अध्यक्षत्वेन रूपवत्कृतया समित्या एव पुरस्कारः निर्णीतः। कविः, संस्कृतगान- नाटकचयिता , संस्कृताध्यापकः, अध्यापक प्रशिक्षणमण्डले अनेन कृतानि श्रेष्ठयोगदानानि , आधुनिकपारिभाषिकसंकेतान् संस्कृतभाषां सन्निवेश्य छात्रेषु प्रचोदनम् उत्पादयन् विश्वे अपि इदंप्रथमतया छात्राः वार्तावतारकरूपेण अनुवर्तमानः 'सम्प्रतिवार्ता' इति ओण्लैन् दिनपत्रिकायाः दृश्यवार्तावाहिनी प्रसरणसंकेतः इत्यादीनि विविधानि योगदानानि परिगण्य  आसीत् पुरस्कार निर्णयः।  
     सेवाभारत्याः अङ्कमाली शाखायाः  सांवत्सरीयाघोषकार्यक्रमे  डो. साजन् नारायणन् वर्येण   पुरस्कारः दत्तः।
राष्ट्रियसुरक्षाबलस्य विशेषकार्यक्रमस्योद्घाटनम् I
 -पुरुषोत्तमशर्मा
     हईद्राबादः > गृहमन्त्री राजनाथसिंह: प्रावोचत् यत् देशे जम्मूकश्मीरमतिरिच्य प्रवर्तमानातङ्किगतिविधय: निराकृता:। असौ गतदिने हैदराबादं निकषा ईब्राहिमपट्टनम् क्षेत्रे एन्.एस्.जी इति राष्ट्रियसुरक्षा-बलस्य विशेषकार्यक्रमम् उद्घाटयति स्म  सामाजिकसञ्चारतन्त्रे आतङ्किगतिविधीनां वृद्धिमालक्ष्य अमुना राष्ट्रियसुरक्षाबलं निजसामरिकप्रौद्योगिकक्षमतानां विस्ताराय समाकारितम् ।
नववर्षाणाम् प्रतीक्षायाः अन्ते भारतसेनायै गोलिकास्त्रप्रतिरोधककञ्चुकप्राप्तिः।

     नवदिल्ली> गोलिकास्त्रप्रतिरोधकं कञ्चुकमावश्यकमिति भारतसेनायाः अपेक्षा नववर्षानन्तरम् सफला भविष्यति। भौमसेनायै एकम् दशांशम् अष्ट षट् ( 1.86) लक्षं गोलिकास्त्रप्रतिरोधकानि कञ्चुकानि क्रेतुम् प्रतिरोधमन्त्रालयः कयाचित् निर्माणशालया सह सम्मतिपत्रे हस्ताक्षरमदात्। ''भारते निर्माणम्''(मेय्क् इन् इन्ड्या) पद्धतिमनुसृत्यैव एतत् सम्मतिपत्रम्। नवत्रिंशदुत्तरषट्शतम् कोटिव्ययेन एस् एम् पी पी प्रैवट् लिमिटड् नाम कार्यशाला एव एतादृशकञ्चुकानां निर्मातारः।वर्षत्रयाभ्यन्तरे एव सम्पूर्णकञ्चुकानां निर्माणं समाप्य सेनायै वितरणं कुर्यादिति कार्यशालावक्तारः अवदन्। सेनामानदण्डाननुसृत्यैव निर्माणम्। बालिस्टिकसंरक्षणाय प्रवर्तमानम् बोरोण् कार्बैड् सेरामिककञ्चुके भविष्यति। एतदतिरिच्य हार्ड् स्टील् कोर् गोलिकास्त्रेभ्यः अपि संरक्षणं दातुं समर्थकं एतत् कञ्चुकम्।

Tuesday, April 10, 2018

'कोमण् वेल्त्' क्रीडाचक्रे भारतं तृतीयस्थानेन पुरोगच्छति। 
         गोल्ड् कोस्ट् > आस्ट्रेलिया राष्ट्रे सम्पद्यमानायां कोमण् वेल्त् राष्ट्राणां क्रीडापरम्परायां दशसुवर्णकीर्तिमुद्राभिः भारतं तृतीयस्थानं प्राप्तम्। ३९ सुवर्णैः सह आस्ट्रेलिया १०६ मुद्राभिः प्रथमस्थाने गच्छति। २२ सुवर्णानि प्राप्य ६३ कीर्तिमुद्राः प्राप्तम् इङ्लण्ट् राष्ट्रं द्वितीयस्थानं च आवहति।
छात्रयानम् अगाधगर्ते पतित्वा ३० मृताः। 
        षिम्ला > हिमाचलप्रदेशे कान्ग्र जनपदे विद्यालयछात्राणां बस् यानं 'आन्पूर् - चम्पा' मार्गमध्ये शतपादपरिमितं गर्तं पतित्वा २७ छात्रान् अभिव्याप्य ३० जनाः मृत्युमुपगताः। यानस्य चालकः, द्वे  अध्यापिके च मृताः। १३ छात्राणाम् अवस्था गुरुतरा वर्तते। 
    'वासिर् रामसिंह पठानिय' स्मारकविद्यालये शिक्षणं कुर्वन्तः नीचतर - उच्चतर स्तरीयाः छात्राः   एव दुर्घटनां प्राप्ताः। विद्यालयात् प्रतिनिवृत्तवेलायामासीत् इयं दुर्घटना।