OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 27, 2018

कर्णाटके निर्वाचनं मेय् १२दिनाङ्के। 
        नवदिल्ली > कर्णाटकराज्ये विधानसभानिर्वाचनं मेय् मासस्य द्वादशतमदिनाङ्के भविष्यति। पञ्चदशतमदिनाङ्के मतगणना भविष्यति। कर्णाटके आहत्य विद्यमानेषु २२५ विधानसभामण्डलेषु एकेनैव सोपानेन निर्वाचनं विधास्यति । निर्वाचनाय विज्ञापनं एप्रिल् १७ तमे दिनाङ्के उद्घोषयिष्यते। सर्वेषु मतदानकेन्द्रेषु 'विविपाट्' यन्त्रस्य साहाय्येन मतदानं विधास्यति।

Monday, March 26, 2018

"डोक्लाम् - यत्किमपि सम्मुखीकर्तुं भारतं सिद्धते"- रक्षामन्त्रिणी। 
           डराडूण् >  चीनाराष्ट्रेण सह अस्वारस्यकारणभूते डोक्लाम् सीमाप्रदेशे यां कामपि अवस्थां सम्मुखीकर्तुं भारतेन सिद्धमिति रक्षामन्त्रिणी निर्मलासीतारामन् महाभागा उक्तवती। जागरूकमस्मद्बलं सीमारक्षणं करिष्यतीति दृढनिश्चयः तया प्रकाशितः। 
       राष्ट्रस्य सैन्यम् आधुनिकीकर्तुं प्रयत्नः प्रचलति। विदेशकार्यमन्त्रिण्यः सुषमास्वराजः आगामिमासे प्रधानमन्त्री नरेन्द्रमोदी जून् मासे च चीनासन्दर्शनं करिष्यति ।
वाहनानि आधारपत्रेण सह बन्धितुम्  ओलोच्यते।
       कोच्ची > सर्वाण्यपि वाहनानि स्वामिनाम् आधारपत्रेण सह बन्धितुम् आलोच्यते केन्द्र आभ्यन्तरमन्त्रालयेन। एतत् अधिकृत्य अध्ययनाय नियुक्तया समित्या कृतनिर्देशमनुसृत्य भवति अयम् उद्यमः। राष्ट्रस्य सकलानां वाहनानां विवरणानि सञ्चयितुं केन्द्रीकृतसंविधानानि आवश्यकानि इति समितेः निर्देशेषु मुख्यः। अस्य सम्पूर्णफलप्राप्तये आधारपत्रेण सह बन्धनम् आवश्यकम्। अधुना वाहनानां विवरणानि राज्यस्तरेषु एव सन्ति। यन्त्रयाननियमस्य एकीकरणेन आराष्ट्रे वाहनानां पञ्चीकरणे अप्रत्यक्ष-यानानां प्रत्यभिज्ञाने च त्वरितफलप्राप्तिः भविष्यति इति समितिना निरीक्षितम्।
पाकिस्थानाय चीनस्य नवीना अग्निसायक-पथक्रमीकरणसुविधा ।
          नवदिल्ली> नूतना अग्निसायक-पथनिर्णयविद्या चीनेन पाकिस्थानाय प्रदत्ता इति आवेदनम्। पाक् सैन्यस्य शक्तीकरणं लक्षीकृत्य एव चीनः आयुध साहाय्यं करोति इति सौत् चैना मोर्णिङ् पोस्ट् पत्रिकया आवेदितम्। चैनीस् अक्कादमि ओफ् सयन्स् संस्थायाः वक्तारं उद्धृत्य एव आसीत् आवेदनम्। नूतनसाङ्केतिकविद्यायै पाकिस्थानेन कति व्ययीकृतम् इति स्पष्टं न। इमां सुविधां उपयोक्तुम् आरब्धं पाकिस्थानेन इति आवेदने अस्ति।
          विश्वस्य प्रप्रथम शब्दातिवेग सायकस्य 'ब्रह्मोस्' नामकस्य परीक्षित विजयस्य ज्ञापनदिने एव नूतनस्य चैनापाक् बान्धवस्य वार्ता बहिरागता। भारतेन निर्मितस्य भूखण्डान्तर अग्निसायकस्य पञ्चमस्य परीक्षण-विक्षेपणानन्तरं मासद्वयम् अतीत्य आसीत् चीनस्य उपर्युक्त संविधानस्य प्रदानम्।

Sunday, March 25, 2018

'केम्ब्रिज् अनलटिक्का' कार्यालयेषु आवेक्षणं संवृत्तम्। 
   लण्टन् > पञ्चकोटि 'फेस् बुक्' उपयोक्तृतॄणां वैयक्तिकसूचनाः अपहृताः इत्यस्मिन् विषये दत्तांशशोधनसंस्थायाः केम्ब्रिज् अनलटिक्का नामिकायाः लण्टनस्थेषु कार्यालयेषु 'ब्रिटीष् एन्फोर्स्मेन्ट्' अधिकरिभिः आवेक्षणं कृतम्। आवेक्षणाय ब्रिटनस्य उच्चन्यायालयेन अनुज्ञा दत्ता आसीत्। 
   सप्तहोराः यावत् अन्वीक्षणम् अनुवर्तितम्। फेस्बुक् उपयोक्तॄतॄणां वैयक्तिकवृत्तान्तान् अपहृत्य अमेरिक्कन् राष्ट्रपतिनिर्वाचनम् अभिव्याप्य विश्वे सर्वेषु प्रमुखनिर्वाचनेषु मतदातॄन् वशीकर्तुम् उपयुक्तवन्तः इति प्रस्तावः एव केम्ब्रिज् अनलटिक्कां विवादास्पदाम् अकरोत्।
केरलीययुवकान् ऐ एस् प्रति नीतवती इत्यस्मिन् विषये यास्मिन् मुहम्मद् इत्यस्यै सप्तवर्षाणां तीक्ष्णकारागारवासः।
        कोच्ची > केरलस्य कासर्गोड् स्वदेशीयान् १५ युवकान् इस्लामिक् स्टेट् [ऐ एस्] नामिकया भीकरसंस्थया  संयोज्य अफ्गानिस्थानं प्रति नीतवती इत्यस्मिन् व्यवहारे यास्मिन् मुहम्मद् नामिका सप्तवर्षाणां तीक्ष्णाय कारागारवासदण्डाय ऐ एन् ए सविशेषन्यायालयेन विहिता। केरलस्य ऐ एन् ए न्यायालयस्य प्रथमः विधिः भवत्येषः। कारागारवासेन सह २५,००० रूप्यकाणां धनदण्डनमपि विहितम्। 
        यास्मिन् अपराधिनीति राष्ट्रिय अन्वेषण विभागेन [ऐ एन् ए] निर्णीतमासीत्। यास्मिन् मुहम्मदस्य पतिः कासर्गोड् स्वदेशीयः अब्दुल् राषिदः अस्ति अस्मिन् व्यवहारे प्रथमा अपराधी। सः अफ्गानिस्थानं प्रति पलायनं कृतवान् स्यात् इति अनुमन्यते।  अफ्गानिस्थाने वर्तमानः एषः इतःपर्यन्तम् अग्रहीतः वर्तते। एतावत्पर्यन्तं अपराधिनं तं गृह्णातुं अधिकारिणः न प्रभवन्ति च।

Saturday, March 24, 2018

गो-खाद्य-विषये  लालु प्रसादाय सप्तवर्षस्य कारागृहदण्डः।
         नवदिल्ली > गो-खाद्य-विषये चतुर्थे न्याय व्यवहारे भूतपूर्वमन्त्रिणे लालु प्रसादाय सप्तवर्षस्य कारागृह दण्डः तथा त्रिंशत् लक्षं धनदण्डः च । राञ्चीस्थ विशेष सि बि ऐ न्यायालयेन एव एषः दण्डितः। १९९५ डिसंबर् १९९६ जनुवरि मासयोः मध्ये दुंक सर्वकारीय वित्तकोशात् ३.१३ कोटि रुप्यकाणि अनुज्ञारहितकार्ये व्ययीकृतानि इति एव व्यवहारास्पदं कारणम्।
           गो-खाद्यविषय-संबन्धतया आहत्य ६ व्यवहाराः सन्ति। अस्मिन् व्यवहारेषु चतुर्थतमस्य न्यायव्यवहारस्य विधिप्रस्तावः भवति अयम्। IPC अनुसृत्य सप्तवर्षाणां अलीकनिवारण नियमानुसृत्य सप्तसंवत्सराणां कारागृहबन्धः च न्यालयेन दण्डितः। दण्डः युगपदेव अनुभवितुं शक्यते।
फ्रान्स् राष्ट्रे भीकराक्रमणं -  बन्धितेषु त्रयः मारिताः। 
              फेब् > फ्रान्स् राष्ट्रस्य दक्षिणपश्चिमप्रविश्यायां फेब् नगरस्थे कस्मिंश्चित् बृहदापणे संवृत्ते भीकराक्रमणे त्रयः जनाः मारिताः। जनान् प्रबन्ध्य कश्चन भीकरः भुषुण्डिप्रयोगं कृतवान्  आसीत्। ऐ एस् भीकरः इति  मन्यमानः एषः पश्चात् आरक्षकैः व्यापादितः।

Friday, March 23, 2018

अस्ति दक्षिणस्यां दिशि नूतना 'वाट्ससाप्' संस्कृतिः।
ट्रैन् टैं इन्फोर्मर् अवार्ड् के के राधाकृष्णाय
एबि डेविड् चुङ्कत्त् महोदयः राधाकृष्णाय पुरस्कारम् प्रयच्छति।  अय्यम्पुष़ हरिकुमारः समीपे।
       कोच्ची > वाड्स् आप् माध्यमे गणनियमविरुद्धतया विज्ञापनानि लघुसंदेशाः वा सदा आगच्छन्ति इत्येतदेव गणपालकानां (goup Admin) शिरोवेदनायाः सामान्यं कारणम्, किन्तु गणनीतिनिर्देशान् पालयित्वा केरलेषु रयिल्वे पासञ्चर् इन्फर्मेषन् सर्वीसस् इति सुज्ञाताः गणाः वर्तन्ते। वाट्सप् गणानां वृन्दः भवति अयम्।

      अधुना अस्मिन् उपशतमिताः गणाः अन्तर्भवन्ति। अतिप्रभाते पञ्चवादनात् आरभ्य गणाङ्गाः प्रवर्तननिरताः भवन्ति। विलम्बेन धावतां रेल् यानानां तत्समया स्थितिः एव अस्मिन् प्रकाश्यते इति एव अस्याः  सुविधायाः विशेषता। रेल् यानस्य निस्थान प्राप्तिः ततः गमनं च तत् समये एव प्राप्यते। रेल् मन्त्रालयस्य अन्तर्जालात् पूर्वं गणेषु रेल् यानस्य स्थितिः लभते इत्येव अस्याः सुविधायाः विशेषता। इतोप्यधिकतया रयिल् वे सम्बन्धवार्ताः च ।
           प्रभाते गृहकर्माणि कृत्वा  यथाकालं रेल्यानं प्रवेष्टुं धावतां स्त्रीणां कृते बह्वी उपकारिणी भवति इयं सुविधा। SMS तथा WhatsApp द्वारा कृतप्रयत्नाय केरलस्य प्रमुखः आभरणव्यवसायी एबि डेविङ् चुङ्कत्त् च साह्यं क्रियते।

       रेल्याने यात्रावेलायां गोविन्द्रचामी नामकस्य  क्रूर भिक्क्षुकस्य आक्रमणेन हतायाः सौम्या नामिकायाः घटनानुबन्धतया आरब्धमिदं वाट्साप् सख्यम्।

       उत्तम-रेल्-समय-प्रदायकाय गणाङ्गाय इदानीम् आरभ्य पुरस्कारः दीयते। अस्मिन् वर्षस्य ट्रयिन् टैं इन्फोर्मर् अवार्ड्  श्री के के राधाकृष्णाय लभते। तृश्शूर् देशीयः एषः अङ्गमालि देशे एव उद्योगं करोति। उपशतसंख्यकानां वाड्सप् वृन्दानां मध्यतः राधाकृष्णः चितः आसीत्। 
कर्ममण्डलपरिवर्तनप्रयत्नः - राष्ट्रे महान् प्रतिषेधः। 
        नवदिल्ली > भारतस्य कर्ममण्डले महत्परिवर्तनाय उद्दिश्यमानं केन्द्रसर्वकारेण विज्ञापितं Industrial Employment (standing orders) Central abutment rule 2018 नामकं कर्मशीलतानियमं विरुध्य राष्ट्रे सर्वत्र कर्मकरसंघटनानां नेतृत्वे महान् प्रतिषेधः जायमानः अस्ति। नूतनीं व्यवस्थामनुसृत्य सर्वेषु उद्योगमण्डलेषु परं चिरस्थायिकर्मणां स्थाने निश्चितकालीनानि  आकुञ्चितकर्माणि एव स्युः। 
            नूतनं नियममनुसृत्य संघटितमण्डलेषु स्थिरस्वभावयुक्तं कर्ममण्डलं समापयिष्यति। प्रतिषेधं दृढीकर्तुं एप्रिल् मासस्य द्वितीयदिनाङ्के राष्ट्रियकर्मविरामः प्रख्यापितः अस्ति।
केन्द्रसर्वकारस्य स्खाल्त्यनिवारणम्। मृतानां भटानां पुत्राणां अध्ययनं मुक्तरूपेण प्रचलति। 
     नवदेहली->वीरमृत्यु वृतानां सैनिकानां दीयमानस्य छात्रवृत्तेः परिधिः सर्वकारेण निष्कासितः। गतवर्षे छात्रवृत्तेः परिधिः १०००० रूप्यकत्वेन सर्वकारेण निश्चितः। सेनाविभागेभ्यः बहु प्रतिषेधे आगते सति पूर्वनिश्चितं सर्वकारेण पुनर्निरीक्ष्य शिक्षाव्ययः पूर्णतया निर्वोढुं सन्नद्धः इति निर्णीतम्। बंग्लादेश युद्धानन्तरं १९७१ तमे वर्षे पद्धतिरियं प्रारब्धा। गतवर्षपर्यन्तं २६८९ छात्रेभ्यः अस्य सौविध्यं अलभत।किन्तु २०१७ जुलाई मासे छात्रवृत्तिः दशसहस्ररुप्यकमेव अधिकाधिकं स्यादिति सर्वकारेण उद्घोषितम्।तेन सर्वकारस्य ३.२ कोटि रूप्यकाणां गुणः जातः।नाविकसेनायाः नेता अड्मिरल् सुनिल् लांबा तदर्थं प्रतिरोधमन्त्रिणे निर्मला सीतारामाय पत्रं अलिखत्।बहु प्रतिषेधानां अन्ते सर्वकारेण निर्णयमिदं पुनर्निश्चितम्।

Thursday, March 22, 2018

सौदीराष्ट्रे शिरोवस्त्रस्य निर्बन्ध: नास्तीति सलमानराजकुमार:।
रम्या पि यु       
        रियाद् >स्त्रीपुरुषयोः मध्ये समाजे समानता एव, तथा स्त्रिय: आच्छादकवस्त्रं शिरोवस्त्रं च धरेदिति निर्बन्धोपि नास्ति इति सौदीराष्ट्रस्य राजकुमार: मुहम्मद् बिन् सलमान् अभिप्रैति। चत्वारिंशत् वर्षेभ्य: पूर्वं सौदी अरेब्या साधारणमेकं गल्फ् राष्ट्रमासीत्।तदानीं कार्यनिर्वाहकत्वं स्त्रीणां नासीत्। चलच्चित्रशालासु चलनचित्रस्य प्रदर्शनार्थं अनुमतिः नासीत्। कार्यालयादिस्थानेषु स्त्रीकर्मकराः न अनुमन्यन्ते स्म। 
       प्रवृत्ता: काश्चनघटना: अस्य राष्ट्रस्य नूतनमुखमयच्छन्। तत: प्रभृति याथास्थितिकचिन्ता: प्रचारम् प्राप्ता:। स्वपरम्परापि तस्या: चिन्ताधाराया: अनुवर्तका: जाता: इति सत्यम् अभिमुखभाषणे स: असूचयत्।।

Wednesday, March 21, 2018

प्रतीक्षा वृथा जाता - ऐ एस् भीकरैः बन्धिताः ३९ भारतीयाः व्यापादिताः इति सुषमास्वराजः। 
      नवदिल्ली > एकोनचत्वारिंशत् परिवाराणां संवत्सरचतुष्टयं यावत् प्रार्थनानिरतायाः  प्रतीक्षायाः दुःखाश्रुपूर्णः विरामः।  २०१४ तमे वर्षे इराखस्थे मोसूल् प्रदेशात् एे एस् भीकरैः बन्धीभूय कारागारस्थाः ३९ भारतीयाः कर्मकराः व्यापादिताः इति विदेशकार्य मन्त्रिणी सुषमास्वराजः राज्यसभायां स्थिरीकृतवती। एतेषां मृतदेहावशिष्टानि लब्धानि। नितरां दुष्करान्वेषणस्य अन्ते एव शरीरावशिष्टानि लब्धानि। 

   बाग्दाद् मध्ये कृतायां 'डि एन् ए' परिशोधनायाम् एव ते प्रत्यभिज्ञाताः। रक्षाकर्तृजनानां बन्धुजनानां च रक्तसूचकमुपयुज्य आसीत् परिशोधना।
सेनात्रयं एकीभविष्यति। सेनायां पुनः क्रमीकरणं च भविष्यति।
        नवदेहली> सेनाविभागत्रयान् एकस्य छत्रस्य अधोभागमानेतुं केन्द्रप्रतिरोधमन्त्रालयस्य कर्मं प्रारब्धम्। तदर्थं सैनिककमाण्ड् नियमे भेदं करिष्यति।  
       अधुना सेनात्रयस्य प्रववर्तनं व्यत्यस्तं भवति। एकीकरोति चेत् मिलित्वा प्रवर्तनं कर्तुं प्रभवन्ति।इण्डग्रेट्टट् तीयेट्टर कमाण्ड् इति अस्ति अस्य नाम।एतादृशसंविधानं इदानीं आण्डमान् निक्कोबार द्वीपे प्रवर्तते। आण्डमाने २००१ तमे एतत् प्रारब्धम्। 
      चीफ् आफ् टिफन्स् इत्यस्ति नेतुः नाम। एतेन बहु बृहत् परिवर्तनं सैनिकक्षेत्रे आगमिष्यति। पञ्चदशलक्षाधिकसैनिकानां प्रशिक्षणं, सेनाकेन्द्राणां नियन्त्रणं, सेनाप्रवर्तनानां आसूत्रणं इत्यादयः नेतुः अधः आगच्छति।
पूर्वभागे पश्चिमभागे वामभागे च इण्टग्रेट्टर तियेट्टर त्रयं स्थापितं केन्द्रं चिन्तयति।सेनात्रयस्य  सप्तदश कमाण्ट् सन्ति। एतान् तियेट्टरत्रये अानयति। सप्तति राष्ट्रेषु एतादृशं सेनासंविधानं वर्तते। समीपराष्ट्रे चीनाराष्ट्रे पञ्च इण्टग्र्टर तियेट्टर कमाण्ट् सन्ति।

Tuesday, March 20, 2018

'लिङ्गायत्' परं धर्मविशेषः - कर्णाटकसर्वकारस्य अङ्गीकारः। 
      बेङ्गलुरु > कर्णाटकराज्ये प्रबलसमुदायत्वेन वर्तमानाय 'लिङ्गायत्'नामकविभागाय सविशेषं धर्मपदवीं दातुं मुख्यमन्त्रिणा एस् सिद्धरामय्यस्य नेतृत्वे विद्यमानेन सर्वकारेण निश्चितम्। अन्तिमानुमत्यर्थं निर्णयं केन्द्रसर्वकारं प्रति प्रेषितम्। 
     लिङ्गायत् समुदायान्तर्भूताः जनाः पारम्पर्येण महेश्वरभक्ताः खलु।  कर्णाटकस्य  राजनैतिकमण्डले अपि ते प्रबलाः वर्तन्ते। १२ तमशतके जीवनं कृतवतः आत्मीयाचार्यस्य तथा सामाजिकपरिष्कर्तुः बसवण्णा नामकस्य सिद्धान्तानुगामिनः भवन्ति ते। वेदानां प्राधान्यं धार्मिकाचारानुसृताः कार्यक्रमाः च बसवण्णावर्येण  निषिद्धाः।  किन्तु अस्य समुदायस्य अवान्तरविभागः वीरशैवनामकः च शिवभक्तः तथा हैन्दवाचारान् अनुगच्छति च। सर्वकारस्य अस्मिन्  निर्णये वीरशैवविभागः अतृप्तिं प्रतिषेधं च प्रकाशयति स्म।
छत्तीसगढे माओवादिनामात्मसमर्पणम् 
          छत्‍तीसगढ़े कोंडागांवजनपदे १० माओवादिभि: सोमवासरे ईरक्षिणां समक्षम् आत्‍मसमर्पणं कृतम् । एते माओवादिन: बयानेर: बाडेडोंगर: धनोरा क्षेत्रेषु सक्रिया: आसन्। आरक्षिसूत्रानुसारेण एतै: नाओवादिभि: नैका: घटना: समाचरिता: सन्ति। 
         अपरत्र प्रवर्तननिदेशालयेन सूचितं यत् बिहारे वित्‍तीयानियमितताया: अन्वेषणावधौ माओवादिनां वरिष्‍ठनेतृद्वयस्य प्रद्युम्‍नशर्मण: प्रमोदशर्मणश्च अष्टषष्टिलक्षरूप्यकाणां सम्‍पत्ति: स्वायत्तीकृता। यस्मिव्  भूखण्‍डं भवनं कोशागारे सुरक्षितधनराशि: सम्मिलिता:।
         विगतमासे अपि निदेशालयेन झारखण्डस्य माओवादी चमूपते: सन्दीपयादवस्य षडाशीति लक्षरूप्यकाणां सम्पत्ति: स्वायत्ती कृतासीत् ।
क्षुद्रग्रहान् भग्नं कर्तुं बाह्याकाशयानं निर्मातुं 'नासा'
        क्षुद्रग्रहाणां भीषां विरुद्य नासासंस्था सज्जा भविष्यति।  भूरक्षाम् उद्दिश्य बाह्याकाश पाषाणखण्डान् दूरीकर्तुं  तथा भग्नीकर्तुं बृहदाकारकम् आणवबाह्याकाश-यानं निर्मातुमेव नासा संस्थया उद्दिश्यते। हामर् (HAMMER- Hypervelocity Asteroid Mitigation Mission for Emergency Response) इति नामाङ्कितस्य एतत् यानस्य अष्ट टण् मितः भारः अस्ति। घट्टनाय भूमि प्रति आगतान् भीमाकारान् पाषाणघण्डान्  मार्गभ्रंशं कृत्वा अन्यत्र प्रेषयितुं शक्यते अनेन बाह्याकाश यानेन। इदानीं १६०० पादविस्तृतं बेन्नु (Bennu) नाम क्षुद्रग्रहं त्रिषष्टिसहस्रं मैल् वेगेन सूर्यं प्रदक्षिणीक्रियते। भूमीतः ५.४ कोटि दूरे वर्तमानस्य बेन्नु नाम ग्रहस्य भीषा विचिन्त्य एवभवति एतादृशी नूतना योजना ।

Monday, March 19, 2018

उदग्र-छायाग्राहीं उपयुज्य राजभवनस्य छायाग्रहणम् - एकः गृहीतः।
       तिरुवनन्तपुरम् > केरलस्य राजभवनं परिसराणि च उदग्र छायाग्राहीम् उपयुज्य चित्रीकरणं कृतवान् इत्यनेन छायाग्राहकः गृहीतः। रविवासरे प्रातः सप्तवादने एव  इयं घटना अभवत्। समीपस्थे विवाहगृहे सम्पन्ने विवाहोत्सवस्य छायाग्रहणवेलायां नियन्त्रणं विनष्टम् उदग्रयानं राजभवनस्य समीपं प्राप्तम्। अस्मिन् समये राज्यपालः न्याय. पि सदाशिवं राजभवने आसीत् । Z विभागे सुरक्षायां वर्तामानः  भवति राजभवनस्य विशषाथिति प्रकोष्टः, तत्रत्याः छायाग्रहणं दण्डार्हं भवति। नगर आरक्षक-मुख्येन अन्वेषणं आरब्धम्। 
*New word - उदग्रछायाग्राही- Helicam