OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 20, 2018

क्षुद्रग्रहान् भग्नं कर्तुं बाह्याकाशयानं निर्मातुं 'नासा'
        क्षुद्रग्रहाणां भीषां विरुद्य नासासंस्था सज्जा भविष्यति।  भूरक्षाम् उद्दिश्य बाह्याकाश पाषाणखण्डान् दूरीकर्तुं  तथा भग्नीकर्तुं बृहदाकारकम् आणवबाह्याकाश-यानं निर्मातुमेव नासा संस्थया उद्दिश्यते। हामर् (HAMMER- Hypervelocity Asteroid Mitigation Mission for Emergency Response) इति नामाङ्कितस्य एतत् यानस्य अष्ट टण् मितः भारः अस्ति। घट्टनाय भूमि प्रति आगतान् भीमाकारान् पाषाणघण्डान्  मार्गभ्रंशं कृत्वा अन्यत्र प्रेषयितुं शक्यते अनेन बाह्याकाश यानेन। इदानीं १६०० पादविस्तृतं बेन्नु (Bennu) नाम क्षुद्रग्रहं त्रिषष्टिसहस्रं मैल् वेगेन सूर्यं प्रदक्षिणीक्रियते। भूमीतः ५.४ कोटि दूरे वर्तमानस्य बेन्नु नाम ग्रहस्य भीषा विचिन्त्य एवभवति एतादृशी नूतना योजना ।

Monday, March 19, 2018

उदग्र-छायाग्राहीं उपयुज्य राजभवनस्य छायाग्रहणम् - एकः गृहीतः।
       तिरुवनन्तपुरम् > केरलस्य राजभवनं परिसराणि च उदग्र छायाग्राहीम् उपयुज्य चित्रीकरणं कृतवान् इत्यनेन छायाग्राहकः गृहीतः। रविवासरे प्रातः सप्तवादने एव  इयं घटना अभवत्। समीपस्थे विवाहगृहे सम्पन्ने विवाहोत्सवस्य छायाग्रहणवेलायां नियन्त्रणं विनष्टम् उदग्रयानं राजभवनस्य समीपं प्राप्तम्। अस्मिन् समये राज्यपालः न्याय. पि सदाशिवं राजभवने आसीत् । Z विभागे सुरक्षायां वर्तामानः  भवति राजभवनस्य विशषाथिति प्रकोष्टः, तत्रत्याः छायाग्रहणं दण्डार्हं भवति। नगर आरक्षक-मुख्येन अन्वेषणं आरब्धम्। 
*New word - उदग्रछायाग्राही- Helicam
निर्वाचनसज्जीकरणाय आह्वानं कारयत् कोण्ग्रस् प्लीनरि सम्मेलनं समाप्तम्। 
       नवदिल्ली > आगामिसंवत्सरे प्रचाल्यमाणं लोकसभानिर्वाचनं 'कुरुक्षेत्रम्' उपमीय सामाजिकनिर्वाचनाय सन्नद्धाः भवितुं प्रवर्तकान् नेतृजनान् च आह्वयतः राहुलगान्धिनः समापनप्रभाषणेन कोण्ग्रस् दलस्य  सम्पूर्णसम्मेलनं नवदिल्ल्यां समाप्तम्। प्रधानमन्त्रिणं नरेन्द्रमोदिनं तथा भा ज पा दलं च विरुध्य राजनैतिकसङ्ग्रामं महाभारतयुद्धम् उपमीय आसीत् राहुलस्य प्रभाषणम्।
     "कुरुक्षेत्रयुद्धे कौरवाः संघटिताः आर्थिक-सैनिकबलयुक्ताः चासन्। ते तु अधिकारमदोन्मत्ताश्चासन्। तादृशाः भवन्ति नरेन्द्रमोदी बिजेपी नेतारश्च। किन्तु बले स्तोकाः पाण्डवाः सत्यधर्मनीतिपक्षपातिनः आसन्। तथास्ति कोण्ग्रस् दलम्। अस्य धर्मयुद्धः सत्याय भवेत्" राहुलगान्धी अवदत्।
अस्ति पूर्वस्यांदिशि देशभक्तानां ग्रामः।
          अभयनगरम् > वङ्ग-राज्यस्य नादिया जनपदे अभयनगरं नाम ग्रामः अस्ति। अत्रत्याः जनाः एव विश्वे देशभक्तानां गणनायां प्रप्रथमाः। प्रतिदिनं प्रभाते १०.५० वादने सर्वे जनाः भारतस्य राष्ट्रगीतं साभिमानम् आलपति। गृहे विद्यमानाः याने गम्यमानाः पादचारिणाः कर्मकराः एवं सर्वे ग्रामीणाः अवधानतया तिष्ठन्ति। ग्रामस्य प्राथमिक विद्यालयात् राष्ट्रगीतं तस्मिन्नेव  समये प्रवहति। कालान्तरादेव आरब्धा इयं रीतिः इदानीमेव अनुवर्त्यते। ग्रामजनानां शारीरमासकलं विलीना भवति इयं रीतिः। राष्ट्रगीतस्य ५२ क्षणकालं निश्चलं तिष्ठन्ति ते। अभयनगरग्रामस्य प्राथमिक-विद्यालयस्य अध्यापकस्य साफि कुल् इस्लामस्य निर्देशमनुसृत्य एव ग्रामीणाः प्रतिदिनम् एवं कुर्वन्ति। जनानां हृदयेषु राष्ट्रस्नेहं पूरयतुं शक्यते अनेन इति प्रधानाध्यापकः अवदत्I विद्यालयतः उच-भाषिणिद्वारा राष्ट्रगीतश्रवणं यदा भवति तदा एव स्व कर्मात्  प्रतिनिवर्त्य   सर्वे ग्रामीणाः ५२ क्षणं सादरं तिष्ठन्ति। तस्मिन् क्षणे किमपि भवतु तत्र राष्ट्रगीतं विनास्तगनं अनुवर्तते।

Sunday, March 18, 2018

निर्वाचने मतदानपत्रं प्रत्यानेतव्यम्  - कोण्ग्रस्। 
         नवदिल्ली > निर्वाचनप्रक्रियायाः विश्वास्यतां सुतार्यतां च दृढीकर्तुं पूर्वकाले वर्तिता मतदानपत्ररीतिः प्रत्यानेतव्या इति कोण्ग्रस् दलेन अपेक्ष्यते। पारमार्थिकं जनविधिं पराङ्मुखीकर्तुं 'इलक्ट्रोणिक् निर्वाचनयन्त्रे' कृत्रिमप्रवर्तनानि चालयन्तीति बहूनि राजनैतिकदलानि सामान्यजनाश्च आशङ्कन्ते इति कारणतः एव ईदृशम् अपेक्षितमिति कोण्ग्रस् दलस्य 'प्लीनरि' सम्मेलने अङ्गीकृते राजनैतिकोपक्षेपे स्पष्टीक्रियते। 
        केषुचित् राज्येषु विधानसभानिर्वाचने बीजेपी दलेन उज्वलविजये प्राप्ते निर्वाचनयन्त्रे क्रमराहित्यं जातमिति कैश्चित् विपक्षदलैः आक्षिप्तमासीत्। निर्वाचनसंस्थां प्रति आवेदनमपि समर्पितम्। अधुना राष्ट्रस्य प्रमुखेन विपक्षदलत्वेन वर्तमानेन कोण्ग्रस् दलेनापि निर्वाचनयन्त्रं संशयग्रस्तं जातमित्यतः आगामिदिनेषु एतद्विषयमधिकृत्य महती चर्चा प्रतीक्ष्यमाणा अस्ति।
'ऐ एस् एल्' किरीटं चेन्नैन् दलाय। 
         बेङ्गलुरु > "इन्डियन् सूपर्लीग्" पादकन्दुककिरीटं चेन्नैन् एफ् सि दलाय प्राप्तम्। बङ्गुलुरु मध्ये प्रचलितायां ऐ एस् एल् परम्परायाः अन्तिमस्पर्धायां बेङ्गलुरु एफ् सि दलं द्वयं विरुध्य लक्ष्यकन्दुकत्रयेण चेन्नैन् दलं पराजयत्।  चेन्नै दलस्य कृते ब्रसीलियक्रीडकेन मेयिल्सण् आल्व्स् नामकेन लक्ष्यकन्दुकयुगलं प्राप्तम्। राफेल् अगुस्तो नामकेन इतरेणैव ब्रसीलियक्रीडकेन  लक्ष्यकन्दुकान्तरं च प्राप्तम्। द्वितीयवारमस्ति चेन्नैन् दलस्य किरीटप्राप्तिः।
मुंबैय्यां सैनिकशिबिरे आलये अग्निबाधा।
       मुंबै> दक्षिणमुंबै नगरस्थे कोलाब सैनिकप्रदेशे वर्तमानस्य असाये इति मन्दिरस्य तृतीये अट्टे एव अग्निबाधा अभवत्। अफ्गान् महम्मदीय देवालयस्य समीपे एव सैन्यस्य अयम् आलयः वर्तते। शनिवासरे सायंकाले एव अपघातः जातः। चत्वारि अग्निशमन यानानि, चत्वारि अग्नि शमन 'टाङ्रकर्' च मिलित्वा युगपदेव प्रयत्नं कृत्वा अग्निं नियन्त्रितं अकरोत्।
पिहिताः  मद्यशालाः पुनरुद्घाटयितुं मार्गान्तरं दत्वा केरलसर्वकारः। 
     अनन्तपुरी > राष्ट्रिय- राज्यवीथिभ्यः निश्चितदूरानपेक्षितत्वेन पिहिताः सर्वाः 'त्रीस्टार्' मदिराशालाः बियर् वैन् शालाश्च पुनःस्थापयितुं केरले सुपथमायाति। दशसहस्राधिकाः जनसंख्यापरिमिताः सर्वे ग्रामाः दूरपरिधिनियमात् बहिरागमिष्यन्ति। एतादृशान् ग्रामान् नगरप्रदेशान् परिकल्पयितुं स्पष्टीकृत्य सर्वकारस्य आदेशः प्रकाशितः। राज्ये भूरि ग्रामाः अयुतपरिमितजनसंख्यातिरिक्ताः वर्तन्ते। 
       नगरस्वभावीयेषु ग्रामेषु अपि राष्ट्रिय - राज्य्यीयवीथिभ्यः दूरपरिधिम् अपालयन् मद्यविक्रयणशालाः सम्प्रवृत्तनीयाः इति सर्वोच्चन्यायालयस्य आदेशमाधारीकृत्यैव केरलसर्वकारस्य नूतनादेशः।

Saturday, March 17, 2018

विंशति वर्षाणि यावत् मार्गेण धावयिष्यन्ति यानानि। नूतनया  योजनया केन्द्रसर्वकारः।
        नवदिल्ली> अपघातानि न्यूनीकर्तुं यात्रां सुगमां कर्तुं  अन्तरिक्ष-मलिनीकरणानि नियन्त्रण-विधेयानि कर्तुं नूतनया पद्धत्या केन्द्रसर्वकारः। पद्धतिरनुसृत्य बस् ट्रक् लारि टाक्सि वाहनानां आयुः निश्चितम् । विंशति वर्षेभ्यः   उपरि प्रचीनानि वाणिज्य-वाहनानि २०२० तम  संवत्सरानन्तरं धावयितुम्  अनुज्ञा न स्यात्। किन्तु स्वीययानस्य क्षमतापत्रम् अस्ति चेत् पुनरपि उपयोक्तुं शक्यते। प्रधानमन्त्री, गतागत-परिस्थिति-धनमन्त्रिणः नीति आयोगस्य अङ्गाः च मिलित्वा एव निश्चयः स्वीकृतः। नियमस्य प्रबलतायां जायमानायां सत्यां सप्तलक्षं वाणिज्यवाहनानि मार्गतः निष्क्रमिष्यन्ते। विंशति वर्षानन्तरं  यानानां पञ्जीकरणं स्वयमेव निर्गमिष्यति। क्षमतारहित वाहनानि परित्यज्य नूतनानां क्रयणाय काचन न्यूनीकरणप्रक्रिया केन्द्रसर्वकारेण विज्ञापयिष्यते। नूतनानां प्रतिशतं दश इति क्रमेण न्यूनीकरणम् इत्येव भवति निर्देशः।
एन् डि ए सख्यं त्यक्तवता टि डि पि दलेन अविश्वासवादोपक्षेपः समर्पितः। 
    नवदिल्ली > देशीयजनाधिपत्यसख्यं [एन् डि ए] त्यजतीति  प्रख्यापितवत् तेलुगु देशं पार्टीदलं [टि डि पी] केन्द्रसर्वकारं विरुध्य अविश्वासवादोपक्षेपाय निवेदनं समार्पयत्। आन्ध्रप्रदेशराज्याय सविशेषस्थानमावश्यकमिति आवेदने निरस्ते तेलुगुदेशमन्त्रिणः केन्द्रमन्त्रिसभायाः गतसप्ताहे  निराकृताः आसन्। ततः गतदिने आन्ध्रराजधान्याम् अमरावत्यां सख्यत्यागं प्रख्याप्य अविश्वासप्रख्यापनमपि कृतम्। किन्तु अयमुपक्षेपात् केन्द्रसर्वकारस्य भीषा न वर्तते, निश्चितसंख्याबलत्वात्।

Friday, March 16, 2018

कुप्याः जले अधिकतया पलास्तिकवस्तूनि लीयन्ते।
         मियामि> विश्वस्य प्रसिद्धः कूपीजल निर्माण संस्थाभिः मिर्मीयमानेषु  कूपी जलेषु स्वस्थ्यहानिकराणि पलास्तिकमालिन्यानां सन्निधिः अस्ति इति आवेदितः। नवराष्ट्रेषु कृतानां अनुसन्धानानां भीतिदः फलसारः भवति इयम् । न्यूयोर्क् स्टेट् विशवविद्यालयस्य 'मैक्रो प्लास्टिक् रिसर्चर् षेरिमासणस्य नेतृत्वे एव अध्ययनं सम्पन्नम्। प्रमुख कूपीजलम् इति नामै विज्ञाते जले अधिकतया पलास्तिकांशाः वर्तन्ते इति अध्ययनं स्पष्टीक्रियते। 
        ब्रसीलः, चीनः , भारतम्, इन्टोनेष्य, केनिय, लेबनन्, मेक्सिको,  ताय् लान्ट्, यू एस्, एतेभ्यः राष्ट्रेभ्यः स्वीकृतेभ्यः २५० कूपीजल-प्रतिरूपेषु एव अध्ययनं प्रवृत्तम्। अस्मिन् ९३% प्रतिरूपेषु अपि पलास्तिकांशाः सन्ति इति दृष्टम्। अक्वा, अक्वाफिना, डसानि, एवियान्, नेस्ले प्यूर् लैफ्, बिस्लेरि, एपुऱ, जेरोल्टैनर्, मिनल्ब, वहाह इति नामाङ्किताः अस्मिन् पट्टिकायां अन्तर्भूतेषु प्रमुखाः।
‍‍
        एतादृशमालिन्ययुक्तस्य जलस्य उपयोगः 'ओट्टिसं, अर्बुदः, पुरुषेषु वन्ध्यता च जनयितुं मूलकारणं भविष्यति।
प्रतियोगितां विना पञ्चविंशति स्थानाशिनः राज्यसभायै चिताः। 
     नवदिल्ली > नामनिर्देशिकापत्राणां प्रत्यर्पणकाले समाप्ते राष्ट्रस्य षट्भ्यः राज्येभ्यः पञ्चविंशति जनाः राज्यसभां प्रतियोगिरहिताः सन्तः चिताः। केरलस्य भाजपानेता वी. मुरलीधरः, केन्द्रमन्त्रिणौ प्रकाश् जावदेक्करः, रविशङ्करप्रसादः च,  महाराष्टस्य भूतपूर्वः मुख्यमन्त्री नारायण राणे इत्यादयः तेषु अन्तर्भवन्ति।  अस्मिन् मासे २३तमे दिनाङ्के आसीत् ५८ स्थानेषु  निर्वाचनं निश्चितम्। अवशिष्टेषु ३३ स्थनेषां कृते २३तमदिनाङ्के निर्वाचनं भविष्यति।
आर्थिकान्यायः एकत्रिंशत् जनाः राष्ट्रान्तरं गतवन्तः इति सर्वकारः। 
      नवदेहली> आर्थिक अन्यायेन नियमात् शिक्षणात् च रक्षां प्राप्तुं एकत्रिंशत् जनाः राष्ट्रान्तरं गतवन्तः इति सर्वकारस्य प्रतिवेदनम्। विदेशकार्य सहमन्त्रिणा एम्. जे अक्बर् महोदयेन लोकसभायां दत्ता इयं वार्ता।
राष्ट्रान्तरं गतवतां सूच्यां नीरव् मोदी तस्य बन्धुः मेहुल् चोक्सी च अन्तर्भवतः। नीरव् मोद्याः पत्नी अमी नीरव् मोदी, पुत्रः निषाल् मोदी, विजय् मल्या, ललित् मोदी, शस्त्रव्यापारी सञ्जय् भण्डारी इत्येतेषां नामानि अपि सूच्यां सन्ति।
  एते कदा राष्टान्तरं अगच्छन्निति सर्वकारस्य प्रतिवेदने न व्यक्तीकृतम्। विजय् मल्यया सह अन्यान् विदेशादानेतुं निवेदनं सी बी ऐ तः सर्वकारः प्राप्तः।एतानि एतेषां राष्ट्राणां गणनाय प्रेषितानि च। एतेषां अन्यायानां रोधनाय नियमनिर्माणं परिगणयति इति केन्द्रमन्त्रिणा व्यक्तीकृतम्।

Thursday, March 15, 2018

सामूहिक-नवमाध्यमाः शान्तिपालनस्य बाधारूपेण वर्तन्ते - राजनाथ सिंहः।
        नवदिल्ली> सामूहिक-नवमाध्यमाः  शान्तिपालनस्य बाधारूपेण वर्तन्ते इति भारतस्य गृहमन्त्रिणा राजनाथसिंहेन उक्तम्। आतङ्कवादः साम्पदिक दोषकर्मः, उन्मादकवस्तुनाम् उपयेगः,  स्त्रीभ्यः  शिशुभ्यः च विरुद्ध्य  अतिक्रमणानि च रोद्धुं  नवमाध्यमाः बाधारूपेण तिष्ठति इति सः अवदत् । आरक्षकाध्यक्षानां राष्ट्रान्तरदलस्य एष्यापसफिक् रीजणल् कोण्फरन्स् उद्घाटनं कृत्वा भाषमाणः आसीत् राजनाथ सिंहः। २०१३ तमे संवत्सरे मुसाफर् नगर संग्रामस्य सन्दर्भे स्कलित विवरणानि जनानां पुरतः प्रापयन्तुं केचन उद्युतः। एतदर्थं  ते सामूहिक नवमाध्यमाः उपयुक्तवन्तः आसन् इति राजनाथ सिंहः  अवदत् -इति पि टि ऐ वार्ता संस्थया आवेदितम्।

Wednesday, March 14, 2018


स्टीफन् होक्किङ् दिवंगतः। 
      कोच्चि > विश्वप्रसिद्धः भौतिकशास्त्रज्ञः स्टीफन्होक्किङ् केम्ब्रिड्जस्थे स्वभवने दिवंगतः। षट्सप्ततिवयस्कः सः 'मोटोर् न्यूरोण्' नामकरोगबाधितः सन् यौवनारम्भादारभ्य चक्रासन्दमाश्रित्य एव जीवनं यापयन्नासीत्। होक्किङ् वर्यस्य तमोगर्तानि अधिकृत्य स्वाध्यायः गवेषणं च इतःपर्यन्तं वर्तमानं शास्त्रसङ्कल्पं परावर्तयत। 'ब्रीफ् हिस्टरि आफ् टैम्' [कालचरितसंक्षेपः] नामकः ग्रन्थः तेन विरचितेषु ग्रन्थेषु लोकप्रशस्तः अभवत्।
छत्तीसगढ़े मावोवाद्याक्रमणं - नव सि आर् पि एफ् सैनिकानां वीरमृत्युः। 
     राय्पुरम् > छत्तीसगढ राज्ये सुक्मा जनपदे गतदिने मध्याह्ने प्रवृत्तेन मावोवादिनाम् आक्रमणेन नव सि आर् पि एफ् भटाः मृताः। द्वौ व्रणितौ। खनितबोम्बशस्त्राणि अधिगम्य निर्वीर्यतां क्रियमाणं सैनिकवाहनं लक्ष्यीकृत्य मावोवादिनः बोम्बाक्रमणं कृतवन्तः आसन्। 
     'किस्ताराम्-पलोडि' मार्गे आसीत् आक्रमणं प्रवृत्तम्। तत्र परिक्रमणं कृतवतः रक्षाबलस्य २१२तम व्यूहस्य वाहनमेव आक्रमणविधेयमभवत्। ऐ इ डि नामकम् अत्युग्रस्फोटकशेषयुक्तं शस्त्रमुपयुज्य अासीदाक्रमणम्।

Tuesday, March 13, 2018

महाराष्ट्रे कृषकविजयः।
     मुम्बई > महाराष्ट्रं संतप्तं कृत्वा कृषकैः आयोजितस्य प्रक्षोभस्य विजयपूर्णः परिसमाप्तिः। कृषकाणां निवेदनानि सर्वाणि परिहरिष्यतीति राज्यसर्वकारस्य  प्रमाणीकृतविश्वासस्य आधारे १८० कि मी दूरपरिमितं पथसञ्चलनं मुम्बय्यां परिसमाप्तम्। 
      मुम्बई केन्द्रीकृतानां राजनैतिक-सांस्कृतिक-सन्नद्धसंघटनानां सामाजिकजनानां च अत्यपूर्वः अभियोगः अभिनन्दनं च प्रक्षोभकाः कृषकाः संप्राप्ताः इति विज्ञाय मुख्यमन्त्री देवेन्द्रफट्नविस् वर्यः आन्दोलनप्रशमनाय निर्बन्धितः अभवत्। विधानसभासम्मेलनकाले विधानसभोपरोधः आसीत् प्रक्षोभकाणां लक्ष्यम्।