OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 15, 2018

सामूहिक-नवमाध्यमाः शान्तिपालनस्य बाधारूपेण वर्तन्ते - राजनाथ सिंहः।
        नवदिल्ली> सामूहिक-नवमाध्यमाः  शान्तिपालनस्य बाधारूपेण वर्तन्ते इति भारतस्य गृहमन्त्रिणा राजनाथसिंहेन उक्तम्। आतङ्कवादः साम्पदिक दोषकर्मः, उन्मादकवस्तुनाम् उपयेगः,  स्त्रीभ्यः  शिशुभ्यः च विरुद्ध्य  अतिक्रमणानि च रोद्धुं  नवमाध्यमाः बाधारूपेण तिष्ठति इति सः अवदत् । आरक्षकाध्यक्षानां राष्ट्रान्तरदलस्य एष्यापसफिक् रीजणल् कोण्फरन्स् उद्घाटनं कृत्वा भाषमाणः आसीत् राजनाथ सिंहः। २०१३ तमे संवत्सरे मुसाफर् नगर संग्रामस्य सन्दर्भे स्कलित विवरणानि जनानां पुरतः प्रापयन्तुं केचन उद्युतः। एतदर्थं  ते सामूहिक नवमाध्यमाः उपयुक्तवन्तः आसन् इति राजनाथ सिंहः  अवदत् -इति पि टि ऐ वार्ता संस्थया आवेदितम्।

Wednesday, March 14, 2018


स्टीफन् होक्किङ् दिवंगतः। 
      कोच्चि > विश्वप्रसिद्धः भौतिकशास्त्रज्ञः स्टीफन्होक्किङ् केम्ब्रिड्जस्थे स्वभवने दिवंगतः। षट्सप्ततिवयस्कः सः 'मोटोर् न्यूरोण्' नामकरोगबाधितः सन् यौवनारम्भादारभ्य चक्रासन्दमाश्रित्य एव जीवनं यापयन्नासीत्। होक्किङ् वर्यस्य तमोगर्तानि अधिकृत्य स्वाध्यायः गवेषणं च इतःपर्यन्तं वर्तमानं शास्त्रसङ्कल्पं परावर्तयत। 'ब्रीफ् हिस्टरि आफ् टैम्' [कालचरितसंक्षेपः] नामकः ग्रन्थः तेन विरचितेषु ग्रन्थेषु लोकप्रशस्तः अभवत्।
छत्तीसगढ़े मावोवाद्याक्रमणं - नव सि आर् पि एफ् सैनिकानां वीरमृत्युः। 
     राय्पुरम् > छत्तीसगढ राज्ये सुक्मा जनपदे गतदिने मध्याह्ने प्रवृत्तेन मावोवादिनाम् आक्रमणेन नव सि आर् पि एफ् भटाः मृताः। द्वौ व्रणितौ। खनितबोम्बशस्त्राणि अधिगम्य निर्वीर्यतां क्रियमाणं सैनिकवाहनं लक्ष्यीकृत्य मावोवादिनः बोम्बाक्रमणं कृतवन्तः आसन्। 
     'किस्ताराम्-पलोडि' मार्गे आसीत् आक्रमणं प्रवृत्तम्। तत्र परिक्रमणं कृतवतः रक्षाबलस्य २१२तम व्यूहस्य वाहनमेव आक्रमणविधेयमभवत्। ऐ इ डि नामकम् अत्युग्रस्फोटकशेषयुक्तं शस्त्रमुपयुज्य अासीदाक्रमणम्।

Tuesday, March 13, 2018

महाराष्ट्रे कृषकविजयः।
     मुम्बई > महाराष्ट्रं संतप्तं कृत्वा कृषकैः आयोजितस्य प्रक्षोभस्य विजयपूर्णः परिसमाप्तिः। कृषकाणां निवेदनानि सर्वाणि परिहरिष्यतीति राज्यसर्वकारस्य  प्रमाणीकृतविश्वासस्य आधारे १८० कि मी दूरपरिमितं पथसञ्चलनं मुम्बय्यां परिसमाप्तम्। 
      मुम्बई केन्द्रीकृतानां राजनैतिक-सांस्कृतिक-सन्नद्धसंघटनानां सामाजिकजनानां च अत्यपूर्वः अभियोगः अभिनन्दनं च प्रक्षोभकाः कृषकाः संप्राप्ताः इति विज्ञाय मुख्यमन्त्री देवेन्द्रफट्नविस् वर्यः आन्दोलनप्रशमनाय निर्बन्धितः अभवत्। विधानसभासम्मेलनकाले विधानसभोपरोधः आसीत् प्रक्षोभकाणां लक्ष्यम्।
चन्द्रयानम् २ आगामि मासे विक्षिप्यते- ऐ एस् आर् ओ।
         चेन्नै> भारतबाह्याकाशानुसन्धान केन्द्रेण निर्मितः क्रित्रिमोपग्रहः चन्द्रयानं द्वितीयम् इति नामकः एप्रिल् मासे विक्षिप्यते इति अध्यक्षेण डा. शिवेन उक्तम्। चन्द्रस्य उपरितलं सूक्ष्मतया निरीक्षितुं शक्यते अनेन। येनकेनापि कारणेन विक्षेपणं स्थगितं चेदपि अक्टोबर् मासे विक्षेपणं भविष्यति इति डा शिवेन उक्तम्। 
       भ्रमणपथे चन्द्रं परितः भ्रमणाय पेटिका, दक्षिण ध्रुवे अवतारयितुम् उद्दिश्य अवतारिणिका, चन्द्रोपरितलपर्यवेषणाय षट्चक्रिकं विशेषयानम् इति भागत्रयं  वर्तते चन्द्रयाने द्वितीये। चन्द्रोपरितलस्थाः मृदः गुणविशेषान् अपि उपग्रहः ततः प्रेषयिष्यते। चन्द्रयानेन सह वार्ताविनिमयाय जि साट् ६ (GSLV F.08)अपि विक्षेपणाय सज्जीकरिष्यति इति च अध्यक्षेण उक्तम्।

Monday, March 12, 2018

संस्कृतपठनेन मनःसंस्करणं शक्यते- चित्रन् नम्पूतिरिप्पाट्।
            त्रिश्शिवपेरूर्> मनसः शुद्धिधिः शान्त्रिपूर्णजीवने अवश्यं भवति।  संस्कृतपठनेन मनसः सांस्कृतिकभावः वर्धते इति  सांस्कृतिक-शिक्षामण्डलेविचक्षणः चित्रन् नम्पूतिरिप्पापााट् वर्यः अवदत्। विश्वसंस्कृतप्रतिष्ठानस्य तृशूर तालूक् वार्षिकमेलनम् उद्‌‌घााटनं कृत्वा भाषमाणः आसीत् सः। २१ ०.०३.२०१८ शनिवासरे सायं ४.०० वादने तृशूर नगरे लक्ष्मीमण्डपे आसीत् मेलनम् । आयुर्वेदकलाशालाद्ध्यापकः डा. गौरीशङ्करः छात्राणां प्रमाणपत्रवितरणं कृतवान् । जिल्लाशिक्षकप्रमुखः डा. डी प्रकाश् महोदयः मुख्यभाषणं कृतवान् । योगस्य आरम्भात्पूर्वं  प्रकाश् महोदयस्य संस्कृतपाठनमपि आसीत् । रमेष् केचेरी , अजितन् वारियर् च आशंसां समर्पितवन्तौ ।
तेनिदेशे दावाग्न्याम् अन्तर्गतानां  २५ विद्यार्थिनां कृते अन्वेषणम् अनुवर्तते १५ छात्राः रक्षिताः।
          चेन्नै> तमिल्नाट् राज्यस्य तेनी नाम वनप्रदेशे पर्वतारोहणाय गताः छात्राः दावाग्न्न्याम् अन्तर्गताः। एका हता इति आवेदनम् अपि आगच्छति। पञ्चविंशति (२५) छात्राः वने अस्तीति आवेद्यते। वनविभागेन तथा अग्निशमनविभागेन च रक्षा-प्रवर्तनानि कुर्वन्ति।  कुरङ्ङणि वनप्रदेशस्ते कुळुक्पर्वते पर्वतारोहणाय गताः एव अपघाते पतिताः।
 चवारिंशत् (४०) छात्राः संघे आसीत्। तेषु पञ्चदश रक्षिताः। एते अग्निना व्रणिताः। सप्तछात्राः बोडिनाय्क्कन्नूर् सर्वकारीय आतुरालये प्रविष्टाः।
          व्योमसेनायाः उदग्रयानानि राक्षाप्रवर्तनाय आगतानि चेदपि प्रकाशस्य अभावेन रक्षाप्रवर्तनानि स्तगितानि। वनान्तर्भागे अपगतेषु छात्रेषु एकः दूरवाणीद्वारा स्वस्य गृहं आहूय्य अपघातवार्ता न्यवेदिता । तदनन्तरम् इमां घटनां  ज्ञात्वा वनविभागस्य प्रवर्तकैः राक्षाप्रवर्तनानि आरब्धानिI यानगमनमार्गात् पञ्चविंशति किलोमीट्टर् दूरे एव अयम् अपघातदेशः इत्यनेन सुरक्षाप्रवर्तनेभ्यः वैक्लब्यम् अनुभूयन्ते|
 षि जिन् चीनायाः आजीवनान्तचक्रवर्ती। 
         बेय्जिङ् > चीनाराष्ट्रपतिः 'षी जिन् पिङ्' नामकः परं राष्ट्रस्य सर्वाधिपतिः भविष्यति। सः आजीवनान्तं राष्ट्रपतिपदे वर्तितुं राष्ट्रस्य अनुशासननियमः न विघातः भविष्यति। वारद्वयाधिकं एकः राष्ट्रपतिपदमलङ्कर्तुं नार्हतीति तस्य राष्ट्रस्य अनुशासनव्यवस्थां निराकृत्य चीनायाः सामाजिकसभायाः   [नेषणल् पीपिल्स् कोण्ग्रस्] सांवत्सरीयपरिषदा अनुशासनधर्मस्य संशोधनं कृतम्।
      २०१३ तमे अधिकारं प्राप्तस्य षि जिन् पिङ्ङस्य शासनावधिः २०२३ तमे वर्षे समाप्तिं प्राप्स्यति इत्यस्मिन् सन्दर्भे एव प्रमुखोऽयं निर्णयः। २०१२ तमे चैना कम्म्यूणिस्ट् दलस्य सचिवप्रमुखत्वेन अधिकारं प्राप्तः षि जिन् तस्मादारभ्य सर्वान् प्राक्तनाचारान् उल्लङ्घ्य  दलस्य तथा राष्ट्रस्य च एकाधिपतिः भवितुं प्रवर्तनानि तेन आरब्धानि। दलस्य शासनसंविधाने स्वस्य नाम राजनैतिकतत्त्वानि च अन्तर्भाव्य चीनाराष्ट्रपितुः मावो से तूङ् वर्यस्य समानः भवितुमुद्दिश्य तस्य प्रयत्नः सफलो जातः।
न्यूनमर्दः शक्तः संप्राप्यते, केरल-तमिल् नाट् लक्षद्वीप् प्रदेशेषु अतिवर्षस्य वातस्य च साध्यता। 
       अनन्तपुरी > कन्याकुमार्याः दक्षिणाशायां तथा श्रीलङ्कायायाः उत्तरे भागे भारतमहासमुद्रे सञ्जातः न्यूनमर्दः शक्तिं प्राप्नोति। आगामिदिनेषु अतिशक्तयोः वर्षवातयोः साध्यता वर्तते। अतः धीवराः समुद्रगमनात् प्रतिनिवर्तव्याः इति दुरन्तनिवारणसंस्थया तथा पर्यावरणनिरीक्षणकेन्द्रेण च पूर्वसूचना दीयते। 
        श्वः दक्षिणकेरले तथा तमिल्नाटु राज्यस्य दक्षिणप्रान्तेषु च पृथक्कृतः वर्षः भवेत्। आगामिदिनद्वये लक्षद्वीपमण्डले अतिवर्षस्य वातस्य च साध्यता अस्ति।

Sunday, March 11, 2018

मुम्बई लक्ष्यीकृत्य कृषकाणां बृहत्पथसञ्चलनम्। 
        मुम्बई > अखिल भारतीय किसान् सभायाः नेतृत्वे अयुतशः कृषीवलेः आयोज्यमानं पथसञ्चलनं श्वः मुम्बय्यां प्राप्नोति। महाराष्ट्रायां नासिक्तः आरभ्य १८० कि मी दूरमतिक्रम्य पथसञ्चलनं यदा मुम्बय्यां प्राप्स्यति तदा लक्षाधिकं कृषकाः भागं स्वीकुर्युः इति संघाटकैरुक्तम्। 
      कार्षिकनष्टेन आत्महत्यापरम्पराम् अनुवर्तमाने महाराष्ट्रे कृषकाणां दुरितपरिहारमालम्ब्य एव विधानसभां प्रति पथसञ्चलनम् आयोजितम्।
निशित विमर्शनेन भारतम्। स्वयं पराजितात् पाकिस्थानात् अध्येतुं किमपि नास्ति-इति भारतम्
         यु एन् > स्वयमेव पराजितात्‌ पाकिस्थानात् अध्येतुम् विश्वाय किमपि नास्ति इति भारतम् ऐक्य राष्ट्रसभायाम् अवदत्। भारतस्य यू एन् सचिवया मिनी देवी कुमं नामिकया एव पाकिस्थानः एवं आक्रमितः। ऐक्यराष्ट्र सभायां दिनद्वयं यावत् काश्मीरस्य समस्याम् अवतारयितुं पाकिस्थानेन उद्युक्तः आसीत्।
           काश्मीरीजनानां मानवाधिकारः संरक्षणीयः जनाभिलाषं माननीयः इति आसीत् तेषाम् आवश्यः। अतङ्कवादिनः निर्बाधं विहरन्तीं पाकिस्थानतः अध्येतुं विश्वस्य किमपि नास्तीति मिनीदेव्या पाकिस्थानः विमर्शितः।

Saturday, March 10, 2018

त्रिपुरे 'बिप्लब'सर्वकारः अधिकारं प्रापयत्। 
         अगर्तला > त्रिपुरराज्ये प्रथमः बि जे पी सर्वकारः बिप्लव् कुमारदेवस्य मुख्यमन्त्रित्वेन अधिकारं प्राप्तः। राज्यस्य २५ संवत्सराणि यावत् अनुवर्तमानस्य वामपक्षदलीयशासनस्य अन्त्यमभवत्।  बिजेपीदलीयः जिष्णु देव बर्मः उपमुख्यमन्त्रिरूपेण शपथं कृतवान्। आहत्य सप्त  मन्त्रिणः राज्यपालस्य तथागत रोयि वर्यस्य समक्षं शपथवाक्यं कृतवन्तः। प्रधानमन्त्री नरेन्द्रमोद्यादयः प्रमुखाः बी जे पी नेतारः भूतपूर्वः मुख्यमन्त्री मणिक् सर्कारः इत्यादयः कार्यक्रमे सन्निहिताः आसन्।
कारुण्यहत्यायै सर्वोच्चन्यायालयस्य अनुमतिः। 
            नवदिल्ली > कारुण्यहत्यायै सर्वोच्चन्यायालयेन सोपोधिकानुमतिः लब्धा। जीवनप्रतिनिवर्तनम् असाध्यमिति निर्णीताः रुग्णाः निष्क्रियं कारुण्यवधम् [Passive Euthanasia]अर्हन्तीति मुख्यन्यायाधीशस्य दीपक् मिश्रवर्यस्य अाध्यक्षे वर्तमानेन  पञ्चाङ्गशासनानुशासनपीठेन विहितम्। एतदर्थं सर्वकारेण अनुशासनं करणीयम्। किन्तु सक्रियं कारुण्यवधं [Active Euthanasia] नार्हन्तीति नीतिपीठेनोक्तम्। अभिमानपूर्णेन जीवनम् इत्यनेन सह अभिमानपूर्णं मरणमपि मानवस्य अधिकार इति नीतिपीठस्य निरीक्षणस्य आधारे एवायं निर्णय इति स्पष्टीकृतं नीतिपीठेन।
स्वस्य निष्कृतिवर्धनं विरुघ्य कानड देशे  वैद्यानां सविशेषसमरः।
         क्युबेक् सिट्टि> समरः अस्साकं परिचितः।  अधिकारस्यकृते अधिकनिष्कृतेः कृते कर्मसुरक्षायै तथा बस्यान शुल्कवर्धनाय च विविधरीत्या समराः अयोज्यमानाः राष्ट्रः भवति अस्माकं भारतम्। समरभटाः सामान्येन स्वस्य आवश्यकानि उन्नीयन्ते। किन्तु कानडा देशे समरः सविशेषरूपेण भवति। कानड देशस्य क्युबेक्भागे विद्यमानानां वैद्यानां समरः तेषां निष्कृतिः  अधिकतया वर्धापितस्य  सर्वकारप्रक्रमान् विरुद्ध्य भवति। अत्यधिक निष्कृतिः न आवश्यकम् इत्यु क्त्वा शतशतैः भिषग्वरैः हस्ताक्षरीकृतैः निवेदनं सर्वकाराय समर्पितम्। निष्कृतिवर्धन न उत्तम स्वास्थ्य-संविधानमेव आवश्यकम् इति वदन्ति वैद्याः। 
          वैद्यानां निष्कृतिवर्धनाय सर्वकारेण आकलितः सप्तति कोटि डोलर् धनानि अनुवैद्यानां स्वास्थ्य नुबन्धकर्मकराणां च निष्कृति -वर्धनाय उपयोक्तव्यानि इति न्यवेदनस्य मुख्यः  आवश्यः। सर्वकारस्य धनसाह्यः न्यूनीकृतः इत्यनेन रुग्णानां कृते अवश्यसेवां दातुं न शाक्यते इति वैद्याः वदन्ति।

Friday, March 9, 2018

कया स्त्रिया  प्रभावितः सः  इति वनितादिने नरेन्द्रमोदी।
         नवदिल्ली> 'कया अहं प्रभावितः'  इति विश्ववनितादिने प्रकाशयति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। स्वस्य सम्पदखिलं विक्रीय स्वच्छभारतदौत्यस्य भागभाक् अभवत् १०६ वयस्का वृद्धा। एतस्याः स्मृतिः एव प्रधानमन्त्रिणा ट्विट्टर् मध्ये प्रकाशितम्। छत्तीस् गढ् देशवासिनी कुण्वार् भायी नामिका वृद्धा एव मोदिनः मनसि प्रकाशरूपेण तिष्ठति। प्रधानमन्त्रिणः स्वच्छ भारतदौत्यस्य परिरक्षया स्वस्य ग्रामे शौचालयस्य निर्माणाय नेतृस्थानं स्वीकृता भवति इयं स्त्री।
एकाकी भूत्वा यात्रां कृतवत्भ्यः स्त्रीभ्यः पट्टिकायाने षट् शायिकारक्षणः लभन्ते|

         कोच्ची> पट्टिकायाने एकाकी वा स्त्रीणां वृन्दः वा यात्रां कारोति चेत् तेषां कृते षट् संख्या पर्यन्तं शायिकारक्षणानि लभन्ते इति दक्षिणरयिल् संस्थया निष्कर्षिताः। प्रति यानशालां षट् शायिका क्रमेण संक्षेपयिष्यते। वातानुकूलगृहे तृतीये द्वितीये च तिस्रः शायिका इति क्रमेण संक्षेपयिष्यते।
         आर् ए सि पट्टिकायं एकाकिनी भूत्वा स्त्रियः सन्ति चेन् प्रथगणा प्रथम स्थानीयान् विगणय्य स्त्री यात्रिकाय दातव्यं इति रयिल् मन्त्रालयेन निर्दिष्टम्I द्वितीयपरिदृष्टिः वृद्धजनानां कृते एव परिकल्पिता अस्ति। अस्मिन् काले स्त्रियः एकाकी भूत्वा अधिकतया विचरन्ति इति ज्ञात्वा एव रयिल् मन्त्रालयस्य अयम् आदेशः।

Thursday, March 8, 2018

प्रतिमाविध्वंस: गर्हणीयः  प्रधानमन्त्री। 
       नव दिल्ली > राष्ट्रे कतिपयस्थानेषु सामाजिकपरिष्कर्तृृणां नेतॄणां च प्रतिमाविध्वंसनम् अपलपन् प्रधानमन्त्री नरेन्द्रमोदी! एतादृशानां विध्वंसकप्रवर्तनानां विरुध्य तीक्ष्णः क्रियाविधिः आवश्यक इति प्रधानमन्त्री अब्रवीत्!  एतादृशानां घटनानाम् उत्तरदायिनः  जिल्लाधिकारिणः आरक्षकाधिकारिणश्च भवेयुरिति तेन प्रोक्तम्।
          गतदिनेषु त्रिपुरराज्ये लेनिनस्य , तमिल्नाटु मध्ये पेरियार् वर्यस्य , वंगदेशे श्यामप्रसाद् मुखर्जी वर्यस्य, उत्तरप्रदेशे अम्बद्कर् महोदयस्य च प्रतिमाः विध्वसिताः आसन्!