OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 22, 2018

आधारपत्रमिव शिशूनां कृते नूतना प्रत्यभिज्ञानसङ्ख्या।
           नवदिल्ली> शिशूनां कृते  प्रत्यभिज्ञानसङ्ख्या आधारपत्र सङ्ख्या इव  सज्जीक्रियते केन्द्रसर्वकारेण। शिशूनां जननमारभ्य शिक्षा, स्वास्थ्यम् इत्यादि विशेषाः संग्रहीतुम् उद्दिश्यते । किन्तु बयोमेट्रिक् विवरणानि न रेखीक्रियते। 
           शिशूनां जननकाले स्वास्थ्य विभागात् एव संख्या लभते। अनन्तरम् इमानि विवरणानि आधार् संख्यया सह बद्ध्नाति। अतः अस्मिन् संख्यायाम्  समग्रविवरणानि भविष्यति।  राष्ट्रस्य शिशूनां शिक्षा, शिक्षानन्तरं  कर्मरहिनां गणानादिकं च अवगम्यते। अतः शिक्षायाः श्रेष्ठतावर्धनं  भविष्ययोजनायाः आयोजनं च शक्यते।
भारतात् भीत्या चीनेन व्योमसुरक्षा वर्धापिता I
         नवदिल्ली >  भारतात् आक्रमणभीत्या चीनेन सीमायां सुरक्षाप्रक्रमाः वर्धापिता। वार्तामिमां चीनस्य सेनाविभागेन आवेदितम्I जे १० एयर्क्राफ्ट् लघुभारयुक्तः मल्टि रोल् एयर् क्राफ्ट्, जे- ११ एक आसन्दयुक्त एन्जिन्द्वययुक्त एयर् क्राफ्ट् च सीमायां विन्यस्ताः। पीप्पिल्  लिबरेषन् सेनायाः  अन्तर्जालेन संयोज्य एव अस्य प्रवर्तनं सज्जीकृतम् ।
सुप्रसिद्घनटः कमलहासः  नूतराजनैतिकदलं अवातारयत् ।
॥ 'मक्कल् नीति मय्यम्' ॥
                मधुर> दक्षिणभारतस्य विख्यातः नटः कालहासः 'मक्कल् नीति मय्यम्' इति नूतनं राजनैतिकदलम् व्यज्पयत्I दिल्ली मुखयमन्त्री अरविन्द् केजरिवाल्  अन्ये आम आद्मीदल नेतारः च कार्यक्रमे भागभाजः आसन्।  अहं नेता न जनेषु एकः एव।  केरल मुख्यमन्त्रिणः पिणरायि विजयस्य वीडियो सन्देशमपि तत्र प्रदर्शितवान् । भूतपूर्वराष्ट्रपतेः ए पि जे अब्दुल् कलामस्य गृहसन्दर्शनानन्तरमेव राजनैतिक दल प्रख्यापनस्य  प्रारम्भयात्रामारब्धवान् ।

Wednesday, February 21, 2018

महाराष्ट्र सर्वकारस्य  विमाननिर्माणदायित्वं युवकाय।
                मुम्बै> प्रथमविमाननिर्माणेन  सफलताम् अवाप्य अमोल् यादवः।  महाराष्ट्र सर्वकारस्य कृते विमाननिर्माणस्य दायित्वम् इदानीं अमोल् यादवस्य एव। एतदर्थं पञ्चत्रिंशत् कोटिरुण्यकाणि सर्वकारेण प्रदास्यते। अमोलस्य तेर्स्ट् एयर्क्राफ्ट् प्रै. लिमिट्टड्  नाम उद्योग संस्थया निर्मितं षट् यात्रिकणां यात्रासनयुक्तं विमानं व्याेमयान विभागस्य अङ्गीकारम् अवाप्तम्  इत्यनेन एव महाराष्ट्र सर्वकारः सन्धौ  हस्ताक्षरीकृतम्।  योजनायाः कृते पल् गर् जनपदे सप्तपञ्चाशतधिक एकशत (१५७) 'एकर्' परिमितं भूमिं प्रदास्यते। नवदश यात्रारासनयुक्तं विमानमेव (१९) नवीनायां योजनायां प्रथमतया निर्मीयते इति अमोल् यादवेन उक्तम्।
सिरियायाः व्याेमाक्रमणे २०० जनाः हताः।
           गूट्ट> पूर्वगूट्टा देशे सिरियस्य सेनया कृते व्योमाक्रमणेन द्विशतं (२००) जनाः हताः। अस्मिन् मण्डलस्य अवस्था अतीव गुरुतरा इति ऐक्यराष्ट्र संस्थया आवेदितः। रविवासरात् अनुवर्त्यमाणे आक्रमणे सप्तपञ्चाशत् (५७) शिशवः मारिताः इति युद्धनिरीक्षकाः 'सिरियन् ओब्सर्वेट्टरि इति दलेन उच्यते। २०११ तमात् संवत्सरात् आरभ्य विमतसेनायाः नियन्त्रणे भवति पूर्वगूट्टI इदानीम् एतन्मात्रमेव भवति दमास्कसस्य समीपवर्ती विमतानां शक्तिकेन्द्रः।  प्रदेशस्थान् जनान् लक्षीकृत्य क्रियमाणः आक्रमणः झटित्येव स्थगनीयः इति यु एन् समित्या आदिशत्I
केरल संस्कृताध्यापक फेडरेषन् - समितेः राज्य स्तरीय महामेलनं कासरगोड् जनपदे।
                 कासरगोड् > केरलसंस्कृताध्यापक फेडरेषन् समित्याः चत्वा रिंशत् तमं  (४०) राज्यस्तरीय महामेलनं श्वः (२२ दिनाङ्के) समारभ्यते। कासरगोड् नगरपालिकासभायां दिनत्रयात्मकं मेलनं विविधविपुल कार्यक्रमैः सम्पन्नं भविष्यति। शिक्षा-मेलनं केरलराज्यस्य मन्त्रिणा इ. चन्द्रशेखरेण उद्घाट्यते । संस्कृतपण्डितस्य तथा महाजनसंस्कृत कलाशालायाः स्थापकस्य नीर्चाल् श्री खण्डिगे भट्टस्य स्मृतिमण्डपात् प्रज्वालितदीपशिखा प्रयाणेन सह महामेलन कार्यक्रमः समारभ्यते। विविध मण्डलेषु सुज्ञाताः विशेषज्ञाः सभायां भागभाजः भविष्यन्ति।

Tuesday, February 20, 2018

सर्वाशस्तिषु श्रेष्ठा विशाखा मदीया
   
वार्ताहर: मंजू भट्टाचार्य 
कत्तर्> गतदिबसे कतार् (Qatar) प्रदेशे डोहा (Doha ) इति स्थाने 'संस्कृत भारती' नाम्नः समूहः संस्कृतस्य प्रचार-प्रसारणाय 'संस्कृतं दिनम्'  इति एकम् अभिनव प्रतियोगितायाः आयोजनम् अकरोत्। डोहा अञ्चले स्थितं सर्वेषां भारतीयानां विद्यालयानां छात्राः अस्यां स्पर्धायाम् अंशग्रहणम् अकुर्वन्। संस्कृतं दिनम् अनुष्ठाने  सुभाषितानि च लघुकथावाचश्च हस्तलिखनं च संस्कृत - गीतं च नानाविधानि विभागेषु स्पर्धा आयोजितम् आसीत्। 'विशाखा हरिकृष्णनः ' नाम्नः एका द्वादशवर्षिया बाला संस्कृते अनुवादितं " सारे जहाँ से अच्छा हिंदुस्तान हमारा (सर्वलोकेषु रम्यं भारतमस्मदीयं मदीयम् ....)" गीत्वा प्रथमस्थानम् प्राप्तवती। अत्र उल्लेखनीय यत् इदं बहुः लोकप्रियश्च विख्यातः गीतस्य संस्कृतानुवादं भारतवर्षस्य आसामप्रदेशनिवासी रञ्जन बेजबरुआ महाशयेन कृतम्। २०१६ तमे वर्षे इदं गीतं दूरदर्शने प्रसारणम् अभवत्। इदानीं रञ्जन महाशयेन  अनुवादितम् इदं गीतं संस्कृतजगति सर्वाधिकं लोकप्रियं भवति। कनिष्ठा विशाखा इदं गीतं च हस्तलिखनं द्वे क्षेत्रे प्रथमं स्थानम् प्राप्तवती। वालायाः  उत्फुल्लश्च गर्वितः पिता श्रीः एइच् गणपति महाशयः स्वयं अयं सन्देशः पत्रमाध्यमेन गीतानुवादकं प्रेषितवान्। एषा वार्ता सर्वसंस्कृतप्रेमीणां निकटे हि आनन्ददायका।
चीनस्य वण् बल्ट् वण् रोड् योजनायाः प्रत्युत्तरवत् नूतन योजनया सह भरतं यूरोप्यन् यूणियन् च।
          होङ्कोङ् > चीनस्य 'One belt one Road, योजनां विरुद्ध्य स्पर्धितुं निश्चित्य भारतं तथा 'यूरोप्यन् यूणियन्' राष्ट्राश्च नूतना योजना समायोजयति। अमेरिक्क, जप्पान् , ओस्ट्रेलिय, प्रभृतयः राष्ट्राः योजनामधिकृत्य भारतेन सह चर्चाम् अकरोत् इत्यपि सूचना आगच्छति। ओस्ट्रेलिय राष्ट्रस्य प्रधानमन्त्रिणा कृतायां अमेरिकसन्दर्शन वेलायामपि इयं योजनामधिकृत्य चार्चा आसीत् । ईदृशी चर्चा प्रचालयते इति जापानस्य चीफ्‌काबिनट् सेक्रट्टरी योषी गिडे सुगा इत्याख्यः अवदत्।

Monday, February 19, 2018

एकस्मिन् हस्ते अनुजः अन्यस्मिन् हस्तेन टिप्पणी पुस्तके लिखति।
   
               बालकस्य जस्टिनस्य चित्रमिदं तस्य अध्यापिकया सर्वजनिक वाहिन्यां संस्थापितम्। विद्यालयं गन्तुम्  अनीप्सितानां छात्राणाम् अभिप्रेरणात्मकं भवति जस्टिन् नाम बालकस्य इदं चित्रम्। एषः फिलिपैन्स् देशीयः भवति। देशेऽस्मिन् भूरिशिशवः विद्यालयं न गच्छन्ति। ते तेषां सहजातानाम् अनुजानां पालनाय गृहे एव तिष्टन्तः सन्ति। जस्तिनस्य गृहे सर्वे जनाः कर्मकर्तुं गृहात् बहि: गच्छन्ति प्रतिदिनम्। मातामही अपि कर्मकर्तुं गच्छति। अतः अनुजस्य पालनस्य उत्तरदायित्वम् जस्तिनस्य  शिरसि पतितम्। सः सार्थैकवयस्कस्य अनुजेन साकं विधालयं गन्तुं  न्यश्चिनोत्। साल्वेषन् एलिमेन्टरि विद्यालयस्य प्रथमकक्ष्यायाः छात्रः भवति एषः। आर्थिकक्शेन अत्रत्याः जनाः सामान्येन शिशून् विद्यालयं न प्रेषयन्ति।
त्रिपुरायां मतदानं प्रतिशतं ७६। 
           नवदिल्ली > सि पि एम् - भा ज पा दलयोः मुखामुखप्रतियोगिता संवृत्ते त्रिपुराविधानसभानिर्वाचने प्रतिशतं ७६ परिमितं मतदानं संवृत्तम्। गतनिर्वाचने एतत् ९१.८२% आसीत्।  ६० अङ्गयुक्तविधानसभायां ५९ स्थानेष्वेव ह्यः निर्वाचनमभवत्।
शतदिनाभ्यन्तरे कोच्ची याचकमुक्तनगरं भविष्यति। 
          कोच्ची > आरबसमुद्रस्य राणीति कीर्तिमाप्तं कोच्चीनगरं सम्पूर्णयाचकनिरॊधितनगरं कर्तुम् आॊयोजना  आविष्क्रियते। केरल लीगल् सर्वीसस् अतोरिटी नामकस्य नीतिन्यायसाहाय्यसंघटनस्य सेवनमुपयुज्य  शतदिनानात्मकेन यज्ञेनैव लक्ष्यो$यं प्राप्स्यते! 
        राज्यान्तरेभ्यः प्राप्ताः याचकस्त्रियः बालिकाः च स्वदेशं प्रापयितुं यत्नः करिष्यते। वीथिषु अटन्तान् अन्यान् बालकान् नगरे एव वर्तमानेषु अभयकेन्द्रेषु वाससुविधां कृत्वा अध्ययनादिकं सर्वं सज्जीकरिष्यते। नगरे याचकानामाधिक्यं जनानां भीतिश्च नगरसभाधिकारिभिः एतादृशनिर्णयाय कारणमभवत्।

Sunday, February 18, 2018

छत्तीस् गड् राज्ये मावोवादिनः आक्रमणम् - द्वौ सुरक्षासेनान्यौ वीर मृत्युं प्राप्तवन्तौ।
नवदिल्ली>सुक्म जनपदस्थे बेज्जि देशे प्रवृते मावोवादिनः आक्रमणेन द्वौ सुरक्षासैनिकाै वीरमृत्युं प्राप्तवन्तौ। षट् सङ्ख्यकाः क्षताः च। बेज्जिदेशस्थे चिन्तगुफ मार्गनिर्माणाय मृतौ सैनिकौ अन्यै सैनिकैः सह सुरक्षाकार्यं कुर्वन्तौ  आस्ताम् । मावोवादिभिः कृतेन स्फोटनेन एव द्वौ हतौ। मड्कां हन्त, मुकेष् कट्ति च मृतौ आरक्षकौ। किन्तु सुरक्षा उद्योगस्थानाम् अयुधानि न नष्टानि इति आरक्षकप्रवरः (।G) सुन्दरराजः अवदत्।  मार्गनिर्माणस्य रोधाय  अक्रमिणः वाहनानि अग्निसात्‌ कृतानि च ।
छात्रैः सह प्रधानमन्त्रिणः परीक्षायै चर्चा कार्यक्रमः
पुरुषोत्तम शर्मा
        नवदिल्ली>प्रधानमन्त्री नरेन्द्रमोदी नवदिल्ल्यां परीक्षायै चर्चा कार्यक्रमे छात्रैः सह सम्भाषणं कृतवान्। श्रीमोदी अभिभावकान् अध्यार्थयत् यत् ते स्वाबालानाम् उपलब्धीन् सामाजिकप्रतिष्ठाविषयत्वेन मा स्वीकुर्युः। प्रत्येकस्मिन बाले तस्य विशिष्टा प्रतिभा विद्यते ।  नवदिल्ल्यां परीक्षायै चर्चा कार्यक्रमे छात्रैः सह सम्भाषणावधौ श्रीमोदिनोक्तं यत् अभिभावकैः अङ्कप्राप्तेः स्थाने छात्राणां सहयोगः करणीयः। बालकानां जीवने अभिभावकानां महत्त्वपूर्णं योगदानं भवति, अतः साहाय्यं कर्तव्यम् , यथोक्तमस्ति शास्त्रेषु प्राप्ते एकादशे वर्षे पुत्रं मित्रवदाचरेत् । प्रधानमन्त्रिणा विद्यार्थिभ्यः कथितं यत् ते आत्मना सह प्रतिस्‍पर्धां कुर्वन्तु न तु अन्येभ्यः। सममेव प्रधानमन्त्रिणा ध्यानाय योगाभ्यासः परीक्षायां सफलतायै च सकारात्मकदृष्टेः सम्मर्शः प्रदत्तः। परीक्षासज्जतासमये आत्‍मविश्‍वासः आवश्यकः वर्तते।
पि एन् बि धनापहरणं - त्रयः निगृहीताः। 
          मुम्बई > पञ्चाब् नाषणल् वित्तकोशं वञ्चयित्वा वज्रव्यापारिणा नीरव् मोदिना एकादशसहस्राधिकं कोटिरूप्यकाणि अपहृतानीति विषये वित्तकोशस्य पूर्वाधिकारिणम् अभिव्याप्य त्रयः जनाः निगृहीताः। वित्तकोशस्य भूतपूर्वः उपप्रबन्धकः गोकुल नाथषेट्टी, एकजालकस्य नियन्ता मनोज् खाराट्, नीरव् मोदिनः कार्यकर्ता हेमन्त भट्टश्च निगृहीताः वर्तन्ते। नीरव मोदिने प्रमाणानि विना 'बयेर्स् क्रडिट्' नामकस्य  ऋणानुकूलपत्रदानस्य मुख्यसूत्रधारो भवति गोकुलनाथःइति सि बि ऐ संस्थया निगदितम्।

Saturday, February 17, 2018

धर्म-राजनैतिकतयोः परस्परव्यवहारः न कार्यः - उपराष्ट्रपतिः
           अनन्तपुरी > धर्मस्य व्यवहारः राजनैतिकतायां राजनैतिकतायाः व्यवहारः धर्मे च निरोद्धव्य इति उपराष्ट्रपतिः वेङ्कय्यनायिडुः अवोचत्। आराधनार्थं चित्तशुद्धीकरणार्थं च धर्मः कल्पितः। किन्तु अधुना दौर्भाग्यवशात् कानिचन राजनैतिकदलानि धर्मं स्वकीयपोषणाय विनियुज्यन्ते इति अनन्तपुर्यां श्री चित्रतिरुनाल् प्रभाषणवेलायां तेनोक्तम्।
           स्वभावः , शेषी, पाटवः, अन्यैः सह व्यवहारः इत्येतेषां गुणानामाधारे एव जनाधिपत्यरीत्या कश्चन नेता निर्वाचनीयः। किन्तु अद्य तेषां स्थानं जातिधर्मधनादिभिः अपहृतम् इति तेन निरीक्षितम्।

Friday, February 16, 2018

ऋणधनापहरणम् - उत्तरदायी पि एन् बि इति आर् बि ऐ।
                नव दिल्ली> ११३०० कोटि ऋणधनानाम् उत्तरदायित्वमखिलं पञ्चाब् राष्ट्रिय वित्तकोशस्य इति रिज़र्व् बाङ्कद्वारा उक्तम्। बयेर्स् क्रडिट् सुविधया स्वीक्रियमाणः विदेश-ऋणधनस्य उत्तरदायी सुविधा दत्तवन्तः वित्तकोशस्य इति आर् बि ऐ संस्थया स्पष्टीकृतम्। पञ्चाब् राष्ट्रिय वित्तकोशेन प्रदत्तस्य प्रमाणपत्रस्य आधारेणेव अन्यवित्तकोशाः वज्रव्यापारिणे नीरव् मोदिने ऋणम् अदात् । अतः ऋणधनस्य प्रत्यर्पणस्य दायित्वं पञ्चाब् राष्ट्रिय वित्तकोशस्य एव भवति इति आर् बि ऐ संस्थया उक्तम्। विद्यमाननियमानुसारेण कर्मकराणां स्कालित्यस्य उत्तरदायी वित्तकोशः एव। अतः नीरव् मोदिना स्वीकृतस्य ऋणधनस्य प्रत्यर्पणम् पि एन् बि वित्तकोशेन करणीयम्  इति आर् बि ऐ विशदीकरोति। जनुवरि-मासस्य प्रथमे दिने एव सः नीरव मेदी राष्ट्रान्तरं गतम् ।
त्रिपुरानिर्वाचनम् - घोषप्रचरणस्य अद्य परिसमाप्तिः।
         अगर्तला > त्रिपुराराज्ये रविवासरे प्रचाल्यमानस्य निर्वाचनस्य घोषप्रचारः अद्य सायं परिसमाप्यते। सि पि एम् दलस्य नेतृत्वे विद्यमानः शासनपक्षः , भा ज  दलं, कोण्ग्रस् दलं च मुख्यप्रतिद्वन्दिरूपेण जनमतसम्मतिम् ईक्षन्ते।  शासनपक्षायख्यमन्त्री मणिक् सर्कारः, भाजपादलाय प्रधानमन्त्री नरेन्द्रमोदी, कोण्ग्रस् दलाय देशीयाध्यक्षः राहुल्गान्धी च प्रचाराङ्कुशं वहन्ति।

Thursday, February 15, 2018

पञ्चाब् नाषणल् वित्तकोशस्य एकस्याः शाखायाः ११,३३४ कोटि रूप्यकाणि अपहृतानि। 
          मुम्बई > राष्ट्रस्य सामान्यमण्डलीयवित्तकोशसंस्थासु द्वितीयस्थानमलङ्कृतायाः पञ्चाब नाषनल् बैंक् वित्तकोशसंस्थायाः मुम्बई शाखातः ११,३३४ कोटिरूप्यकाणाम् अपहरणं संवृत्तमिति विज्ञातम्। गतेषु सप्तसंवत्सरेषु वित्तकोशाधिकारिणां साहाय्येन संवृत्तैः भ्रष्टाचारप्रवर्तनैः एव एतादृशमपहरणं कृतमिति सि. बि. ऐ संस्थया उक्तम्।