OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 19, 2018

त्रिपुरायां मतदानं प्रतिशतं ७६। 
           नवदिल्ली > सि पि एम् - भा ज पा दलयोः मुखामुखप्रतियोगिता संवृत्ते त्रिपुराविधानसभानिर्वाचने प्रतिशतं ७६ परिमितं मतदानं संवृत्तम्। गतनिर्वाचने एतत् ९१.८२% आसीत्।  ६० अङ्गयुक्तविधानसभायां ५९ स्थानेष्वेव ह्यः निर्वाचनमभवत्।
शतदिनाभ्यन्तरे कोच्ची याचकमुक्तनगरं भविष्यति। 
          कोच्ची > आरबसमुद्रस्य राणीति कीर्तिमाप्तं कोच्चीनगरं सम्पूर्णयाचकनिरॊधितनगरं कर्तुम् आॊयोजना  आविष्क्रियते। केरल लीगल् सर्वीसस् अतोरिटी नामकस्य नीतिन्यायसाहाय्यसंघटनस्य सेवनमुपयुज्य  शतदिनानात्मकेन यज्ञेनैव लक्ष्यो$यं प्राप्स्यते! 
        राज्यान्तरेभ्यः प्राप्ताः याचकस्त्रियः बालिकाः च स्वदेशं प्रापयितुं यत्नः करिष्यते। वीथिषु अटन्तान् अन्यान् बालकान् नगरे एव वर्तमानेषु अभयकेन्द्रेषु वाससुविधां कृत्वा अध्ययनादिकं सर्वं सज्जीकरिष्यते। नगरे याचकानामाधिक्यं जनानां भीतिश्च नगरसभाधिकारिभिः एतादृशनिर्णयाय कारणमभवत्।

Sunday, February 18, 2018

छत्तीस् गड् राज्ये मावोवादिनः आक्रमणम् - द्वौ सुरक्षासेनान्यौ वीर मृत्युं प्राप्तवन्तौ।
नवदिल्ली>सुक्म जनपदस्थे बेज्जि देशे प्रवृते मावोवादिनः आक्रमणेन द्वौ सुरक्षासैनिकाै वीरमृत्युं प्राप्तवन्तौ। षट् सङ्ख्यकाः क्षताः च। बेज्जिदेशस्थे चिन्तगुफ मार्गनिर्माणाय मृतौ सैनिकौ अन्यै सैनिकैः सह सुरक्षाकार्यं कुर्वन्तौ  आस्ताम् । मावोवादिभिः कृतेन स्फोटनेन एव द्वौ हतौ। मड्कां हन्त, मुकेष् कट्ति च मृतौ आरक्षकौ। किन्तु सुरक्षा उद्योगस्थानाम् अयुधानि न नष्टानि इति आरक्षकप्रवरः (।G) सुन्दरराजः अवदत्।  मार्गनिर्माणस्य रोधाय  अक्रमिणः वाहनानि अग्निसात्‌ कृतानि च ।
छात्रैः सह प्रधानमन्त्रिणः परीक्षायै चर्चा कार्यक्रमः
पुरुषोत्तम शर्मा
        नवदिल्ली>प्रधानमन्त्री नरेन्द्रमोदी नवदिल्ल्यां परीक्षायै चर्चा कार्यक्रमे छात्रैः सह सम्भाषणं कृतवान्। श्रीमोदी अभिभावकान् अध्यार्थयत् यत् ते स्वाबालानाम् उपलब्धीन् सामाजिकप्रतिष्ठाविषयत्वेन मा स्वीकुर्युः। प्रत्येकस्मिन बाले तस्य विशिष्टा प्रतिभा विद्यते ।  नवदिल्ल्यां परीक्षायै चर्चा कार्यक्रमे छात्रैः सह सम्भाषणावधौ श्रीमोदिनोक्तं यत् अभिभावकैः अङ्कप्राप्तेः स्थाने छात्राणां सहयोगः करणीयः। बालकानां जीवने अभिभावकानां महत्त्वपूर्णं योगदानं भवति, अतः साहाय्यं कर्तव्यम् , यथोक्तमस्ति शास्त्रेषु प्राप्ते एकादशे वर्षे पुत्रं मित्रवदाचरेत् । प्रधानमन्त्रिणा विद्यार्थिभ्यः कथितं यत् ते आत्मना सह प्रतिस्‍पर्धां कुर्वन्तु न तु अन्येभ्यः। सममेव प्रधानमन्त्रिणा ध्यानाय योगाभ्यासः परीक्षायां सफलतायै च सकारात्मकदृष्टेः सम्मर्शः प्रदत्तः। परीक्षासज्जतासमये आत्‍मविश्‍वासः आवश्यकः वर्तते।
पि एन् बि धनापहरणं - त्रयः निगृहीताः। 
          मुम्बई > पञ्चाब् नाषणल् वित्तकोशं वञ्चयित्वा वज्रव्यापारिणा नीरव् मोदिना एकादशसहस्राधिकं कोटिरूप्यकाणि अपहृतानीति विषये वित्तकोशस्य पूर्वाधिकारिणम् अभिव्याप्य त्रयः जनाः निगृहीताः। वित्तकोशस्य भूतपूर्वः उपप्रबन्धकः गोकुल नाथषेट्टी, एकजालकस्य नियन्ता मनोज् खाराट्, नीरव् मोदिनः कार्यकर्ता हेमन्त भट्टश्च निगृहीताः वर्तन्ते। नीरव मोदिने प्रमाणानि विना 'बयेर्स् क्रडिट्' नामकस्य  ऋणानुकूलपत्रदानस्य मुख्यसूत्रधारो भवति गोकुलनाथःइति सि बि ऐ संस्थया निगदितम्।

Saturday, February 17, 2018

धर्म-राजनैतिकतयोः परस्परव्यवहारः न कार्यः - उपराष्ट्रपतिः
           अनन्तपुरी > धर्मस्य व्यवहारः राजनैतिकतायां राजनैतिकतायाः व्यवहारः धर्मे च निरोद्धव्य इति उपराष्ट्रपतिः वेङ्कय्यनायिडुः अवोचत्। आराधनार्थं चित्तशुद्धीकरणार्थं च धर्मः कल्पितः। किन्तु अधुना दौर्भाग्यवशात् कानिचन राजनैतिकदलानि धर्मं स्वकीयपोषणाय विनियुज्यन्ते इति अनन्तपुर्यां श्री चित्रतिरुनाल् प्रभाषणवेलायां तेनोक्तम्।
           स्वभावः , शेषी, पाटवः, अन्यैः सह व्यवहारः इत्येतेषां गुणानामाधारे एव जनाधिपत्यरीत्या कश्चन नेता निर्वाचनीयः। किन्तु अद्य तेषां स्थानं जातिधर्मधनादिभिः अपहृतम् इति तेन निरीक्षितम्।

Friday, February 16, 2018

ऋणधनापहरणम् - उत्तरदायी पि एन् बि इति आर् बि ऐ।
                नव दिल्ली> ११३०० कोटि ऋणधनानाम् उत्तरदायित्वमखिलं पञ्चाब् राष्ट्रिय वित्तकोशस्य इति रिज़र्व् बाङ्कद्वारा उक्तम्। बयेर्स् क्रडिट् सुविधया स्वीक्रियमाणः विदेश-ऋणधनस्य उत्तरदायी सुविधा दत्तवन्तः वित्तकोशस्य इति आर् बि ऐ संस्थया स्पष्टीकृतम्। पञ्चाब् राष्ट्रिय वित्तकोशेन प्रदत्तस्य प्रमाणपत्रस्य आधारेणेव अन्यवित्तकोशाः वज्रव्यापारिणे नीरव् मोदिने ऋणम् अदात् । अतः ऋणधनस्य प्रत्यर्पणस्य दायित्वं पञ्चाब् राष्ट्रिय वित्तकोशस्य एव भवति इति आर् बि ऐ संस्थया उक्तम्। विद्यमाननियमानुसारेण कर्मकराणां स्कालित्यस्य उत्तरदायी वित्तकोशः एव। अतः नीरव् मोदिना स्वीकृतस्य ऋणधनस्य प्रत्यर्पणम् पि एन् बि वित्तकोशेन करणीयम्  इति आर् बि ऐ विशदीकरोति। जनुवरि-मासस्य प्रथमे दिने एव सः नीरव मेदी राष्ट्रान्तरं गतम् ।
त्रिपुरानिर्वाचनम् - घोषप्रचरणस्य अद्य परिसमाप्तिः।
         अगर्तला > त्रिपुराराज्ये रविवासरे प्रचाल्यमानस्य निर्वाचनस्य घोषप्रचारः अद्य सायं परिसमाप्यते। सि पि एम् दलस्य नेतृत्वे विद्यमानः शासनपक्षः , भा ज  दलं, कोण्ग्रस् दलं च मुख्यप्रतिद्वन्दिरूपेण जनमतसम्मतिम् ईक्षन्ते।  शासनपक्षायख्यमन्त्री मणिक् सर्कारः, भाजपादलाय प्रधानमन्त्री नरेन्द्रमोदी, कोण्ग्रस् दलाय देशीयाध्यक्षः राहुल्गान्धी च प्रचाराङ्कुशं वहन्ति।

Thursday, February 15, 2018

पञ्चाब् नाषणल् वित्तकोशस्य एकस्याः शाखायाः ११,३३४ कोटि रूप्यकाणि अपहृतानि। 
          मुम्बई > राष्ट्रस्य सामान्यमण्डलीयवित्तकोशसंस्थासु द्वितीयस्थानमलङ्कृतायाः पञ्चाब नाषनल् बैंक् वित्तकोशसंस्थायाः मुम्बई शाखातः ११,३३४ कोटिरूप्यकाणाम् अपहरणं संवृत्तमिति विज्ञातम्। गतेषु सप्तसंवत्सरेषु वित्तकोशाधिकारिणां साहाय्येन संवृत्तैः भ्रष्टाचारप्रवर्तनैः एव एतादृशमपहरणं कृतमिति सि. बि. ऐ संस्थया उक्तम्।

Wednesday, February 14, 2018

Episode 77 
पौराणां प्रत्यभिज्ञान-प्रमाणं प्रष्टुं सर्वकारस्य अर्हता नास्ति वा? -सर्वोच्चन्यायालयः।
                   नवदिल्ली> आधारपत्रं विरुद्ध्य न्यायाय-व्यववहारः सर्वोच्चन्यायालये प्रचलत् अस्ति। सर्वोच्च न्यायालयस्य मुख्य-न्यायाधीशस्य दीपक् मिश्रस्य आध्यक्ष्ये पञ्चन्यायाधीशाः वादान् श्रूयन्ते। पौराणां प्रत्यभिज्ञान प्रमाणं प्रष्टुं सर्वकारस्य अर्हता नास्ति वा? - इत्यासीत् मुख्य न्यायाधीशस्य दीपक् मिश्रस्य प्रश्नकरणम् । कश्चन साहाय्यः वा आनुकूल्यानि वा भवतु तानि अर्हानां हस्ते प्रदातुं सर्वकारेण प्रत्यभिज्ञान-प्रमाणस्य आधारेण एव शक्यते। तदर्थं सर्वकारस्य प्रत्यभिज्ञान प्रमाणम् आवश्यकं खलु ? पञ्चाङ्ग-संविधानपीठः अपृच्छत्l  वादः गुरुवारे अनुवर्तिष्यते।

Tuesday, February 13, 2018

भीकरतां प्रति ओमानेन सह भारतस्य सहयोगः।
             मस्कत्> भीकरतां प्रति भारतं ओमान् च ऐक्यमत्येन प्रवर्तेते। आशयतया तथा आर्थिकतया भीकरान् ये सहाय्यं कुर्वन्ति तान् प्रति अपि नकारात्मकं प्रवर्तनं करिष्यतः तदर्थं राष्ट्रान्तरैक्यं आवश्यकमिति संयुक्तप्रस्तावे ओमानेन उक्तम्।

             मेय्क् इन् इण्डिया पद्धत्याः भागत्वेन प्रतिरोध उत्पन्नानां निर्माणे सहयोगपद्धतेः कार्यान्वयनं करिष्यति। ओमान् भारतात् तेषां उत्पन्नानां क्रयणं करिष्यति। व्याजरुप्यकाणि, लहरि उत्पन्नानि इत्यादि क्षेत्रेषु मिलित्वा प्रवर्तनं करिष्यति। संयुक्त सैनिकपरिशीलनाय भारतस्य इण्स्ट्टिट्यूस् फोर टिफन्स् स्टटीस् आण्ट् अनालिसिस् तथा ओमान् राष्ट्रस्य नाषणल् टिफन्स् महाविद्यालयः च धारणापत्रे हस्ताक्षरं अकुरुताम्। अस्य वर्षस्य सैनिकसमिति येगः ओमाने मस्कत् नगरे प्रचलिष्यति।

             प्रतिरोधं, बहिराकाशं, स्वास्थ्यं, भक्ष्यसुरक्षा, खननं, विनोदसञ्चारं, इतेयादि अष्ट समयेषु भारतं ओमान् च हस्ताक्षरे अकुरुताम्। मस्कते सुल्तान् खाबूस् ग्राण्ट् आराधनालये तथा पुरातने शिवमन्दिरे च दर्शनानन्तरमेव मोदिना भारतं प्रति यात्रा आरब्धा।

Monday, February 12, 2018

आधारपत्रस्य अभावेन अवश्यसेवनानि निषिद्धानि मा भवतु - प्राधिकारी
          नवदिली > आधारपत्रस्य अभावेन आनुकूल्यानि तथा अवश्यसेवनानि कदापि निषिद्धानि भवतु इति आधारपत्र प्राधिकारिणा पुनरपि आदिष्टा। आतुरसेवनं, विद्यालयप्रवेशः, सार्वजनिक-वितरणसम्प्रदायः इति कार्येषु आधारपत्रं न निर्बद्धम् इति प्राधिकारिणा प्रकाशिते वार्तालेखे संसूच्यते। गत वर्षे सेप्तंबर् चतुर्विंशति दिनाङ्गे प्रधिकारिणा आदेशः प्रदत्तः आसीत् । किन्तु इतःपर्यन्तं जननां परिदेवनानि सन्ति इत्यनेन पुनरपि आदेशः प्रसारितः।
राजनैतिकदलानां अड्गीकारं रोद्धुम् अधिकारः आवश्यकः इति निर्वाचकायोगः।
            नवदेहली>  राजनैतिक दलानां अड्गीकारं रोद्धुम् अधिकारः तथा दलेषु आभ्यन्तर जनाधिपत्यं चालयितुं अधिकारः आवश्यकः इति निर्वाचकायोगः।   १९५१ तमे वर्षे आगतेन जनप्रातिनिध्य नियमेन इदानीं वर्तमानेभ्यः  राजनैतिक दलेभ्यः अड्गीकारं दातुं अधिकारः निर्वाचकायोगस्य वर्तते किन्तु अड्गीकारं रोद्धुम् अधिकारः नास्ति। अतः जनप्रातिनिध्य नियमे भेदगतयः आवश्यकाः।
अमित् शर्मा अश्विनी उपाध्याया इत्येते अभिभाषकौ कलड्किताः जनाः दलानां रूपीकरणात् रोद्धव्याः इति उच्चतरनीतिपीठं निवेदितवन्तौ। तयोः समाधानरूपेण निर्वाचकायोगस्य प्रस्तावः। गत विंशति वर्षेभ्यः जनप्रातिनिध्य नियमे भेदगतयः आवश्यकाः इति केन्द्र सर्वकारं प्रति पत्रप्रेषणं कुर्वन्तः स्मः। किन्तु किमपि प्रयोजनं न लब्धम्। २०१६ फेरुवरी तः डिसंबर पर्यन्तं कृते अन्वेषणे २५५ राजनैतिक दलाः केवलं पत्रेषु एव वर्तते।
            राजनीतिं अक्रममुक्तं कर्तुं  प्रयत्ने जागरूकः अस्ति निर्वाचकायोगः। तदर्थं सर्वकारस्य साहाय्यं तथा नियमभेदगतिः च आवश्यकौ इति सत्यप्रस्तावे निर्वाचकायोगेन उक्तम्। आगामिनि मंगलवासरे उच्चतरनीतिपीठं निवेदनमिदं  गणयिष्यति।

Sunday, February 11, 2018

भारतदक्षिणाफ्रीकादलयो: एकदिवसीयाया: क्रिकेट्स्पर्धामालिकाया: चतुर्थो द्वन्द्व: अद्य 
       भारतदक्षिणाफ्रीकादलयो: एकदिवसीयान्ताराष्ट्रियक्रिकेट-स्पर्धामालिकाया: चतु्र्थो द्वन्द्व: अद्य जोहानिसबर्गनगरे भविष्यति । भारतीयसमयानुसारेण अपराह्णे सार्धचतु: वादनात् स्पर्धेयं प्रारप्स्यते । षड्स्पर्धान्वितायां शृङ्खलायां स्पर्धात्रयं विजित्य भारतीयवृन्दम् अग्रेसरत्वं वहति। अद्यतनद्वन्द्वं जेतुं भारतीयदलं सन्नद्धं वर्तते। स्पर्धां विजित्य भारतीयक्रिकेट्वृन्दं शृङ्खलामपि जेष्यति।
भारतदक्षिणाफ्रीकादेशयो: महिलाक्रिकेट्दलयोर्मध्ये स्पर्धा अद्य 
       भारतदक्षिणाफ्रीकादेशयो: महिलाक्रिकेट्दलयो: एकदिवसीयान्ताराष्ट्रियक्रिकेट-स्पर्धामालिकाया: अन्तिमस्पर्धा अद्य पोचेस्ट्रम् क्रीडाङ्गणे भविष्यति। भारतीयसमयानुसारेण अपराह्णे सार्धैकवादनात् स्पर्धेयं प्रारप्स्यते । शृङ्खलायां भारतीयवृन्दस्य २-० इति अन्तरालेन अग्रेसरत्वं वर्तते।
परीक्षा भीः - १६ दिनाङ्के छात्राः मोदिना सम्बुद्ध्यन्ते। 
           नवदिल्ली > छात्रेभ्यः परीक्षा भीतिं  निर्मार्जयितुम् उद्दिश्य प्रधानमन्त्री नरेन्द्रमोदी दूरदर्शनद्वारा  छात्रान् प्रति संवक्ष्यति। कथं भीतिं विना परीक्षां लिखामः, सम्मर्द रहितया रीया कथं परीक्षाकालं यापयामः इति प्रतिपाद्यते अस्मिन् कार्यक्रमे। अस्मिन्‌मासस्य षोडश दिनाङ्के (१६) प्रभाते द्वादशवादने (११) कार्यक्रमोऽयं प्रसारयिष्यते ।
            'परीक्षा पे चर्चा' इति कार्यक्रमः विद्यालये, कलालये, साङ्केतिक कलाशालायां च छात्राणां पुरतः प्रदर्शनीयः इत्युक्तवा, विश्वविद्यालय -साहायधनायाेगः शिक्षा संस्थाभ्यः पत्रम् अलिखत्। दिल्यां तल्कतोरा क्रीडागृहे एव कार्यक्रमः प्रचालयिष्ते।

Saturday, February 10, 2018

'नाथुल' मार्गेण कैलसयात्रा चीनया अनुज्ञा प्रदत्ता।
             नवदिल्ली> कैलासः मानससरोवरं च दृष्टुमुत्सुकानां तीर्थाटकानां कृते नाथुल पर्वतमार्गः उद्घाटयितव्यम् इति अभिलाषः  चैनाराष्ट्रेण अङ्गीकृतम् । दोक्ला विषयसंबन्ध-रोषेण  गतबर्षे अयं मार्गः चीनेन पिधानं कृतम् आसीत्। उभयराष्ट्रयोः चर्चायां भारतेन अयं विषयः उन्नीतः चीनेन अनुकूल प्रकिया स्वीकृता इति च विदेशकार्यमन्त्रिणा वि के सिंहेन लोकसभायाम्  उक्तम्।