सीमनि पाक् आक्रमणम् - चतुर्णां सैनिकानां वीरमृत्युः।
श्रीनगरम्> पाक् सैन्यस्य आक्रमणेन चत्वारः भारतसैनिकाः वीरमृत्युं प्राप्ताः। जम्मूकाश्मीरे नियन्त्रण-रेखायाः समीपे पूञ्च् रजौरी जनपदयोः एव भुषुण्डिप्रयोग-विरामसन्धिः उल्लङ्घ्य आसीत् पाक् सैन्यस्य आक्रमणम् । भारतेन शक्तया रीत्या प्रतिक्रिया कृता च । प्रकोपनं विना रविवासरे प्रभातादारभ्य 'षेल्' आक्रमणम् आरब्धम् आसीत्I 'मोर्टार्' नियन्त्तायुधाः मिसैल् आदयः आक्रमणाय उपयुक्ताः। पूञ्च् जनपदे प्रवृत्ते सैनिकाक्रमणे एका बालिका एकः सैनिकः च क्षतौ। साम्ब घण्डे सीमा-सुरक्षासेनया पाक् सैन्यस्य निलीनप्रवेशः निरुद्धः आसीत्। एतस्य पश्चात् एव पाक् सेनया भुषुण्डिप्रयोगः आरब्धः। जनुवरि १८तः २२ पर्यन्तं जम्मुप्रदेशो आपन्ने आक्रमणे ८ प्रदेशवासिनः ६ सैनिकाः आहत्य १४ जनाः मारिताः। ६० अधिकाः क्षताः च । सुरक्षानुबन्धतया रजैरी पूञ्च् जम्मु साम्ब जनपदेषु ३०० विद्यालयानां गतदिनेषु विरामः प्रदत्तः आसीत् । OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Monday, February 5, 2018
Sunday, February 4, 2018
गुजरातसर्वकारेण संस्कृतसाहित्य-ज्ञानवर्धकं जीवन्त-प्रश्नोत्तरी प्रतियोगिता आयोजिता ।
G.C.E.R.T - गांधीनगस्य, ESSAR OIL - जामनगरस्य च उपलक्ष्ये जनपद-शिक्षण-प्रशिक्षण-भवन-जूना गढपक्षत: (DIET) आयोजितं जूनागढ-गीर सोमनाथजनपदस्तरीय शिक्षणक्षेत्रे शैक्षणिक: नवीकरण-प्रदर्शनं (educational innovation fair-2018) गीर सोमनाथजनपदस्य वेरावलप्रान्तस्य इणाजग्रामे गुजरातसर्वकारेण संचालित: 'इणाज मॉडल स्कूल' इति विद्यालये गतदिने समायोजित: । सर्वप्रथमं कार्यक्रमस्य आरम्भ: अभवत् । अनन्तं मञ्चोपरि नवीकरणस्य लघु-चलचित्राणां प्रदर्शनम्। अस्यां नवीकरण-प्रदर्शने संस्कृतभाषाया: प्रचार-प्रसारार्थं (innovation fair-2018) गीर सोमनाथजनपदस्य वेरावलप्रान्तस्य सर्वकारीय श्रीकाजली प्राथमिक-शालाया: शिक्षक: श्री जगदीश: डाभीमहोदयेन जनसञ्चारमाध्यमोपरि संस्कतसाहित्यज्ञानवर्धकं जीवंत-प्रश्नोत्तरी प्रतियोगिता (सोशल मिडिया फेसबुक) पर लाइव प्रश्नोत्तरी प्रतियोगिता द्वारा संस्कृत शिक्षण) प्रतिरूप-परियोजना स्वरुपे प्रस्तुता जाता । अस्मिन् जनपदस्तरीय प्रदर्शने गीर सोमनाथजनपदस्य ३३ नानाविध-प्रतिरूप-परियोजना: प्रस्तुता: जाता:। इत्यस्मिन् समारोहे आयोजकपक्षत: जगदीश: डाभीमहोदयेन सह परियोजना प्रस्तुतं कृतवता: ३३ शिक्षकान् प्रमाणपत्रं दत्त्वा सम्मानितं कृतवान्। अस्मिन् समारोहस्य सुव्यवस्थितम् आयोजनं जूनागढजनपद-शिक्षण-प्रशिक्षण- भवनस्य प्राचार्य: श्री वि.एम. पंपाणियामहोदय: प्राचार्य: मुकेश: धारैयामहोदयश्च कृतौ । जगदीश: डाभीमहोदयेन प्रस्तुता परियोजना संस्कृतसाहित्य-ज्ञानवर्धकं जीवंत-प्रश्नोत्तरी प्रतियोगिता प्रत्येक-रविवासरे रात्रौ नववादनत: दशवादन-पर्यन्तम् आमुखपटलस्य (फेसबुक) संस्कृतं जनभाषा भवेत् इति समूहोपरि प्रचलन् अस्ति ।
अस्या: प्रतियोगिताया: आयोजक: गुजरातत: जगदीश: डाभी अस्ति । सहायका: पण्डितः दीपकशास्त्री (राजस्थानम्), अमित: ओली (उत्तराखंड:), मञ्जु भट्टाचार्य: (महाराष्ट्र:), डॉ. सन्ध्याठाकुर: (उत्तरप्रदेश:), डॉ. योगेशव्यास: (राजस्थानम्), शिवांगी शर्मा (देहली), प्रकाश रंजन मिश्र: (बिहार:) च सन्ति ।अस्या: प्रतियोगिताया: पुरस्कारस्य प्रायोजकाः सुरतत: (गुजरातम्) दैनिक-संस्कृतसमाचारपत्रं 'विश्वस्य वृत्तान्तम्', हरिद्वारत: भुवनेश्वरी बालकुमारी ट्रस्ट, जयपुरत: भारती संस्कृत-मासपत्रिका च सन्ति ।
कान्सर् रोगस्य औषधं सम्प्राप्तम्।
न्यूयोर्क्> अर्बुदचिकित्सायां पुरोगतिं प्रख्याप्य वैज्ञानिकाः। तैः वैज्ञानिकैः दृष्टं रासवस्तून् उपयुज्य मूषिकेषु कृते गवेषणे अर्बुद-रोगशान्तये औषधं सफलम् इति प्रमाणम् अभवत्। अतः इदं ओषधं मनुष्येषु प्रयोगं कर्तुं यतन्ते। अतिसूक्षमपरिमाणपरिमितं द्वे प्रतिरोधवर्धक-वस्तुनी अर्बुदकोशेषु सूचिद्वारा सिन्नवेश्य आसीत् पर्यवेषणम् । तदा रोगेण वर्धितांशाः अप्रत्याक्षाः अभवन्I स्टाफट् विश्वविद्यालयस्य 'ओङ्कोलजी' विभागास्य प्राध्यापकः रोणाल्ड् लेवि वदति यत् लिम्फोम कान्सर् रोगं विरुद्घ्य नवति-संख्या-परिमितेषु मूषिकेषु कृतेषु पर्यवेषणेषु सप्ताशीति संख्याकाः मूषकाः पूर्णतया रोगान्मुक्ताः अभवन्। अवशिष्टेभ्यः पुनरपि सूचीकर्म क्रियते । science translational medicine journal मध्ये एव अध्ययनमिदं प्रकाशितम्I
Saturday, February 3, 2018
अन्त: ऊनविंशति: वयोमितानां विश्वचषकक्रिकेटस्पर्धा भारतेन विजिता
पुरुषोत्तम शर्मा
न्यूजीलैण्डदेशे समायोजिताया: अन्त: ऊनविंशति: वयोमितानां विश्वचषकक्रिकशृङ्खला भारतेन स्वायत्तीकृता शनिवासरे न्यूजीलैण्डस्य मॉउण्ट् मौनगनयूस्थे क्रीडाङ्गणे क्रीडिते निर्णायकद्वन्द्वे ऑस्ट्रेलियादलेन प्रथमक्रीडयता भारताय षोडशोत्तरद्विशतं धावनाङ्कानां लक्ष्यं प्रदत्तमासीत्। लक्ष्यमनुसरता भारतीयदलेन ऑस्ट्रेलियावृन्दम् अष्टक्रीडकाणां सुरक्षापुरस्सरं पराजितम्। । मनजोतकालड़ा एकोत्तरशतं धावनाङ्का: समर्ज्य क्रीडापुरुषत्वेन चित:।
विद्यार्थिनः कृते मोदिना विरचितं पुस्तकं अद्य प्रकाश्यते।
नवदिल्ली> परीक्षां अभिमुखीकर्तुं छात्रेभ्यः आत्मविश्वासप्रदायकं पुस्तकं विरच्य प्रधानमन्त्री नरेन्द्रमोदी। पुस्तकस्य नाम 'Exam-warriors' इति भवति। पुस्तकमिदम् अद्य प्रकाश्यते। चाणक्यपुरस्थस्य प्रवासी भारतीयकेन्दे पादोन-चतुर्वादने प्रकाशन-कार्यक्रमः प्रचाल्यते। भारतस्य विदेशकार्य-मन्त्रिणी सुषमा स्वराजः मुख्यातिथि रूपेण वर्तिष्यते। मानव-संसाधन-विकसन-मन्त्री प्रकाश् जावदेक्करः अपि कार्यक्रमे विशेषभाषणं करिष्यति। प्रधानमन्त्रिणः मन् की बात् इति प्रतिमास कार्यक्रमद्वारा अपि, परीक्षावेलायां छात्राः समाश्वसिताः आसन्।
Friday, February 2, 2018
न्यायाधिपैः अन्वीक्ष्यमाणस्य न्यायव्यवहारस्य भावः प्रकाशितः।
नवदिल्ली> सर्वोच्चन्यायालये न्यायाधिपेभ्यः विभज्य-दीयमानाय 'रोस्टर्' इति संविधानं आयोजितम्। एतदनुबन्धतया मुख्यन्यायाधीशस्य दीपकमिश्रस्य आदेशः सर्वोच्चन्यायालयस्य अन्तर्जालपुटे प्रकाशिता अस्ति। इदं प्रथमतया एव एतादृशं विज्ञापनम्। एतदनुसृत्य सार्वजनीनाभीच्छां आधारीकृत्य लब्धानि न्यायव्यवहाराः मुख्यन्या-याधीशेन आवेक्ष्यन्ते। न्याय व्यवहारान् विभज्य दीयमानेषु मुख्यन्यायाधीशेन विवेचनं क्रियते इति आरोपणम् उन्नीय प्रमुखाः अन्ये न्यायाधीशाः वार्ताहरमेलनम् अहूतवन्तः इति कारणेन तेषाम् उपरि विप्रतिपत्तिं अपि प्रकाशितवन्तः अन्ये न्यायाधिपाः।
भारतराष्ट्रे अन्तरिक्षवायोः शुद्धतामापने केरलस्य प्रथमस्थानम्।
नवदिल्ली> राष्ट्रे अन्तरिक्षवायोः शुद्धतामापने अतिमलिनः वायुः दिल्यामेव, स्वच्छः वायुः केरलस्य पत्तनंतिट्ट जनपदे भवति। अत्रत्यः मापनाङ्कः षट्विंशतिः(२६ ) एव। षष्ठि (६०): पर्यन्तं मलिनतां मापिन्यां प्रदर्शिते सत्यपि तथा न दोषः। वायु दूषणे सीमारेखायां वर्तते तृश्शूर् जनपदः । पञ्च पञ्चाशत् (५५) एव अत्रत्याः शुद्धतामानम्। अन्यराज्यापेक्षया शुद्धता केरलस्य भूप्रदेशेषु एवभवति इति परिस्थितिमण्डलेषु प्रयत्नं कुर्वन्त्या ग्रीन् पीस् इन्द्या नामिकया संस्थया अवदत्। २८० नगरेषु प्रवृत्तेषु सर्वाध्ययनस्य फलमेव इदम् । वायुमण्डले अन्तर्लीनं पि एम् १० इत्यस्य विषकणस्य आधारेण एव वायुमापनम्I भारतस्य विविध नगरेषु मलिनीकरणस्य व्याप्तिः गतवर्षत्रयेभ्यः अधिका वर्धते। किन्तु भारतादपि बृहत्तमेषु व्यावसायिक राष्ट्रेषु मलिनीकरणानि न्यूनीकृतानि । चीनेन प्रतिशतं १७ अमेरिक्केन १५ अन्ययूरोप् राष्ट्रेषु २० च मलिनीकरणस्य आधिक्यात् न्यूनीकरणमभवत् । भारते दिल्ली २९०, हरियाणा २७२ राजस्थानम् २६२, बिहारः २६१, उत्तराघण्ट् २३८ इत्यादि क्रमेण वर्धमानम् अस्ति वायुमलिनीकरणम् इत्यनेन भरतस्य अवस्था शोच्या भविष्यति इत्यपि सर्वेक्षणेन संसूच्यते।
Thursday, February 1, 2018
शिक्षादानेन दीर्घकालिका सन्तुष्टि: भवति - डॉ. के. साम्बशिवमुर्ति:
वार्ताहरः- दापक् शास्त्री
केन्द्र आर्थिकसमाकल्पना अद्य।
नवदिल्ली > अद्य प्रातः ११ वादने धनमन्त्रिणा अरुण्जैट्ली महाभागेन केन्द्र अर्थिकसमाकल्पना विधानसभायां अवतारयिष्यते। पण्य-सेवनकरस्य आयोजनानन्तरं अवतार्यमाणः प्रथमः आर्थिक-समाकल्पना भवति इयम्। २०१९ तमे वर्षे आयोक्ष्यमाणात् लोकसभानिर्वाचनात् प्राक् अवतार्यमाणा आर्थिक-समाकल्पना इति कारणतया अस्याः प्राधान्यं अधिकं वर्तते। पञ्चमोऽयं सन्दर्भः यस्मिन् जय् ट्ली महाभागेन आर्थिकसमाकल्पना अवतार्यते। करस्य श्रेणिक्रमे समाश्वासः प्रतीक्ष्यते आर्थिकविचक्षणैः। प्रत्यक्षकरनियमस्य परिष्करणाय गते नवंबर् मासे वरिष्ठाधिकारिणः संयोजनेन टाक्स् फोर्स् नाम आयोगः रूपीकृतः आसीत् । आयोगस्य करसमाश्वासनिर्देशाः परिगणयिष्यते इत्यपि श्रूयते।
Wednesday, January 31, 2018
अद्य चन्द्रप्रभावः
152 संवत्सरानन्तरमेव अयं संभवति।
द्विपञ्चाशतधिक एकशतं संवत्सरानन्तरं सम्भव्यमानं चान्द्रविस्मयं दृष्टुम् उत्सुकाः भुत्वा वाननिरीक्षकाः वैज्ञानिकाः तथा समस्तलोकाः। चन्द्रस्य मुखत्रयं विविधवर्णयुक्तैः अद्य द्रष्टुं शक्यते। इदम् अद्य न दृश्यते चेत् अस्मिन् जन्मनि दृष्टुं न शाक्यते। दृश्यमिदं दृष्टवन्तः कोऽपि इदानीं सजीवं नास्ति खलु?।
ब्लू मूण्, सूप्पर् मूण् , ब्लड् मूण् इति प्रथिताः चान्द्रदृश्यव्यत्ययानि युगपदेव सायंसन्ध्यायाम् आकाशरङ्गे जनान् तोषयिष्यन्ति। 5.18 वादनतः 8.43 वादन पर्यन्तं भवति असुलभदृश्यानाम् अनुभवः। चन्द्रस्य वर्णः कपिशः भविष्यति, आकारः प्रतिशतं सप्त इति क्रमेण, प्रभापूरः प्रतिशतं त्रिंशत् इति क्रमेण च वर्धिष्येते। इतःपूर्वं षट्षष्ठ्यधिक अष्टादशशततमे (1866) मार्च् मासे आसीत् इदं दृश्यविस्मयम्।
ब्लू मूण्, सूप्पर् मूण् , ब्लड् मूण् इति प्रथिताः चान्द्रदृश्यव्यत्ययानि युगपदेव सायंसन्ध्यायाम् आकाशरङ्गे जनान् तोषयिष्यन्ति। 5.18 वादनतः 8.43 वादन पर्यन्तं भवति असुलभदृश्यानाम् अनुभवः। चन्द्रस्य वर्णः कपिशः भविष्यति, आकारः प्रतिशतं सप्त इति क्रमेण, प्रभापूरः प्रतिशतं त्रिंशत् इति क्रमेण च वर्धिष्येते। इतःपूर्वं षट्षष्ठ्यधिक अष्टादशशततमे (1866) मार्च् मासे आसीत् इदं दृश्यविस्मयम्।
महात्मागान्धिने राष्ट्रस्य प्रणामः
नवदिल्ली> महात्मागांधिनः ७० तम बलिदानदिनस्य स्मृतिषु राजघट् समाधिस्थाने राष्ट्रनेतारः पुष्पार्चनमकुर्वन्। समाधिस्थाने आयोजिते समूहप्रार्थनायामपि राष्ट्रपति रामनाथकोविन्दः उपराष्ट्रपतिः वेङ्कय्यनायिडुः प्रधानान्त्री नरेद्रमोदिप्रमुखाः भागं स्वीकृतवन्तः। 'राष्ट्रस्य कृते जीवत्यागं कृतवत्भ्यः बलिदानिभ्यः पुरतः नम्रशिरस्को भवामि' इति ट्विट्टर् माध्यमे नारेद्रमोदिना आलिखितम्। कोण्ग्रस् अध्यक्षः राहुल् गान्धी भूतपूर्व प्रधानमन्त्री मन्मोहन सिंह प्रमुखाः नेतारः च भागभाजः आसन्।
Tuesday, January 30, 2018
निर्वाचनानि युगपद् करणीयानि - राष्ट्रपतिः।
नवदिल्ली> निरन्तरनिर्वाचनानि अभिवृद्धये बाधा भवति अतः युगपदेव निर्वाचनप्रक्रियाः भवितव्याः। एतदर्थं चिन्तनीयं इति राष्ट्रपतिना रामनाथकोविन्देन उक्तम्। विधानसभायाः संयुक्तमेलने भाषमाणः आसीत् सः। निरन्तरं राष्ट्रस्य विविध भागेषु निर्वाचनप्रक्रियां कर्तुं अधिकः मनुष्यप्रयत्नः आवश्यकः। निर्वाचनस्य नीतिः पालनीया इत्यनेन राष्ट्रस्य विकासप्रक्रिया स्थगिता भवन्ति इति राष्ट्राभिवृद्धेः बाधारूपेण राष्ट्रपतिना संसूचितम्।
नवदिल्ली> निरन्तरनिर्वाचनानि अभिवृद्धये बाधा भवति अतः युगपदेव निर्वाचनप्रक्रियाः भवितव्याः। एतदर्थं चिन्तनीयं इति राष्ट्रपतिना रामनाथकोविन्देन उक्तम्। विधानसभायाः संयुक्तमेलने भाषमाणः आसीत् सः। निरन्तरं राष्ट्रस्य विविध भागेषु निर्वाचनप्रक्रियां कर्तुं अधिकः मनुष्यप्रयत्नः आवश्यकः। निर्वाचनस्य नीतिः पालनीया इत्यनेन राष्ट्रस्य विकासप्रक्रिया स्थगिता भवन्ति इति राष्ट्राभिवृद्धेः बाधारूपेण राष्ट्रपतिना संसूचितम्।
वनसंरक्षणाय विशेषसेना
कुमली > जङ्गिल् टास्क् फोर्स् इति वनसंरक्षण सेना सज्जा अभवत्। वनपालन विभागात् चयिताः एक विंशति (२१) कुशलाः तेषां अभ्यासं पूर्तीकृत्य विशेषसैनिकरूपेण तेषां दायित्वं स्वीकुर्वन्ति। मरयूर् चन्द्रनवने तथा पेरियार् व्याघ्रसङ्केते च एतेषां कर्मभूमित्वेन निश्चितम्। अत्याधुनिक गोलिकाशस्त्रमपि तेषाम् उपयोगाय सन्ति। चन्दनद्रुमतस्करान् तथा वन्यपशुहन्तारमपि निवारयितुं शक्यते अनेन नूतनसामग्र्या।
साम्पतिकोपकक्षा, भारतेन सह चर्चायै सन्नद्धः इति चीनः।
बैजिङ् > पाक् अधीनकाश्मीरेण गम्यमानः भारत चीनराष्ट्रयोः साम्पत्तिकोपकक्षामधिकृत्य भारतेन सः अभिमत-प्रकाशनाय सन्नद्धः इति चीनेन उच्यते। उभययोः राष्ट्रयोः अभिलाषान् परिगणय्य समस्यापरिहारः भवति इति चीनस्य वैदेशकर्यप्रवक्ता हुव चुनैङ् अवदत्। चैन-पाकिस्थान् साम्पतिकोपकक्षा एका साम्पतिक सहकारितायाः योजना भवति। योजनेयं तृतीयं उद्दिश्य न इत्यपि तेन भणितम्।
संस्कृतस्य प्रभावः आमुखपटले (फेसबुक) मध्ये अपि दृश्यते।
प्रथमवारं फेसबुक मध्ये बाल प्रतिभा सम्मान लघु-चलचित्र-प्रतियोगितायाः प्रारम्भः
वर्तमान समये अनेकाः जनाः संस्कृत सम्भाषणं उत्साहेन कुर्वन्ति सम्पूर्ण जनसञ्चामाध्यमं मध्ये संस्कृतं संस्कृतं सर्वत्र संस्कृतम् इति लक्ष्यं संस्कृतज्ञः कृतवन्तः।आमुखपटलोपरि (फेसबुक) बहवः संस्कृतज्ञः प्रतिदिनं नूतन कार्यं कृत्वा संस्कृतस्य प्रचारं प्रसारं च कुर्वन्ति। प्रथमम् आदरणीय संस्कृतसमर्पितं संस्कृतसेवकः जगदानन्द झा (लखनऊ) महोदयेन, डा. चन्द्रकान्त दत्त शुक्ल: (वाराणसी) महोदयेन च फेसबुक मध्ये संस्कृतं (लाइव) जीवंतप्रतियोगितायाः प्रारम्भं कृतः प्रथमवारं कालिदास जयन्ती उपलक्ष्ये अनेकाः जनाः तत्र प्रतिभागं कृतवन्तः। अनन्तरं प्रो. मदन मोहन झा (नवदेहली) महोदयेन फेसबुक मध्ये संस्कृत (लाइव) व्याख्यानम् इति कार्यक्रम: कृतवान् इदानीमपि अस्मिन् कार्यक्रम: प्रचलन् अस्ति । यदा द्वितीयवारं जगदीश डाभी (गुजरात) महोदयेन संस्कृत जनभाषा भवेत् फेसबुक समूहे संस्कृतं ज्ञानर्धकं (लाइव) जीवंत-प्रश्नोत्तरी प्रतियोगिता प्रत्येक-रविवासरे रात्रौ नव वादनतः दश-वादन पर्यन्तम् आरब्धाः। इदानीमपि अस्मिन् प्रतियोगिता प्रचलन् अस्ति । यदा तृतीयवारम् अमित ओली (उत्तराखंड) महोदयेन संस्कृतं बाल-प्रतिभा सम्मान नाम्नी प्रतियोगितायाः चर्चा कृत्वा नूतन प्रतियोगितायाः प्रारम्भः कृतः।
संस्कृत कार्यार्थे वाराणसीत: डा. चन्द्रकान्त दत्त शुक्लमहोदयस्य मार्गदर्शनानुसारं संस्कृतं बाल-प्रतिभा सम्मान नाम्नी प्रतियोगितायाः आयोजनम् अमित: ओली, जगदीश: डाभी, डा. संध्या ठाकुर: (कानपुर) च कृतवन्त: । अस्मिन् संस्कृत बाल प्रतिभा सम्मान प्रतियोगिताया: आयोजनं युवा दिवश स्वामी विवेकानन्द महोदयस्य १५४ पुण्यतिथि:, लोहणी
Monday, January 29, 2018
वन्यपशूनां कृते पानजलं वनं नीत्वा तमिल् नाट् सर्वकारः।
अगलि> वनगजानाम् उपद्रवः रूक्षः अभवत् केरेलेषु। किन्तु समीपस्थे राज्ये तमिल् नाटे वन्यपशवः शान्तः भवन्ति। वन्यपशूनां कृते पानजलं वनं नीत्वा तमिल् नाट् सर्वकारेण आदर्शत्मक-योजना कृता वर्तते। अनया योजनया प्रयोजनद्वयं स्तः। पानजलेन वन्यपशूनां संरक्षणं, गामीणानां संरक्षणं च। वनान्तर्गत जलस्रोतानां शोषणावसरे पशवः वनात् अवतीर्य ग्रामं आगच्छन्ति। ग्रामीणानां कृषि आदिकं नाशयन्ति। ग्रामकुटीरेषु अतिक्रम्य नाशं कुर्वन्ति च। हिम्स्र जन्तवः अपि एवं गृहपशून् हत्वा भक्षयन्ति।
इमां अवस्तां परिहर्तुं वनान्तभागस्थ जलाशयस्य समीपे जलसम्पूरिणी निर्मीय आदर्शभूताः अभवत् तमिल् नाट् सर्वकारः। ११५ जलसम्पूरण्यः जनानां तथा वन्यपशुनां सुरक्षा युगपदेव कुर्वन्ति। एकस्मिन् जलसम्पूरप्यां ५००० लिट्टर् जलसंवहनक्षमता अस्ति।
Subscribe to:
Posts (Atom)