OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 19, 2018

29 वस्तूनां 54 सेवनानां च पण्य-सेवनकरः न्यूनीकृतः।
       नवदिल्ली>केन्द्रतल राज्यतल आर्थिकोपक्रमात् पूर्वं आयोजिते पण्यसेवनकरायोगस्य उपवेशने नवविंशतिः २९ वस्तूनां तथा चतुर्पञ्चाशत् (५४) सेवनानां सेवनकरः न्यूनीकर्तुं निश्चितः। पेट्रोलियं रियल् एस्टेट् मण्डलौ अपि पण्यसेवनकर नियमस्य परिधौ आनेतुं निश्चयः न अभवत्। द्वितीयस्वामित्षु वहनेषु उपयुज्यमानस्य जैवतैलस्य, मधुरापूपानां करः न्यूनीकृतः। नूतनः करादान क्रमः जनुवरिमासस्य पञ्चविंशति दिनाङ्कात् प्रबलं  भविष्यति। केचन कर्मस्य, क्रीडोद्यानप्रवेशस्य च करः न्यूनीकृतः अस्ति।
पेट्रोलियं उत्पन्नानां भूमिव्यापारस्य च कर स्वीकरणम् अधिकृत्य आगामि उपवेशने निश्चयः करिष्यते इति केन्द्रधनमन्त्रिणा अरुण् जैट्लीमहोदयेन उक्तम्।
त्रिपुरा, मेघालया, नागालान्ट् निर्वाचनम् उद्घोषितम्। 
               नवदिल्ली > त्रिपुरा, मेघालया, नागालान्ट् इत्येषां राज्याणां विधानसभानिर्वाचनस्य दिनाङ्काः प्रख्यापिताः। त्रिपुरायां फेब्रुवरी १८, मेघालयायां तथा नागालान्टे च फेब्रुवरी २७ तमे दिनाङ्के निर्वाचनं भविष्यति। त्रिषु राज्येष्वपि मतगणना मार्च् तृतीयदिने भविष्यति। मुख्यनिर्वाचनाधिकारी अचल् कुमार् ज्योतिः निर्वाचनप्रख्यापनं कृतवान्। त्रिष्वपि राज्येषु प्रतिपदं ६० स्थानानि प्रकारेण सन्ति।
संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥   
- रम्या पि यु
          नवदिल्ली> संस्कृतं पठति चेत् धिषणाशक्ति: वर्धते, बुद्धिश्च जागृता भवतीति मतिमुन्नीय गवेषणफलम्। धमनीशास्त्रज्ञ: जयिंस् हार्ट्सेल् एव एतत्सम्बद्धः लेखं 'सयन्टिफिक् अमेरिकन्स जर्णल्' मध्ये प्रसिद्धीकृतवान्। संस्कृतलेखनेन वाचनेन च चिन्ताशक्तिविकास: बुद्धिविकासश्च जायतेति परीक्षणानाम् आधारेण स: प्रस्तौति। हार्वार्ड् सर्वकलाशालाया: संस्कृतम् पठितवान् स:। इटल्या: ट्रेन्टो विश्वविद्यालयस्य  सहप्रवर्तका: हरियानाया: नाशनल् ब्रेयिन् रिसर्च् केन्द्रस्य डो तन्मयनाथ:, डोर नन्दिनी चाटर्जी च मिलित्वा अनुसन्धानं कृतवन्त:। शास्त्रीयरीत्या यजुर्वेदं पठितान् पण्डितानेव अनुसन्धानेषु समायोजयत्।
सर्वकारकोशगृहनियन्त्रणं निराकृतं - आर्थिकप्रतिसन्धिः लघूकृतः।
                   अनन्तपुरी > केरले सर्वकारवित्तकोशगृहेषु अनुवर्तमानम् आर्थिकनियन्त्रणं निराकृतम्। द्विसहस्रंकोटि रूप्यकाणि ऋणरूपेण सङ्कलितानि इत्यत एव धनप्रतिसन्धिः लघूकृत इति राज्यस्य वित्तमन्त्री डो. तोमस् ऐसक्कः उक्तवान्। पञ्चकोटिरूप्यकाणाम् आर्थिकव्यवहारेषु परं नियन्त्रणं न भविष्यति।

Thursday, January 18, 2018

दिल्लीस्थसर्वकार विद्यालयेषु CCTV उपयुज्य दृश्यानि तत्समय-प्रसारणं कुर्वन्ति।
               नवदिल्ली> रक्षाकर्तृभ्यः विद्यालयस्य प्रवर्तनानि यथाकालं दृष्टुम् दिल्लीस्थसर्वकार विद्यालयेषु CCTV उपयुज्य दृश्यानं  तत्समय-प्रसारणं दृष्टुं रक्षाकर्तारः प्रभवेयुः। दिल्लीमुख्यमन्त्रिणा अरविन्द्‌केजरिवाल् महोदयेन ख्यापितम्। सर्वेषु सर्वकारीय विद्यालयेषु मासत्रयाभ्यन्तरेण छायाग्राही स्थापयिष्यते इत्यपि तेन उक्तम्। सर्वेषां रक्षा कर्तॄणाम् स्वस्य अपत्यस्य कक्ष्याप्रकोष्टः समर्थदूरवाणि द्वारा दृष्टुं शक्यते। विद्यार्थिनां सुरक्षायाः भागतया एव अयं प्रक्रमः। गुड्गावस्य वैयक्तिक विद्यालये सप्तवयस्कस्य निधनस्य कारणतया एव इयं सुराक्षा प्रक्रमः। विद्यालय-सुराक्षानुबन्धतया आयोजितः विशेषावलोकनो पवेशनानान्तरमेव आसीत् मुख्यमन्त्रिणः  इदं प्रख्यापनम्।
अतिशैत्येन हिमकणानि पक्ष्मणोः अपि घनीभूतानि। तापमानं -६२ं
       ओम्याकोणः> भूम्यां जनावासप्रदेशेषु अति शैत्यम् अनुभूयमानं भवति सैबीरिया। सैबीरिया देशस्थ ओम्याकोणस्य तापमानः -६२ डिग्री इति न्यूनीभूतः अभवत्। पक्ष्मणोः अपि हिमकणानि घनीभूतानि इत्यस्य प्रमाणत्वेन सामूहिक माध्यमेषु अपि तैः चित्राणि प्रकाशयन्।  तापमानस्य  न्यूनता सामान्य तापमापिन्यः भग्नान्यभवन्। तदा विद्युत्मापिनीम् उपयुज्य मापनं कृतम् । तदा न्यूनतापमानः -६२डिग्री  सेल्स्यस्  इति ज्ञातम् इति सैबीरियस्थ वार्ता पत्रिकया आवेदितम्।
ऐ एस् एल् पादकन्दुकस्पर्धायां केरला ब्लास्टेर्स् पराजितम्।
जम्षट्पूर् > ऐ एस् एल् पादकन्दुकसपर्धापरम्परायां केरला ब्लास्टेर्स् दलं जम्षट्पूर् दलेन पराजितम्। एकं विरुद्ध्य लक्ष्यकन्दुकद्वयेनैव केरलस्य पराजयः।

Wednesday, January 17, 2018

हज्ज् धनानुकूल्यम् अवस्थापितम्।
        नवदिल्ली > भारतस्य  हज्ज्तीर्थाटकेभ्यः कृते दीयमानं धनानुकूल्यं [Subsidy]  अवस्थापयितुं केन्द्रसर्वकारेण निर्णीतम्। अस्मात् वर्षादारभ्य  तीर्थाटकाः धनसाहाय्यं न लभन्ते। केन्द्रस्य न्यूनपक्षक्षेममन्त्रिणा मुख्तार् अब्बास् नख्वि वर्येण इदं वृत्तान्तं स्थिरीकृतम्।
     साहाय्येन विनियुक्तं धनं इस्लाममहिलानां क्षेमाय तथा मुस्लीं बालिकानां अध्ययनकार्याय उपयोक्तुमेव सर्वकारस्य पर्यालोचना। शासनानुशासनपीठस्य २०१२ तमवर्षस्य आदेशमनुसृत्यैव अयं निर्णय इति मन्त्री प्रवोचत्। प्रीणनं विना अभिमानेन न्यूनपक्षशक्तीकरणमिति सर्वकारलक्ष्यमेवानेन उद्दिश्यते -  नख्विना स्पष्टीकृतम्।
मुम्बई उदग्रयानदुरन्तः - वैमानिकस्य मृतशरीरं सन्दृष्टम्।
          मुम्बई > ओ एन् जि सि संस्थायाः उदग्रयानदुरन्ते अन्तर्भूताः सप्त जना अपि मृताः इति स्थिरीकृतम्। दुर्घटनानन्तरं संवृत्ते अन्वेषणे सप्तमं मृतशरीरमपि सन्दृष्टम्। वैमानिकस्य 'वि सि कटोच्चे' नामकस्येदं शरीरमिति प्रत्यभिज्ञातम्। गतशनिवासरे एव मुम्बई समीपे समुद्रे उदग्रयानं पतितम्।
आत्मरक्षार्थं निलीयमानः अभवदिति प्रवीण् तोगाडिया।
      अहम्मदाबाद् > भा ज दलस्य शासने वर्तमानयोः राजस्थान् गुजरात् राज्ययोः आरक्षकदलेन आत्मानं संघट्टनेन अवसादयितुम् उद्यमः कृत इति विश्वहिन्दुपरिषदः अन्ताराष्ट्र कर्माध्यक्षः प्रवीण् तोगाडिया वार्ताहरसम्मेलने आरोपितवान्।
      केषुचित्पुरातनव्यवहारेषु निबन्धनादेशमनुसृत्य परिषदः कार्यालयं प्राप्तमारक्षकबलं वञ्चयित्वा गतदिने गूढगमनं कृतवन्तं तोगाडियावर्यं रात्रौ विवशः सन् आतुरालयं प्रवेशितः आसीत्। आतुरालये संवृत्ते वार्ताहरसम्मेलने आत्मानं विरुद्ध्य गूढालोचना वर्तते इति तेन आरोपितम्।
मध्यप्रदेशस्य मुख्यमन्त्रिणा शिवराजसिंहचौहानेन सुरक्षाकर्मिणोपरी चपेटिकाप्रहार: कृत:
मध्यप्रदेशस्य मुख्यमन्त्रिणा शिवराजसिंहचौहानस्य  सुरक्षाकर्मिणोपरी चपेटिकाप्रहारस्य कथितदृश्यांकनं प्रसरति ।  सरदारपुरायां नैर्वाचनिकजनसभावसरे सुरक्षाकर्मिणे चपेटिकाप्रहारस्य छायाचित्रं यन्त्रे सञ्चितम् । तेन चपेटिकां प्रददता सुरक्षाकर्मी मार्गात् पृथक्कृत: । घटनेयं प्रदेशस्य राजनीतौ चर्चाविषयमुपगता । मध्यप्रदेशे कांग्रेसदलस्यस्य प्रमुखप्रवक्ता केके मिश्रेण  मुख्यमन्त्रिणं विरुध्य 332 अथ च 353 विध्यन्तर्गतं कार्याचरणम् अध्यर्थितम् । अपि चोक्तं यत् दायित्वनिरतेन कर्मचारिणा सह दुर्व्यवहार: अपराधो वर्तते।
Episode 73

Tuesday, January 16, 2018

इन्धनतैलस्य निश्शब्दमूल्यवृद्धिः। 
         कोच्ची > पेट्रोल् डीसल् इत्यादीन्धनतैलानां मूल्यं प्रतिदिनं निश्शब्दं वर्धते। अस्य मूल्यवर्धनस्य अनुरणनानि नित्योपयोगवस्तूनां मूल्यवर्धनरूपेण सामान्यजनानां जीवनक्रमे तालभङ्गं कारयति।  पेट्रोल् तैलस्य मूल्यं गतेषु चतुर्षु संवत्सरेषु उन्नततमं  प्राप्तमस्ति। डीसल् तैलस्य मूल्यं इतःपर्यन्तम् अत्युन्नतं प्राप्तम्। डिसम्बर् २९ दिनाङ्कादारभ्य दिनंप्रति पेट्रोल् तैलस्य १२ पैसा , डीसल् तैलस्य २० पैसा क्रमेण वृद्धिः जायते। राजनैतिकदलनेतारः शासनपक्ष-विपक्षभेदं विना अन्धतां नाटयन्ति। इन्धनतैलस्य प्रतिदिनमूल्यनिर्णयरीतिः २०१७ जूण् १६ दिनाङ्कादारभ्य एव प्रावर्तिकमभवत्।

Monday, January 15, 2018

इस्रायेल् प्रधानमन्त्री भारतसन्दर्शनाय प्राप्तः। 
      नवदिल्ली > षड्दिवसीय भारतसन्दर्शनाय इस्रायेलराष्ट्रस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहू वर्यः भारतं प्राप्तवान्। भारतप्रधानमन्त्री नरेन्द्रमोदी साक्षादागत्य नवदिल्ली विमानपत्तनं सम्प्राप्तं नेतन्याहुवर्यं स्वीकृतवान्। २००३ तमे वर्षे एरियल् षारोण् वर्यस्य आगमनानन्तरं इदानीमेव इस्रयेल् प्रधानमन्त्रिणः भारतसन्दर्शनं सम्पद्यते। 
     कृषिः, साङ्केतिकविद्या, शास्त्रं, बहिराकाशः, जलं, संरंभकत्वम् इत्यादिविषयेषु परस्परसहयोगमधिकृत्य चर्चा भविष्यतीति विदेशकार्यमन्त्रालयवक्ता अब्रवीत्। १३० अङ्गसंघैः सह एव नेतन्याहुवर्यस्य भारतपर्यटनम्। गुजरात् मुम्बई प्रदेशेषु अपि तस्य सन्दर्शनं भविष्यति।

Sunday, January 14, 2018

विद्यालयस्तरादारभ्य योगः अध्येतव्य इति केन्द्रविभावनम् – मन्त्री श्रीपादः। 
               कोच्ची > विद्यालयस्तरादारभ्य योगशास्त्रं पाठ्यविषयत्वेन स्वीकरणीयमिति केन्द्रसर्वकारस्य नयः इति केन्द्र आयुष्मन्त्रिणा श्रीपाद यशोनायिक् वर्येणोक्तम्। कोच्चीमध्ये 'पतञ्जलि योग ट्रयिनिंग् आन्ड् रिसर्च् सेन्टर्' संस्थायाः "नमामि योगम् २०१८" नामकं साधकसङ्गमं योगपैतृकपुरस्कारसमर्पणं च उद्घाटनं कुर्वन् भाषमाण आसीत् केन्द्रमन्त्री। 
               योगशास्त्रस्य अधिकप्रचाराय प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रयत्नः केन्द्रमन्त्रिणा संस्तुतः। सज्जीवनस्य मार्गः एव योगपरिशीलनेन सिद्ध्यति। मारकरोगान् प्रतिरोद्धुं च योगानुशीलनेन साध्यते इति तेनोक्तम्।
तैल-प्रकृतिवातकनिगमस्य उदग्रयानं समुद्रे पतित्वा ५ मृताः , द्वावदृष्टौ। 
        मुम्बई > तैल-प्रकृतिवातकनिगमस्य [ओ एन् जि सि] अधीशत्वे वर्तमानम् उदग्रयानं विशीर्य समुद्रे पतितम्। निगमस्य पञ्च वरिष्ठाधिकारिणः तथा द्वौ वैमानिकौ उदग्रयानमुपस्थिताः आसन्। तेषु पञ्चानां मृतदेहाः लब्धाः। केषां मृतशरीराणीति स्थिरीकरणं न लब्धम्। 
       मुम्बय्यां जूहू तटात् 'मुम्बई है'स्थं तैलखनन-पर्यवेषणकेन्द्रं प्रति प्रस्थितं पवनहंसनामकम् उदग्रयानं शनिवासरे प्रभाते सार्धत्रिवादने एव प्रभञ्ज्य समुद्रे अपतत्। दुर्घटनाविधेयेषु त्रयः केरलीयाः सन्ति। ते ओ एन् जि सी संस्थायाः उत्पादनविभागे उपमहाप्रबन्धकाः आसन्।

Saturday, January 13, 2018

 युगेऽस्मिन् संस्कृतक्षेत्रात् भविष्यति नवविवेकानन्दः , - डाँ. के.साम्बशिवमूर्तिः
वार्ताहरः - दीपक शास्त्री

       जीवने सर्वदा स्वामीविवेकानन्दस्य इव आचरणं कर्तव्यपालनम् च करणीयम्। गुरुं प्रति निष्ठावन्तःभवेयु:। नवभारतस्य निर्माणे संस्कृतशिक्षकाणां संस्कृतछात्राणां च मुख्यं दायित्वं वर्तते। युगेऽस्मिन् संस्कृतक्षेत्रात् भविष्यति नवविवेकानन्दः इति डॉ साम्बशिव मूर्तिना  उक्तम् । जगद्गुरु रामानन्दाचार्य राजस्थानसंस्कृत विश्वविद्यालये जनवरी मासस्य द्वादश  दिनांके स्वामीविवेकानंदस्य एकशताधिक पंचपंचाशत् जयन्त्या: उपलक्ष्ये कार्यक्रमस्य आयोजने अध्यक्षभाषणं कुर्वन्  आसीत्  सः।  विशिष्टातिथि: व्याकरण विभागाध्यक्ष: डॉ प्रमोदशर्मणा उक्तं यत् चरित्रनिर्माणम् एव जीवनस्य निर्माणं वर्तते जीवने चरित्रस्य मूल्यं महत्वपूर्णमस्ति उत्तमेन चरित्रेण वयं जीवने सर्वस्वं प्राप्तुं शक्नुम: अस्मिन् अवसरे सारस्वतातिथि: अशोकतिवारी महोदयेन  उक्तं यत् यदा अस्माकम् इच्छा विवेकानंदस्य सदृशी भविष्यति  तदा अस्मान् रामकृष्णपरमहंस: सदृश: गुरो: प्राप्तिर्भविष्यति । भारतीयाः स्वकीयाध्यात्मबलेन विश्वं जेतुं प्रभवन्ति । मानवदेहस्य  मुख्य-तत्वानि ज्ञातृत्व मन्तृत्व कर्तृत्वानि सन्ति। अनन्तरं मुख्यवक्ता डॉ विनोदशर्मणा उक्तं यत् हिंदूधर्म: अतीव समुन्नत:। हैन्दवाणां सभ्यता अतीव समृद्धास्ति सर्वेषां जनानां दायित्वं अस्ति यत् स्वामीविवेकानन्दः येन प्रकारेण अस्माकं संस्कृति वैश्विकस्तरे प्रतिष्ठापिता ।   भारत: विश्वगुरु: स्यात् अतः वयं कटिबद्धाः भवेम:। अनन्तरं कार्यक्रमे विभागीय  छात्रः मोहित: पूनम् शाक्य घनश्यामः शिवानी शर्मा  भूपेश चौबीसा जुगलव्यास: चंद्रहंसः अमित कुमार झा दीनदयाल: मोहनः लोकेशःदेवन्द्रः निखिलादयः स्वकीय विचारान् अप्रकटयन्। सर्वेषाम् विभागाणां शिक्षकवृंदा: छात्रा:कार्यक्रमे समुपस्थिता: आसन्। मंच संचालनम् विभागीयछात्रौ आशीषगजेन्द्रौ कृतवन्तौ।
राष्ट्रस्य परमोन्नततीतिपीठे विश्वासप्रतिसन्धिः। 
नवदिल्ली > राष्ट्रस्य परमोन्नतनीतिपीठस्य विश्वास्यतां कण्टकाग्रे संस्थाप्य सर्वोच्चन्यायालयस्य शासनसंविधानं मुख्यन्यायाधिपं च विरुध्य तत्रस्थाः चत्वारः वरिष्ठन्यायमूर्तिनः रङ्गप्रवेशं कृतवन्तः। न्यायाधिपाः जे. चेलमेश्वरः, रञ्जन् गोगोय्, मदन् बि लोकुर्, कुर्यन् जोसफः इत्येते गतदिनस्य न्यायालयकार्यक्रमान् स्थगयित्वा वार्ताहरसम्मेलनं कृतवन्तः। यदि नीतिन्यायसंविधानं न संरक्षिष्यति तर्हि जनाधिपत्यस्य दुर्घटना भविष्यतीति तैः तीव्रभाषया उक्तम्।