OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 16, 2018

इन्धनतैलस्य निश्शब्दमूल्यवृद्धिः। 
         कोच्ची > पेट्रोल् डीसल् इत्यादीन्धनतैलानां मूल्यं प्रतिदिनं निश्शब्दं वर्धते। अस्य मूल्यवर्धनस्य अनुरणनानि नित्योपयोगवस्तूनां मूल्यवर्धनरूपेण सामान्यजनानां जीवनक्रमे तालभङ्गं कारयति।  पेट्रोल् तैलस्य मूल्यं गतेषु चतुर्षु संवत्सरेषु उन्नततमं  प्राप्तमस्ति। डीसल् तैलस्य मूल्यं इतःपर्यन्तम् अत्युन्नतं प्राप्तम्। डिसम्बर् २९ दिनाङ्कादारभ्य दिनंप्रति पेट्रोल् तैलस्य १२ पैसा , डीसल् तैलस्य २० पैसा क्रमेण वृद्धिः जायते। राजनैतिकदलनेतारः शासनपक्ष-विपक्षभेदं विना अन्धतां नाटयन्ति। इन्धनतैलस्य प्रतिदिनमूल्यनिर्णयरीतिः २०१७ जूण् १६ दिनाङ्कादारभ्य एव प्रावर्तिकमभवत्।

Monday, January 15, 2018

इस्रायेल् प्रधानमन्त्री भारतसन्दर्शनाय प्राप्तः। 
      नवदिल्ली > षड्दिवसीय भारतसन्दर्शनाय इस्रायेलराष्ट्रस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहू वर्यः भारतं प्राप्तवान्। भारतप्रधानमन्त्री नरेन्द्रमोदी साक्षादागत्य नवदिल्ली विमानपत्तनं सम्प्राप्तं नेतन्याहुवर्यं स्वीकृतवान्। २००३ तमे वर्षे एरियल् षारोण् वर्यस्य आगमनानन्तरं इदानीमेव इस्रयेल् प्रधानमन्त्रिणः भारतसन्दर्शनं सम्पद्यते। 
     कृषिः, साङ्केतिकविद्या, शास्त्रं, बहिराकाशः, जलं, संरंभकत्वम् इत्यादिविषयेषु परस्परसहयोगमधिकृत्य चर्चा भविष्यतीति विदेशकार्यमन्त्रालयवक्ता अब्रवीत्। १३० अङ्गसंघैः सह एव नेतन्याहुवर्यस्य भारतपर्यटनम्। गुजरात् मुम्बई प्रदेशेषु अपि तस्य सन्दर्शनं भविष्यति।

Sunday, January 14, 2018

विद्यालयस्तरादारभ्य योगः अध्येतव्य इति केन्द्रविभावनम् – मन्त्री श्रीपादः। 
               कोच्ची > विद्यालयस्तरादारभ्य योगशास्त्रं पाठ्यविषयत्वेन स्वीकरणीयमिति केन्द्रसर्वकारस्य नयः इति केन्द्र आयुष्मन्त्रिणा श्रीपाद यशोनायिक् वर्येणोक्तम्। कोच्चीमध्ये 'पतञ्जलि योग ट्रयिनिंग् आन्ड् रिसर्च् सेन्टर्' संस्थायाः "नमामि योगम् २०१८" नामकं साधकसङ्गमं योगपैतृकपुरस्कारसमर्पणं च उद्घाटनं कुर्वन् भाषमाण आसीत् केन्द्रमन्त्री। 
               योगशास्त्रस्य अधिकप्रचाराय प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रयत्नः केन्द्रमन्त्रिणा संस्तुतः। सज्जीवनस्य मार्गः एव योगपरिशीलनेन सिद्ध्यति। मारकरोगान् प्रतिरोद्धुं च योगानुशीलनेन साध्यते इति तेनोक्तम्।
तैल-प्रकृतिवातकनिगमस्य उदग्रयानं समुद्रे पतित्वा ५ मृताः , द्वावदृष्टौ। 
        मुम्बई > तैल-प्रकृतिवातकनिगमस्य [ओ एन् जि सि] अधीशत्वे वर्तमानम् उदग्रयानं विशीर्य समुद्रे पतितम्। निगमस्य पञ्च वरिष्ठाधिकारिणः तथा द्वौ वैमानिकौ उदग्रयानमुपस्थिताः आसन्। तेषु पञ्चानां मृतदेहाः लब्धाः। केषां मृतशरीराणीति स्थिरीकरणं न लब्धम्। 
       मुम्बय्यां जूहू तटात् 'मुम्बई है'स्थं तैलखनन-पर्यवेषणकेन्द्रं प्रति प्रस्थितं पवनहंसनामकम् उदग्रयानं शनिवासरे प्रभाते सार्धत्रिवादने एव प्रभञ्ज्य समुद्रे अपतत्। दुर्घटनाविधेयेषु त्रयः केरलीयाः सन्ति। ते ओ एन् जि सी संस्थायाः उत्पादनविभागे उपमहाप्रबन्धकाः आसन्।

Saturday, January 13, 2018

 युगेऽस्मिन् संस्कृतक्षेत्रात् भविष्यति नवविवेकानन्दः , - डाँ. के.साम्बशिवमूर्तिः
वार्ताहरः - दीपक शास्त्री

       जीवने सर्वदा स्वामीविवेकानन्दस्य इव आचरणं कर्तव्यपालनम् च करणीयम्। गुरुं प्रति निष्ठावन्तःभवेयु:। नवभारतस्य निर्माणे संस्कृतशिक्षकाणां संस्कृतछात्राणां च मुख्यं दायित्वं वर्तते। युगेऽस्मिन् संस्कृतक्षेत्रात् भविष्यति नवविवेकानन्दः इति डॉ साम्बशिव मूर्तिना  उक्तम् । जगद्गुरु रामानन्दाचार्य राजस्थानसंस्कृत विश्वविद्यालये जनवरी मासस्य द्वादश  दिनांके स्वामीविवेकानंदस्य एकशताधिक पंचपंचाशत् जयन्त्या: उपलक्ष्ये कार्यक्रमस्य आयोजने अध्यक्षभाषणं कुर्वन्  आसीत्  सः।  विशिष्टातिथि: व्याकरण विभागाध्यक्ष: डॉ प्रमोदशर्मणा उक्तं यत् चरित्रनिर्माणम् एव जीवनस्य निर्माणं वर्तते जीवने चरित्रस्य मूल्यं महत्वपूर्णमस्ति उत्तमेन चरित्रेण वयं जीवने सर्वस्वं प्राप्तुं शक्नुम: अस्मिन् अवसरे सारस्वतातिथि: अशोकतिवारी महोदयेन  उक्तं यत् यदा अस्माकम् इच्छा विवेकानंदस्य सदृशी भविष्यति  तदा अस्मान् रामकृष्णपरमहंस: सदृश: गुरो: प्राप्तिर्भविष्यति । भारतीयाः स्वकीयाध्यात्मबलेन विश्वं जेतुं प्रभवन्ति । मानवदेहस्य  मुख्य-तत्वानि ज्ञातृत्व मन्तृत्व कर्तृत्वानि सन्ति। अनन्तरं मुख्यवक्ता डॉ विनोदशर्मणा उक्तं यत् हिंदूधर्म: अतीव समुन्नत:। हैन्दवाणां सभ्यता अतीव समृद्धास्ति सर्वेषां जनानां दायित्वं अस्ति यत् स्वामीविवेकानन्दः येन प्रकारेण अस्माकं संस्कृति वैश्विकस्तरे प्रतिष्ठापिता ।   भारत: विश्वगुरु: स्यात् अतः वयं कटिबद्धाः भवेम:। अनन्तरं कार्यक्रमे विभागीय  छात्रः मोहित: पूनम् शाक्य घनश्यामः शिवानी शर्मा  भूपेश चौबीसा जुगलव्यास: चंद्रहंसः अमित कुमार झा दीनदयाल: मोहनः लोकेशःदेवन्द्रः निखिलादयः स्वकीय विचारान् अप्रकटयन्। सर्वेषाम् विभागाणां शिक्षकवृंदा: छात्रा:कार्यक्रमे समुपस्थिता: आसन्। मंच संचालनम् विभागीयछात्रौ आशीषगजेन्द्रौ कृतवन्तौ।
राष्ट्रस्य परमोन्नततीतिपीठे विश्वासप्रतिसन्धिः। 
नवदिल्ली > राष्ट्रस्य परमोन्नतनीतिपीठस्य विश्वास्यतां कण्टकाग्रे संस्थाप्य सर्वोच्चन्यायालयस्य शासनसंविधानं मुख्यन्यायाधिपं च विरुध्य तत्रस्थाः चत्वारः वरिष्ठन्यायमूर्तिनः रङ्गप्रवेशं कृतवन्तः। न्यायाधिपाः जे. चेलमेश्वरः, रञ्जन् गोगोय्, मदन् बि लोकुर्, कुर्यन् जोसफः इत्येते गतदिनस्य न्यायालयकार्यक्रमान् स्थगयित्वा वार्ताहरसम्मेलनं कृतवन्तः। यदि नीतिन्यायसंविधानं न संरक्षिष्यति तर्हि जनाधिपत्यस्य दुर्घटना भविष्यतीति तैः तीव्रभाषया उक्तम्।

Friday, January 12, 2018

भारतस्य १०० तमः उपग्रहः बाह्याकाशं प्राप्तः भारतानां अभिमाननिमेषः।
           श्रीहरिक्कोट्ट> भारतस्य शततम उपग्रहः भ्रमणपथं प्राप्यात्‌ ऐ एस् आर् ओ संस्थया। अद्य प्रातः ९: ४५ वादने आसीत् विक्षेपणम्। कार्टो साट् २ श्रेणीस्थः उपग्रहेन सह त्रिशत् उपग्रहाः आसन्।  भारतस्य द्वाै उपहौ आस्तां अस्मिन् विक्षेपणे। अन्ये उपग्रहाः अन्येषां राष्ट्राणामेव। पि एस् एल् वि सि ५० इतिआकाश बाणः भवति  उपग्रहाणां वाहकः। विक्षिप्ते उपग्रहयो: भारतभूविभागस्य सुव्यक्त चित्र-ग्रहणाय विशेषचित्रग्राही अपि स्तः इति विशेषता।  एतयोः भारः 710 किलोग्रॉ मितः । भूमीतः505 किलोमीट्टर् दूरे भवति एतयोः भ्रमणपथः । 
वयः चत्वारः पुस्तकशतं पठति प्रतिदिनम्।
-विशेष वार्ताः
काव्यशास्त्रविनोदेन 
कालोगच्छति धीमताम्।
व्यसनेन च मूर्खाणां
निद्रया कलहेन वा ॥
                 इति श्लोकः प्रसिद्धः खलु ?    पुस्तकवाचने उत्सुकाः लोके बहवः सन्ति। किन्तु प्रतिदिनं शतम् पुस्तकानि वाचयितुं शाक्यते वा ? शक्यते इत्यस्य निदर्शनभूतः चतुर्वयस्कः बालकः अस्ति। चिक्कागो नगरस्थः कलेब् ग्रीन् इति नामकः बालकः।
               एकस्मिन् दिने तेन उक्तम्  तस्मै वाचनाय शतं पुस्तकानि आवश्यकानि इति। तस्य पित्रा सैलसेन सा क्रीड़ा-वाक्यमिति चिन्तितम्। पुत्रस्य दृढनिश्चयेन प्रभावितः पिता तस्मै साहाय्यमकरोत्। सार्धद्विहोराभ्यः पुस्तकशतं वाचयितुं तस्य प्रयत्नः सफलतामवाप। तथा कलेब् ग्रीनस्य वाचनं तस्य पिता सैलसः एव मुखपुस्तिकायं तस्मिन्नेव काले प्रसारयत् ।
                मम नाम कलेब् ग्रीन् अहं शतं पुस्तकानि इदानीं पठामि इति उक्त्वा एव चलनमुद्रिका प्रारभते। त्रयघण्डा-परिमितं चलन मुद्रिका सम्प्रेषणं दृष्वा बहवः जनाः रोचते इति मुद्रया मुखपुस्तिकायाम् मुद्राङ्कनम् अकरोत् ।

Thursday, January 11, 2018

कनककिरीटं कोष़िक्कोट् जनपदाय।
         तृश्शिवपेरूर् > केरलराज्यस्तरीयविद्यालयकलोत्सवः समाप्तः। अघिकतमाङ्कप्राप्तस्य जनपदस्य कृते दीयमानं सुवर्णकिरीटं कोष़िक्कोट् जनपदेन प्राप्तम्। तैः ८९५ अङ्काः प्राप्ताः। ८९३ अङ्कैः पालक्काट् जनपदेन द्वितीयस्थानमवाप्तम्। तृतीयचतुर्थस्थाने यथाक्रमं मलप्पुरं तृश्शूर् जनपदाभ्यां प्राप्ते।  आगामिवर्षस्य कलोत्सवः आलप्पुष़ा जिल्लायां प्रचलिष्यति।
       राज्यविपक्षनेता रमेश् चेन्नित्तला समाप्तिसम्मेलनस्य उद्घाटनंनिरवहत्। शिक्षामन्त्री प्रोफ. सि. रवीन्द्रनाथः कृषिमन्त्री वि एस् सुनिल्कुमारः डि पि ऐ मोहन्कुमारः इत्यादयः कार्यक्रमे सन्निहिताः आसन्।
भारतस्य ८.३ प्रतिशतं वर्द्धितमिति विश्व आर्थिकालयः। एवं भारतं चैनां पारं गच्छति।
               वाषिड्डण्< सर्वकारस्य आर्जवं प्रशंस्य विश्वार्थिकालयेन भारतस्य विकासः भविष्यतीति उक्तम्। नरेद्रमोदिनः तथा भा जा पा सर्वकारं ऊर्जदायकमस्ति विश्वार्थिकालयस्य इयमुक्तिः।  आर्थिकपरिष्करणैः २०१८ तमे वर्षे भारतं ७.३ प्रतिशतं वर्षद्वयानन्तरं ७.५ प्रतिशतं च वृद्धिः प्राप्स्यति इति विश्वार्थिकालयः प्रतीक्ष्यते। २०१७ संवत्सरे ६.७ प्रतिशतं आसीत् वृद्धिः। किन्तु भारतं एतत् सर्वं अतिक्रामति इति आगोलार्थिकदर्शन प्रतिवेदने विश्वार्थिकालयः वदति।
           भारतस्य वृद्धिः बृहती  भवति। चैनायाः वृद्धिः मन्दरूपेण भवति। विश्वार्थिकालयस्य निदेशकः अय्खान् कोस् अवदत्। २०१७ तमे चैनायाः वृद्धिः ६.८ प्रतिशतमासीत्। २०१८ तमे वर्षे ६.४ प्रतिशतं च भविष्यति गणयति। आगामिनि वर्षेषु यथाक्रमं ६.३, ६.२ प्रतिशतं च भविष्यति। विश्वस्य पञ्चमं आर्थिकशक्तिरूपेण भारतं परिणमति इति सेण्टर फोर् इक्कणोमिक्स् आण्ड् बिसिनस् रिसर्च् कण्सल्टन्सी संस्थायाः प्रतिवेदने वदति। ब्रिट्टन् फ्रान्स् इत्यादि राष्ट्रौ अतिक्रम्य भारतं एनं स्थानं प्राप्स्यति। पञ्चदशवर्षाभ्यन्तरे विश्वस्य दश आर्थिकशक्तिषु ऐषियन् राष्ट्राणि पुरोगमिष्यन्तीति संस्तुत्यां वदति।

करीबिय समुद्रेषु भूकम्पः। ७.६ तीव्रता। होण्डुरास देशे सुनामि (समुद्रक्षोभः) पूर्व सूचना दत्ता ।
            टेगुसिगल्प> करीबिय समुद्रेषु ७.६ तीव्रतायां भूकम्पः सञ्जातः इत्यनेन मध्य अमेरिका भूखण्डस्थ करीबियराष्ट्रे सुनामि पूर्वसूचना प्रदत्ता अस्ति। यु एस् जियोलजिक्कल् सर्वे नाम संस्थया एव  भूकम्पः आवेदितः। मनुष्याणां मृत्युः नाभवत् इति प्राथमिक विवरणम् ।
             आलयानां भित्तिभ्रंशानां चित्राणि सामूहिकमाध्यमेषु प्रचलितानि वर्तन्ते। उत्तर अमेरिकायाः करीबिय प्रतलस्य मध्यभागे  आपन्नः भ्रंशनमेव भूकम्पस्य कारणं इति वदन्ति।

Wednesday, January 10, 2018

अन्येषां वस्तुसम्पत् भारताय न आवश्यकी। भारतस्य प्रधानमन्त्री।
      नव दिल्ली > अन्येषां सम्पद् भारतं न वाञ्चति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। भारतवंशजानां राष्ट्रान्तर-लोकसभा सामाजिकानां  मेलने भाषमाणः आसीत् सः। भारतस्य संबन्धः लाभनष्टानाम्  अन्तरं दृष्ट्वा न। मानवीक मूल्येषु अधिष्ठिता एव। सीमायां भारत चीनयोः विवादघटनायाः पूर्वानुभवः मनसि निधाय आसीत्  प्रधानमन्त्रिणः परामर्शः। सृष्ट्युन्मुखभावः एव भारतेन प्रदर्श्यते।।  आतङ्कवादान् प्रतिरोद्धुं महात्मागान्धिना अहिंसा, सत्यग्रहः च अनुष्ठितः। कौशलवर्द्धने विभवानां विकासे च भवति भारतस्य श्रद्धा इत्यपि तेन उक्तम्॥
अन्येषां निधिः भारताय न आवश्यकी। भारतस्य प्रधानमन्त्री।
      नव दिल्ली >  अन्येषां सम्पद् भारतः न वाञ्चति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। भारतवंशजानांराष्ट्रान्तरलोकसभा सामाजिकानां  मेलने भाषमाणः आसीत् सः । भारतस्य संबन्धः लाभनष्टानाम्  अन्तरं दृष्ट्वा न। मानवीक मूल्येषु अधिष्ठिता एव। सीमायां भारत चीनयोः विवादघटनायाः पूर्वानुभवः मनसि निधाय आसीत्  प्रधानमन्त्रिणः परामर्शः। सृजनात्मकभावः एव भारतेन प्रदर्श्यते।  आतङ्कवादान् प्रतिरोद्धुं महात्मागान्धिना अहिंसा, सत्यग्रहः च अनुष्ठितः। कौशलवर्द्धने विभवानां विकासे च भवति भारतस्य श्रद्धा इत्यपि तेन उक्तम्॥
आशंसाप्रकाशनाय संस्कृते 'मोबैल् आप्' प्रकाशितम्। 
         तृश्शिवपेरूर् > "सम्प्रति वार्ताः श्रूयन्ताम् ....." संस्कृताभिमानिनः मनसि अद्यापि नर्तमानं भारतस्य आकाशवाणीद्वारा अवतार्यमाणायाः संस्कृतवार्तायाः प्रवेशकवाक्यं भवत्येतत्। तथा इतःपरं "शतं जीव शरतो वर्धमानः" इति जन्मदिनाशंसां, "शुभमस्तु पन्थाः" इत्यादिकं यात्रामङ्गलं, ... सर्वाः आशंसाः संस्कृतभाषायां प्रकाशयितुम् अनुरूपः SansGreet नामकः जङ्गमदूरवाणीसङ्केतः [Mobile App]  प्रकाशितः। गतदिने विद्यालयकलोत्सवनगर्यां संस्कृतोत्सवस्य प्राङ्कणे राज्यस्य मन्त्रिणा वि एस् सुनिल् कुमारेण सङ्केकस्य प्रकाशनं कृतम्।

          केरलस्य केषाञ्चन संस्कृताध्यापकानां नेतृत्वे संस्कृतभाषां नूतनसाङ्केतिकाभिलाषान् प्रति संयोजयितुमुद्दिश्य प्रवर्तमानः 'नः लैव् सान्स्कृट्' नामकसंघ एवास्याः प्रणाल्याः प्रणेता। डो.एस्.एन् महेष्बाबु,डो .जे अभिलाष्, नन्दकिषोर्.आर्, विनायक्.सी.बी, दिलीप्  एम्.डी, राजेष् पी.पी,ई, सिजोय् .ई.ए लिबि पुरनाट्टुकरा, सन्दीप् के. एस् इत्यादीनां अध्यापकानां नेतृत्वे एव एषः तन्त्रांशः सज्जीकृतः।

Tuesday, January 9, 2018

राज्यसभायासदस्यानां निर्वाचनम्
पुरुषोत्तमशर्मा
                नवदिल्ली>राज्यसभानिर्वाचनाय (आम-आदमी-पार्टीति) आपदलस्य प्रत्याशित्रयं निर्विरोधिन: प्रचिता:। सञ्जयसिंह: सुशीलगुप्‍त: एन.डी.गुप्‍तश्च निर्विरोधिन: निर्वाचिता: समुद्घोषिता:। दिल्लीत: राज्यसभाया: आसनत्रयाणां कृते प्रत्याशित्रयेण नामाङ्कनं प्रपूरितमासीत्। निर्वाचनयोगेन आपदलेन प्रस्तावितानां नामानि विजेतृरूपेणोघोषितितानि।
सैन्यप्रमुखेण सैन्यबलानामाधुनिकीकरणं सबलं प्रतिपादितम् 
 पुरुषोत्तम शर्मा
          नव दिल्ली> सेनाध्‍यक्षेण जनरलबिपिनरावतेनोक्तं यत् अरुणाञ्चलप्रदेशे अवैधप्रवेशं विधाय चीनस्य श्रमिकाणां रेलपथनिर्माणसम्बद्धा घटना समीसाधिता। जनरल रावतेन नवदिल्‍ल्याम् एकस्मिन् कार्यक्रमे वार्ताहरै: सह संवादसमये प्रोक्तं यत् घटनाया: समाधानमभवत्।

        सिक्किमे अपि भारत-चीनसीम्नि स्थितिविषय् सेनाध्‍यक्षेण निगदितं यत् चीनक्षेत्रे सुरक्षाबलानां संख्‍यायां न्यूनता सञ्जाता । इत: पूर्वं  नवदिल्‍ल्यां सेना सम्बन्धिते प्रौद्योगिकी सम्‍मेलने जनरलरावत: सैन्यबलानाम्   आधुनिकीकरणं सबलं प्रतिपादितवान् ।
गान्धिवधः - पुनरन्वेषणं नावश्यकमिति 'अमिक्कस् क्यूरी'। 
               नवदिल्ली > नाथुराम् गोड्से इत्यस्मादृते न कोऽप्यन्यः महात्मागान्धिनं प्रति भुशुण्डिप्रयोगं कृतवान् इत्यस्य प्रमाणं न विद्यते, अतः अस्मिन् प्रकरणे पुनरन्वेषणं नावश्यकमिति सर्वोच्चन्यायालयेन नियुक्तः 'अमिक्कस् क्यूरी' अमरेन्द्रशरणः न्यवेदयत्।  जनुवरि १२ दिनाङ्के अस्मिन् विषये सर्वोच्चन्यायालयस्य निर्णयः भवेत्। 
               महात्मागान्धिनः हत्यामधिकृत्य पुनरन्वेषणं निवेदयन् मुम्बईस्थायाः अभिनव भारत ट्रस्ट् इत्यस्यायाः समित्याः धरन्धरः गवेषकश्च डो. पङ्कज् फड्निस् नामकेन याचिका दत्ता आसीत्। सप्ततिसंवत्सरेभ्यः पूर्वं जातं कृत्यमधिकृत्य पुनरन्वेषणयाचिकाकारस्य उद्देश्यशुद्धिं विमर्श्य गान्धिनः पौत्रः तुषारगान्धी न्यायालयं प्राप्तवानासीत्। अस्मिन् विषये सर्वोच्चन्यायालयस्य साहाय्यार्थमेव अमिक्कस् क्यूरी नियुक्तः।