पश्चिमवंगे व्याप्यते संस्कृतम्
पश्चिमवङ्गानाम् उत्तरचब्बिशपरगनामण्डलस्य बारासतजनपदे महता समारोहेण २०१८वर्षीयं संस्कृतसम्मेलनं समायोजितम्। पौषकृष्णषष्ठीतिथौ जनवरीमासस्य सप्तमे दिने अपराह्णे त्रिवादनतः आयोजितस्य सम्मेलनस्य शुभारम्भः उपस्थितै अतिथिभिः दीपप्रज्वालनेन कृतः। दीपस्तुतिः अभिजित्-भट्टाचार्येण कृता। ततः सौगतमुखोपाध्यायेन सामगानेन कार्यक्रमस्य मङ्गलाचरणं विहितम्। आबीरलालगङ्गोपाध्यायेन कृतेन शिवपञ्चाक्षरस्तोत्रेण समवेताः सामाजिकाः मन्त्रमुग्धाः एव आसन्। सम्मेलनस्य प्रयोजनं प्रतिपादितवान् विप्लवचक्रवर्तिमहोदयः। संस्कृतस्य प्रसाराय प्रोत्साहनं कृतवान् विपद्भञ्जनपालमहोदयः संस्कृतसाहित्यस्य समृद्धये समाजाय वार्ता प्रेषितवान्। संस्कृतप्रसारे संस्कृतभारत्याः प्रयासानां परिचयम् अददात् संस्कृतभारत्याः दक्षिणवङ्गप्रान्तस्य सचिवः श्रीस्वपनविश्वासमहोदयः। संस्कृते अनूदितेन रवीन्द्रसङ्गीतेन अरिजिद्-गुप्तः; स्तोत्रपाठेन कल्याणपण्डाः, मौ-सुदेष्णा-सुपर्णा-मानसमहोदयाः; बालगीतेन रूपसाशर्मवर्या, रियाघोषवर्या, शतद्रीमल्लिकमहोदया च; नृत्येन प्रीतिः अन्वेषा स्नेहा रूपसा च कार्यक्रमं रुचिकरम् अकुर्वन्। संस्कृतेन कथां कथयित्वा अष्टमवर्गीयः बालः रोहणपालः सर्वेषां मनांसि अहरत्। मौ-अभिनन्दा-प्रीति-प्रियाङ्का-रोहणैः प्रस्तुतं श्रुतिनाटकं सर्वान् अरञ्जयत्। बारासतयोगाश्रमस्य अध्यक्षपादैः स्वामिसुसिद्धानन्दसरस्वतीयतिवरैः आशीर्वादैः संस्कृतसेवकाः सनाथीकृताः। हास्यरसाश्रितं संस्कृतनाटकं श्रीरामविट्ठलविरचितं वञ्चकः शृगाल इति सर्वेषां संस्कृतप्रेमिणां हर्षम् अजनयत्। सम्मेलनसमितेः अध्यक्षेण रवीन्द्रनाथरायमहोदयेन अध्यक्षीयप्रतिवेदनस्य प्रस्तावनात् परं सम्पादकेन प्रशान्तदेवर्येण सर्वेभ्यः कार्तज्ञ्यं प्रकटितम्। अन्ते शान्तिपाठः राष्ट्रगीतं च उपस्थितैः सर्वैः समवेततया कृतम्। समग्रस्य कार्यक्रमस्य सुन्दरं सञ्चालनं