OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 7, 2018

उत्तरभारते अतिशैत्येन ७१ मरणानि। 
         लख्नौ > उत्तरप्रदेशसहितेषु उत्तरभारतराज्येषु अतिशैत्यं प्रबलमनुवर्तते। उत्तरप्रदेशे गतदिने न्यूनतमः तापमानः डिग्रीत्रयपरिमितः आसीत्। विविधेषु जनपदेषु अतिशैत्यं शीतवायुवातनं च वर्तते।  यूपि राज्ये इतःपर्यन्तं ७१ जनाः अतिशैत्येन मृतिमुपगताः। सर्वकारस्य निर्देशमनुसृत्य वीथीपार्श्ववासिनाम् अनाथानां कृते अभयस्थानानि सज्जीकृतानि।
गोखाद्यकुम्भकोणं - लालुप्रसादस्य सार्धत्रिसंवत्सराणां कारागारदण्डः। 
           राञ्ची > गोखाद्यकुम्भकोणविषये द्वितीये व्यवहारे आर् जे डि दलस्य अध्यक्षः तथा बीहारस्य भूतपूर्वमुख्यमन्त्री लालुप्रसादयादवः सार्धत्रिसंवत्सराणां कारागारवासाय दशलक्षं रूप्यकाणां आर्थिकशुल्काय च दण्डितः। राञ्चीस्थस्य सविशेषसिबिऐ न्यायालयस्यायं विधिः। लालुं विना इतरे १५ पुरुषाः अपि दण्डिताः। 
        पशुपरिपालनपरिचयः वर्तते इत्यतः अपराधिनां विवृतं कारागृहम् उचितमिति न्यायाधीशेन शिवपालसिंहेन निरीक्षितम्। लालुप्रसादः अधुना व्याजविधेयकानि उपयुज्य सर्वकारवित्तकोशात् ८९.२७लक्षं रूप्यकाणि अपहृतवान् इत्यस्मिन् व्यवहारे दण्डितः सन् राञ्च्यां 'बिर्सा मुण्डा' सेन्ट्रल् कारागृहे बन्धितः अस्ति।

Saturday, January 6, 2018

अन्तर्जालस्य शक्तिः वर्धापयितुम् बृहत्तरः उपग्रहः विक्षिप्यते- ऐ एस् आर् ओ।
‍    नवदिल्ली > प्रधानमन्त्रिणः नरेन्द्रमोदिनः 'डिजिट्टल् इन्त्या' योजना सक्षात्कर्तुमुद्दिश्य बृहत्तमः उपग्रहः विक्षेपणाय सज्जः अभवत् । षट् टण् भारमितः अस्य नाम जि साट्ट् ११ इति एवI भारतेन निर्मितेषु उपग्रहेषु अधिक-भारयुक्तः उपग्रहः भवति अयम् । ग्राम ग्रामान्तरेषु उपग्रहाधिष्ठितः अन्तर्जालसेवा उत्कृष्ठरीत्या  प्रदातुं शक्यते अनेन।
       फ्रञ्च् एरियन् ५ इति उपग्रह विक्षेपणिम् उपयुज्य भविष्यति विक्षेपणम् । ५०० कोटि रुप्यकव्ययेन निर्मिते उपग्रहे चतुर्मीट्टर् बृहद्दीर्घाकारेण निर्मितः चत्वारि सौरोर्जपुटानि सन्ति। भारतेन इतःपर्यन्तं विक्षिप्तानां  उपग्रह-वार्ता-विनिमयोपग्रहाणाम् आहत्य या क्षमता अस्ति सा क्षमता अस्य उपग्रहस्य अस्तीति अस्य विशेषता।.
 भारतं गतचतुस्संवत्सरेभ्यः न्यूनतमं वृद्धिमानमुपगच्छति। 
           नवदिल्ली > वर्तमाने आर्थिकसंवत्सरे भारतस्य आर्थिकवृद्धिः प्रतिशतं ६.५ परिमितं न्यूनीभविष्यतीति 'सेन्ट्रल् स्टाटिस्टिक्स्' कार्यालयेन अनुमीयते। गतचतुर्षु संवत्सरेषु भविष्यमाणं न्यूनतमं वृद्धिमानं [जि डि पि] भविष्यति एतत्।   मुद्रानिरासस्य अनन्तरं जि एस् टि शुल्कविन्यासस्य आयोजन  च भारतीयार्थिकव्यवस्थायाः पश्चाद्गमनस्य कारणमिति सामान्यतया निर्णीयते।
नवं दशरूप्यकपत्रं अवतरिति।     
लिषा सि आर्
          नवदिल्ली> भारतीय रिज़र्व् बैंक् नव दशरूप्यकचीकाः अवतरति। महात्मागांधी श्रेणिस्थानि नूतनानि रूप्यकपत्राणि  चाकलेयस्य कपिशवर्णयुक्तानि भवन्ति। रुप्यकपत्राणां पृष्टभागे  अशोकचक्रस्य चित्रं च आलिखितम्।
        प्रथमे  वारे शतकोटिः रुप्यकपत्राणि एव अवतार्यन्ते। इदानीं प्रचलितानां  दशरूप्यकाणां पत्राणांं उपयोगः अनुवर्तयितुं शक्नुमः इति भारतीय रिज़र्व्  बैंक् संस्थया  ज्ञापितम्। २००५ तमे वर्षे एव इदानीं प्रचाल्यमानानां रुप्यकपत्राणां रूपरचना अभवत्।
केरलस्य 'पूरनगर्याम्'  कौमारोत्सवस्य अद्य प्रारम्भः।
      तृश्शिवपेरूर् > एष्याभूखण्डस्य बृहत्तमा कौमारमेला इति प्रसिद्धा केरल-राज्यस्तरीय विद्यालयकलोत्सवः अस्मिन् वारे पूरनगरी  (उत्सवनगरी) इतित प्रसिद्धे तृश्शिवपेरूर् नगरे षष्ठदिनाङ्कादारभ्य दशमदिनपर्यन्तं प्रचलिष्यति। ५८ तमा राज्यस्तरीयोत्सवः भवत्ययम्।
            'तेक्किन् काट्' क्रीडाङ्कणे सज्जीकृतायां मुख्यवेदिकायां अद्य प्रभाते दशवादने मुख्यमन्त्री पिणरायि विजयः कलोत्सवस्य उद्घाटनं करिष्यति। विजयिनां कृते प्रथम-द्वितीयादि स्थाननिर्णयः नास्ति। प्रतिशतं ८० अङ्काः यैः प्राप्स्यन्ते तेषां सर्वेषां  'A' Grade तथा चषकश्च  लभते।
कोलाहलेन सभाक्रमाः  स्तंभनं क्रियते इति राज नीतिः न। - वेङ्कय्यनायिडु:
         प्रतिषेधप्रक्रमाणाम् आयोजनेन विधानसभायाः प्रवर्तनेषु विघ्नं कृताः सामाजिकाः स्वात्मचिननं करणीयम् । सभायाः स्तम्भनं  सर्वदा क्रियते इत्येतत् न शोभना राजनीतिः। राज्यसभाध्यक्षः वेङ्कय्यनायिडुः उक्वान्I विधानसभायाः शीतकालीनोपवेशनस्य समापनात् पूर्वं भाषमाणः आसीत् उपराष्ट्रपतिः। प्रधानमन्त्री अपि अवसरेस्मिन् सन्निहितः आसन् । सभायाः ३४ मूल्यभूताः प्रवर्तनहोराः एवं  विपक्षिदलानां कोलाहलेन विनष्टाः इति उपराष्ट्रपतिना उक्तम्।
सभाङ्कणं राजनैतिक दलानां कलहप्रदर्शनाय वेदिका मा भवतुI पौरधर्माणां पालनमेव अस्माकं कर्तव्यम् इति च तेन उक्तम् I

Friday, January 5, 2018

शिला तैलस्य मूल्यं त्रिंशन्मासाद् उच्चावस्थायां - सर्वेषां मूल्याधिक्यं फलम्
      दोह > राष्ट्रान्तर-विपण्यां शिलातैलस्य मूल्ये वर्धनं गतेभ्यः त्रिंशत् मासेभ्यः उच्चस्थरे अभवत् । 'ब्रेन्ट् क्रूड'स्य मूल्यं  गत दिने बारल् मितस्य (१५९ लिट्टर्) ६८.१३ डोलर् अभवत्। २०१५ मेय् मासस्य मूल्यक्रमे एव अधुनातन व्यापारः प्रचलति। तस्मिन् समये मूल्यम् बारल् परिमितस्य ६८.१९ डोलर्  आसीत्I 'ओपेक्' राष्ट्राणि तथा रष्या  च उत्पादने नियन्त्रणमकरोत् इत्यनेन, इतरे प्रमुखोत्पादकराष्ट्रे इराने सम्पन्नानि आक्रमणानि च मूल्यवर्धनस्य कारणत्वेन उच्यते। एष्या प्रत्यांश विपण्यां सम्पन्नं सूचिकावर्धनम् , अमेरिक्का, जापानः जर्मानी राष्ट्रेभ्यः लभ्यमानं अनुकूलं आर्थिकावेदनं च शिलातैलस्य मुल्यवर्धनाय साहायकानि कारणानि अभवन्।

Thursday, January 4, 2018

भारतसीमां प्रति चीनायाः वीथीनिर्माणम्। 
           नवदिल्ली > भारतसीमामतिक्रम्य चीनाराष्ट्रेण वीथीनिर्माणं कृतम्। अरुणाचलप्रदेशस्य जनसान्निध्यरहितं सीमाप्रदेशं लक्ष्यीकृत्य एव नूतनमार्गः निर्मितः। अनतिविदूरे भारत-तिबटन् सीमारक्षणसैन्यस्य केन्द्रं वर्तते अपि द्वादशपादपरिमितं विस्तारे षट्शतं मीटर् परिमितं दीर्घयुक्तं मार्गं निर्मीय एव भारतस्य दृष्टिपथमागतम्।
           वीथीनिर्माणाय चीनासर्वकारस्य साक्षादेव बन्धः अासीदिति न प्रत्यभिज्ञातम्। किन्तु डिसम्बर् २६ तमे दिनाङ्के वीथीनिर्माणमारब्धमिति सूच्यते।
भारतसीमां प्रति चीनायाः वीथीनिर्माणम्। 
           नवदिल्ली > भारतसीमामतिक्रम्य चीनाराष्ट्रेण वीथीनिर्माणं कृतम्। अरुणाचलप्रदेशस्य जनसान्निध्यरहितं सीमाप्रदेशं लक्ष्यीकृत्य एव नूतनमार्गः निर्मितः। अनतिविदूरे भारत-तिबटन् सीमारक्षणसैन्यस्य केन्द्रं वर्तते अपि द्वादशपादपरिमितं विस्तारे षट्शतं मीटर् परिमितं दीर्घयुक्तं मार्गं निर्मीय एव भारतस्य दृष्टिपथमागतम्।
           वीथीनिर्माणाय चीनासर्वकारस्य साक्षादेव बन्धः अासीदिति न प्रत्यभिज्ञातम्। किन्तु डिसम्बर् २६ तमे दिनाङ्के वीथीनिर्माणमारब्धमिति सूच्यते।

Wednesday, January 3, 2018

त्रितलाखविधेयकम् अद्य राज्यसभायाम्। 
              नवदिल्ली > एकवारतलाखत्रितयं अभिशंसापराधीयमानं विधेयकमद्य राज्यसभायां प्रस्तूयते। राज्यसभायां शासनपक्षस्य सुदृढा भूरिसंख्यता नास्तीत्यतः सर्वकारेण अनुरञ्जनश्रमः आरब्धः। परन्तु कोण्ग्रस् दलनेतृत्वे विपक्षदलैः विधेयकं 'सेलक्ट् कम्मिट्टि' समक्षसमर्पणाय  निर्देष्टुं निर्णयः कृतः।
सचिवालयेषु उपस्थितेः पञ्जीकरणं तर्जनीग्राही उपयुज्य प्रारब्धम् ।
                अनन्तपुरी> केरलस्य सचिवालये तर्जनीग्रहीम् उपयुज्य सर्वकारीयोद्योगिनां पञ्जीकरणं समारब्धम्। उद्योगिनां निष्कृतिः पञ्जीकरण-संविधानेन निबद्धः इत्यनेन सर्वे यथाकालं कार्यालये प्रविष्ठाः।  केचनानां विलम्बः अभन्। रेल्यानानि बिलम्बेन धावन्ति इत्येनन एव भवन्ति केचनानां विलम्बः। मन्त्रिणां  वैय्यक्तिक-कार्यकर्तॄणां कृते पञ्जीकरणे निर्बन्धः नास्ति। तथापि  केचन जनाः आंगुली पञ्जीकरणं कृतम् । मन्त्रिणः प्रधानसचिवः च  पञ्जीकरणात् विमुक्ताः। पञ्जीकरणोपकरणानि बहिः स्थापितम् इत्यनेन पञ्जीकरणानन्दरं केचन अन्यत्र गच्छन्ति। एतत् अपि परिहरणीयः अस्ति
परिसमाप्तः कार्यानुभव प्रशिक्षणवर्ग:
         त्रिश्शिवपेरूर्> राष्ट्रियसंस्कृतसंस्थानस्य गुरुवायूर परिसरे डिसम्बर 24तः समारब्ध:  केन्द्रीयविद्यालयसंस्कृाध्यापकानां कार्यानुभवप्रशिक्षणवर्ग: जनुवरि 2 दिनाङ्के परिसमाप्तःI  दशदिनात्मकप्रशिक्षणवर्गस्यास्य समापनसत्रे संस्कृतसंवर्धनप्रतिष्ठानस्य निदेशक: श्रीमान् चान्दकिरणसलूजा महोदय: समारोपभाषणमकरोत् । यदि संस्कृतं संस्कृतेन पाठयामः तर्हि संस्कृतस्य भविष्यम् उज्ज्वलॅ भविष्यति। तत् कार्यम् अध्यापकाधीनमेवl तदर्थमुपकारकमेवायंवर्गः। गुरुवायूर् परिसरस्य प्राचार्यस्य श्री - के पी केशवन् महोदयस्याध्यक्षे प्रवृत्तोऽयं कार्यक्रम: ॥

Tuesday, January 2, 2018

वेदगणितस्य साहाय्येन क्क्वाण्डम् कम्पूट्टिङ् गवेषणम् आरब्धम्।
डॉ पि के शङ्करनारायणः
            नवदिल्लि>भारतेषु नवसाङ्गेतिकविज्ञानमण्डले क्वाण्डम् विद्यायाः प्रवेशः। केन्द्र-शास्त्रसाङ्गेतिक -मन्त्रालयस्य अधीने वर्तमानम् क्वाण्डम् इन्फरमेषन् सयनस् आन्ड् डेक्नोलजि (QISAT) भवति अस्य नेतृत्वे। अनया संस्थया पूर्वमेव एदर्थम् निर्देशाः स्वीकृताः आसीत्।
          विविध सूप्पर् सङ्गणनम्  अपि अतिरिच्य क्वाण्डम् कम्पूट्टर् प्रवर्तते। साधारणतया कम्पूट्टर् यन्त्रद्वारा गणनावसरे बैनरिसंविधान-सहित बीट्ट् संविधानस्य उपयोगः प्रचलति। किन्तु  क्वाण्डे तु क्युबीट्टस्य उपयोगः भवति । उदाहरणतया अतीव  राससंयुक्तस्य घटना, प्रवर्तनं च विशदीकर्तुम् अत्यल्पसमयम् पर्याप्तम् ।
           उत्‍कृष्टयुक्त औषधस्य निर्माणम् अनेन साध्यम्। भारतमागतः सत्यनादल्ले अस्य सङ्गणकस्य भविष्यक्काल साध्यतां शलखितवान् । एतदर्थम् वेदगणितस्य योजनमपि ते चिन्तयन्तः सान्ति ।
सिन्धूनदीजलं पाकिस्थानाय प्रदातुं प्रक्रमाः दृढीक्रियते।
         काश्मीरम्> सिन्धू नद्याःजलं काश्मीरस्य कुतुवजनपदे संभरणं कर्तुं पद्धतिः आयोक्ष्यते भारतेन। भारतं प्रति आतङ्कवाद प्रसारणं कुर्वाणं पाकिस्थानं प्रति नयतन्त्रतले सुबलाः प्रक्रमाः स्वीकरोतिI षष्ट्यधिक एकोन विंशतिशततमे (१९६०) भारत पाकिस्थानौ मिलित्वा कृत सन्धिपत्रानुसारं सिन्धूनद्याः पोषकनद्याः जलं पूर्णतया उपयोक्तुम् अधिकारः भारतस्य अस्ति। सन्ध्यनुसारं एव पोषकनद्याः जलस्य उपयोगः क्रियते । सीमामुल्लंख्य नद्याः प्रवाहः स्तगयितुमुद्दिश्य लघुलघु सेतवः निमीय ३०००० हेक्टर्मितं भूमिः जलसेचनेन पुष्टीकरोति । द्विशतं मेगा वाट् विद्युच्छक्तिः च उत्पादयितुं च नवीनया याेजनया शक्यते। केन्द्र-जल-विभव आयोगेन पद्धतिः सर्वकारस्य पुरतः समर्पितः अस्ति।

Monday, January 1, 2018

आविश्वं जनाः नवसंवत्सरस्य स्वागतम् अकुर्वन्I  
               भारतसमयः सायं सार्धत्रिवादने पसफिक् समुद्रे किरिबात्ति द्वीपे आसीत् २०१८ संवत्ससरस्य प्रथम सन्दर्शनम्। तत्रत्यानां जनानाम् उपचारान् स्वीकृत्य ततः सार्ध चतुर्वादने न्यूसिलन्टस्य समावत्तिदेशे समागतः  संवत्सरः। ओक् लान्टस्य कै स्तम्भं परितः पञ्चनिमेषपर्यन्तं जायमान विस्फोटकादि आह्लाद निमिषेण दशसहस्रशाः जनाः २०१८ संवत्सरं स्वागतमकुर्वन्। 
एक घण्डाभ्यन्तरे ओस्ट्रेलिया देशस्य सिड्णि मेल्बण् नगरं प्रापवान् संवत्सरः।  विस्फोटकेन इन्द्रचापरूपं विरच्य आसीत् तत्रत्यानां स्वागत-समारोहः। अनन्तरम् एक घण्डाभ्यन्तरेण चीना, सिंहपुरम्, इन्टोनेष्या बंग्लादेशं च संक्रम्य भारतदेशं प्राप्तः।  भारतस्य प्रधान नगरेषु तारनिशादयः आयोजिताः आसन्।  भारतीयानाम् अर्घ्योपचारक्रमानास्वाद्य सार्ध एकवादने दुबाय् नगरं प्राप्तः।
 एक घण्डाभ्यन्तरेण मोस्को, माण्ड्रिड् च । यामस्य अन्तिमकालांशे सार्धचतुर्वादने रेम् नगरे पारीसे च प्राप्तः नवसंवत्सरः। पञ्च चत्वारिंशत् वादने लन्टनस्थाः तेषां स्वागतं सानन्दम् अकुर्वन्। इदानीं समयः सार्धदशवादनः अमेरिक्कां प्राप्य तत्रत्यानां स्नेहोष्मलतां लब्ध्वा सानन्दमास्वाद्य व्याप्यतेकालः विश्वमखिलम्।


सर्वेषां कृते सम्प्रतिवार्ता-पत्रिकायाः शुभकामनाः। गुरुपादैः अनुगृहीताः वयं भवन्तं अभिवादयामहे। 
“मनोगतम्”  [सोपानम् ३९] 
 - नरेन्द्रमोदी        
    
[“मनोगतम्” - “मन की बात”- इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ] 
(प्रसारण-तिथि:- 31.12.2017)                          
 - भाषान्तर-कर्ता -  डॉ बलदेवानन्द-सागरः (संस्कृत वार्ता प्रसारकः)

            मम प्रियाः देशवासिनः ! नमस्कारः | इदं ‘मन की बात’-प्रसारणं हि, अस्य वर्षस्य अन्तिमोऽयं कार्यक्रमः, तथा च संयोगं पश्यन्तु यत् अद्य, सप्तदशोत्तर-विंशति-शत-तमस्य वर्षस्य अपि अन्तिमो दिवसोऽस्ति | सम्पूर्णेsपि वर्षेऽस्मिन् अनेके विषयाः अस्माभिः भवद्भिः च संविभाजिताः | ‘मन की बात’-प्रसारणस्य कृते भवद्भिः प्रेषितानां बहूनां पत्राणाम्, अनेकासां टिप्पणीनां, विविधानां च विचाराणाम् आदान-प्रदानम्, मम कृते तु सदा नूतनायाः ऊर्जायाः प्रदायकं सिद्ध्यति | 
      कासाञ्चन होराणाम् अनन्तरं वर्षमिदं परिवर्तिष्यते, परञ्च अस्मदीयः एषः कथा-क्रमः इतः परमपि एवमेव प्रवर्तिता| आगमिष्यमाणे वर्षे वयं, नवीनाः कथाः करिष्यामः, नूतनान् अनुभवान् च संविभाजयिष्यामः | भवद्भ्यः सर्वेभ्यः अष्टादशोत्तर-विंशति-शत-तम-वर्षस्य कृते भूरिशो मङ्गल-कामनाः | नातिचिरं डिसेम्बर-मासे पञ्चविंशति-तमे दिनाङ्के अशेष-जगति क्रिस्मस्-पर्व सोत्साहम् आमानितम् | भारतेsपि जनैः सोत्साहं पर्वेदम् आमानितम् | क्रिस्मस्-पर्वणि वयं ईसा-मसीहस्य बहुमूल्यान् उपदेशान् स्मरामः, तथा च, ईसा-मसीहेन यस्मै विषयाय सर्वाधिकं बलं प्रदत्तम्, सः आसीत्  - “सेवा-भावः” | सेवा-भावनायाः सारं वयं बाइबले अपि पश्यामः |  “The Son of Man has come, not to be served, But to serve, And to give his life, as blessing, To all humankind.”   अर्थात् मानव-पुत्रः समायातः, सेवा-प्राप्तये नैव, अपि तु सेवा-कार्यार्थम्, आशीर्भूतं स्वीयं जीवनं मानवतायै अर्पयितुम्” 
        इदं द्योतयति यत् किं नाम सेवायाः माहात्म्यम् ? भवतु नाम विश्वस्य काचिदपि जातिः, कश्चन अपि धर्मः, परम्परा, वर्णः वा, परञ्च सेवाभावो हि मानवीय-मूल्यानाम् अनुपम-अभिज्ञानत्वेन प्रवर्तते | अस्मदीये देशे ‘निष्काम-कर्म’-विषये सुबहु श्रूयते अर्थात् तादृशी सेवा या हि काञ्चिदपि अपेक्षां विना क्रियते | अस्माकं ग्रन्थेषु तु प्रोक्तमेव– “सेवा परमो धर्मः” | ‘जीव-सेवा एव शिव-सेवा’ तथा च, गुरुदेवः रामकृष्ण-परम-हंसः तु कथयति – शिव-भावेन जीव-सेवां कुर्यात् अर्थात् विश्वस्मिन् विश्वे एतानि सर्वाणि मानवीय-मूल्यानि तुल्यानि एव सन्ति | आगच्छन्तु, वयं सर्वे एतान् महापुरुषान्, पवित्र-दिवसान् च स्मरन्तः, अस्मदीयायै अस्यै महत्यै मूल्य-परम्परायै नूतनां चेतनां, नवीनाञ्च ऊर्जाम् आनयेम तथा च, स्वयमपि एनां जीवितुं