OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 3, 2018

Tuesday, January 2, 2018

वेदगणितस्य साहाय्येन क्क्वाण्डम् कम्पूट्टिङ् गवेषणम् आरब्धम्।
डॉ पि के शङ्करनारायणः
            नवदिल्लि>भारतेषु नवसाङ्गेतिकविज्ञानमण्डले क्वाण्डम् विद्यायाः प्रवेशः। केन्द्र-शास्त्रसाङ्गेतिक -मन्त्रालयस्य अधीने वर्तमानम् क्वाण्डम् इन्फरमेषन् सयनस् आन्ड् डेक्नोलजि (QISAT) भवति अस्य नेतृत्वे। अनया संस्थया पूर्वमेव एदर्थम् निर्देशाः स्वीकृताः आसीत्।
          विविध सूप्पर् सङ्गणनम्  अपि अतिरिच्य क्वाण्डम् कम्पूट्टर् प्रवर्तते। साधारणतया कम्पूट्टर् यन्त्रद्वारा गणनावसरे बैनरिसंविधान-सहित बीट्ट् संविधानस्य उपयोगः प्रचलति। किन्तु  क्वाण्डे तु क्युबीट्टस्य उपयोगः भवति । उदाहरणतया अतीव  राससंयुक्तस्य घटना, प्रवर्तनं च विशदीकर्तुम् अत्यल्पसमयम् पर्याप्तम् ।
           उत्‍कृष्टयुक्त औषधस्य निर्माणम् अनेन साध्यम्। भारतमागतः सत्यनादल्ले अस्य सङ्गणकस्य भविष्यक्काल साध्यतां शलखितवान् । एतदर्थम् वेदगणितस्य योजनमपि ते चिन्तयन्तः सान्ति ।
सिन्धूनदीजलं पाकिस्थानाय प्रदातुं प्रक्रमाः दृढीक्रियते।
         काश्मीरम्> सिन्धू नद्याःजलं काश्मीरस्य कुतुवजनपदे संभरणं कर्तुं पद्धतिः आयोक्ष्यते भारतेन। भारतं प्रति आतङ्कवाद प्रसारणं कुर्वाणं पाकिस्थानं प्रति नयतन्त्रतले सुबलाः प्रक्रमाः स्वीकरोतिI षष्ट्यधिक एकोन विंशतिशततमे (१९६०) भारत पाकिस्थानौ मिलित्वा कृत सन्धिपत्रानुसारं सिन्धूनद्याः पोषकनद्याः जलं पूर्णतया उपयोक्तुम् अधिकारः भारतस्य अस्ति। सन्ध्यनुसारं एव पोषकनद्याः जलस्य उपयोगः क्रियते । सीमामुल्लंख्य नद्याः प्रवाहः स्तगयितुमुद्दिश्य लघुलघु सेतवः निमीय ३०००० हेक्टर्मितं भूमिः जलसेचनेन पुष्टीकरोति । द्विशतं मेगा वाट् विद्युच्छक्तिः च उत्पादयितुं च नवीनया याेजनया शक्यते। केन्द्र-जल-विभव आयोगेन पद्धतिः सर्वकारस्य पुरतः समर्पितः अस्ति।

Monday, January 1, 2018

आविश्वं जनाः नवसंवत्सरस्य स्वागतम् अकुर्वन्I  
               भारतसमयः सायं सार्धत्रिवादने पसफिक् समुद्रे किरिबात्ति द्वीपे आसीत् २०१८ संवत्ससरस्य प्रथम सन्दर्शनम्। तत्रत्यानां जनानाम् उपचारान् स्वीकृत्य ततः सार्ध चतुर्वादने न्यूसिलन्टस्य समावत्तिदेशे समागतः  संवत्सरः। ओक् लान्टस्य कै स्तम्भं परितः पञ्चनिमेषपर्यन्तं जायमान विस्फोटकादि आह्लाद निमिषेण दशसहस्रशाः जनाः २०१८ संवत्सरं स्वागतमकुर्वन्। 
एक घण्डाभ्यन्तरे ओस्ट्रेलिया देशस्य सिड्णि मेल्बण् नगरं प्रापवान् संवत्सरः।  विस्फोटकेन इन्द्रचापरूपं विरच्य आसीत् तत्रत्यानां स्वागत-समारोहः। अनन्तरम् एक घण्डाभ्यन्तरेण चीना, सिंहपुरम्, इन्टोनेष्या बंग्लादेशं च संक्रम्य भारतदेशं प्राप्तः।  भारतस्य प्रधान नगरेषु तारनिशादयः आयोजिताः आसन्।  भारतीयानाम् अर्घ्योपचारक्रमानास्वाद्य सार्ध एकवादने दुबाय् नगरं प्राप्तः।
 एक घण्डाभ्यन्तरेण मोस्को, माण्ड्रिड् च । यामस्य अन्तिमकालांशे सार्धचतुर्वादने रेम् नगरे पारीसे च प्राप्तः नवसंवत्सरः। पञ्च चत्वारिंशत् वादने लन्टनस्थाः तेषां स्वागतं सानन्दम् अकुर्वन्। इदानीं समयः सार्धदशवादनः अमेरिक्कां प्राप्य तत्रत्यानां स्नेहोष्मलतां लब्ध्वा सानन्दमास्वाद्य व्याप्यतेकालः विश्वमखिलम्।


सर्वेषां कृते सम्प्रतिवार्ता-पत्रिकायाः शुभकामनाः। गुरुपादैः अनुगृहीताः वयं भवन्तं अभिवादयामहे। 
“मनोगतम्”  [सोपानम् ३९] 
 - नरेन्द्रमोदी        
    
[“मनोगतम्” - “मन की बात”- इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ] 
(प्रसारण-तिथि:- 31.12.2017)                          
 - भाषान्तर-कर्ता -  डॉ बलदेवानन्द-सागरः (संस्कृत वार्ता प्रसारकः)

            मम प्रियाः देशवासिनः ! नमस्कारः | इदं ‘मन की बात’-प्रसारणं हि, अस्य वर्षस्य अन्तिमोऽयं कार्यक्रमः, तथा च संयोगं पश्यन्तु यत् अद्य, सप्तदशोत्तर-विंशति-शत-तमस्य वर्षस्य अपि अन्तिमो दिवसोऽस्ति | सम्पूर्णेsपि वर्षेऽस्मिन् अनेके विषयाः अस्माभिः भवद्भिः च संविभाजिताः | ‘मन की बात’-प्रसारणस्य कृते भवद्भिः प्रेषितानां बहूनां पत्राणाम्, अनेकासां टिप्पणीनां, विविधानां च विचाराणाम् आदान-प्रदानम्, मम कृते तु सदा नूतनायाः ऊर्जायाः प्रदायकं सिद्ध्यति | 
      कासाञ्चन होराणाम् अनन्तरं वर्षमिदं परिवर्तिष्यते, परञ्च अस्मदीयः एषः कथा-क्रमः इतः परमपि एवमेव प्रवर्तिता| आगमिष्यमाणे वर्षे वयं, नवीनाः कथाः करिष्यामः, नूतनान् अनुभवान् च संविभाजयिष्यामः | भवद्भ्यः सर्वेभ्यः अष्टादशोत्तर-विंशति-शत-तम-वर्षस्य कृते भूरिशो मङ्गल-कामनाः | नातिचिरं डिसेम्बर-मासे पञ्चविंशति-तमे दिनाङ्के अशेष-जगति क्रिस्मस्-पर्व सोत्साहम् आमानितम् | भारतेsपि जनैः सोत्साहं पर्वेदम् आमानितम् | क्रिस्मस्-पर्वणि वयं ईसा-मसीहस्य बहुमूल्यान् उपदेशान् स्मरामः, तथा च, ईसा-मसीहेन यस्मै विषयाय सर्वाधिकं बलं प्रदत्तम्, सः आसीत्  - “सेवा-भावः” | सेवा-भावनायाः सारं वयं बाइबले अपि पश्यामः |  “The Son of Man has come, not to be served, But to serve, And to give his life, as blessing, To all humankind.”   अर्थात् मानव-पुत्रः समायातः, सेवा-प्राप्तये नैव, अपि तु सेवा-कार्यार्थम्, आशीर्भूतं स्वीयं जीवनं मानवतायै अर्पयितुम्” 
        इदं द्योतयति यत् किं नाम सेवायाः माहात्म्यम् ? भवतु नाम विश्वस्य काचिदपि जातिः, कश्चन अपि धर्मः, परम्परा, वर्णः वा, परञ्च सेवाभावो हि मानवीय-मूल्यानाम् अनुपम-अभिज्ञानत्वेन प्रवर्तते | अस्मदीये देशे ‘निष्काम-कर्म’-विषये सुबहु श्रूयते अर्थात् तादृशी सेवा या हि काञ्चिदपि अपेक्षां विना क्रियते | अस्माकं ग्रन्थेषु तु प्रोक्तमेव– “सेवा परमो धर्मः” | ‘जीव-सेवा एव शिव-सेवा’ तथा च, गुरुदेवः रामकृष्ण-परम-हंसः तु कथयति – शिव-भावेन जीव-सेवां कुर्यात् अर्थात् विश्वस्मिन् विश्वे एतानि सर्वाणि मानवीय-मूल्यानि तुल्यानि एव सन्ति | आगच्छन्तु, वयं सर्वे एतान् महापुरुषान्, पवित्र-दिवसान् च स्मरन्तः, अस्मदीयायै अस्यै महत्यै मूल्य-परम्परायै नूतनां चेतनां, नवीनाञ्च ऊर्जाम् आनयेम तथा च, स्वयमपि एनां जीवितुं
जपुरे आवासीय संस्कृतभाषाबोधनवर्गस्य उद्घाटनम् जातम्
-दीपक्  शास्त्री
             जयपुरम्>स्कृत-भारती जयपुरविभागेन आवासीय-संस्कृत-भाषाबोधन-वर्ग: दिसम्बरमासस्य त्रिंशद्दीनाङ्कत: जनवरीमासस्य षड्दिनाङ्कपर्यन्तम् आयोज्यमानोऽस्ति। वर्गस्य उद्घाटनं रविवासरे प्रातः नववादने आदर्श- विद्यामन्दिरे, किरणपथ मानसरोवरे जातम्। उद्घाटनसत्रे मुख्यातिथिरूपेण स्थानीय:पार्षद: श्रीविष्णु लाटा, वर्गाधिकारीरूपेण श्रीप्रकाश शर्मा, जयपुरप्रांतस्य मन्त्री श्रीचन्द्रशेखर शर्मा, जयपुरविभागस्य सहसंयोजक: श्री अभिनव उपाध्यायश्च मञ्चे आसन्। कार्यक्रमस्यारम्भ: सरस्वतीवन्दना-ध्येयमन्त्र-वर्गगीतैश्च विधाय सञ्जातः। कार्यक्रमस्य मंचसञ्चालनम् रविशर्मणा कृतम्।
अतिथि जनै: संस्कृतं कथं जनभाषा भविष्यति? संस्कृतं किमर्थम् आवश्यकम्? वर्तमाने संस्कृतस्य का स्थितिः? संस्कृतज्ञानां किं दायित्वम्? इत्यादिकं सर्वं विषये सम्यक्तया आलोचितम्। श्रीविष्णु लाटा महोदयेन शिक्षार्थिन: संस्कृतं आध्यात्मिकञ्च प्रति प्रेरिता:। शिबिरस्य प्रतिवेदनं श्री प्रकाशशर्मणा उक्तम् अन्ते च सर्वेषां आगन्तुकानां धन्यवादज्ञापनम् कृतवान्। वर्गेस्मिन् राजस्थानराज्यस्य अनेकेभ्यः जनपदेभ्य: शिक्षार्थिन: भागं स स्वीकुर्वन्ति।
        उद्घाटनावसरे जयपुरप्रांतस्य सहमंत्री श्रीहजारी बैरवा, जयपुरप्रान्त-प्रचारप्रमुख: श्रीघनश्याम हरदेनिया, प्रान्त-सम्पर्कप्रमुख: श्रीरघुवीर शर्मा, जयपुरविभाग-संयोजक: श्रीकानाराम जाट, जयपुरमहानगर-मंत्री श्रीसन्तोष शर्मा, सहमंत्री श्रीमनोज शर्मा अन्ये च कार्यकर्तार: आसन्।

Sunday, December 31, 2017

जनपदेषु आदर्शप्रतिनिधिसभा आवश्यकी- नरेन्द्रमोदी।
लिषा सी आर्
    नवदिल्ली> भारतीय युवत्वस्य शक्तीकरणाय सर्वेषु जनपदेषु आदर्श प्रतिनिधिसभायाः आयोजनं आवश्यकमिति प्रधानमन्त्री नरेन्द्रमोदी। २०२२ तमे वर्षे "नवभारतम्’ इति आशयस्य साक्षात्कारणाय युवजनानां योगदानं आवश्यकमेव। अस्मिन् विषये आशय रूपीकरणाय एव आगस्त् मासस्य पञ्चदशा दिनाङ्के आयोक्ष्यमाणाः आदर्श प्रतिनिधिसभायाः लक्ष्यमिति ’मन् की बात्’ नाम प्रतिमास आकाशवाणी कार्यक्रमे  मोदी अवदत्।
  ’’सर्वेषु जनपदेषु प्रतिनिधिसभाया: समरम्भभः आवश्यकः। अष्टादश-पञ्चविंशति वयस्काः  युवजनाः एव प्रतिनिधिसभायाः अङ्गाः। नवभारतस्य निर्माणाय सहायकाः आशयाः निर्देशाः च तैः प्रतिनिधिसभायां वक्तव्यः।  २०२२ संवत्सरात् पूर्वमेव अस्माकं स्वातन्त्र्यसमरसेनानिभ्यः विभावितः भारतस्य निर्मार्णाय अस्माभिः  प्रयत्नः करणीयः इति मोदी अवदत्। सम्मतिदानाधिकारस्य विनियोगस्य आवश्यकतां अधिकृत्य मोदीना युवजनाः स्मारिताः।  जनतन्त्रव्यवस्थायाः मूलशक्ती एव  सम्मतिदानाधिकारः। अस्माकं मध्ये अतिप्रधान दिनमेव श्वः, जनुवरी १। एकविंशति तमे शतके जनिमलब्धान् सर्वान्‌  जनान्‌  जनतन्त्रव्यवस्थायाः भागं स्वीकर्तुं अहं स्वागतीकरोमि। लक्षशानां जनानां जीवने प्रकाशं प्रसारयितुं एकं सम्मतिदान प्रदानेन  शक्यते। देशस्य व्यव्स्थायाः परिवर्तनं कर्तु अपि अनेन शाक्यते इति च सः महोदयः अवदत्।
भारतस्य विप्रतिपत्या पालस्थीनेन सयीदेन साकं वेदिकायां भागं स्वीकृतः राजदूतः पाकिस्थानात् प्रत्याहूतः।
 वार्तालेखिका - लिषा सि आर्

         इस्लामाबाद्>  मुम्बै भीकराक्रमणस्य सूत्रधारेण हाफिस् सायिदेन साकं वेदीकायां भांगं  स्वीकृतः राजदूतः वलीद् अबु अली पालस्तीन् राष्ट्रेण प्रत्याहूतः। अस्मिन् विषये खेदभावं प्रकाश्यानन्तरमेव  तैः राजदूतस्य प्रत्याहूतविषयं  विज्ञापितम्।  लष्करेताेयिबानाम भीकरदलस्य  सहस्थापकः हाफिस् सयिदेन साकं पालस्तीन् देशस्य राजदूतः सामन्यजनानां पुरतः  प्रत्यक्षः अभवत् इत्यनेन कारणेन भारतदेशः पालस्तीनं प्रति प्रतिषेधः प्रकाशितवन्तः।  दिफा पाकिस्थान् कौण्सिल् नाम सयिदस्य राजनैतिकदलस्य नेतृत्वे आयोजितस्य पदसञ्चलनस्य उद्घाटन समारोहे आसीत् इस्रायेलस्य राजदूतस्य  भागभाक्तम् ।
 भारतदेशं विरुध्य तिष्ठन्तः चत्वारिंशत्  दलानां संयुक्तसंरभः एव 'दिफा इ पाकिस्थान्'।
        इस्रायेल् देशस्य राजधानीं जरुसलें प्रति स्थानान्तरीकरणं विरुध्य इस्लामिक् उच्चकोटी कर्तुं प्रधानमन्त्री षाहिद् खाक्वन् अब्बासियाः उपरि सम्मर्दं रूपीकरणाय आसीत् पदयात्रायाः आयोजनम्  यू.एन्, यू.एस्. च राज्यान्तरभीकरपट्टिकायां नामाङ्कितेन सयीदेन  साकं राजदूतस्य सान्निध्यं भारतीयनेतृणां मध्ये अत्भुतं उत्पादयत् ।  यू.एन् सभायां सम्पन्ने जरुसलों विषये कृतमतदानसन्दर्भे पालस्तीनदेशं अनुकूल्य  भारतदेशस्य मतदानानन्तरमेव आसीत्  राजदूतस्य इयं प्रवर्तिः।
विज्ञप्तिवाक्येषु बद्धः उपराष्ट्रपतिरपि। शून्यां पेटिकां लब्ध्वा वञ्चितः।
नवदिल्ली> विज्ञप्ति-वाक्यानां वञ्चनायां अयम् अपि वञ्चितः इत्युच्यते उपराष्ट्रपतिना वेङ्कय्यनायिटुवर्येण उक्तम्। शरीरस्य भारं न्यूनीकर्तुम्  उपकारकम् इत्युक्त्वा विज्ञापिता औषधगोलिकां क्रेतुम् उद्युक्तो भूत्वा १२३० रुप्यकाणि नष्टानि इति वेङ्कय्य महोदयेन उक्तम् । व्याज विज्ञप्तीनां निरोधनाय क्रियाविधयः विलम्बं विना स्वीकरणीयः इति निदेशः सर्वकाराय दातुं सन्दर्भे आसीत् उपराष्ट्रपतेः इदं ज्ञापनम्।
मानवजीवनसंरचना अपि शासनकर्तॄणाम् उत्तरदायीत्वम् - शिवराजसिंहचौहानः। 
           कालटी > न केवलम्  आतुरालयानां विद्यालयानां सेतूनां च निर्माणं किन्तु मानवजीवनसंरचना अपि शासनाधिकारिणां धर्म इति मध्यप्रदेशस्य मुख्यमन्त्री शिवराजसिंह चौहान् वर्यः उक्तवान्। जगद्गुरोः आदिशङ्कराचार्यस्य अद्वैतदर्शनं सामान्यजनान् यापयितुम् आरब्धाम् एकात्मतायात्रां प्रति सञ्जातान् विमर्शान् उद्दिश्य एव तस्य विशदीकरणम्। कालट्याम् आदिशङ्करजन्मभूमिमन्दिराङ्गणे भाषमाणः अासीत् चौहान्वर्यः। 
           श्रीशङ्करस्य अष्टाधिकशतपादपरिमितं लम्बमानां प्रतिमां मध्यप्रदेशस्य नर्मदातीरस्थे  ओङ्कारेश्वरे स्थापयितुं  कालटीतः लोहं मृत्तिकां च संगृह्यमाणः कार्यक्रमः आसीत्। "विविधदिशाभ्यः भारतस्य सांस्कृतिकसमन्वयं कृतवान् महात्मा भवति श्रीशङ्करः। सार्वलौकिकदर्शनानां परिप्रेक्ष्यं शङ्कराद्वैते अन्तर्भूतमस्ति। शङ्करदर्शनस्य उत्कृष्टाध्ययनाय प्रचारणाय च अद्वैतवेदान्तसंस्थाः आरप्स्यन्ते" मध्यप्रदेशमुख्यमन्त्रिणा प्रोक्तम्। 
         जन्मभूमिस्थानस्थे श्रीशारद-गणेश-श्रीशङ्कर सन्निधौ आर्याम्बास्मृतिमण्डपे च सः प्रार्थनानिरतः अभवत्। पण्डिट् वसन्तरावु गाड्गिलः, श्रृङ्गेरिमठं निदेशकः ए . सुब्र्हमण्य अय्यर्, पि ई बि मेनोन् , स्वामि परमानन्दसरस्वती इत्यादयः कार्यक्रमे$स्मिन् सन्निहिताः आसन्।
उत्तरकोरियादेशेनोक्तं २०१८ तमे वर्षे पुन: प्रक्षेप्यास्त्रपरीक्षणं करिष्यति 
पुरुषोत्तमशर्मा
          उत्तरकोरियादेशेन शनिवारे अमेरिकां संचेतयता प्रोक्तं यत्   ‘यावत् संयुक्तराज्यामेरिकाया: तस्य शक्तिशालिबलानां च न्यूक्लियर इति भय: भविष्यन्ति' तावत् उत्तरकोरिया निज प्रक्षेप्यास्त्रपरीक्षणं नैव निराकरिष्यति । 

     कोरियाया: आधिकारिकेन वार्ताभिकरणेन स्पष्टीकृतं यत् आगामि वर्षे अपि तत्रत्यप्रशासनं प्रक्षेप्यास्त्राणां परीक्षणं करिष्यति । अवधेयमस्ति यत्  उत्तरकोरियया सितम्बरमासे सर्वतो शक्तिसम्पन्नपरमाणुपरीक्षणं कृतमासीत् । एतदतिरिच्य जुलाई मासे नवंबरमासे च   समुद्रे त्रीणि परीक्षणानि कृतान्यासन्। तत: परं विविधपाश्चात्यदेशै: तस्मै व्यापारिकप्रतिबंधा: स्थापिता: आसन्, तत: परमपि उत्तरकोरियया स्वीय परमाणुकार्यक्रम: यथावत् प्रवर्तित:। 

           अत: अनुमीयते यत् उत्तरकोरिया निज प्रौद्योगिकीक्षमतामालक्ष्य उत्तेजित: वर्ते अमेरिकया सह युद्धं भविष्यति चेत् असौ तत् निराकरणाय सज्जित: विद्यते ।
अन्तर्जालीय क्रयविक्रये महती वञ्चना। २१७०० अभियाचनाः अस्मिन्  वर्षे। 
        नवदिल्ली> अन्तर्जालीय क्रयविक्रये महती वञ्चना  संभवति। अस्मिन् संवत्सरे २२७०० अभियाचनाः अस्मिन् वर्षे पञ्जीकृताः सन्ति इति इलट्रोणिक्स् आन्ट् इन्फर्मेषन् डेक्नोलजि मन्त्री रविशङ्करः राज्यसभायाम् न्यवेदयत्। क्रेडिट् कार्ट् , डेबिट्कार्ट्, इन्टर्नेट् बैंकिङ्, अन्तर्जाल क्रयविक्रयः इत्येतान् अनुबन्ध्य वञ्चना दोषारोपेण भवति अभियाचना । आवेदित अभियाचनानुसारं १५५ कोटि रुप्यकाणां वञ्चना अभवत् इति च मन्त्री अवदत्| वित्तकोश सेवनमण्डले सैबर् सुरक्षां भीषां च अधिकृत्य वित्तकोशेभ्यः विविध सर्वकारीय विभागेभ्यः च ज्ञानम् आवश्यकम् इति मन्त्रिणा सभायाम् उक्तम्।

Saturday, December 30, 2017

उत्तराखण्डे इस्लामधर्माध्ययनकेन्द्रेषु इतःपरं संस्कृतं च। 
          रुद्रापुरम् > धार्मिकं भिन्नतां कुत्सितचिन्तां वा विना संस्कृतभाषाम् अध्ययनविषयं कर्तुमुत्सहन्ते उत्तराखण्डराज्यस्थानि इस्लामधर्माध्ययनकेन्द्राणि [मद्रसाः]। आगामि अध्ययनसंवत्सरादारभ्य इस्लामविद्यालयेषु इतरेषु धर्माध्ययनकेन्द्रेषु च संस्कृताध्ययनम् आरप्स्यते। विदग्धान् उपयुज्य आयुर्वेदं योगं च पाठयिष्यति। 
          'मद्रासक्षेमसंघस्य' अधीने २०७ मद्रसाः उत्तराखण्डस्य विविधजनपदेषु विद्यन्ते। डराडूण् , हरिद्वार्, नैनिटाल्, उद्धंसिंहनगरम् इत्येतस्थासु मद्रसासु २५,००० छात्राः पञ्जीकृताः सन्ति। संस्कृताध्यापकनियुक्तिमभ्यर्थयन् मद्रसासंघाधिकारी मुख्यमन्त्रिणे त्रिवेन्द्रसिंह रावत् वर्याय निवेदनं समर्पितवान्। 
           धार्मिकविषयैः सह आङ्गलं, शास्त्रं, गणितमित्यादयः विषयाः छात्रैः शिक्षन्ते। तैः विषयैः  सह काञ्चित् प्राचीनभारतीयभाषामपि अध्यापयितुमुद्देश्यः एव एतादृशनिर्णयस्य हेतुरिति सङ्घस्य अध्यक्षः सिब्ते नबिवर्यः उक्तवान्। बहवः संस्कृतभाषापण्डिताः उत्तराखण्डस्थेस्लामजनेषु सन्तीति तेनोक्तम्। अस्य राज्यस्य द्वितीया अनुशासनभाषा भवति संस्कृतम्।
'एकात्मतायात्रा'यै प्रौढोज्वलप्रारम्भः।
आदिशाङ्‌करस्य जन्मभूमौ कलट्यां भाषामणः शिवराजसिंहचौहानः
         कोच्ची > नर्मदानद्याः तीरे ओङ्कारेश्वरे भारतीय सांस्कृतिकैक्यस्य प्रतीकत्वेन स्थाप्यमाणाय श्रीशङ्करस्य प्रतिमास्थापनाय तस्य कुलभवनाङ्णात् सङ्कलितया मृदा सह आदिशङ्करसन्देशवाहिनी नामिका एकात्मतायात्रा प्रारब्धा।
        मध्यप्रदेशसर्वकारेण स्थाप्यमाणायाः प्रतिमायाः निर्माणार्थं मुख्यमन्त्री शिवराजसिंहचौहानः सकुटुम्बं एरणाकुलं जनपदे पिरवं प्रदेशस्थं  आदिशङ्कराचार्यस्य मातृभवनं – मेल्प्पाष़त्तूरिल्लं – प्राप्य जगद्गुरोः अवतारेण पादस्पर्शनेन च पवित्रीकृतं मृदंशं सङ्कलितवान्। चिन्मया अन्तर्देशीयकेन्द्रमिति विख्याते आदिशङ्करनिलये यत्र आचार्यस्य जन्म अभवत् तस्मिन् प्रकोष्ठे वर्तमानस्य अनिर्वापितदीपस्य पुरतः पूजां प्रार्थनां च कृत्वा एव चौहान् वर्यः मृत्कुम्भं स्वीकृतवान्। 
         प्रतिमास्थापनात् पूर्वं मध्यप्रदेशसर्वकारः चिन्मयामिषन् संस्था च मिलित्वा एव आदिशङ्करसन्देशवाहिनी इति नाम्नि एकात्मयात्रा आयोजिता। मुख्यमन्त्रिणः धर्मपत्नी साधनासिंहचौहान् पुत्रः कार्तिकेयसिंहचौहान् इत्यादयः कार्यक्रमे सन्निहिताः आसन्।
एकात्म यात्राया: जनवरी मासस्य नवमदिनाङ्के विदिशामण्डले प्रवेशः
-एम् पि इन्फो

  भोपालः>मध्यप्रदेशस्य मुख्यमन्त्री शिवराज सिंह चौहानेन समारब्धा  एकात्मयात्रा  जनवरी मासस्य नवमदिनाङ्के विदिशा मण्डले प्रवेशं करिष्यति च एकादश जनवरी मासे विदिशा जिला मुख्यालये जनसंवादस्य उपरान्ते भोपालाय प्रस्थानं करिष्यति। एकात्म यात्राया: भव्यम् आयोजनं च व्यापकं प्रचारं प्रसाराय ह्य: एसएटीआई इत्यस्य कैलाश सत्यार्थी सभागृहे गोष्ठी आहूता कृता। गोष्ठ्याम् एकात्म यात्राया: मार्गं सूचिकाया: विस्तृतं विवरणं दत्तम्। व्यापकं प्रचारं प्रसारस्य हेतु: ग्रामाणां भित्तिषु लेखनकार्यम्, मुख्य: जनसंवाद: स्थलेषु क्रियमाणा: व्यवस्थाभि: अवगत: कारित:।

  नगरपालिका अध्यक्ष: श्री मुकेश टण्डन: उक्तवान् यत् निकायं क्षेत्राणां सर्वेभ्य: वार्ड इत्येतेभ्य: एक: एक: कलश: पवित्रा मृत्तिका जनसंवाद: स्थलेषु संग्रहिता कारयिष्यते। निकायं क्षेत्रे यात्राया: भव्यं स्वागताय जनानाम् आह्वानं कृतम्। जिलाधीश: श्री अनिल सुचारी एकात्म यात्राया: मार्गं सूचिकाया: संबंधे विज्ञापितवान् यतृ नव जनवरी मासस्य प्रात:काले साँची त: एकात्म यात्रा विदिशा मण्डले प्रवेशं करिष्यति। नगरस्य विभिन्नं संगठनानि, सामाजिकं संस्थाभि: सह सह धार्मिकं संगठनानां प्रतिनिधय: यात्रायां सम्मेलिता: भविष्यन्ति। अस्मिन् काले विदिशा, गुलाबगंजं मैरिज गार्डन, बासौदा नौलखी मंदिरम्, सिरोंज श्री कृष्ण गौशाला, लटेरी थाना परिसरे जनसंवादा: भविष्यन्ति। विदिशायाम् एकादश जनवरी मासे मुख्य: संवाद: कार्यक्रम: भविष्यति। अस्मिन् कार्यक्रमे मुख्यमंत्री एवं राष्ट्रीय: स्वयंसेवक: संघस्य सरसंघचालक: सम्मेलितौ भविष्यत:।

गोष्ठ्यां विदिशा जिला व्यापारं महासंघस्य अध्यक्ष: श्री मुन्ना भैया जैन:, श्री संदीप डोंगर सिंह सहिता: अन्या: जनप्रतिनिधय:, गणमान्या: नागरिका: एवं यात्रा हेतु: नियुक्ता: ग्रामं समन्वयका: च विभिन्नं विभागानाम् अधिकारिण: कर्मचारिण: उपस्थिता: आसन्।

रसकणिका

बालकः - किमर्थं रोदिषि ??
बालिका- परीक्षायां न्यूनाः अङ्का लब्धाः मया अतः ...।
बालकः- तथापि कति अङ्का: प्राप्ता: ??
बालिका - केवलं 88 प्रतिशतम्..
बालकः- अयि! ईश्वरात् बिभेहि.....एतावतेषु अङ्केषु तु द्वौ बालकौ  उत्तीर्णौ भवितुं शक्नुतः ।

Friday, December 29, 2017

तलाखत्रितयनिरोधनविधेयकं लोकसभया अङ्गीकृतम्। 
                   नवदिल्ली > एकवारेण तखाखत्रयम् उक्त्वा वैवाहिकबन्धस्य निरासः [तलाख् इ बिद्दत्त्] अभिशंसापराधेन व्यवस्थाप्यमानं विधेयकं भारतलोकसभया अङ्गीकृतम्। विधेयकस्य व्यवस्थानुसारं तलाखत्रयमुक्वा विवाहबन्धस्य विच्छेदः क्रियते चेत् संवत्सरत्रयपर्यन्तं कारागारवासः आर्थिकदण्डश्च विधीयते। 
              केन्द्रमन्त्रिणा रविशङ्करप्रसादेन इदं विधेयकमवतारितम्। इदं विधेयकमनुसृत्य  वाक्यैः, [लिखित- वाचनरूपैः] इलक्ट्रोणिक् माध्यमैः , मार्गान्तरैः च क्रियमाणं तलाख् नीतिविरुद्धमस्ति। तलाखविधेयाः महिलाः तदाश्रिताः बालकाश्च  जीवनांशमर्हन्ति।
अफ्गानिस्थाने आत्मघात्याक्रमणं - ४० मरणानि। 
               काबूल् > अफ्गानिस्थानस्य राजधान्यां काबूल् नगरस्थे सांस्कृतिकनिलये गतदिने संवृत्ते आत्मघात्याक्रमणे चत्वारिंशत् जनाः हताः। पञ्चाशदधिकाः आहताः। आक्रमणस्य उत्तरदायित्वं इस्लामिकस्टेट् संस्थया स्वीकृतम्।  काबूलस्थानां इस्लामधर्मस्य षियाविभागानां सांस्कृतिककेन्द्रं 'ताबायान्' लक्ष्यीकृत्य आसीदाक्रमणम्।