OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 26, 2017

सरहस्यं जाधवस्य जीवनवृत्तम्। पाक् दृष्ट्या  गुप्तचर:  भारतीयदृष्ट्या वणिक्।
-पुरुषोत्तमशर्मा

        नवदिल्ली >महाराष्ट्रस्य साङ्गल्यां गतशताब्दीये सप्ततितमे वर्षे  अप्रैलमासस्य षोडशे दिनाङ्के लब्धजन्म: भारतीयनौसेनाया: प्राक्तन कमाण्डर् इति पदभाजनीभूत:   कुलभूषणजाधव: पाकिस्तानेन षोडशोत्तरद्विसहस्रतमे वर्षे मार्चमासस्य तृतीये दिनाङ्के बलूचिस्तानात् निगडितः आसीत्। पाकिस्तानेनाक्षिप्तं यदसौ भारतीयगुप्तचरः वर्तते, यो हि  (रिसर्च एंड एनालिसीस् विंग ) (रॉ) विभागाय कार्यं करोति स्म । 
        निगडनस्य 20 दिनानन्तरं  पाकिस्थानेन जाधवस्य स्वीकृते: तथाकथितं  वीडियो इति दृश्याङ्कनमपि प्रसारितमासीत् , तत: परं सार्धत्रिमासानन्तरं  अप्रैलमासस्य दशमे दिने  फील्ड्  जनरल् कोर्ट् मार्शल् इति न्यायालयेन तस्मै मृत्युदण्ड: श्रावितः।
ओडीषाराज्ये नालिकाकूपे पतिता बालिका रक्षिता।
          भुवनेश्वरम् > ओडीषादेशे नालिकाकूपे पतिता बालिका सप्तघण्टायाः प्रयत्नस्य अन्ते रक्षिता अभवत्। अङ्कुळ् जनपदस्य गुलासर् ग्रामे एव घटनेयं जाता। राधा साहु नामिका बालिका प्रभाते नववादने क्रीडा वेलायामेव नालिकाकूपे पतिता। अग्निशमनसेनान्यः अधिक-परिश्रमेण तां अरक्षन् । पञ्चदश-पाद-परिमितः आसीत् अयं नालिकाकूपः। तस्मिन् षट्पाद परिमिते गर्ते स्थगिता सा इत्येनेन सजीवं बहिरानेतुं प्रभवति इति अग्निशमन सैनिकाः अवदन्। कूपस्य समीपे अन्यत् गर्तं निर्माय तेनमार्गेण एव बालिकाम् अरक्षत् ।  कूपस्य पिधानं नासीत् इति एव घटनायाः कारणम् ।

Monday, December 25, 2017

दल्ली मेट्रोरेल् संस्थायाः 'मजन्त लैन्' मार्गः प्रधानमन्त्रिणा उद्घाटितः।
            नवदिली > दक्षिणदिलीदेशस्य कल्काजि तथा नोयिडा देशस्य बोट्टाणिक्कल् गार्डन् च मिथ संबन्ध्य भवति दिल्ली मेट्रोयान-संस्थायाः नूतनमार्गः। मजन्त लैन् इति नामाङ्कितः अयं मार्गः प्रधानमन्त्रिणा नरेन्द्र मोदिना उद्घाटितः। नोयिडातः ओख्ल पक्षिसङ्केतपर्यन्तं धाव्यमानं नूतनं मेट्रो रेल् यानं ध्वजवीजनेन उद्घाटितः च । अनन्तरं  प्रधानमन्त्री नरेन्द्रमोदी योगी आदित्यनाथेन सह नोयिडातः पक्षिसङ्केतपर्यन्तं यात्रां कृतवान् ।
उपनिर्वाचने सफलतां प्राप्य भा ज पा, अरुणाचले बंगाले च कॉग्रस् दलस्य पराजयः
       नवदिल्ली>  कॉग्रस् दलात् द्वाै स्थानौ संगृह्य एकं प्रतिपाल्य च भा ज पा दलीयाः पुरोगच्छन्ति। इदानीम् अरुणाचलस्य ६० अङ्ग सभायां कॉग्रस्  एकाङ्गत्वेन परिणितम्। भा ज पा दलं एकोन पञ्चाशत् ( ४९) अङ्गैः परिपुष्टाः च।
          उत्तरप्रदेशस्य 'सिक्कन्द्र' मण्डलं भा ज पा दलेन परिपालितम्। भा ज पा दलस्य अजित् सिंहपालः 11,861 संख्यामितं सम्मतिं  अधिकं संप्राप्य विजयीभूतः। बंगाले सबाङ् मण्डले कॉग्रस् दलस्य पराजयः अभवत् 1957 आरभ्य काङ्ग्रस्‌दलस्य शक्तिकेन्द्रः आसीत् इदं मण्डलम् ।
समारब्धः कार्यानुभव-प्रशिक्षण-वर्गः
         त्रिश्शिवपेरुर्> केन्द्रीयविद्यालयसंस्कृाध्यापकानां कार्यानुभवप्रशिक्षणवर्ग: राष्ट्रियसंस्कृतसंस्थानस्य गुरुवायूर परिसरे समारब्धःI डिसम्बर २५तः जनुवरि २ पर्यन्तं प्रचाल्यमानस्य वर्गस्यास्य उदघाटनं गुरुवायूर् परिसरस्य भूतपूर्व प्राचार्यः एम् ए बाबुवर्य: कृतवान्। दशदिनात्मकप्रशिक्षणे भारतस्य विभिन्नभागेभ्यः समागताः ४० अध्यापकाः भागं वहन्ति। प्रशिक्षणे संस्कृतसंवर्धनप्रतिष्ठानस्य सहयोगः अपि अस्ति।

Sunday, December 24, 2017

राजस्थाने लोकयानं नदीं पतित्वा ३३यात्रिकाः मृताः। 
        जय्पुर् > राजस्थानराज्ये  शतपादपरिमितात् सेतोः लोकयानं नदीं पतित्वा त्रयस्त्रिंशत् यात्रिकाः यमपुरिं प्राप्ताः। मथोपुरजनपदे सवायि डुबिग्रामे एवेयं दुर्घटना। नष्टनियन्त्रणं लोकयानं सेतोः आवेष्टकस्तम्भान् प्रभञ्ज्य 'बनास्' नदीं पतितमासीत्। 
         मृतेषु सप्त महिलाः चत्वारः बालकाश्च अन्तर्भवन्ति। यात्रिकेषु भूरिशः उत्तरप्रदेशतः मध्यप्रदेशतश्च सवायि मथोपुरस्थं रामदेवमन्दिरं  प्रस्थिताः तीर्थाटकाः आसन्निति आरक्षकाधिकारिणा अनूपसिंहेन उक्तम्। लोकयानस्य अमितशीघ्रता हिमाच्छादनं च दुर्घटनाहेतुरिति मन्यते।
तमिळ्नाट् राज्ये मतदानगणना आरब्धा। 
                 चेन्नै> आर् के नगरस्य निर्वाचनफलं अचिरादेव प्रख्याप्यते ।
राजनैतिकदलानि इदानिं हृदयपटह ध्वनिना सह वर्तन्ते। शासन पक्षदलम् इत्यनेन ओ पि एस्, पळनिस्वामि पक्षस्य फलं निर्णायकमेव। स्पर्धितारः सर्वे समुचितरीत्या प्रयत्नं कुर्विताः सन्ति। तमिळ्नाट् राज्यस्य भूतपूर्व मुख्यमन्त्रिण्याः जयललितायाः निधनेन पुनर्निर्वचनं अभवत्I

गोखाद्यकुम्भकोणम् - लालुप्रसादयादवः अपराधी। 
                  राञ्ची > २२ संवत्सरेभ्यः पूर्वं लालुप्रसादयादवस्य शासनकाले बीहारराज्ये संवृत्ते गोखाद्य-महाभ्रष्टाचारानुबन्धे अपरे विषये पि  तदानींतनमुख्यमन्त्री लालुप्रसादयादवः अपराधीति सि बि ऐ सविशेषन्यायालयेन निर्णीतम्। दण्डनविधिः जनवरी तृतीयदिने घोषयिष्यते। 
                १९९१-९४ परिमिते काले गवां कृते खाद्यानि, औषधानि , उपकरणानि इत्यादीनि क्रीतानीति व्याजदेयकानि समुद्पाद्य सर्वकारवित्तकोशात् ८९.२७लक्षं रूप्यकाणि आहृतानि इत्यस्ति अपराधारः विषयः। लालुं विना १५ अधिकारिप्रमुखाः अपि अपराधिन इति न्यायालयेन निश्चितमस्ति।
पाकिस्थानदेशः शान्तिं वाच्छति-?
पाकिस्थानस्य आक्रमणेन त्रयः सैनिकाः वीरमृत्युं प्राप्ताः।
       श्रीनगरम्> भारतेन सह चर्चा आवश्यकी न युद्धः इति उक्तवान् पाकिस्थानस्य  स्थल-सेनाध्यक्षः। तदनन्तरं कतिपय दिनाभ्यन्तरे सीमायां गोलिकाप्रहरमपि कृतवान् । गोलिकाप्रहारे त्रयः भारतसैनिकाः मृत्युवशंगताः। जम्मुकाश्मीरस्य केरियिल् १२० इन्फिन्ट्रि ब्रिगेट् स्थानं प्रति आसीत् आक्रमणम् । वाचं विरुध्य भवति प्रवृत्तिः इति पुनरपि पाकिस्थानेन प्रमाणीकृतम् इति  भारत स्थलसेनाध्यक्षेण विपिन् रावत्तेण उक्तम्। सैनिकैः सह अर्धसैनिक विभागाः आरक्षकाः च मिलित्वा अधिकप्रयत्नेन एव भीकरदलाः निवारिताः। पाकिस्थानेन  इदानीं कृताक्रमणम् अप्रतीक्षितम् आसीत्। अस्मिन् संवत्सरे सीमायां ८८१ वारं पाक् सैनिकैः गोलिकाप्रहारस्थगन व्यवस्था उल्लंघिता वर्तते। त्रिंशत् (३०)ग्रामिणजनाः गोलिकाप्रहारेण हताः च।

Saturday, December 23, 2017

सुरां पीत्वा यानचालनेन मृत्युकारकेभ्यः सप्तवर्षपर्यन्तं कारावासः 
              नवदिल्ली >सुरां पीत्वा यानचालनेन मृत्युकारकेभ्यः सप्तवर्षपर्यन्तं कारावासाय नियमनिर्मणां प्रचलति।  दोषाय दीयमानः दण्डः अपर्याप्तः सः दण्डः कठिनः भवितव्यः इति सर्वोच्च न्यायालयस्य निर्देशानुसारमेव नूतनः नियमनिर्माणः। एतत् विहाय पञ्जीकरणसमये तृतीय विभागानां कृते अपि                           अभिरक्षा स्वीकरणीया इति निर्बन्धः भविष्यति।   
इदानीं मदिरां पीत्वा दुर्घटनाकारकेभ्यः वर्षद्वयस्य कारावासः धनदण्डः च भवति। अस्मिन् विषये दशवर्षस्य कारावासेन दण्डनीयाः इति पूर्वं विषये अध्ययनं कृत्व नियुक्तसमितिना निर्दिष्टा आसीत्
व्यवस्थाकार्कश्यानि - केरले १६१ बालभवनानि पिहितानि; उपसहस्रं पिहितप्रायानि। 
            कोष़िक्कोट् > बालनीत्यनुशासनस्य व्यवस्थाः अनुसृत्य बालभवनानि डिसंबर् ३१तमदिनाभ्यन्तरे पञ्जीकरणीयानीति सर्वोच्चन्यायालयस्य आदेशः शतशः बालमन्दिराणां कृते प्रत्याघाताय भवति। निर्देशान् परिपालयितुमशक्तानि पालक्काट् इटुक्की जनपदस्थानि भूसम्पत्तिमण्डलस्थानि १६१ बालमन्दिराणि पिहितानि। उपसहस्रं बालभवनानि अनाथमन्दिराणि च पिधातुं निर्णीतानि। पञ्चाशत् सहस्रं बालकाः अरक्षिताः भविष्यन्तीति अस्य अनन्तरफलम्। 
          केरले प्रायेण १२०० बालभवनानि अनाथमन्दिराणि वा 'ओर्फनेज् कण्ट्रोल् बोर्ड्' इत्यस्याः संस्थायाः अधीने प्रवर्तन्ते। स्वभवनेषु अरक्षितावस्थाम् अभिमुखीकुर्वन्तः बालकाः एव अध्ययनार्थम् एतादृशसंस्थाः आश्रयन्ति। तेषां  सर्वोच्चन्यायालयस्य नूतनादेशाः प्रतिसन्धिं जनयन्ति।

Friday, December 22, 2017

गुर्जरदेशस्य मुख्यमन्त्रीपदे विजय रूपाणी प्रतिष्ठितः।
             गान्धीनगरम्> गुजरात् राज्यस्य मुख्यमन्त्रीपदे विजयरूपाणी पुनरपि चितः। गन्धिनगरे आयोजिते चितानां नियमसभा सामाजिकानां योगे एव विजय रूपाणिनः चयनम् अभवत् । निधिन् पट्टेलः उप मुख्यमन्त्रिपदे अनुवर्त्यते|  केन्द्र मन्त्री अरुण् जैट्ली उपवेशने अध्यक्षः आसीत्I सामाजिकाः ऐककण्ठ्येन एव चयनम् अकुर्वन्। 
              भा ज पा दलस्य राष्ट्रिय अध्यक्षस्य अमित् षा महोदयस्य समीपवर्ती नेता भवति विजय् रूपाणि।  भा ज पा दलस्थ संशुद्धः नेता इति ख्यातिः विजय रूपाणि महोदयस्य अस्ति। निर्वाचने विजस्थानानि न्यूनानि इति कारणेन विजय रूपाणिमहोदयात् भिन्नः कोऽपि मुख्यमन्त्री पदे नियोक्तव्यः इति आशयः आसीत्। 
उपभोक्तृ संरक्षणपत्रस्य  अङ्गीकारः
अनृतविज्ञप्तिः दण्डनीयदोषः।
           नव दिल्ली> उपभोक्तारः संरक्षिताः। केन्द्रसर्वकारेण उपभोक्तॄणां अधिकारः सरक्षितुं उन्नत सेवनव्यवस्थां संस्थापयितुं च उद्दिश्य एव उपभोक्तृ-संरक्षणपत्रस्य अङ्गीकारः।  अस्मिन् विधानसभामेलने पत्रस्य अवतारणं भविष्यति। इदानीं विद्यमाननियमानां  परिष्करणेन एव नूतन नियमपरिष्करणपत्रस्य अवतारणम्। फलरहितोत्पन्नानि जनानां याचिकानुसारं प्रतिग्रहणं कर्तुं पत्रे  व्यवसितः । अनृत विज्ञप्ति -प्रकाशितेभ्यः क्रियाविधयः भविष्यन्ति।

Thursday, December 21, 2017

 देशस्य प्रथमराष्ट्रियरेलपरिवहनविश्वविद्यालयः गुजरातस्य वडोदरायां स्थापियिष्यते 
पुरुषोत्तमशर्मा
           नव दिल्ली> भारतस्य प्रथमः राष्ट्रियरेलपरिवहनविश्वविद्यालयः गुजरातस्य वडोदरायां स्थापयिष्यते, तत्र मानवसंसाधनानां प्रशिक्षणं तेषां योग्यतासंवर्धनं च भविष्यति । निर्णयोsयं गतदिने नवदिल्ल्यां केन्द्रीयमन्त्रिमण्डलोपवेशने स्वीकृतम्। प्रधानमंत्री नरेन्द्रमोदी प्रत्यपादयत् यत् अनेन पदक्षेपोsयं रेलपरिवहनक्षेत्रे नूतनभारतस्य दिशि परिवर्तनाय प्रेरकत्वं सेत्स्यति ।
एम् पि वीरेन्द्रकुमारः राज्यसभाङ्गत्वम् त्यक्तवान्। 
            नवदिल्ली > केरलस्य राज्यसभाङ्गः तथा जनतादल् [यू] राजनैतिकदलस्य राज्याध्यक्षः एम् पि वीरेन्द्रकुमारः राज्यसभाङ्गत्वं त्यक्तवान्। राज्यसभाध्यक्षाय वेङ्कय्य नायिडवे त्यागपत्रं समर्पितवान्। जनतादल् - यू दलस्य देशीयाध्यक्षस्य नितीष्कुमारस्य भाजपादलबान्धवं प्रतिषिध्य एव तस्य स्थानत्यागः।
डि जि पि जेक्कब् तोमसः अधिकारात् निष्कासितः। 
        अनन्तपुरी > केरले शासनप्रक्रमः भग्नः इति विवादास्पदप्रस्तावेन दक्षताविभागस्य भूतपूर्वः निदेशकः तथा इदानींतन ऐ एम् जि अधिकारी च डि जि पी स्थानीयः जेक्कब् तोमसः अधिकारात् निष्कासितः। मुख्यमन्त्रिणः निर्देशानुसारमेवायं प्रक्रमः। जेक्कब् तोमसस्य परामर्शाः सर्वकारं प्रति अवमतिकारणानि अभवन् इति सर्वकारस्य विचिन्तनम्। 
     ओखिदुरिताश्वासप्रवर्तनानां विलक्षणान्यधिकृत्य जेक्कबः रूक्षतया विमृष्टवान् आसीत्।
७२ वयस्का सतीदेवी १२ वयस्कया मरियया सह परीक्षाम् अलिखत्।
         एडप्पाल्>द्वादशवर्ष देशीया मरियायाः आरभ्य   द्विसप्ततिवर्षदेशीया सतीदेवी पर्यन्तम् जनाः परीक्षायां भागभाजः। संस्कृताध्ययनं विश्वसंस्कृतप्रतिष्ठानस्य जनकीयविज्ञानप्रदानेन  जनकीयतां याति। संस्कृत-सम्भाषणान्दोलनद्वारा समारब्धम् विश्वसंस्कृत प्रतिष्ठानं केरलेषु प्रतिष्ठिता अभवत् । गत उपचत्वारिंशत् वर्षेभ्यः आरब्ध कार्याणि इदानीम् ६० अधिकतालूक्केषु प्रचलन्ति । अस्य मासस्य प्रथम सप्ताहे प्रचलितायाम् पत्रालय परीक्षायां २००० परीक्षार्थिनः भागमावहन् । एटप्पाल् देशे प्रवृत्तपरीक्षायां जाति वर्ण वयो भेदम् विना २००छात्रा: परीक्षाम् अलिखन् । अनौपचारिकद्वारा पठन्तः एते जीवनस्य विभिन्न मण्डलेषु कार्यनिरताः वर्तन्ते इति अस्माकं वार्ताहर: ज्ञापयति ।
रयिल् निस्थानं प्रति 'नक्सल्' दलानाम् आक्रमणम् , उद्योगिनौ बलात् नीतवन्तौ।
        पाट्न> बीहार राज्ये रयिल् निस्थानं प्रति नक्सल् दलानाम्  आक्रमणम्, द्वौ उद्योगिनौ तैः बलात् नीतौ।  मसुदान्  रयिल् निस्थाने मंगलवासरे रात्रौ एव धटना जाता। सायुधाः नक्सल् प्रवर्तकाः रयिल् निस्थानस्य उपरि कृतघट्टनेन तद् भग्नमकुर्वन् । मसुदानस्य रेल्पथद्वारा गतागतः क्रियते चेत् अपनीतौ मारयिष्येते इति भीषावचः अपि तैः घोषितः।