OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 24, 2017

गोखाद्यकुम्भकोणम् - लालुप्रसादयादवः अपराधी। 
                  राञ्ची > २२ संवत्सरेभ्यः पूर्वं लालुप्रसादयादवस्य शासनकाले बीहारराज्ये संवृत्ते गोखाद्य-महाभ्रष्टाचारानुबन्धे अपरे विषये पि  तदानींतनमुख्यमन्त्री लालुप्रसादयादवः अपराधीति सि बि ऐ सविशेषन्यायालयेन निर्णीतम्। दण्डनविधिः जनवरी तृतीयदिने घोषयिष्यते। 
                १९९१-९४ परिमिते काले गवां कृते खाद्यानि, औषधानि , उपकरणानि इत्यादीनि क्रीतानीति व्याजदेयकानि समुद्पाद्य सर्वकारवित्तकोशात् ८९.२७लक्षं रूप्यकाणि आहृतानि इत्यस्ति अपराधारः विषयः। लालुं विना १५ अधिकारिप्रमुखाः अपि अपराधिन इति न्यायालयेन निश्चितमस्ति।
पाकिस्थानदेशः शान्तिं वाच्छति-?
पाकिस्थानस्य आक्रमणेन त्रयः सैनिकाः वीरमृत्युं प्राप्ताः।
       श्रीनगरम्> भारतेन सह चर्चा आवश्यकी न युद्धः इति उक्तवान् पाकिस्थानस्य  स्थल-सेनाध्यक्षः। तदनन्तरं कतिपय दिनाभ्यन्तरे सीमायां गोलिकाप्रहरमपि कृतवान् । गोलिकाप्रहारे त्रयः भारतसैनिकाः मृत्युवशंगताः। जम्मुकाश्मीरस्य केरियिल् १२० इन्फिन्ट्रि ब्रिगेट् स्थानं प्रति आसीत् आक्रमणम् । वाचं विरुध्य भवति प्रवृत्तिः इति पुनरपि पाकिस्थानेन प्रमाणीकृतम् इति  भारत स्थलसेनाध्यक्षेण विपिन् रावत्तेण उक्तम्। सैनिकैः सह अर्धसैनिक विभागाः आरक्षकाः च मिलित्वा अधिकप्रयत्नेन एव भीकरदलाः निवारिताः। पाकिस्थानेन  इदानीं कृताक्रमणम् अप्रतीक्षितम् आसीत्। अस्मिन् संवत्सरे सीमायां ८८१ वारं पाक् सैनिकैः गोलिकाप्रहारस्थगन व्यवस्था उल्लंघिता वर्तते। त्रिंशत् (३०)ग्रामिणजनाः गोलिकाप्रहारेण हताः च।

Saturday, December 23, 2017

सुरां पीत्वा यानचालनेन मृत्युकारकेभ्यः सप्तवर्षपर्यन्तं कारावासः 
              नवदिल्ली >सुरां पीत्वा यानचालनेन मृत्युकारकेभ्यः सप्तवर्षपर्यन्तं कारावासाय नियमनिर्मणां प्रचलति।  दोषाय दीयमानः दण्डः अपर्याप्तः सः दण्डः कठिनः भवितव्यः इति सर्वोच्च न्यायालयस्य निर्देशानुसारमेव नूतनः नियमनिर्माणः। एतत् विहाय पञ्जीकरणसमये तृतीय विभागानां कृते अपि                           अभिरक्षा स्वीकरणीया इति निर्बन्धः भविष्यति।   
इदानीं मदिरां पीत्वा दुर्घटनाकारकेभ्यः वर्षद्वयस्य कारावासः धनदण्डः च भवति। अस्मिन् विषये दशवर्षस्य कारावासेन दण्डनीयाः इति पूर्वं विषये अध्ययनं कृत्व नियुक्तसमितिना निर्दिष्टा आसीत्
व्यवस्थाकार्कश्यानि - केरले १६१ बालभवनानि पिहितानि; उपसहस्रं पिहितप्रायानि। 
            कोष़िक्कोट् > बालनीत्यनुशासनस्य व्यवस्थाः अनुसृत्य बालभवनानि डिसंबर् ३१तमदिनाभ्यन्तरे पञ्जीकरणीयानीति सर्वोच्चन्यायालयस्य आदेशः शतशः बालमन्दिराणां कृते प्रत्याघाताय भवति। निर्देशान् परिपालयितुमशक्तानि पालक्काट् इटुक्की जनपदस्थानि भूसम्पत्तिमण्डलस्थानि १६१ बालमन्दिराणि पिहितानि। उपसहस्रं बालभवनानि अनाथमन्दिराणि च पिधातुं निर्णीतानि। पञ्चाशत् सहस्रं बालकाः अरक्षिताः भविष्यन्तीति अस्य अनन्तरफलम्। 
          केरले प्रायेण १२०० बालभवनानि अनाथमन्दिराणि वा 'ओर्फनेज् कण्ट्रोल् बोर्ड्' इत्यस्याः संस्थायाः अधीने प्रवर्तन्ते। स्वभवनेषु अरक्षितावस्थाम् अभिमुखीकुर्वन्तः बालकाः एव अध्ययनार्थम् एतादृशसंस्थाः आश्रयन्ति। तेषां  सर्वोच्चन्यायालयस्य नूतनादेशाः प्रतिसन्धिं जनयन्ति।

Friday, December 22, 2017

गुर्जरदेशस्य मुख्यमन्त्रीपदे विजय रूपाणी प्रतिष्ठितः।
             गान्धीनगरम्> गुजरात् राज्यस्य मुख्यमन्त्रीपदे विजयरूपाणी पुनरपि चितः। गन्धिनगरे आयोजिते चितानां नियमसभा सामाजिकानां योगे एव विजय रूपाणिनः चयनम् अभवत् । निधिन् पट्टेलः उप मुख्यमन्त्रिपदे अनुवर्त्यते|  केन्द्र मन्त्री अरुण् जैट्ली उपवेशने अध्यक्षः आसीत्I सामाजिकाः ऐककण्ठ्येन एव चयनम् अकुर्वन्। 
              भा ज पा दलस्य राष्ट्रिय अध्यक्षस्य अमित् षा महोदयस्य समीपवर्ती नेता भवति विजय् रूपाणि।  भा ज पा दलस्थ संशुद्धः नेता इति ख्यातिः विजय रूपाणि महोदयस्य अस्ति। निर्वाचने विजस्थानानि न्यूनानि इति कारणेन विजय रूपाणिमहोदयात् भिन्नः कोऽपि मुख्यमन्त्री पदे नियोक्तव्यः इति आशयः आसीत्। 
उपभोक्तृ संरक्षणपत्रस्य  अङ्गीकारः
अनृतविज्ञप्तिः दण्डनीयदोषः।
           नव दिल्ली> उपभोक्तारः संरक्षिताः। केन्द्रसर्वकारेण उपभोक्तॄणां अधिकारः सरक्षितुं उन्नत सेवनव्यवस्थां संस्थापयितुं च उद्दिश्य एव उपभोक्तृ-संरक्षणपत्रस्य अङ्गीकारः।  अस्मिन् विधानसभामेलने पत्रस्य अवतारणं भविष्यति। इदानीं विद्यमाननियमानां  परिष्करणेन एव नूतन नियमपरिष्करणपत्रस्य अवतारणम्। फलरहितोत्पन्नानि जनानां याचिकानुसारं प्रतिग्रहणं कर्तुं पत्रे  व्यवसितः । अनृत विज्ञप्ति -प्रकाशितेभ्यः क्रियाविधयः भविष्यन्ति।

Thursday, December 21, 2017

 देशस्य प्रथमराष्ट्रियरेलपरिवहनविश्वविद्यालयः गुजरातस्य वडोदरायां स्थापियिष्यते 
पुरुषोत्तमशर्मा
           नव दिल्ली> भारतस्य प्रथमः राष्ट्रियरेलपरिवहनविश्वविद्यालयः गुजरातस्य वडोदरायां स्थापयिष्यते, तत्र मानवसंसाधनानां प्रशिक्षणं तेषां योग्यतासंवर्धनं च भविष्यति । निर्णयोsयं गतदिने नवदिल्ल्यां केन्द्रीयमन्त्रिमण्डलोपवेशने स्वीकृतम्। प्रधानमंत्री नरेन्द्रमोदी प्रत्यपादयत् यत् अनेन पदक्षेपोsयं रेलपरिवहनक्षेत्रे नूतनभारतस्य दिशि परिवर्तनाय प्रेरकत्वं सेत्स्यति ।
एम् पि वीरेन्द्रकुमारः राज्यसभाङ्गत्वम् त्यक्तवान्। 
            नवदिल्ली > केरलस्य राज्यसभाङ्गः तथा जनतादल् [यू] राजनैतिकदलस्य राज्याध्यक्षः एम् पि वीरेन्द्रकुमारः राज्यसभाङ्गत्वं त्यक्तवान्। राज्यसभाध्यक्षाय वेङ्कय्य नायिडवे त्यागपत्रं समर्पितवान्। जनतादल् - यू दलस्य देशीयाध्यक्षस्य नितीष्कुमारस्य भाजपादलबान्धवं प्रतिषिध्य एव तस्य स्थानत्यागः।
डि जि पि जेक्कब् तोमसः अधिकारात् निष्कासितः। 
        अनन्तपुरी > केरले शासनप्रक्रमः भग्नः इति विवादास्पदप्रस्तावेन दक्षताविभागस्य भूतपूर्वः निदेशकः तथा इदानींतन ऐ एम् जि अधिकारी च डि जि पी स्थानीयः जेक्कब् तोमसः अधिकारात् निष्कासितः। मुख्यमन्त्रिणः निर्देशानुसारमेवायं प्रक्रमः। जेक्कब् तोमसस्य परामर्शाः सर्वकारं प्रति अवमतिकारणानि अभवन् इति सर्वकारस्य विचिन्तनम्। 
     ओखिदुरिताश्वासप्रवर्तनानां विलक्षणान्यधिकृत्य जेक्कबः रूक्षतया विमृष्टवान् आसीत्।
७२ वयस्का सतीदेवी १२ वयस्कया मरियया सह परीक्षाम् अलिखत्।
         एडप्पाल्>द्वादशवर्ष देशीया मरियायाः आरभ्य   द्विसप्ततिवर्षदेशीया सतीदेवी पर्यन्तम् जनाः परीक्षायां भागभाजः। संस्कृताध्ययनं विश्वसंस्कृतप्रतिष्ठानस्य जनकीयविज्ञानप्रदानेन  जनकीयतां याति। संस्कृत-सम्भाषणान्दोलनद्वारा समारब्धम् विश्वसंस्कृत प्रतिष्ठानं केरलेषु प्रतिष्ठिता अभवत् । गत उपचत्वारिंशत् वर्षेभ्यः आरब्ध कार्याणि इदानीम् ६० अधिकतालूक्केषु प्रचलन्ति । अस्य मासस्य प्रथम सप्ताहे प्रचलितायाम् पत्रालय परीक्षायां २००० परीक्षार्थिनः भागमावहन् । एटप्पाल् देशे प्रवृत्तपरीक्षायां जाति वर्ण वयो भेदम् विना २००छात्रा: परीक्षाम् अलिखन् । अनौपचारिकद्वारा पठन्तः एते जीवनस्य विभिन्न मण्डलेषु कार्यनिरताः वर्तन्ते इति अस्माकं वार्ताहर: ज्ञापयति ।
रयिल् निस्थानं प्रति 'नक्सल्' दलानाम् आक्रमणम् , उद्योगिनौ बलात् नीतवन्तौ।
        पाट्न> बीहार राज्ये रयिल् निस्थानं प्रति नक्सल् दलानाम्  आक्रमणम्, द्वौ उद्योगिनौ तैः बलात् नीतौ।  मसुदान्  रयिल् निस्थाने मंगलवासरे रात्रौ एव धटना जाता। सायुधाः नक्सल् प्रवर्तकाः रयिल् निस्थानस्य उपरि कृतघट्टनेन तद् भग्नमकुर्वन् । मसुदानस्य रेल्पथद्वारा गतागतः क्रियते चेत् अपनीतौ मारयिष्येते इति भीषावचः अपि तैः घोषितः।

Wednesday, December 20, 2017

बेंगलूरु-मैसूरु प्रधानमार्गेषु विद्युत् बस् यानानि गमनागमनार्थं सन्नद्धानि।
          बेंगलूरु> मैसूरु - बेंगलूरु मार्गेषु कर्णाटकसर्वकारस्य विद्युत्यानानि आगमिष्यन्ति। एतदर्थं पञ्चाशत् (५०) बस् यानानि क्रेतुं निश्चिम् अस्ति। मैसूरुदेशतः तुमकूरु, हासन्, कोलार् देशान् प्रति प्रतिदिन यात्राम् आयोजयिष्यते।  योजनायाः समारम्भेन राज्यान्तर नगरयात्रायै विद्युद् यानस्य उपयोगं कुर्वतां मध्ये प्रथमराज्यम् भविष्यति कर्णाटकम्।  
         अन्तरिक्षमलिनीकरणं न्यूनीकर्तुमुद्दिश्य भवति एतादृशानां बस्यानानाम् अवतारणम्।  बस्यानस्य क्रयणं सम्बन्ध्य  विविध चीनासंस्थाभिः सह चर्चां कुर्वन् अस्ति इति कर्णाटकयानविभागस्य निर्देशकः उमाशङ्करः अवदत्। एकवारं कृतविधुत्प्रेरणया द्विशतं (२००) किलोमीट्टर् पर्यन्तं गमिष्यन्ति इमानि यानानि।
         केन्द्रसर्वकारस्य आर्थिकसाहाय्येन एव योजनेयं प्रचाल्यते। यानस्य एकस्य कृते पञ्चाशीति (८५)लक्षं रुप्यकाणि एव सहायधनम्। ४०% धनं कर्णाटकसर्वकारेण संवहति। शिष्ट-भागः गतागत-विभाग-संस्थया वोढव्या। डीसल्तैलयानापेक्षया अनुरक्षणव्ययः न्यूनः इत्यनेन वैद्युतयानानि एव लाभकराणि।
'ओखि'दुरितबाधितान् साक्षाद्द्रष्टुं प्रधानमन्त्री आगतः, ७३४० कोटि रूप्यकाणां सविशेषयोजना आवश्यकीति केरलम्। 
         अनन्तपुरी > ओखिदुरिताश्वासाय चत्वारिंशदधिकत्रिशतोत्तरसप्तसहस्रं कोटि रूप्यकाणां सविशेषयोजना आवश्यकीति केरलस्य निवेदनम् अनुभावपूर्वं परिगणयिष्यते इति प्रधानमन्त्री नरेन्द्रमोदी सम्मतिं कृतवान्। ओखिदुरन्तस्य आघातं सन्द्रष्टुं दुरन्तबाधितान्   समाश्वासयितुं च अनन्तपुरीं प्राप्तवानासीत् प्रधानमन्त्री। सर्वकारस्य अतिथिमन्दिरे मुख्यमन्त्रिणा पिणरायि विजयेन सह कृतायां चर्चायामासीत् प्रधानमन्त्रिणः अनुभावः प्रकाशितः। 
      अनन्तपुर्यां पून्तुरा प्रदेशस्थान् दुरन्तबाधितान् धीवरान् साक्षात् दृष्ट्वा तेषां सङ्कटान् अभियाचनाश्च सश्रद्धं श्रुतवान्। ओखीदुष्प्रभावन्तरम्  इदानीं ये न प्रत्यागताः ते क्रिस्मस् दिनाभ्यन्तरे प्रत्यागच्छन्तु इति प्रार्थये इति मोदिना उक्तम्।

Tuesday, December 19, 2017

यु एन् रक्षासमित्यां  जरूसलें विषये सम्मतिविचारपत्रम् अमेरिक्का राष्ट्रेण निवारितः।
      न्यूयोर्क् > जरुसलें नाम नगरीं इस्रायेलस्य राजधानित्वेन अमेरिका राष्ट्रपतिना ट्रम्पेण कृताङ्गीकारं विरुध्य सम्पन्नः यु एन् सम्मतिविचारपत्रं ट्रम्पेण  अप्रतिरोध्येन वीट्टो नाम रोधनाधिकारेण निवारितः वर्तते। चतुर्दश (१४) राष्ष्ट्राणाम्  अनुज्ञया अवतारितः आसीत् सम्मतिविचारपत्रम्। निर्णयः प्रतिनिवर्तनीयः इति परुषया भाषया सहमतिसम्मर्द्दः भवतु इत्यासीत् इत्यासीत् पलस्तीनस्य मतम्। किन्तु अन्येषां राष्ट्राणां साह्यमुद्दिश्य मृदुल भाषया आसीत् प्रमेयः। तस्मिन् यु एस् राष्ट्रं वा. ट्रम्पः वा अभिधाम् उक्त्वा न परामृष्टौ। कार्यलाभाय यु एन् संस्थायाः सार्वजनिक सभायाः पुरतः न्यवेदनं दातुमेव  पलस्तीनस्य नूतनः  प्रयत्नः॥
इतरराज्येभ्य: आगच्छत्सु आम्रफलेषु अतिदुर्मेदकारका: (होर्मोण्) सन्तीति जाग्रतानिर्देश:।।
-रम्या पि यू
        तिरुवनन्तपुरम्>  आगामिनि आम्रफलकाले इतरराज्येभ्य: आगच्छत्सु आम्रफलेषु अतिदुर्मेदकारकाणां सान्निद्ध्यम् अधिकं स्यादिति राज्यभक्ष्यसुरक्षाविभागस्य जाग्रतानिर्देश:। सस्यविकासक्रमीकरणजात्यां ( पी जी आर् )( प्लान्ट् ग्रोत् रेगुलेटर् )  अन्तर्भूतानि अतिदुर्मेदकारकाणि संसिञ्च्य पक्वानि कृतानि आम्रफलानि एव विपणिम् प्राप्स्यन्ति इति तमिलुनाडु, आन्ध्रा राज्ययोः भक्ष्यसुरक्षाविभागयो: जाग्रतानिर्देश:। उभयो: एतयोः राज्ययोरेव केरलम् प्रति प्रधानतया आम्रफलानि आगच्छन्ति। एतयोः राज्ययोः आहत्याम्रफलविपणनकेन्द्रेषु बहुत्र अस्यां रीत्याम् आम्रफलानि पक्वानि क्रियमाणानि सन्तीति अवलोकनबद्धमेव। उभयत्रापि अधुना विपणिम् प्राप्तेषु आम्रफलेषु गुरुतरारोग्यविघ्नसमस्याकारका: 'कात्स्यं कार्बैड्,' 'एत्तराल्' आदिनां  रासवस्तूनां अंशा: सन्तीति प्रत्यभिज्ञातम्। तत्तद्राज्येषु आम्रफलस्य आहत्यविपणनकेन्द्रेषु निरीक्षणम् प्रचलति इत्यपि राज्यभक्ष्यसुरक्षाविभाग: ज्ञापित:। सस्यानां सम्पूर्णविकासप्रापणाय फलवर्गाणाम्  उत्पादनशक्तिवर्धनाय च फलकृषिक्षेत्रेषु कृत्रिमतया निर्मितम् पी जी आर् अतिदुर्मेदकारकमेव एतदर्थमुपयुज्यते। एतादृशानां अतिदुर्मेदकारकाणां लायनीषु अपक्वम् आम्रफलम् मज्जयित्वा  उत लायनीम् तेषु प्रोक्षयित्वा वा पक्वम् क्रियते। ओक्सिन्, गिबरलिन्, एथिलीन्, सैटोकैनीन् आदीनि पी जी आर् अतिदुर्मेदकारकाणि एव एतदर्थम् उपयुज्यन्ते।

Monday, December 18, 2017

गुजरात्त् राज्ये हिमाचल प्रदेशे च विधानसभामतदानस्य गणना संपन्ना
भा ज पा दलस्य विजयः ।


गुजरात्त्-182  (68.7%)
भा ज पा - 99
कॉग्रस्     - 77
बि टि पि   - 2 
ऐ एन् डि   - 3 
एन् सि पि  -1


हिमाचल प्रदेशः68 (74%)
भा ज पा   - 44
कॉग्रस्       - 21
ऐ एन् डि   -   2
सि पि ऐ (एम्) -1
एच् एल् पि   - 0
एन् सि पि     - 0


स्पर्शगंगा दिवस:
- अभिषेक परगाँई
           हरिद्वारम्> गंगाया: रक्षणम् उद्दिश्य एव स्पर्श-गंगा-दिवस: इति नामेन समाचरितः। हरिद्वारस्थ श्रीभगवानदासादर्शसंस्कृत-महाविद्यालयस्य राष्ट्रिय-सेवायोजना-स्वयंसेवी इकाई द्वारा स्पर्श-गंगा-दिवस: समायोजित:। प्राचार्याणां डॉ भोला झा वर्याणां अध्यक्षतायां आसीत् समायोजनम्। अस्मिन् कार्यक्रमस्य  प्रारम्भ: पदयात्रा माध्यमेनाभवत्। अस्मिनावसरे कार्यक्रमस्य अध्यक्षा: डॉ निरञ्जन मिश्र महाभागा: मातु: गंगाया: संरक्षण-संवर्धन-शाश्वतप्रवाहविषयेषु च स्वकीयं महत्वपूर्णं उदबोधनं प्रस्तुतवन्त: तथा च तै: उक्तं  भारतीयै: मॉरीशस जनेभ्य: प्रेरणा नेतव्या यत् कथं अस्माभि: मातु: गंगाया: रक्षणम् कर्तव्यमिति।
       अस्मिनावसरे डॉ दीपक कोठारी महोदयेनापि स्वीय विचारा: प्रकटीकृता:। कार्यक्रमे कार्यक्रमाधिकारिणा: डॉ वी के सिंहदेव महोदयेन गंगातटे गंगाया: संरक्षणार्थं स्वच्छतार्थं च संकल्प: कारित:। डॉ मञ्जुनाथ एस जी महोदया: कार्यक्रमसञ्चालनं कृतवन्त: । कार्यक्रमेस्मिन् सर्वेsपि प्राध्यापका: छात्रा: सोत्साहं गंगा मातु: स्वच्छतादीनां विषये स्वीयान् विचारान् प्रकटीकृतवन्त: । कार्यक्रमे सुशील: लोहनी,जसुदेव ढौंडियाल:, मुकुल शर्मादया: उपस्थिता: आसन्।
भोपाल् व्यापारसमुच्चये अग्निबाधा
               भोपाल् > व्यापार समुच्चये जायमानायाम् अग्निबाधायां शताधिकानि आपणानि नाशितानि। भोपालस्य बैराग्‌ प्रदेशे एव अग्निबाधा अभवत्I विंशत्यधिकानि अग्निशमनवाहनानि अग्निं शामयितुं प्रयतिताः घटनायां कोऽपि न क्षतजाः इति अनुमीयते। अग्निबाधायाः कारणं किमिति न व्यक्तम्।