OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 18, 2017

भारतस्य उत्तरपूर्व राज्येषु नूतना रियिल् पद्‌धतिः
           ऐस्वाल् > भारतस्य उत्तरपूर्व राज्यानां राजधानीं बन्धयित्वा रैल् यानानि आरभ्यते इति मिसोरां मध्ये जलवैद्युत पद्धतेः उत्घाटन वेलायां प्रथानमन्त्रिणा उक्तं। पूर्वोत्तर राज्यानि  रैल् भूपटे निवेष्टुं पद्धतिं आविष्कुर्वन्ति। केन्द्र सर्वकारेण एतदर्थं सप्त चत्वारिंशत्सहस्रकोटि रूप्यकाणि अनुददाति इत्यपि तेन उक्तम्। म्यान्मार बङ्लादेश् इत्यादि राज्याणां साकं सामग्र्यवितरणाय पूर्वोत्तर मण्डलेषु प्रथमिक सुविधायै अवश्यं नवीकर्तव्यम्। विकसनस्य फलं सर्वेषु फलति चेत् एव नूतन भारतं इतिलक्ष्यस्य सिद्धिः।
                वाजपेयि महोदयस्य नेतृत्वे प्रथम एन् डि ए सर्वकारः पूर्व उत्तर राज्यस्य विकसनप्रवर्त्तनानि कृतमित्यपि प्रथानमन्त्रिणा सूचितम्।
H- 1 B Visa पत्रं - अमेरिक्कायां परिग्रहीतृृणां कर्मनिरोधः। 
           वाषिङ्टण् > एछ् - १ बि नामकस्य प्रवेशानुमतिपत्रस्य आधारेण अमेरिक्कायां कर्म कुर्वतां वैदेशिकानां परिग्रहीतॄणामपि कर्म कर्तुमवसरं निरोद्धुं ट्रम्पसर्वकारेण विचिन्त्यते। सहस्रशः भारतीयकर्मकरान् तेषां परिवारानपि  अयं परिष्कारः बाधेत। 
          विदग्धेभ्यः वैदेशिकेभ्यः कर्मकरेभ्यः संवत्सरत्रयं यावत् अमेरिक्कन् संस्थासु कर्मप्रदानयोग्या अनुमतिः भवति  'एछ् - १ बी विसा'। संवत्सरत्रयमपि अनुमतिपत्रं नवीकर्तुं शक्यते। ये एछ् १बि विसायुक्ताः , हरितपत्राय प्रतीक्ष्यमाणाः इत्येतेषां जीवनसहकारिणः एछ् ४ आश्रितविसापत्रद्वारा कर्म कर्तुं २०१५तम संवत्सरादारभ्य अवसरः अस्ति। ओबामावर्येण प्रतिष्ठितमिदमनुशासनमेव डोणाल्ड् ट्रम्प वर्येण निष्कासितप्रायं वर्तते।

Sunday, December 17, 2017

ओखिदुरन्तेषु ३०० जनाः अदृश्याः ६० मृताः - सर्वकारस्य नूतना गणना
          अनन्तपुरी> ओखिदुरन्तेषु त्रिशतं जनाः अदृश्याः षष्ठि संख्याकाः मृताः इति नूतन गणनया सह सर्वकारः। त्रिशतं (३००)जनाः अदृश्याः इति आरक्षक-मत्स्यबन्धन-दुरन्तनिवारण-विभागानां नूतना गणना।
         प्रथम विवरण रेखानुसृत्य- अदृश्याः अनन्तपुर्यां - १७१, कोच्ची - ३२, कोल्लम् १३
नूतना गणनानुसारं मृतानां संख्या ६० प्रत्यभिज्ञानं विना ४० मृतदेहाः सन्ति। इदानीं अधिकतया द्वौ मृतदेहौ नौसेनया गत दिने समुद्रात् गृहीतौ। किन्तु मृतानां संख्या ७० अतीता इति गणनया उच्यते सर्व कारेण न प्रमाणीकृताऽपि। तमिल्नाट्देशे  दुरन्तेस्मिन् १४ जनाः मृताः।
कोणग्रस् दलस्य इतःपरं राहुल् युगः। 
         नवदिल्ली > इन्डियन् नाषणल् कोण्ग्रस् दलाय नवयुगप्रसूतिं लक्ष्यीकृत्य राहुल् गान्धी दलस्य अध्यक्षस्थानं स्वीकृतवान्। ए ऐ सि सि आस्थाने उत्सवान्तरीक्षे आसीत् राहुलस्य स्थानारोहणम्स्था नारोहणानन्तरं कृते स्वस्य प्रथमप्रभाषणे भाजपादलं प्रधानमन्त्रिणं च तीव्रतया विमृष्टवान्। "कोण्ग्रस् दलेन भारतं २१तम शतकं प्रति नीतम्। नरेन्द्रमोदिस्तु राष्ट्रं मध्यकालं प्रतिनयति। भा ज पा दलं स्वकीयलाभाय प्रवर्तते। किन्तु कोण्ग्रस् दलं सर्वेषां कृते संग्रामं करोति"- राहुलेनोक्तम्।
तुयिरियाल् जलवैद्युतयोजना प्रधानमन्त्रिणा उद्घाटिता। 
           ऐस्वाल् [मिसोरम्] > मिसोरमराज्यस्थायां तुयिरियाल् नद्याम् आयोजिता जलवैद्युतयोजना प्रधानमन्त्रिणा नरेन्द्रमोदिना राज्याय समर्पिता। मिसोरामस्य बृहत्तमा इयं योजना षष्टिः 'मेगा वाट्' परिमितम् उद्पादनशेषियुक्ता भवति। 
              राज्यस्य आर्थिक-सामाजिक विकासाय योजनेयम् उपकारिका भवतीति प्रधानमन्त्रिणा प्रोक्तम्। तथा च राज्यस्य पारिस्थितिकाधिष्ठितविनोदसाध्यता (Eco Tourism) वर्धिष्यते। जनानां पानजलयोजनायै च सहायका भविष्यति। प्रचयफले सर्वेषु व्यापृते एव नवीनभारतमिति लक्ष्यपूर्तीकरणं भविष्यतीति च तेनोक्तम्। प्रधानमन्त्रिपदप्राप्त्यनन्तरं मोदिनः प्रथमं मिसोरामसन्दर्शनं भवत्येतत्।

Saturday, December 16, 2017

भारतीय आयुर्वैज्ञानिक परिषदः स्थाने राष्ट्रिय आयुर्वैज्ञानिकायोगःI

               नव दिल्ली> केन्द्रसर्वकारस्य नूतनः निश्चयः अस्ति यत् भारतीय आयुर्वैज्ञानिक परिषदः स्थाने राष्ट्रिय आयुर्वैज्ञानिक आयोगस्य स्थापना इति। एतस्य निश्चयस्य पृष्टभूमौ  वर्धितः अलीकारोपः इति कथ्यते। एतदर्थम् निर्णयपत्रं  विधानसभायाम् अचिरेणेव अवतारयिष्यते। परिषदः आयोगस्य च भेदः शासन-संविधानस्य विशेषतायामेव भवति। पूर्वस्मिन् काले च अलीकारोपेन एतादृश संविधनस्य स्थापना अन्यस्मिन् क्षेत्रे आयोजितः आसीत्। नीति आयोग:  एवं संस्थापितं संविधानं भवति ।
तलाखत्रितयं दण्ड्यापराधः - मन्त्रिसभया अङ्गीकृतः। 
         नवदिल्ली > एककाले एव त्रिवारं 'तलाख्' उक्त्वा वैवाहिकबन्धस्य तिरस्कारः [तलाख् ई बिद्दत्] दण्ड्यमानः अपराध इति व्यवस्थां क्रियमाणस्य देयकस्य केन्द्रमन्त्रिसभायाः अङ्गीकारः। देयकं विधानसभायाः सम्पद्यमाने शीतकालसम्मेलने अवतारयिष्यते इति मन्त्रिणा रविशङ्करप्रसादेन निगदितम्। वाचा , लिखितेन, 'इलक्ट्रोणिक्'माध्यमद्वारा च तलाखत्रयं निरुध्यमानमस्ति निर्दिष्टमाणं विधेयकम्।
        गृहमन्त्रिणः राजनाथसिंहस्य नेतृत्वे आयोजिता मन्त्रितलसमित्या सिद्धाय Muslim women protection of rights of marriage bill इत्येतस्य संक्षिप्तरूपाय एव अङ्गीकारः दत्तः। इस्लाममहिलानां क्षेमं एव इदं विधायकं लक्ष्यीकरोति।
इन्तोनेष्यराष्ट्रे शक्तः भूचलनः, सुनामि जलोपप्लवस्य पूर्व सूचना
           जक्कार्त> इन्तोनेष्यदेशस्य जकार्त सीमायां गतरात्रौ जायमाने भूकम्पे स्थावर-जङ्गमवस्तूनां नाशः अभवत् । मनुष्यापायः अभवत् इति आवेदनम् अस्ति चेदपि विशदांशानि न लब्धानि। केचन प्रदेशेषु 'सुनामि'प्रलयाघातसुचना प्रसारिता अस्ति। रिक्टर् मापिकायां ६.५ एव भवति अस्य भूकम्पस्य शक्तिः। जावा प्रदेशस्य पश्चिम भागः भवति भूकम्पस्य प्रभव केन्द्रः।

Friday, December 15, 2017

प्रधानमन्त्रिणा आईएनएस कलवरी राष्‍ट्राय समर्पितवान्
       मुम्बै>प्रधानमन्त्री नरेन्‍द्रमोदी मुन्बय्यां समायोजिते समारोहे नौसैन्यबलस्य आईएनएस कलवरी इत्याख्य: जलपोत: राष्‍ट्राय समर्पितवान् ।
        अत्रावसरे देशवासिभ्य: वर्धापनानि वितरता प्रधानमन्त्रिणोक्तं यत्  आईएनएस कलवरी ‘मेक इन इंडिया’ कार्यक्रमस्य परिणाम: वर्तते। अनेन जलपोतेन  आईएनएस भारतीयनौसैन्यबलस्य शक्ति:  सुदृढ़ा भविष्यति । श्रीमोदिना प्रोक्तं यत् २१ शताब्दी  एशियामहाद्वीपीया कथ्यते इति। अस्यां शताब्द्यां विकासमार्ग: हिन्दुमहासमुद्रात्‌ प्रवर्तते। अत: प्रशासनस्य नीतिषु हिन्दमहासागरस्य विशेषस्थानं वर्तते। प्रधानमन्त्रिणा राष्ट्रसुरक्षायै समर्पितानां प्रति आभार: प्रकटित:।
गुजरात्, हिमाचल् भा जा पा कृते।
 कोण्ग्रस् दलं गुजरात राज्ये अवस्थां सम्यक् कारयति।
        नवदेहली> गुजराते हिमाचले च भा जा पा नाम दलाय शासनं प्राप्स्यति इति ऊहगणनाफलानि (एक्सिट् पोल्)। गुजरात राज्ये द्वि वाराभ्यां जाते सम्मतिदाने अवसिते सति ऊहगणनाफलानि बहिरागतानि । गुजरात राज्ये १८२ विधानसभामण्डलानि तथा हिमाचल् प्रदेशराज्ये ६८ विधानसभामण्डलानि च सन्ति। २०१२ तमस्य गुजरात् निर्वाचने भा जा पा दलाय ११९ स्थानानि  कोण्ग्रस् ५७ स्थानानि च प्राप्तानि।। हिमाचल् राज्ये कोण्ग्रस् दलाय ३६ स्थानानि भा जा पा दलाय २६ स्थानानि च प्राप्तानि।
 गुजरात् निरेवाचन एकेसिट् पोल् फलानि एवम्।

टैंस् नौ।
भा ज पा शासनं संरक्षेत्। १०९ स्थानानि पर्यन्तं प्राप्स्यति। कोण्ग्रस् स्वस्थितिं सम्यक् पालयिष्यति।। ७० स्थानानि पर्यन्तं प्राप्स्यन्ति।

रिप्पब्ल्क् टी वी।
भा जा पा १०८, कोण्ग्रस् ७८

सीवोट्टर्।
भा जा पा ११६, कोण्ग्रस् ६४

न्यूस् एक्स्।
भा जा पा ११०-१२०, कोण्ग्रस् ६५-७५

इण्डिया टुडे।
भा जा पा ९९-११३, कोण्ग्रस् ६८-८४, अन्ये १-४
इण्या टुडे सर्वेक्षणानुसारं हिमाचल् राज्ये ६८ स्थानेषु ५५ स्थानानि भा जा पा प्राप्स्यति। कोण्ग्रस् नाशं प्राप्स्यति।
राष्‍ट्रियहरितप्राधिकरणेन स्‍पष्‍टीकृतं यत् अमरनाथतीर्थस्‍थलं मौनक्षेत्रत्वेन नैवोद्घोषितम्
राष्‍ट्रियहरितप्राधिकरणेन स्‍पष्‍टीकृतं यत् तेन दक्षिणकश्‍मीरे अमरनाथतीर्थस्‍थलं मौनक्षेत्रत्वेन नैवोद्घोषितम्। प्राधिकरणाध्‍यक्षस्य न्‍यायमूर्ते: स्‍वतन्त्रकुमारस्य नेतृत्‍वयुतेन पीठेनोक्तं यत् केवलं हिमनिर्मितस्य शिवलिङ्गस्य समक्षमेव जना: तूष्णीं भवन्तु। इत: प्राक् प्राधिकरणेनोक्तमासीत् यत् अमरनाथतीर्थस्य निकटस्थक्षेत्रे यदि जना: शान्तिपूर्वकं स्थास्यन्ति चेत् अनेन हिमस्‍खलनावरोधने लिङ्गस्य प्राचीनस्‍वरूपस्य संरक्षणे साहाय्यं भविष्यति ।
कुलभूषणाय नयतन्त्रसाहाय्यं दातुं   न शक्यते - पाकिस्थान्।
             हेग् >चारवृत्तिमारोप्य पाकिस्थानेन मृत्युदण्डाय विहितः भारतस्य नौसेनाधिकारी कुलभूषण् यादवः नयतन्त्रसाहाय्यमर्हतीति भारतस्य अभियाचना अन्ताराष्ट्रनीतिन्यायालये [ऐ सि जे] पाकिस्थानेन निराकृता। कुलभूषणद्वारा सङ्कलिताः सूचनाः समाहर्तुमेव भारतेन इयमभियाचना उन्नीता इति पाकिस्थानेन ऐ सि जे मध्ये उक्तम्।
              यादवस्य मृत्युदण्डनिरासाय नयतन्त्रसाहाय्यलब्धिव्यवहाराय च भारतेन ऐ सि जे संस्था प्राप्ता आसीत्। अतः मृत्युदण्डनस्य क्रियाविधिः ऐ सि जे संस्थया जडीकृतः आसीत्। नयतन्त्रसाहाय्यस्य विषये प्रतिवचनाय पाकिस्थानं प्रति निरदिशच्च। अस्य प्रतिवचने एव भारतादेशः निरस्तः।

Thursday, December 14, 2017

गुजरात्ते द्वितीयस्तरमतदानम् आरब्धम्
              अहम्मदाबाद्> प्रधानमन्त्रिणः नरेन्द्रमोदिनः जलविमानयात्रा तथा नियुक्त कोण्ग्रस् अध्यक्षस्य राहुलगान्धिनः दृश्यवाहिनी-प्रस्तुत्यनन्तरं जायमानानां विवादानां पश्चात् अद्य द्वितीया मतदानक्रिया प्रचलति। उत्तर-मध्य गुर्जरस्य चतुर्दशजनपदेषु त्रिणवति मण्डलेषु निर्वाचने २.२२ कोटि मतदानिनः अद्य तेषाम् अभिमतानि प्रकाशयन्ति। प्रधानमन्त्री मोदी अहम्मदाबादस्थ निशान् विद्यालये मतदानं करिष्यति। भा ज पा राष्ट्रियाध्यक्षः अमित् षा नारायण् पुरे, एल् के अध्वानि खानपुरे, धनमन्त्री अरुण् जैट्टिली वेजल् पुरे, कोण्ग्रस् दलस्य राज्याध्यक्षः भरत सोलङ्की खेड जनपदस्य बोर्सादे च मतदानं करिष्यन्ति।
रामसेतुः मनुष्यनिर्मितः - अमेरिकीय वैज्ञानिकदृश्यवाहिनी।
              नवदिल्ली > भारतश्रीलङ्कयोः मध्ये सागरे वर्तमानः रामसेतुः मनुष्यनिर्मितः इत्युक्त्वा अमेरिकीय दृश्यवाहिन्या दृश्यखण्डः प्रसारितः। तया वाहिन्या प्रसारिते दृश्यखण्डे रामसेतुः प्रकृत्या जातः न, नूनं मनुष्यनिर्मितः इति सप्रमाणं विशदीकरोति।
          हैन्दवानां विश्वासानुसारं रामसेतुः सत्यं वा इति प्रश्नः अस्मिन् प्रस्तुतदृश्यखण्डे प्रस्तूयते। वैज्ञानिकैः सः सत्यमिति उच्यते इति विशदीक्रियते दृश्यखण्डे। उपग्रह-चित्राणि संवीक्ष्यते चेत् सेतोः अस्वाभाविकता अवगम्यते इति च उच्यते दृश्यखण्डे।
          पञ्चसहस्रं (५०००) संवत्सरात् पूर्वं निर्मितम् अयं सेतुः तस्मिन् काले अतिमानुषिककर्म इति भासते। सेतुनिर्माणाय उपयुक्तानां पाषाणखण्डानां कालः तस्मिन् विद्यमानेभ्यः सिकताकणेभ्यः प्राचीनः इति च वैज्ञानिकप्रमाणेन विशदीक्रियते। विद्यमानानां पाषाणखण्डानां कालः सप्तसहस्रं (७०००) संवत्सराः किन्तु तस्मिन्  विद्यमानानां सिकताकणानां प्राचीनत्वं चतुस्सहस्रसंवत्सराः इति च दृश्यखण्डे उच्यते। सिकताकणानि पश्चात्काले स्वाभाविकया रीत्या निक्षिप्तानि स्युः इत्यपि दृश्यवाहिन्याः अनुमानं प्रस्तूयते।
दोक्ला सङ्घर्षेण भारत-चीनाबन्धः सङ्कटे निपतितः - चीनामन्त्री। 
         नवदिल्ली > दोक् ला सीमामण्डले संवृत्तः सङ्घर्षः भारत - चीनादेशयोः सौहृदसम्पर्के  सन्दिग्धताम् अजनयदिति चीनायाः विदेशकार्यमन्त्री 'वाङ् यि ' उक्तवान्। नवदिल्यां भारतस्य विदेशकार्यमन्त्रिण्या सुषमा स्वराज् वर्यया सह मेलने आसीत् तस्यायं परामर्शः।
          वार्ताहरेण पि टि ऐ प्रतिनिधिना प्रकाशितं यत्   तदानीन्तनघटनाभ्यः कृत्याकृत्यविवेकः जातः, इतःपरं तादृशानिष्टव्यवहारोद्यमाय न यतिष्यते इति 'यि'वर्येण उक्तम्। रष्या, चीना , भारत विदेशकार्यमन्त्रिणां मेलने भागभागित्वं वोढुमेव 'वाङ् यि' भारतं प्राप्तः।

Wednesday, December 13, 2017

राजनेतृन् विरुध्यापराधिकप्रकरणानां वादश्रवणाय विशेषन्यायालानां स्थापना     
-पुरुषोतमशर्मा
            नव दिल्ली> केन्द्रसर्वकारेण  उच्चतमन्यायालये प्रस्तुते एकस्मिन् शपथपत्रे प्रोक्तं यत्रा राजनेतृन् विरुध्यापराधिकप्रकरणानां वादश्रवणाय द्वादशविशेषन्यायालया: स्थापयिष्यन्ते । उच्चतमन्यायालये प्रस्तुतायां याचिकायां दोषिणाम् आजीवन-निर्वाचनप्रतिभागितायां निषेध: अपि अध्यर्थित: केन्द्रीयप्रत्यक्षकरमण्डलेन उच्चतमन्यायालयाय पिहिते पुटके  लोकसभाया: सप्त संसद् सदस्यानाम् अथ च अष्टनवति विधायाकानां नामानि समर्पितानि आसन् । एतेषां सम्पत्ति: निर्वाचनद्वये भूरि संवर्धिता: आसीत् । प्रोक्तं च यत्  केन्द्रीयप्रत्यक्षकरमण्डलेन अन्वीक्षणं प्रवर्तते ।
        अवधेयमस्ति यत् लोकसभाया: १८४ सदस्यान् , राज्यसभायान् ४४ सदस्या:, ४०७८ विधायकान् च विरुध्य आपराधिकप्रकरणानि सन्ति ।
गुजरातविधानसभानिर्वाचनम् - मतदानं गुरुवासरे

- हेमन्त जोशी 
        गुजरातविधानसभाया: द्वितीयान्तिमचरणाय मतदानं गुरुवासरे भविष्यते। अस्मिन् चरणे राज्यविधानसभाया: उत्‍तरमध्‍यक्षेत्रयो: त्रिनवति आसनेभ्य: प्रात: अष्टवादनात् सायं पञ्चवादनं यावत् मतदानानि भविष्यन्ति । अस्मिन् चरणो द्वाविंशति: लक्षाधिकद्विकोटि मतदातार: एकपञ्चाशदधिक-अष्टशतं प्रत्याशिनां भाग्‍यस्य निर्णयं करिष्यन्ति। निर्वाचनायोगेनोक्तं यत् शान्तिपूर्णमतदानाय राज्यो सुरक्षाया: दृढोपाया: सन्ति । अस्माकं वार्ताहरेण सूचितं यत् द्वितीयान्तिमचरणाय प्रचाराभियनं गतदिने सम्पूर्णमभवत् ।
हिमपातेन काश्मीर सानुप्रेदेशाः प्रथक् अभवन् , पञ्चसैनिकाः अदृश्याः।
       श्रीनगरम्>काश्मीरस्य अतीत्यकायां कठिना हिमपातेन पञ्चसैनिकाः अप्रत्यक्षाः अभवत्I कुप्वार जनपदस्य नौगमदेशो द्वौ , बन्दिप्पोर जनपदस्य गुरेसिले कन्सल्वान् उपक्षेत्रे त्रयः च निरीक्षणपर्यटनस्यमध्ये हिमपातेन अदृश्याः जाताः। सैनिकानां कृते अन्वेषणं प्रचलत् अस्ति। हिमपाताधिक्येन त्वरितवेगेन अन्वेषणे कष्टता अनुभूयते।
        श्रीनगर विमाननिलयः स्तगितः। हिममेघा: दृष्टिपरिधिमपि लघ्वीकुर्वन्तः सन्ति इत्येव कारणम्। पूञ्च्, रजौरी, षोपियान् जनपदान् संबन्ध्य वर्तमानः मुगल् मार्गः  श्रीनगर-जम्मु राष्ट्रियमार्गः च हिमपातेन वृष्टिपातेन च पिधानं कृतम्। इयं अवस्था दिनद्वयं यावत् अनुवर्तिष्यते इति पर्यावरणविभागेन उक्तम्I