OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 13, 2017

जनसञ्चारमाध्यमेन प्रतियोगितया संस्कृतशिक्षणम्
आमुखपटले संस्कृतज्ञानवर्धकं जीवंत प्रश्नोत्तरी प्रतियोगिता
         जनसञ्चारमाध्यमेन शिक्षणाय संस्कृतस्य प्रचाराय-प्रसाराय च आमुखपटले संस्कृतज्ञानवर्धकं जीवंत प्रश्नोत्तरी प्रतियोगिता "संस्कृतं जनभाषा भवेत्" इति आमुखपटलसमूहे प्रत्येक-रविवासरे भवति । एषा प्रतियोगिता प्रत्येक रविवासरे रात्रौ नववादनत: सार्धनववादन पर्यन्तं भवति । अस्यां प्रतियोगितायां संस्कृतस्य दशप्रश्नाः सन्ति । अस्या: प्रतियोगिताया: आयोजक: गुजरातत: जगदीश: डाभी अस्ति। सहायका: पण्डितः दीपक: शास्त्री, अमित: ओली, मञ्जु भट्टाचार्य:, डॉ. सन्ध्या ठाकुर:, डॉ. योगेशव्यास: शिवांगी शर्मा च सन्ति । अस्या: प्रतियोगिताया: पुरस्कारस्य प्रायोजक: दैनिक-संस्कृतसमाचारपत्रं 'विश्वस्य वृत्तान्तम्', भुवनेश्वरी बालकुमारी ट्रस्ट-हरिद्वारं च स्त: । गत रविवासरे १०/१२/२०१७ तमे दिनाङ्के प्रतियोगितायाम् आहत्य ३२० जनाः उत्तराणि दत्तवन्तः तेषु नियमानुसारेण सम्यक्तया त्रयः जनाः उत्तरं दत्तवन्त: तेषां नामानि --
प्रथम विजेता भूपेशः जोशी (उत्तराखंड), द्वितीया विजयिनी कुनी साहु (ओडिशा), तृतीय विजेता
संतोषकुमार: चौधरी (बिहार) च ।
      सर्वेभ्यः विजेतृभ्य: विश्वस्य वृत्तान्तं संस्कृतसमाचारपत्रपक्षत: एक मास पर्यन्तम् ई-समाचारपत्रं निशुल्कं लप्स्यते । यदा भुवनेश्वरी बालकुमारी ट्रस्ट-हरिद्वारपक्षत: प्रथमविजेते उपहारस्वरुपे धार्मिक-पुस्तकं मेलिष्यति ।
     आगामी प्रतियोगिता १७/१२/२०१७ तमे दिनाङ्के रात्रौ ९:०० वादने भविष्यति।
उन्मादकवस्तूनि ग्रहीतुं साह्यायै लक्षशः रुप्यकाणि  सम्मानं दीयते- केन्द्र सर्वकारः।
          नवदिल्ली> विवरणानां दानेन उन्मादक वस्तूनां ग्रहणे सर्वकारस्य साहायं कुर्वतां सामान्य जनानां सर्वकारीयोद्योगस्थानां च निष्कृतिदानाय उद्युक्तः अस्ति केन्द्र आभ्यन्तरमन्त्रालयः। एतत् अनुबन्धतया नूतना मार्गरेखा  मन्त्रालयेन प्रकाशिता विद्यते। साह्येन गृहीतानाम् उन्मादक वस्तूनां मानमनु सृत्य एव भविष्यति निष्कृतेः मूल्य निर्णयम् । २४० रुप्यकाणि आरभ्य २.४० लक्षपर्यन्तं प्रतिफलराशिरूपेण लब्धुमर्हति इति IANS वार्ताहर संस्थया आवेदितम्। विविधानाम् उन्मादकवस्तूनां नामानि प्रतिकिलोमितस्य प्रतिफलराशिः च प्रकाशिता अस्ति। सर्वकारीयोद्योगिनां तेषां सेवनकाले विंशतिलक्ष-रुप्यकपर्यन्तम् अनेनमार्गेण सम्माननराशिवत् लब्धुमहर्ता अस्ति। उन्मादकवस्तु विनिमयस्य निष्कासनं समूलं कर्तव्यमिति दृढनिश्चयेन भवति एतावत् क्रियाविधि:।
सांस्कृतीय विज्ञनस्य निराकरणं नयुक्तम् - केरलस्य मुख्यमन्त्री 
          कालटी > अद्वैतवेदान्तप्रतिष्ठापकस्य श्रीशङ्करस्य जन्मग्रामे १९९२तमे वर्षे समारब्धस्य श्रीशङ्कर संस्कृतविश्वविद्यालयस्य 'रजतजूबिलि' आघोषः केरलराज्यस्य मुख्यमन्त्रिणा पिणरायि विजयेन उद्घाटितः। अस्माकं पूर्वसंस्कृतेः विज्ञानानि संस्कृतभाषायामेव विद्यमानानि सन्तीत्यतः संस्कृतीयविज्ञानस्य निराकरणं न युक्तमिति पिणरायि विजयेन उक्तम्।
     ज्ञानस्य दिग्विजय एव श्रीशङ्करेण कृतः। ज्ञानेन अज्ञानान्धकारं निर्माजयितुमासीत् तस्य दिग्विजययात्रा। अतः तस्य महात्मनः नाम्नि स्थापितस्य विश्वविद्यालयस्य उत्तरदायित्वमपि नान्यदस्तीति मुख्यमन्त्रिणा स्पष्टीकृतम्।
     भूतपूर्वाः उपकुलपतयः आर्. रामचन्द्रन् नायर्, डो. एन् पि उण्णी, डो. के एस् राधाकृष्णः, डो. जे प्रसाद्, डो. एम् सि दिलीप् कुमारः इत्येते कार्यक्रमे$स्मिन् समादृताः।।

Tuesday, December 12, 2017

दोक्ल देशे चीनेन सैन्यः विन्यस्यते,
जाग्रतायां भारतम्।
            नव दिल्ली > भारत-चैनयोः दोक्ल नाम सीमादेशे चीनेन सैनिकानां विन्यासम् अकुर्वन्। भारम् अपि समान सैन्यप्रक्रियायै उद्युक्तः। अतिशैत्यः एव अनुभूयते सीमायाम्। तथापि चीनेन उपाष्टशातोत्तरं (१८००) सैनिकाः विन्यस्ताः।
         ओगस्ट्मासस्य अन्तिमवासर-पर्यन्तं सङ्घर्षः आसीत् अस्मिन् प्रदेशे। उभययोः राष्ट्रयोः सेनाः सम्मुखीक्त्य तिष्टन्तः आसन्। चीनेन प्रदेशेस्मिन् एकाक्षविमानानां कृते द्वौ अवरोहणचत्वरः निर्मितः। सैनिकानां कृते वासप्रकोष्टाः अपि मिर्मिताः सन्ति। मार्गानां स्थितिः बलवत् कृतः च।
         भारत-चीन-रष्य राष्ट्राणां त्रिराष्ट्र चर्चायैः भागं कर्तुं चीनस्य विदेशकार्यमन्त्री वाङ्यि इदानीं दिल्यां सन्निहितः अस्ति। दोक्ल चीनस्य अधीनदेशः इति चीनस्य प्रतिरोधवक्त्रा केणल् वुक्कियानेन  ह्यः उक्तम्।
राहुल् गान्धी कोण्ग्रस् राजनैतिकदलाध्यक्षः ।
          नवदिल्ली> राहुल्गान्धी कोण्ग्रस् दलस्य अध्यक्षत्वेन नियुक्तः I निर्वाचन समिति अध्यक्षेण मुल्लप्पल्लि रामचन्द्रेण क्रियाविधिमनुसृत्य नियुक्तिः प्रख्यापिता। अन्ये यःकोऽपि निर्वचने न स्पर्धिताः इत्यनेन आसीत् राहुलस्य निर्वाचनम्। शनिवासरे प्रातः ११ वादने पदारोहः भविष्यति। ए ऐ सि सि स्थाने आयोक्ष्यमाणे विशेषकार्यक्रमे एव स्थानारोहसमारोहः। कोण्ग्रस् प्रवर्तकसमिति: अपि सन्दर्भे अस्मिन् आयोक्ष्यते । एकोनविंशति संवत्सरानन्तरमेव कोणग्रस्-अध्यक्षस्थानाय निर्वाचनम्।
अन्तर्जालस्य वेगः भारते न्यूनातिन्यूनम्। 'ब्रोड्बान्ट'स्य वेगेन ७८तम स्थाने।
        नवदिल्ली> अन्तर्जालवेगता मापने  भारतं बहुपृष्ठतः एव। अमेरिका, यु के , चीनः तथा आर्थिकायेन भारतस्य पृष्टतः स्थास्यमानेषु राष्ट्रेष्वपि इतानीं अन्तर्जालवेगः इतोऽपि अधिका वर्तते। 'फिक्सट् ब्रोडबान्ट्' अपि वेगतागणने अष्टचत्वारिंशतत् स्थाने एव। 'स्पीड् टेस्ट् ग्लोबर् इन्टक्स्' नाम संस्थया कृताध्ययनानुसारमेव इयं गणना।
         जंगम-दूरवाण्यां  प्रतिनिमेषस्य  62.66 एं बि एव भवति | अन्तर्जाल वेगेन नोर्वै एव विश्वे प्रथमस्थानमावहति। भारतस्य स्थानं १०९ तममेव। वेगमापकानुसारं ८.८० एम् बि भवति भारतस्य सामान्यवेगः।  नेतर्लान्ट् 53.01 एम् बि द्वितीयः, ऐस् लान्ट् 52.78 तृतीयः ,  यु ए इ‍ 46.83 एम् बि नवमः, कानड 39.58 एम् बि चतुर्दशतमः, चीनः 31.22 एम् बि एक त्रिंशत्तमः , यु के 26.75 एम् बि  त्रिचत्वा रिंशत्तमः,  अमेरिक्का 26.32 एम् बि चतुश्चत्वारिंशत्तम स्थाने च भवन्ति।

Monday, December 11, 2017

शरीरे हृदयद्वयः- हृद्रोगचिकित्सायां नूतनमार्गेण सह भारीयवैद्याः ।
        चेन्नै> हृदयरोपणमवश्यं किन्तु आन्तरिकावयवानां दोषेण न शक्यते। सन्दर्भेस्मिन् एतान् मरणवक्त्रात् रक्षितुमपि न शक्यते। इदानीं अस्याः समस्यायाः परिहारत्वेन नूतना चिकित्साक्रमः भारतीय वैधैः आरचितः। अधिकतया नूतनहदयं सन्निवेश्य एव नूतनचिकित्साविधिः। चेन्नै देशस्थाः  हृद्रोगवैद्याः एव प्रयत्नं कुर्वन्तः सन्ति। तैः कृतानि परीक्षणानि सफलतां प्राप्स्यन्ते।    परीक्षणार्थं द्वयोः शुनकयोः हृदययोः  कृते अधिकौ हृदयौ संयोजितौ। निविष्टः हृदयः शरीरे पूर्वं आसीनयोः  हृदययोः साह्यं अकुरुताम् । शुनकयोः उदरे एव हृदयः न्यक्षिप्तः। हृदयधमनिद्वारा उभौ हृदयौ बन्धितौ च। परीक्षणं विजयमासीत्। मानव हृदयेषु परीक्षणं कर्तुं अनुज्ञायै तिष्टन्तः सन्ति इदानीं वैद्याः।
           पि बालाजि, के एम् चेरियान्, मधुशङ्कर् आदयः वैद्याः एव अस्मिन् परीक्षणे भागभाजः अभवन्। चेन्नैस्थ फ्रोन्टियर् लैफ् लैन् चिकित्सालये एव इदं विशेषानुसन्धानं प्रचलत् ।
नियमान् विगणय्य अवश्यक्षेत्रे  कर्म करान् विन्यस्यते ।
नवदिल्ली >  पट्टिकाशकट-कर्मकरेषु प्रतिशतं पञ्चविंशति (२५%) कर्म कराणां नियुक्तिः नियमान् विगणय्य एव भवति इति रयिल् आयोगस्य निरीक्षणम्। नियमलङ्घन न जायते इति प्रबलंकर्तुं मण्डलीय कार्यालयाः निर्दिष्टाः अधुना। रयिल् संस्थायाः ८९००० संख्याकानां कर्मकराणां कर्मवितरण व्यवस्था प्रबन्धकव्यवस्था संविधानात् एव मण्डलीय कार्यालयाः उपयुज्यन्ते। लोक्को पैलट्, गार्ड् आदि प्राथमिक-विभागकर्मकराः एव अस्मिन् अन्तर्भवति। नियमानुसारं निर्वाचितेन सह अवश्यकान् अपि योजयितुं शक्यते। योजनं तेषां स्वास्थ्यः कर्मकुशलता च परिगण्यभवतु इति नियमः। किन्तु तं नियमं विगणय्य एव नियुक्तिः इति इदानीन्तन आवेदनस्य कारणम्। एषा नियुक्तिः सुरक्षायै भीषा भविष्यति इति आशङ्क्यते रयिल् आयोगेन।

Sunday, December 10, 2017

पेट्रोल् - मेथनोल् संयोजनाय केन्द्रं ; मूल्य-मलिनीकरणन्यूनीकरणं लक्ष्य। 
      अन्तरिक्षमलिनीकरणं तथा मूल्यं च न्यूनीकर्तुं पेट्रोल् तैलेन सह 'मेथनोल्' नामकं रासवस्तुं संयोजयितुं योजना आविष्क्रियते इति केन्द्रगतागतमन्त्रिणा नितिन् गड्करिवर्येणोक्तम्। आगामिनि लोकसभासम्मेलने एतदधिकृत्य प्रख्यापनं भविष्यतीति मुम्बय्यां कस्मिंश्चित् कार्यक्रमे तेन स्पष्टीकृतम्।  प्रतिशतं  पञ्चदश मेथनोल् संयोजितपेट्रोल् तैलस्य उपयोगेन मलिनीकरणस्य मानं प्रतिशतं पञ्चदशमितं न्यूनीकर्तुं शक्यते। चीनाराष्ट्रे एतादृशतैलस्य मूल्यं सप्तदश रूप्यकाणि प्रति लिटर् भवति। भारते तु द्वाविंशति रूप्यकाणि कर्तुं शक्यते इति सः प्रतीक्षां प्रकाशितवान्। 
     सप्ततिसहस्रं कोटि रूप्यकाणां व्ययं भाव्यमानानां पेट्रोल् संस्करणशालानां स्थाने मेथनोल् निक्षेपा -धिष्ठितसंरम्भाणां योजनायै परिचिन्तितुं पेट्रोलियं मन्त्रालयं प्रति आदिष्टमस्ति - तेनोक्तम्।
अपूर्वशोणितदानाय भारतपौरः। रक्तदानेन सोदरत्‍वं प्रकाशितम्।
               दोह > रक्तदानस्य आदर्शरूपः इव निधीष् रघुनाथः। केरले कण्णूर् जनपदस्थः भवति एषः। कुवैत् देशे आतुरालये आसन्नप्रसवा स्त्रीणां कृते आसीत् रक्तदानम्। कर्णाटकस्वदेशिनी भवति एषा। अस्याः रक्तः अपूर्व-रक्तपटल-विभागे अन्तर्भवति। मुम्बै श्रेण्याम् अन्तर्गतोऽयम् अपूर्व विभागः सहस्रेषु चत्वाराणाम् एव अस्ति। अतः शस्त्रक्रियायै रक्तस्य दौर्लभ्यम् अनुभूताः च। तथा सामूहिक-माध्यमद्वारा अन्वेषणम् आरब्धम्। खत्तर् मध्ये उद्योगं कुर्वन् अस्ति निधीषः। तस्य रक्तः अनुयोज्यः इति ज्ञात्वा खत्तरतः शीघ्रं प्रवेशनुमतिपत्रम् आयोज्य कुवैत् जाबरिय्य रक्त-संभरणालयं प्राप्य रक्तदानम् अकरोत् च। शस्त्रक्रिया यथाकालं प्राचलत्। इदानीम् अपत्येन सह माता ससुखं वसति। भारतस्य प्रवासिजनाः निधीशस्य प्रवृत्तिं सधन्यवादं स्मरन्ति।

Saturday, December 9, 2017

गुजरात् विधानसभानिर्वाचनं - प्रथमसोपानं मतदानमद्य। 
           अहम्मदाबाद् > गुजरात् विधानसभायाः १८२ अङ्गपरिमितेषु स्थानेषु ८९ स्थानानि प्रति अद्य मतदानं भविष्यति। सौराष्ट्रा, दक्षिणगुजरात्, कच्च् इत्येतासु प्रविश्यासु १९ जनपदेषु एवाद्य निर्वाचनं प्रचलदस्ति। ९७७ स्थानाशिभ्यः २.१२कोटि मतदानिनः स्वाधिकारं प्रयोजयन्ति। २४,६९८ मतदानस्थानानि सन्ति। मतदानयन्त्रैः सह 'विविपाट्' यन्त्राण्यपि उपयुज्यन्ते। भा ज पा - कोण्ग्रस् दलयोः प्रतियोगिता एव प्राधान्येन दृश्यते। भाजपादलाय प्रधानमन्त्री नरेन्द्रमोदी, कोण्ग्रस् दलाय राहुलगान्धी च प्रचारणनेतृत्वमावहतः।  निर्वाचनस्य द्वितीयसोपानं डिसम्बर् १४तमे दिनाङ्के भविष्यति।
वैय्यक्तिक-निगूढता संरक्षणीया। जयललितायाः अङ्गुलीमुद्रां स्वीकर्तुमादेशः निवारितः।
                  नव दिल्ली > निर्वाचनानुबन्धतया जायमान अलीकान् विरुध्य न्यायव्यवहारे तमिळ्नाट् राज्यस्य भूतपूर्व मुख्यमन्त्रिण्याः जयललितायाः अङ्गुल्याः मुद्रां अवश्यकम् इत्युक्त्वा तमिल्नाट् राज्यस्य उच्चन्यायालयेन कृतस्य आदेशस्य बाधा। अङ्गुलीमुद्रायैः बंगलूरु पारप्पन कारागृहाधिकृताय तथा UIDI संस्थां प्रति च दत्तस्य अदेशस्य एव बाधा अभवत् । सर्वोच्च न्यायालयेन एव बाधां आदिशत्। न्यायव्यवहारश्रवणाय मुख्यन्यायाधिपः दीपक् मिश्रः, न्यायाधिपाः, एम् एम्. खान् विक्कर्, डि. वै चन्द्रचूढः च उपविष्टाः आसन्। षोडशेत्तर दिसहस्र (२०१६) तमे कृते 'तिरुप्रंकुण्ड्रं' उप निर्वाचने अलीकारोपणम् अवरोध्य आसीत् व्यवहारः।  निर्वाचने स्पर्धित: बि शरवणः एव न्यायव्यवहारं कृतः।  तस्मिन् समये जयललिता अतुरालये चिकित्सायाम् आसीत्। अतः अङ्गुली मुद्रायां सत्यः नास्ति  इत्यासीत् व्यवहारास्पदा  घटना। किन्तु निधनानामपि वैय्यक्तिक-निगूढता अस्ति। अतः जयललितायाः अनुमतिं विना अङ्गुलीमुद्रा उपयुज्य वा वैयक्तिक निगूढता उद्घाटयितुं नशक्यते इति सर्वोच्चन्यायालयेन अक्तम्।
नवजातमृत्युप्रकरणम्  
          दिल्ली >  दील्लीस्थे मैक्स चिकित्सालये नवजातशिशो: मृत्युप्रकरणे   दिल्लीसर्वकारेण कठोरकार्यान्वयनं कृतम् । दिल्ल्या: स्वास्थ्यमन्त्री सत्येन्द्रजैन: अभाषत् यत् नवजातशिशो: मृत्युप्रकरणे दिल्ल्या: शालीमारबागस्थितस्य   मैक्स चिकित्सालयस्य अनुमतिपत्रं निरस्तीकृतम् । दिल्ली प्रशासनस्य त्रिसदस्यीयान्वीक्षसमित्या चिकित्सालय: दोषित्वेन प्रतिपादित: ।

          प्राथमिक्या ज्ञायते यत् प्रसवकालात् परिजनेभ्य: वपूंसि समर्पणकालं यावत् चिकित्सालयप्रशासनेन अनियमितता विहितासीत्  । समित्या मंगलवासरे  प्राथमिकप्रतिवेदनं स्वास्थ्यमन्त्रिणे सत्येन्द्रजैनाय समर्पितमासीत् ।

          जीवितशिशु: यो हि मैक्स चिकित्सालयेन मृत: घोषित: आसीत् तस्य मृत्यु: शुक्रवासरे अभवत् । 
समित्या निजान्वीक्षणे ज्ञातं यत् चिकित्यालयप्रशासनेन प्रसवकालिकनिश्चितनियमानां पालनं नैव कृतमासीत् । शिशो जीवनसम्बद्धपरीक्षणमपि नैव कृतमासीत् , लिखितदिशानिर्देशं विनैव शिशु: परिजनेभ्य: अर्पित: आसीत् । एतदतिरिच्य मृत: जीवित: शिशु: सहैव स्थापितौ स्त: ।
आधारपत्रस्य अलभ्यमानानां आनुकूल्यं मार्च् एकत्रिंशत् दिनाड्कपर्यन्तम्।
           नवदेहली> क्षेमपद्धत्यः, चलती दूरवाणी संख्या, आर्थिकालय वैय्यक्तिकसंख्या इत्यादीन् आधारपत्रेण सह योजनीयस्य विषये समर्पितानां आवेदनानामुपरि सर्वोच्च न्यायालयस्य पञ्चाड्कसमितिः आगामिनि सप्ताहे परिगणिष्यते। आधारपत्रस्य अलभ्यमानानां कृते मार्च् एकत्रिंशत् दिनाड्कपर्यन्तम् क्षेमपद्धतीनां आनुकूल्यं न निषिध्यते इति अट्टोर्णी जनरल् के के वेणुगोपालेन व्यक्तीकृतम् उच्चतरन्याधिपः दीपक् मिश्रस्य पुरतः श्याम दिवान् आधापपद्धतिः रेद्धव्या इति अवदत्। वर्षेभ्यः गच्छती एषा पद्धती न रेद्धुं शक्यते, आधारपत्रस्य अलभ्यमानानां कृते समयः दीर्घीकृत्य दास्यतीति वेणुगोपालेन व्यक्तीकृतम्।

Friday, December 8, 2017

संस्कृतछात्र-शिल्पशाला सम्पद्यते।
         कोच्ची> केरलसर्वकारस्य शिक्षाविभागेन आयोजिताः संस्कृत-छात्रशिल्पशालाः विविध-जनपदस्तरेषु  प्रचलन्ति। छात्राणां मनसि संस्कृताभिमुख्यम् उद्पादयितुम् उद्दिश्य  आस्वाद्यरीत्या एव कार्यक्रमः आयोजितः।
        भारते संस्कृतशिक्षाक्षेत्रे प्रथमकक्ष्यातः अरभ्य संस्कृताध्ययनाय  सन्दर्भः केरलराज्ये एव इति विशेषताप्यस्ति। प्रथम कक्ष्यातः संस्कृताध्ययनम् आरभ्य इदानीं संवत्सरचतुष्टयं  सम्पन्नमस्ति। आयुर्वेदादि विषयेषु केरल राज्यस्य अधीशत्वस्य कारणमपि  जनानां संस्कृतानुरागः एव।
चीनस्य सैनिक-प्रक्रियां निरीक्षितुं नूतनं वैमानिकरहितं विमानम्।
              नवदिल्ली > भारतस्य नूतनसंस्थया चीनस्य सैनिक प्रक्रियां निरीक्षितुं नूतनं वैमानिक रहित विमानम् सङ्कलितम्। नोयिड केन्द्रीकृत्य एव भवति एतस्याः संस्थायाः प्रवर्तनम्।
पञ्चषष्टिसहस्रं (६५०००)पादपरिमितां उन्नत्यां उड्डयित्वा वासरत्रय-पर्यन्तं अन्तरिक्षे यापनं कर्तुं शक्तं भवति विमानमिदम् इति वदति निर्मातारः ।  सुरक्षा निरीक्षण संविधानाय बहु सहायकं भवति इदं विमानमिति मन्यते|  न्यूस् पेय्स् रिसर्च् आन्ट टेक्नोलजीस् नाम निज़ीय संस्थया निर्मितं विमानं राष्ट्रस्य प्रप्रथमं निजीय संरम्भमेव।
'जालियन् वालाबाग्' - ब्रिट्टन् राष्ट्रेण क्षमापणं कर्तव्यमिति लण्टन् नगरसभापतिः। 
           अमृतसरः > एकशतकात्पूर्वं भारते स्वतन्त्रतान्दोलनवेलायां जालियन् वालाबाग् नामके उद्याने ब्रिट्टन् अधिकारिभिः कृतायां गणहत्यायां  ब्रिट्टन् सर्वकारेण क्षमापणं कर्तव्यमिति लण्टन् नगरसभाध्यक्षः सादिख् खान् वर्यः अवोचत्। पञ्चाबे 'जालियन् वालाबाग्' स्मारकसन्दर्शनवेलायामेव खानस्य अयं प्रस्तावः। 
        जालियन् वालाबाग् गणहत्यायाः स्मारकदर्शनेन अत्यधिकम् अस्वस्थः जातः, अविस्मरणीयः अयं दुरन्तः इति च तेन सन्दर्शकग्रन्थे लिखितम्। इमां गणहत्याम् अधिकृत्य भारतं प्रति ब्रिट्टीष् सर्वकारेण इतःपश्चादपि क्षमां याचितव्यमिति च तेन उल्लिखितम्।
        भारतस्य स्वतन्त्रताप्रक्षोभवेलायां पञ्चाबे जालियन् वालाबाग् नामके उद्याने सम्मिलितान् जनान् प्रति जनरल् डयर् नामकस्य आरक्षकाधिकारिणः नेतृत्वे संवृत्तेन भुशुण्डिप्रयोगेन ४०० जनाः हता इत्यस्ति ब्रिट्टीष् सर्वकारस्य लेख्यप्रमाणम्। किन्तु उपसहस्रमिति भारतस्य प्रामाणिकसंख्या।