OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 9, 2017

वैय्यक्तिक-निगूढता संरक्षणीया। जयललितायाः अङ्गुलीमुद्रां स्वीकर्तुमादेशः निवारितः।
                  नव दिल्ली > निर्वाचनानुबन्धतया जायमान अलीकान् विरुध्य न्यायव्यवहारे तमिळ्नाट् राज्यस्य भूतपूर्व मुख्यमन्त्रिण्याः जयललितायाः अङ्गुल्याः मुद्रां अवश्यकम् इत्युक्त्वा तमिल्नाट् राज्यस्य उच्चन्यायालयेन कृतस्य आदेशस्य बाधा। अङ्गुलीमुद्रायैः बंगलूरु पारप्पन कारागृहाधिकृताय तथा UIDI संस्थां प्रति च दत्तस्य अदेशस्य एव बाधा अभवत् । सर्वोच्च न्यायालयेन एव बाधां आदिशत्। न्यायव्यवहारश्रवणाय मुख्यन्यायाधिपः दीपक् मिश्रः, न्यायाधिपाः, एम् एम्. खान् विक्कर्, डि. वै चन्द्रचूढः च उपविष्टाः आसन्। षोडशेत्तर दिसहस्र (२०१६) तमे कृते 'तिरुप्रंकुण्ड्रं' उप निर्वाचने अलीकारोपणम् अवरोध्य आसीत् व्यवहारः।  निर्वाचने स्पर्धित: बि शरवणः एव न्यायव्यवहारं कृतः।  तस्मिन् समये जयललिता अतुरालये चिकित्सायाम् आसीत्। अतः अङ्गुली मुद्रायां सत्यः नास्ति  इत्यासीत् व्यवहारास्पदा  घटना। किन्तु निधनानामपि वैय्यक्तिक-निगूढता अस्ति। अतः जयललितायाः अनुमतिं विना अङ्गुलीमुद्रा उपयुज्य वा वैयक्तिक निगूढता उद्घाटयितुं नशक्यते इति सर्वोच्चन्यायालयेन अक्तम्।
नवजातमृत्युप्रकरणम्  
          दिल्ली >  दील्लीस्थे मैक्स चिकित्सालये नवजातशिशो: मृत्युप्रकरणे   दिल्लीसर्वकारेण कठोरकार्यान्वयनं कृतम् । दिल्ल्या: स्वास्थ्यमन्त्री सत्येन्द्रजैन: अभाषत् यत् नवजातशिशो: मृत्युप्रकरणे दिल्ल्या: शालीमारबागस्थितस्य   मैक्स चिकित्सालयस्य अनुमतिपत्रं निरस्तीकृतम् । दिल्ली प्रशासनस्य त्रिसदस्यीयान्वीक्षसमित्या चिकित्सालय: दोषित्वेन प्रतिपादित: ।

          प्राथमिक्या ज्ञायते यत् प्रसवकालात् परिजनेभ्य: वपूंसि समर्पणकालं यावत् चिकित्सालयप्रशासनेन अनियमितता विहितासीत्  । समित्या मंगलवासरे  प्राथमिकप्रतिवेदनं स्वास्थ्यमन्त्रिणे सत्येन्द्रजैनाय समर्पितमासीत् ।

          जीवितशिशु: यो हि मैक्स चिकित्सालयेन मृत: घोषित: आसीत् तस्य मृत्यु: शुक्रवासरे अभवत् । 
समित्या निजान्वीक्षणे ज्ञातं यत् चिकित्यालयप्रशासनेन प्रसवकालिकनिश्चितनियमानां पालनं नैव कृतमासीत् । शिशो जीवनसम्बद्धपरीक्षणमपि नैव कृतमासीत् , लिखितदिशानिर्देशं विनैव शिशु: परिजनेभ्य: अर्पित: आसीत् । एतदतिरिच्य मृत: जीवित: शिशु: सहैव स्थापितौ स्त: ।
आधारपत्रस्य अलभ्यमानानां आनुकूल्यं मार्च् एकत्रिंशत् दिनाड्कपर्यन्तम्।
           नवदेहली> क्षेमपद्धत्यः, चलती दूरवाणी संख्या, आर्थिकालय वैय्यक्तिकसंख्या इत्यादीन् आधारपत्रेण सह योजनीयस्य विषये समर्पितानां आवेदनानामुपरि सर्वोच्च न्यायालयस्य पञ्चाड्कसमितिः आगामिनि सप्ताहे परिगणिष्यते। आधारपत्रस्य अलभ्यमानानां कृते मार्च् एकत्रिंशत् दिनाड्कपर्यन्तम् क्षेमपद्धतीनां आनुकूल्यं न निषिध्यते इति अट्टोर्णी जनरल् के के वेणुगोपालेन व्यक्तीकृतम् उच्चतरन्याधिपः दीपक् मिश्रस्य पुरतः श्याम दिवान् आधापपद्धतिः रेद्धव्या इति अवदत्। वर्षेभ्यः गच्छती एषा पद्धती न रेद्धुं शक्यते, आधारपत्रस्य अलभ्यमानानां कृते समयः दीर्घीकृत्य दास्यतीति वेणुगोपालेन व्यक्तीकृतम्।

Friday, December 8, 2017

संस्कृतछात्र-शिल्पशाला सम्पद्यते।
         कोच्ची> केरलसर्वकारस्य शिक्षाविभागेन आयोजिताः संस्कृत-छात्रशिल्पशालाः विविध-जनपदस्तरेषु  प्रचलन्ति। छात्राणां मनसि संस्कृताभिमुख्यम् उद्पादयितुम् उद्दिश्य  आस्वाद्यरीत्या एव कार्यक्रमः आयोजितः।
        भारते संस्कृतशिक्षाक्षेत्रे प्रथमकक्ष्यातः अरभ्य संस्कृताध्ययनाय  सन्दर्भः केरलराज्ये एव इति विशेषताप्यस्ति। प्रथम कक्ष्यातः संस्कृताध्ययनम् आरभ्य इदानीं संवत्सरचतुष्टयं  सम्पन्नमस्ति। आयुर्वेदादि विषयेषु केरल राज्यस्य अधीशत्वस्य कारणमपि  जनानां संस्कृतानुरागः एव।
चीनस्य सैनिक-प्रक्रियां निरीक्षितुं नूतनं वैमानिकरहितं विमानम्।
              नवदिल्ली > भारतस्य नूतनसंस्थया चीनस्य सैनिक प्रक्रियां निरीक्षितुं नूतनं वैमानिक रहित विमानम् सङ्कलितम्। नोयिड केन्द्रीकृत्य एव भवति एतस्याः संस्थायाः प्रवर्तनम्।
पञ्चषष्टिसहस्रं (६५०००)पादपरिमितां उन्नत्यां उड्डयित्वा वासरत्रय-पर्यन्तं अन्तरिक्षे यापनं कर्तुं शक्तं भवति विमानमिदम् इति वदति निर्मातारः ।  सुरक्षा निरीक्षण संविधानाय बहु सहायकं भवति इदं विमानमिति मन्यते|  न्यूस् पेय्स् रिसर्च् आन्ट टेक्नोलजीस् नाम निज़ीय संस्थया निर्मितं विमानं राष्ट्रस्य प्रप्रथमं निजीय संरम्भमेव।
'जालियन् वालाबाग्' - ब्रिट्टन् राष्ट्रेण क्षमापणं कर्तव्यमिति लण्टन् नगरसभापतिः। 
           अमृतसरः > एकशतकात्पूर्वं भारते स्वतन्त्रतान्दोलनवेलायां जालियन् वालाबाग् नामके उद्याने ब्रिट्टन् अधिकारिभिः कृतायां गणहत्यायां  ब्रिट्टन् सर्वकारेण क्षमापणं कर्तव्यमिति लण्टन् नगरसभाध्यक्षः सादिख् खान् वर्यः अवोचत्। पञ्चाबे 'जालियन् वालाबाग्' स्मारकसन्दर्शनवेलायामेव खानस्य अयं प्रस्तावः। 
        जालियन् वालाबाग् गणहत्यायाः स्मारकदर्शनेन अत्यधिकम् अस्वस्थः जातः, अविस्मरणीयः अयं दुरन्तः इति च तेन सन्दर्शकग्रन्थे लिखितम्। इमां गणहत्याम् अधिकृत्य भारतं प्रति ब्रिट्टीष् सर्वकारेण इतःपश्चादपि क्षमां याचितव्यमिति च तेन उल्लिखितम्।
        भारतस्य स्वतन्त्रताप्रक्षोभवेलायां पञ्चाबे जालियन् वालाबाग् नामके उद्याने सम्मिलितान् जनान् प्रति जनरल् डयर् नामकस्य आरक्षकाधिकारिणः नेतृत्वे संवृत्तेन भुशुण्डिप्रयोगेन ४०० जनाः हता इत्यस्ति ब्रिट्टीष् सर्वकारस्य लेख्यप्रमाणम्। किन्तु उपसहस्रमिति भारतस्य प्रामाणिकसंख्या।
सियाङ् नद्याः जलं उपयोगरहितम् अभवत् । चीनस्य प्रक्रिया इत्याशङ्क्यते।
        गुवाहत्ति> उत्तर अरुणाचलप्रदेशस्य जलस्रोतः भवति सियाङ् नदी। अस्याः नद्याः जलं सकल माहर्तुं चीनेन बृहन्नालिका निर्मिता इत्याशङ्का अस्ति इदानीम्। नदीजलस्य उपयोगराहित्यस्य कारणं चीनस्य बृहन्नालिका-निर्माणमिति वदन्ति विशेषज्ञाः। नवंबर् फेब्रुवरिमासे समृद्धया प्रवहिता आसीदियम्। किन्तु इदानीं श्यामवर्णेन प्रवहति। मलिनपङ्केन पूरितः च अस्ति। 

Thursday, December 7, 2017

जरुसलेम् इस्रायेलस्य राजनगरीति ट्रम्पस्य प्रख्यापनं - पश्चिमेष्यायां नूतनसङ्घर्षाय बीजावापः। 
         वाषिङ्टण् > कालाकालम् अनुवर्तमानं विदेशनयं विगणय्य , जरुसलेमनगरं इस्रायेल् राष्ट्रस्य राजधानीरूपेण अमेरिक्काराष्ट्रपतिः डोणाल्ड् ट्रम्पः अङ्गीकृतवान्। स्वत एव कलुषिते पश्चिमेष्यामण्डले नूतनसङ्घर्षाय हेतुः भविष्यतीदं प्रख्यापनम्। अमेरिक्कायाः सख्यराष्ट्राणि अभिव्याप्य अनेकेषां राष्ट्राणाम् अभ्यर्थनां तृणवत्कृत्य आसीत् ह्यः 'वैट् हौस्' मध्ये ट्रम्पस्य प्रख्यापनम्। जरुसलेमम् इस्रायेलस्य राजधानीरूपेण अङ्गीक्रियमाणं प्रथमराष्ट्रं भवति अमेरिका ।
गुजराते प्रथमचरणात्मकनिर्वाचनानां कृते प्रचारस्याद्य अन्तिमो दिवसः
           सूरत् > गुजरातविधानसभाया: प्रथमचरणात्मकनिर्वाचनानां कृते  प्रचाराभियानस्य अद्य अन्तिमो दिवस: वर्तते। सायं पञ्चवादने प्रथमचरणात्मकप्रचार: पूर्णातां यास्यति । सर्वाणि दलानि मतदातृन् स्वपक्षे कर्तुं संलग्नानि सन्ति । प्रधानमन्त्रिणा नरेन्‍द्रमोदिना प्रोक्तं भाजपाप्रशासनं जनजातीयजनानां कल्‍याणाय कार्यमाचरति। गतदिने नेत्रांगे नैर्वाचिकजनसभायां श्रीमोदी प्रावोचत् यत्  काङ्ग्रेसदलेन 50 वर्षाणि यावत् देशे शासनं कृतं परं  जनजातीयमन्त्रालयस्य स्थापना नैव कृता । अपि च यदा अटलबिहारीवाजपेयी प्रधानमन्त्री निर्वाचित: तदा पृथक्तया जनजातीयमन्त्रालय: स्थापित: ,  जनजातीयजनेभ्यश्च  बजट  प्रावधानं कृतम् ।

       प्रथानमन्त्रिणा मोदिना प्रतिपादितं यत् राज्‍ये बालिकाशिक्षायां विशेषतया जनजातीयबालिकानां स्थितौ परिष्कार: सञ्जात:। तेन काङ्ग्रेसदलाक्षिप्तं यत् तेन भारतस्य स्‍वतन्त्रतान्दोलने जनजातीयानां योगदानं विस्मृतम् अथ च तद्दलं विचारयति यत् स्वतन्त्रतासङ्ग्रामे केवलम् एकस्यैव परिवारस्य कारणेन विजय: अधिगत:। 
पल्लीतः ऐ एस्‌ आर् ओ संस्थां प्रति।
          मुम्बै> मुम्बै देशस्थ फिल्टर् पाड नाम पल्ली प्रदेशस्य गृहस्था इन्दू नामिका षड्चत्वारिंशत् वयस्का माता ऐ एस् आर् ओ संस्थाम् अधिकृत्य न श्रुतवती। अष्टमकक्षा पर्यन्तं शिक्षां प्राप्तवत्याः अस्याः ज्ञानस्य उपरि आसीत् नक्षत्र समूहाः तथा बाह्याकाश-विक्षेपणादयश्च। किन्तु अस्या पुत्रः प्रथमेष् हिर्वे ऐ एस् आर् ओ संस्थायाः सोपाने आरुह्यते अधुना। मातुः दुःखाश्रुः सन्तोषाश्रुवत् परिणमति।
        दौर्लभ्यस्य आधिक्ये आसीत्  प्रथमेशस्य जीवनम्। ततः सम्यक् अध्ययनं कृत्वा एव एषः प्रथमेशः ऐ एस् आर् ओ वैज्ञानिकस्य  पदे प्रविशाति। विद्युत् विज्ञानविभागे एव अस्य नियुक्तिः। बल्ये मातापितरौ तं  कस्यचन भाविनिकालाध्ययन-निर्देशकस्य समीपं अनयत् । सः तं साहित्याध्ययनाय निरदिशत् । किन्तु यन्त्रविज्ञानीयम् अध्येतुमेव अस्ति पुत्रस्य अभिलाषः इति ज्ञात्वा तदर्थं पितरौ साह्यमकुरुताम् । प्रथमेशः विद्युत्यन्त्र वैज्ञानिकं अध्येतुमारब्धवान् च।
          कालः अतीतः। इदानीं ऐ एस्‌ आर् ओ संस्थया उपषोडशसहस्रम् (१६०००)आवेदनपत्रेभ्यः चितानां नवसंख्यानां मध्ये  प्रथमेशोऽपि अन्तर्भवति।

Wednesday, December 6, 2017

उत्तरभारतस्य विविधेषु प्रदेशेषु भूचलनम् - 
प्रभवकेन्द्रः डेराडूणस्य पूर्वस्यां दिशि - तीव्रता ५.५।
             नवदिल्ली > अतरभारतस्य विविधेषु प्रदेशेषु भूकम्पः। दिल्यां समीपप्रदेशे गुड्गावे च भूचलनं शक्तया रीत्या आसीत्I  बुधवासरस्य  रात्रौ आधुना ८.५१ समये आसीत् भूचलनम्। चण्डीगड्, उत्तराघण्ड इत्यत्रापि भूकम्प : जातः इति आवेदनं लब्धम् । उत्तराखण्टस्य रूर्खि तथा डोराडूणे च शक्तं भूचलनं अजायत। भूकम्पस्य तीव्रतता 5.5 इति रिक्टर् मापिकायां
अङ्कितम्  अस्ति।
ड्रम्पस्य ब्रिट्टण् सन्दर्शनं फेब्रुवरिमासे- लक्षशान् सम्मिल्य प्रतिषेध-सञ्चलनम्।
          लण्डनदेशः > यु एस् राष्ट्रपतेः डोणाल्ड् ड्रम्पस्य सन्दर्शनं विरुद्ध्य ब्रिट्टण् देशे प्रतिषेधः शक्तः अभवत्। लक्षशान् जनान् सम्मिल्य प्रतिषेधसमराय ट्रम्प् विरोधिनः यतन्ते। जनानाम् अनिष्टकारणेन प्रतिषेध: भविष्यति इति आवेदनेन अतिथितिरूपसन्दर्शनं परित्यज्य प्रवर्तन सन्दर्शनवत् द्विनद्वयस्य सन्दर्शनमेव इदानीं ट्रम्पेन उद्दिश्यते। फेब्रुवरिमासस्य द्वाविंशति सप्त,विंशति दिनाङ्कयोः एव सन्दर्शनं क्रमीकृतम् अस्ति। लण्डनस्थस्य नवीन दूतावासस्य उद्घाटनानुबन्धतया एव  अमेरिका राष्ट्रपतेः प्रप्रथम ब्रिट्टण् सन्दर्शनम्।
         ड्रम्पस्य आगमनदिने प्रधानमन्त्रिणः औद्योगिकीं वसतीं प्रति प्रतिषेधसञ्चलनम् आयोक्ष्यतुम् एव 'STOP TRUMP CAMPAIGN' नाम दलायोजनस्य लक्ष्यम् I ब्रिट्टणस्य इतिहासे बृहत्तमं प्रतिषेधसङ्गमम् रचयितुमेव तेषां प्रयत्नः ।
महाराष्ट्रे ओखि ताण्डवम्;  केरलम् प्रत्यागन्तुं द्विनवति: जना:।।
             मुम्बै> केरले तमिल्नाडे च तीव्रविनाशकार: ओखि चक्रवातस्य ताण्डवम् महाराष्ट्रे च। तथा च गुजराते सूरत् समीपं वीजमानमेनम् अनुवर्त्य महाराष्ट्रे अतिवृष्टि:। सोमवारे रात्रौ आरब्धा वृष्टि: एतावता न शमनं गता। ओखिवातस्य पश्चात्तले मुम्बै मध्ये समीपमण्डलेषु च शिक्षा संस्थानां कृते विराम: कल्पित:। अमित् षा महोदयस्य नेतृत्वे गुजराते प्रचालनीयानि निर्वाचनप्रचरणानि स्थगितानि।   जाग्रतया महाराष्ट्रम् -चक्रवातेन या कापि गुरुतरावस्था सञ्जाता चेत् तां सम्मुखीकर्तुं सक्रियमार्गै: सह महाराष्ट्रसर्वकार:। यात्रिकाणां नियन्त्रणाय पश्चिमरेलविभाग: अधिककर्मकरान् विन्यसत्। मुम्बै मेट्रोपोलिटन् नगरम्, सिन्धुदुर्गा, ताने, रायगड्, पलसार् इत्येतेषु स्थानेषु विद्यालयानां कलालयानां च विराम: दत्त:। समुद्रतीराणि मा सन्दर्शयेयु: इति जनानां कृते जाग्रतानिर्देशो दत्त:।।


दीर्घायुर्युता इन्द्र चापः।  


ताय् पोय् > सौभाग्यनिमेष: ।अध्यापकेन दृष्टम् इदं दृश्यं पथमतया। इदानीं प्रमाणीकृत रेखापुस्तके निवेष्टुं प्रयत्नं करोति सः।

Tuesday, December 5, 2017

एक रुप्यकस्य शतम् आयुः।

        नवदिल्ली> सर्वोच्च वित्तकोशपालस्य हस्ताक्षरं विना विराजमानं रुप्यकपत्रं भवति एकरुप्यकम्।   इदानीं एतत् रुप्यकपत्रस्य आविर्भावानन्तरं शतं संवत्सराणि अतीतानि।
 सप्त-दशाधिक-नवदश-सहस्रतमे (१९१७) नवम्बर् मासस्य त्रिंशत् दिनाङ्के एव रुप्यकपत्रस्य प्रथम-प्रकाशनमभवत्। चतुर्नवाधिकनव-शतोत्तरैक-सहस्रतमे एकरुप्यकपत्राणां मुद्रणं स्तगयितं चेदपि जनानां निवेदनेन पञ्चदशाधिक-द्विसहस्र (२०१५) तमे मुद्रणं पुनरपि आरब्धम्। नाणकानि एव प्रथमतया मुद्रितानि । किन्तु प्रथमेषु लोकमहायुद्धकालेषु रजतलोहस्य मूल्यं वर्धितम् इत्यनेन जनाः नाणकानि अग्निना द्रवीकृत्य विक्रेतुम् उद्युक्ताः इत्यनेन काकदे मुद्रणम् आरब्धम्। एकत्रिंशदधिकनवशतोत्तरैक-सहस्रतमे (१९३१) एप्रिल् मासस्य पञ्चमदिनाङ्के एव रुप्यकपत्रस्य मुद्रणाय रिजर्व बैंकाय अनुज्ञा लब्धा।
मध्यप्रदेशे बालिकाबलात्काराय मृत्युदण्डः। 
      भोपाल् > ऊनद्वादशवयस्कानां बालिकानां विरुध्य बलात्कारापराधाय मृत्युदण्डनं विधातुं मध्यप्रदेशविधानसभया निर्णीतम्। एतदर्थं विधेयकं विधानसभया ऐककण्ठ्येन अङ्गीकृतम्। 
         राष्ट्रे एतादृशं विधायकम् अङ्गीक्रियमाणं प्रथमं राज्यमस्ति मध्यप्रदेशः। नीतिमन्त्रिणा राम् पाल् सिंहेन देयकमवतारितम्। राष्ट्रपतेः अङ्गीकारेण विधायकम् अनुशासनं भविष्यति।
"मम पार्श्वे माता अस्ति" इति उक्त्यर्थं प्रसिद्धः अभिनेता शशि कपूरः दिवङ्गतः ||
डा. घनश्यामभट्टः
         पद्मं भूषण-पुरस्कारेण सम्मानितः अभिनेता शशि कपूरः सोमवासरस्य संध्याकाले दिवङ्गतः  अभवत् | एकोनाशीतिः वर्षदेशीयः सः दिर्घकालात् रुग्णः आसीत् | मुमब्य्यां कोकिलाबेन चिकित्सालये सः अन्तिमश्वशनं अकरोत्| हृदयपीडानन्तरं सः चिकित्सालये अन्तर्नियुक्तः आसीत् | शशे: जन्म कोलकाता नगरे ख्रिस्तब्दे 1938 तमे वर्षे मार्च मासे 18 दिनाङ्के अभवन्| सः  2011 तमे वर्षे  पद्म भूषणं 2015 तमे वर्षे दादासाहेब फ़ाल्के इति पुरस्कारेण सम्मानितः | राष्ट्रपतिना  प्रधानमन्त्रिणा च तस्य निधने शोकः प्रदर्शितः