जनसञ्चारमाध्यमेन प्रतियोगितया संस्कृतशिक्षणम्
आमुखपटले संस्कृतज्ञानवर्धकं जीवंत प्रश्नोत्तरी प्रतियोगिता
जनसञ्चारमाध्यमेन शिक्षणाय संस्कृतस्य प्रचाराय-प्रसाराय च आमुखपटले संस्कृतज्ञानवर्धकं जीवंत प्रश्नोत्तरी प्रतियोगिता "संस्कृतं जनभाषा भवेत्" इति आमुखपटलसमूहे प्रत्येक-रविवासरे भवति । एषा प्रतियोगिता प्रत्येक रविवासरे रात्रौ नववादनत: सार्धनववादन पर्यन्तं भवति । अस्यां प्रतियोगितायां संस्कृतस्य दशप्रश्नाः सन्ति । अस्या: प्रतियोगिताया: आयोजक: गुजरातत: जगदीश: डाभी अस्ति। सहायका: पण्डितः दीपक: शास्त्री, अमित: ओली, मञ्जु भट्टाचार्य:, डॉ. सन्ध्या ठाकुर:, डॉ. योगेशव्यास: च सन्ति । अस्या: प्रतियोगिताया: पुरस्कारस्य प्रायोजक: दैनिक-संस्कृतसमाचारपत्रं 'विश्वस्य वृत्तान्तम्', भुवनेश्वरी बालकुमारी ट्रस्ट-हरिद्वारं च स्त: । गत रविवासरे ०३/१२/२०१७ तमे दिनाङ्के प्रतियोगितायाम् आहत्य ४०० जनाः उत्तराणि दत्तवन्तः तेषु नियमानुसारेण सम्यक्तया त्रयः जनाः उत्तरं दत्तवन्त: तेषां नामानि --
प्रथम विजेता धीरजकुमारचौधरी(बिहार),
द्वितीय विजेता झराश्री नायक(ओडिसा), तृतीय विजेता अङ्कितकुमारशर्मा(राजस्थानम्) च ।
सर्वेभ्यः विजेतृभ्य: विश्वस्य वृत्तान्तं संस्कृत समाचारपत्रपक्षत: एक मास पर्यन्तम् ई-समाचारपत्रं निशुल्कं भविष्यति। यदा भुवनेश्वरी बालकुमारी ट्रस्ट-हरिद्वारपक्षत: प्रथमविजेते उपहारस्वरुपे धार्मिक-पुस्तकं मेलिष्यति ।
आगामी प्रतियोगिता १०/१२/२०१७ तमे दिनाङ्के रात्रौ ९:०० वादने भविष्यति।