OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 4, 2017

राष्ट्ररक्षामन्त्रिणी  दुरन्तबाधितप्रदेशान् सन्द्रक्ष्यति।
             अनन्तपुरी > भारतस्य रक्षामन्त्रिणी निर्मलासीतारामः ओखीचक्रवातदुरन्तप्रदेशान् सन्द्रष्टुं दुरितबाधितान् आश्वासयितुं च दक्षिणभारतं प्राप्ता। ह्यः सायं कन्याकुमार्यां दुरन्तबाधितप्रदेशान् अवलोकितवती। अद्य अनन्तपुरीजनपदस्य तटप्रदेशान् सन्द्रक्ष्यति।
लक्षद्वीपं परित्यज्य 'ओखि' चक्रवातः गुर्जर तीरं प्रति।
              कोच्ची > लक्षद्वीपे दुरन्ताः वितीर्य ओखि चक्रवातः गुर्जरं प्रति गच्छति। तत्रत्यानां कृते घटनायाः पूर्व सूचना घोषिता। शतकोटि स्प्यकाणां नाशं कृत्वा एव चक्रवातस्य गमनम्। नाशः अधिकतया मिनिकोय् द्वीपे अभवत्। गृहाणि हर्माणि च भगनानि। वैद्युतबन्धनाय अधिकः समयः अवश्यः इति उत्तरदायिनः वदन्ति। कल्पेनि कवरत्ति द्वीपयोः अपि नाशः अत्यधिकः एवI तथापि रक्षाप्रवर्तनानि त्वरितवेगेन न लभते इति द्वीप निवासिनः वदन्ति। समुद्रक्षोभेन षण्णौकाः द्वीपस्य तीरं प्राप्ताः।  ततः अष्ट चत्वारिंशत् जनाः रक्षिताः च ।

Sunday, December 3, 2017

अप्रत्यक्षाः धीवराः सुरक्षिताः। 
            मुम्बई > ओखी चक्रवातप्रभावेन केरलतीरात् अप्रत्यक्षाः ६६ मत्स्यबन्धननौकाः महाराष्ट्रायां नौकाशयेषु सुरक्षिताः प्राप्ताः। रक्षामन्त्रिण्या निर्मलासीतारामवर्यया इयं वार्ता 'ट्विटर्'द्वारा निगदिता पञ्चाशत् नौकाः कोष़िक्कोट् जनपदस्य बेप्पूर् प्रदेशतः प्रस्थिताः सन्ति। अनन्तपुरीतः मत्स्यबन्धनार्थं प्रस्थिताः कतिपयाः नौकाः तत्रस्थाः विंशत्यधिकशतमभितः धीवराश्च गोवा-महाराष्ट्रातीरेषु सन्दृष्टाः। 
    महाराष्ट्रमुख्यमन्त्रिणः देवेन्द्र फट्नस् वर्यस्य निर्देशानुसारं रक्षाप्रवर्तनं कृत्वा धीवराणां कृते  भोजन-वासादिभ्यः व्यवस्थाः कृताः।
भगवद्गीतादिन-समाचरण समारोहः सम्पन्नः।
 
            कोच्ची> श्रीमद् भगवद्गीता-दिन-समाचरणसमारोहः भरतस्य विविधेषु प्रदेशेषु सम्पन्नः अभवत्। केरलेषु तिरुमूष़िक्कुलं लक्ष्मण-देवालयेपि त्रिदिवसीय गीताज्ञानयज्ञस्य सम्मूर्णता अधुना भवति। पद्मश्री सुन्दर् मेनोन् वर्यः समापनमेलनं उद्घाटनं अकरोत्I  अद्यतनकाले जनाः अशान्ताः एव।  अस्मिन् सन्दर्भे एव गीताध्ययनस्य प्राधान्यम् इति सः अवदत्। चिन्मय मिषनस्य सन्यासवर्यः स्वामी जितात्मानन्द सरस्वती मुख्यभाषकः अस्ति।सर्वोपनिषदां सारसर्वस्वमेवभवति भगवद्गीता। ईश्वरानुग्रहः मनुष्यप्रयत्नः च मिलित्वा गच्छन्ति चेत् विजयं ध्रुवं अस्ति इत्यपि तेन उक्तम्। तत्वाधिष्ठिता भवति भारतस्य परम्परा। कदापि व्यक्त्यधिष्ठिता। शान्तिः मरणानन्तरं नाऽवश्यकम्, अधुना अस्मिन् सन्दर्भे एव अवश्यकम्। तदुपदिश्यते भगवता, अतः भगवद्गीता सर्वेषां कृते शान्तिः उपदिशते।
               सरस्वती विद्या निकेतन विद्यालयस्य ३०० छात्राः मिलित्वा गीतापाठं पठितवन्तः। Live 11:20
'ओखि' दुरन्तेषु १४ जनाः मृताः १२६ जनाः इतःपर्यन्तम् अदृश्याः।
             कोच्ची >केरलतीरेषु आधिम् संवर्ध्य ओखि चक्रवातानन्तरावेदनानि। समुद्रे मत्सबन्धनायगतेषु १२६ संख्याकाः धीवराः इतःपर्यन्तम् न प्रत्यागताः। एतेषु १२० जनाः तिरुवनन्तपुरं जनपदस्य विविधकेन्द्रात् गताः एव। षट् पञ्चाशतधिक नवनवशतं जनाः अष्टषष्ठि नौकासु मुम्बै तीरं प्राप्राः इति महाराष्ट्रमुखमन्त्री देवेन्द्रभट्नाविस् अवदत् ।  चक्रवातेन इतःपर्यन्तं मृतानां संख्या केरलेषु चतुर्दश एव।  चक्रवातघटना राष्ट्रदुरन्तत्वेन गणयितुं केन्द्रसर्वकारं प्रति केरलसर्वकारः निवेदनं अयच्छत् ।

Saturday, December 2, 2017

'ओखि' चक्रवातः १३५ किलोमीट्टर् वेगेन लक्षद्वीपे।
              कल्पेनी> कन्याकुमारी - केरलतीरेषु नाशं वितीर्य ओखि' चक्रवातः पच्च त्रिंशत्यधिक एकशतं (१३५) किलोमीट्टर् वेगेन लक्षद्वीपे वाति। द्वीपेषु सर्वत्र वार्ता विनिमय संविधानानि भग्नानि। सुरक्षानुबन्धतयया विद्युत् प्रवाहहः रोधितः च। 
               पूर्वसूचनानुसारं सुरक्षायै क्रियाविधयः स्वीकृताः आसीत् I गृहाणि बहूनि भग्नानि। पादपाः विपादो भुत्वा पतिताः दुरितबाधितान् जनान् सुरक्षित स्थानेषु प्रापयन् अस्ति। चक्रवातभीषा दिद्वयं यावत् अनुवर्तिष्यते इति वातावरण आवेक्षण केन्द्रेण उक्तम्।
नरेन्द्रमोदी भारतस्य एकतायै निष्ठति इति ओबाम ।
भारतस्य एकतानिमित्तम् नितान्त परिश्रमम् कुर्वन् आस्ति नरेन्द्रमोदी इति अमेरिक्काराष्ट्रस्य  भूतपूर्व राष्ट्रपतिः ओबोम वर्यः। राष्ट्रस्य पुरोगत्यै यत् अनिवार्यमस्ति तत्कार्यम् नरेन्द्रमोदिना क्रियते इत्यापि तेनोक्तम् । निर्धनानां धनिकानां च मध्ये विद्यमानां निम्नोन्नतां लघूकर्तुम् अभौराष्ट्रौ मिलित्वा शक्यते। राष्ट्रद्वययोः संयुक्तप्रवर्तनेन अपरिहार्यः किमपि नास्तीति ओबामवर्येण सूचितं च।
विश्वचषकपादकन्दुकक्रीडानां गणनिर्णयः कृतः 
                मोस्को > २०१८तमे रूस् राष्ट्रे सम्पत्स्यमानायाः विश्वचषकपादकन्दुकक्रीडायाः गणनिर्णयकार्यक्रमः मोस्कोनगरस्थे क्रम्लिन् राजभवने सम्पन्नः। इङ्लण्ट् राष्ट्रस्य पादकन्दुकेतिहासः गारी लिनेक्करः अवतारकः आसीत्। 
             आहत्य ३२दलानि अष्ट गणेषु विभक्तानि। गणकल्पना एवमस्ति - "A"- रूस्, सौदि अरेबिया, ईजिप्ट् , उरुग्वे। "B" गणः - पोर्चुगल्, स्पेयिन्, इरान्, मोरोक्को। C गणः - फ्रान्स्, आस्ट्रेलिया, पेरु, डेन्मार्क्। D गणः- अर्जेन्टीना, ऐस्लान्ट्, क्रोयेष्या, नैजीरिया। E गणः - ब्रसील्, स्विट्सर्लान्ट्, कोस्टारिक्का, से सर्बिया ।  F गणः - जेर्मनी, मेक्सिक्को, स्वीडन्, दक्षिणकोरिया।  G गणः - बल्जियम्, इङ्लण्ट्, टुणीष्या, पनामा। । H गणः - पोलण्ट्, कोलम्बिया, सेनगल्, जप्पान्।

Friday, December 1, 2017

ओखि चक्रवातेन समुद्रे २६२ यन्त्रनौकाः अप्रत्यक्षाः अभवत् ।
पून्तुर देशे सर्वकारं विरुद्ध्य प्रक्षोभः।
       अनन्तपुरी > अतिवर्षा समुद्रक्षोभः च अनुवर्त्यमाने सन्दर्भे मस्यबन्धनाय गताः नौकाः न प्रत्यागताः  ताः कुत्र इति ज्ञातुं  सूचनापि नास्ति। कोच्ची देशात् द्विशतं नौकाः मत्स्यबन्धनाय निर्गताः सन्ति। पून्तुरातः संख्याधिकाः धीवराः निर्गताः ते न प्रतिनिवर्ताः। सर्वकारेण पूर्व सूचना यथाकालं न दत्ता इत्युक्त्वा पून्तुरादेशे जनाः प्रतिषेधं कुर्वन्तः सन्ति। रक्षा-प्रवर्तनानि यथाविधि कर्तुं सर्वकारः पराजितः इत्युक्तवा प्रदेशवासिनः मार्गस्य रोधनमकुर्वन् ।
आधारपत्रं भूमितस्करान् विरुद्ध्य आयुधः - भारतस्य प्रधानमन्त्री।
        नवदिल्ली > भूमितस्करान् बन्धितुम् अनुयोज्यम् आयुधं भवति आधरपत्रमिति प्रधानमन्त्रणा नरेन्द्र-मोदिना उक्तम्। आधार-पत्रानुबन्धतया केचन असत्यावेदनानि जनानां मध्ये प्रचारयन्ति। धान्य वितरणम्  छात्रवृत्तिं निवृत्त कर्मवृत्तिं, सर्वकारस्य अन्ये अर्थसाहाय्याः च यथाविधं जनेषु प्रापयितुम् अत्यन्तमुपकारप्रदमस्ति आधारपत्रद्वारा सम्प्रदायः इत्यपि मोदिना दिल्याम् उक्तम्। जङ्गमदूरवाणीसंख्यायाः आधारपत्रेण सह संबन्धनं जनधन वित्तलेखानां स्थापनं च समूहेषु नूतनक्रमस्य सौलभ्यस्य सन्दर्भः अदात्I पूर्व कालेषु निवृत्तकर्मवृत्तिः व्याजवित्तलेखेषु गच्छन् आसीत्। अधुना भूतस्करान् प्रतिरोद्धुम् अनुयोज्यम् आयुधं भवति आधारपत्रम् इत्यपि प्रधानमन्त्रणा नरेन्द्रमोदिना उक्तम्।

Thursday, November 30, 2017

केरलतीरेषु चक्रवातः वाति, शक्ता वर्षा, चत्वारः मृताः।
जाग्रता निर्देशः प्रसारितः ।
           अनन्तपुरम्> कन्याकुमारी देशस्य समीपे भारत महासमुद्रे सञ्जातेन न्यूनमर्देन केरलस्य दक्षिण जनपदेषु मध्यकेरलेषु च शक्तावर्षा I कन्याकुमारी नागर् कोविल् मण्डलेषु चक्रवातः वाति इदानीं। चक्रवातस्य वेगाः प्रति घण्टायां पञ्चसप्ततिः इति। पञ्चाशतधिकाः धीवराः मत्स्यबन्धनाय समुद्रं गत्वा इतःपर्यन्तं नागताः । मण्डलस्य वैद्युतबन्धः भग्नः।  गिरिशिखरदेशेषु रात्रिकाल-यात्रा निरुद्धा अस्ति।
वनितासंरम्भकानाम् उन्नत्यर्थं लिङ्गसमत्वम् अनिवार्यम्  - इवान्का ट्रम्पः। 
          हैदराबाद् > उद्योगमण्डलं प्रति वनितासंरम्भकान् आकर्षितुं तेषाम् उन्नमनाय च समाजे लिङ्गसमत्वम् आवश्यकमिति इवान्का ट्रम्पः। हैदराबादे प्रचाल्यमाने आगोल संरम्भत्व उच्चशिखरे 'स्त्रीशाक्तीकरणम्' इतिविषयमधिकृत्य भाषमाणा आसीत् अमेरिक्कायाः राष्ट्रपतेः पुत्री इवान्का। 
       लिङ्गसमत्वाय प्रगतिरूपाः व्यवस्थाः आवश्यिक्यः। राष्ट्रस्य आर्थिकविकासाय तदनिवार्या। आगोलतले वनितासंरभकाणां संख्या वर्धते एव। विश्वजनसंख्यायाः अर्धभागः महिलाः सन्ति। अतः महिलानां समस्याः न केवलं तासां समस्याः किन्तु मानवीयसमस्याः भवन्ति - इवान्का अवदत्।
कदलीफलस्य कवचेन भाग्यं विन्दति बालिका।
विशेषवार्ता -
         
      चतस्रवयस्का बालिका स्वस्य महत्तरा कर्मणा प्रसिद्घा अभवत्। इतानीं एषा बलिका उत्तराखण्ड राज्यस्य द्वानी नगरपालिकायाः  दूतिका वर्तते। मालिन्यागरेण सम्पूर्ण पल्ली निवासिनी इयं बालिका नामधेयेन स्वभावेन च लक्ष्मी एव भवति।

घटना एवमेव आसीत्-
     विगते ओक्तोबर् मासस्य एकत्रिंशत् दिनाङ्के द्वानि देशस्ते प्रसिद्धे रामलीला भूतले सर्दार् वल्ल्भायी पट्टेलस्य जयन्ती समारोहः प्रचलत् आसीत् । शिशुवाटिकातः आरभ्य उन्नत विद्यालयछात्राः प्रौढाः च बहवः तत्र सन्निहिताः आसन् । सङ्घाटकैः सदसि विद्यमानाः सर्वाः  अपि कदलीफल-पानीयादिभिः सत्कृताः चl सर्वैः खाद्यपानीयादीनि आस्वाद्यनन्तरं फलकवचाः तथा चषकाश्च असन्तस्य अधः वा स्वस्थानस्य समीपभागे च स्थापिताः आसन् । किन्तु इयं बालिका लक्ष्मी,  फल कवचं,   उपयोगरहितं चषकं च दूरस्थं  अवक्षय पात्रे न्यक्षिपत्। एषा स्वमेधया एतत् प्रक्रिया कृता आसीत् । वेदिकायां सदसि च विद्यमानेषु यः कोऽपि चषकः फलकवचं च अवक्षयपात्रे  स्थापयितुं न उद्युक्ताः। लक्ष्म्याः सत्कर्मः  कम्मीषणर् हर्बीर् सिहेन दृष्टम् । सः ताम् वेदिकायां आहूय अभिनन्दितवान्। सर्वे जनाः ताम् आदर्श रूपेण स्वीकर्तुंम् उपादिशत् च। लज्जिताः जनाः स्वस्य अवक्षिप्तानि अवक्षय पात्रे न्यक्षिपन् च। नगरपालिकाध्यक्षेण एषा लक्ष्मी तदा एव  नगरस्य दूतिका रूपेण प्रखापिता। तस्याः अध्ययनं वस्त्रादीनां व्ययः च नगरपालिका संस्थया वोढुमपि निश्चितः अस्ति। 
Eisode 66

Wednesday, November 29, 2017

हट्ताल्- नष्टपरिहारम् आहर्तुं सर्वेषु राज्येषु न्यायालयाः अवश्यकाः - सर्वोच्चन्यायालयः।
 ‍                     नवदिली> हट्ताल् नाम  कर्मप्रतिरोधक्रियया जायमानस्य नष्टस्य गुरुत्वं गणयित्वा नष्टपरिहारं आहर्तुं सर्वेष्वपिराज्येषु तथा केन्द्रशासनप्रदेशेषु च न्यायालयस्य आयोजनाय उच्च न्यायालयेन आदिष्टः।  उच्चन्यायालयेन सह संलोच्य एकं वा द्वे जनपद न्यायाधिपानां एतस्य उत्तरदायित्वं देयम् ।
 सार्वजनिकवस्तूनां नाशनं निवारयितुं नियमानां परिष्कारे एषः नियमः अपि निवेशनीयः इति न्यायाधिपौ ए के गोयल्, यु यु ललित् च आदिशताम्। हट्तालं विरुद्ध्य न्यायवादिनः कोशि जेक्कब् महोदयस्य व्यवहारे निर्णयं कृत्वा आसीत् सर्वोच्च न्यायालयस्य एतादृश आदेशः।
जापानस्य सागरतीरं लक्ष्यीकृत्य उत्तर-कोरिय राष्ट्रेण पुनरपि अग्निसायकं विक्षिप्तम्।
          सोल्> लोकान् युद्धभीत्यां पातयित्वा उत्तरकोरियस्य 'बालिस्टिक्' सायकः जापानस्य तीरे पतितः। पञ्चाशत् मिमेषपर्यन्तं डयनं कृत्वा एव पतितः। स्थितिम् आलोकयितुं जापानस्य प्रधानमन्त्री षिन् सो आबे झटित्येव मन्त्रिमण्डलम् आहूतवान् ।

         दक्षिणकोरियस्य वार्ताहरसंस्थया योन्हाप् इत्यनेन एव सायक-विक्षेपण वार्ता प्रथमं प्रकाशिता। अनन्तरं तत्रत्याः सेनया तथा यु एस् राष्ट्रेण च वार्तेऽयं प्रमाणीकृता। उत्तरकोरियस्य राजधानीस्थ पोङ्सोङ्तः एव विक्षितः। एतस्य प्रत्युत्तरवत् दक्षिणकोरियः समानशक्तियुत सायकस्य विक्षेपणम् अकरोत्। विगते सेप्तंबर् मासे जापानस्य आकाशमार्गेण  उत्तर कोरियराष्ट्रम्  अग्निसायकविक्षेपणं कृतमासीत्।
गोवा अन्ताराष्ट्रचलच्चित्रमेला समाप्ता। 
           पनजी > अष्टचत्वारिशत्तमा गोवा अन्तर्देशीया चलनचित्रमेला समाप्ता। 'एय्ड्स्' रोगं विरुध्य प्रतिरोधप्रवर्तनानि आधारीकृत्य आविष्कृतं '१२० बीट्स् पेर् मिनिट्' नामकं फ्रन्च् देशीयं चित्रं श्रेष्ठतमचित्राय समर्प्यमाणं 'सुवर्णमयूरं' पुरस्कारं प्राप्तवत्। श्रेष्ठः नटः अपि अस्मिन् चित्रे षोण् डाल्मासो नामकं कथापात्रम् अवतारितः नाहुल् पेरस् नामकः अस्ति। 
         श्रेष्ठा अभिनेत्री इत्यस्य 'रजतमयूरं'  पुरस्कारं कैरलीभाषायां साक्षात्कृते 'टेक् ओफ्' नामके चलनचित्रे समीरा नामिकाम् अनुवैद्याम् अनश्वरां कृतवती पार्वती प्राप्तवती। टेक् ओफ् चित्रेण विधिकर्तृृणां सविशेषपुरस्कारः अपि प्राप्तः।
संस्कृतविचारसभायाः अद्य शुभारम्भः।
         अनन्तपुरी> संस्कृतभाषां सार्वजनिकं  कर्तुमुद्दिश्य  केरलसर्वकारस्य सामान्यशिक्षाविभागेन आयोज्यमाना राष्ट्रियसंगोष्ठी अद्य अनन्तपुर्यां उद्घाटयिष्यति। विक्टोरिया जूबिली तिय्येट्टर् नामिकायां वेदिकायाम् एव कार्यक्रमः।
        अद्य प्रातः १० वादने सामाजिकस्य वि.एस्. शिवकुमार् महोदयस्य आध्यक्ष्ये केरलस्य शिक्षामन्त्रिणा प्रोफ. सि रवीन्द्रनाथवर्येण संगोष्याः उद्घाटनं क्रियते। नगरपालः वी.के.प्रशान्तेन मुख्यातिथिरूपेण वर्तिष्यते। भूतपूर्वः मुख्यसचिवः आर् रामचन्द्रन् नायर् महोदयः, राज्य-शैक्षिकानुसन्धानप्रशिक्षणपरिषदः निर्देशकः डो. जे. प्रसादः च भागभाजः भविष्यति। डो. पी. नारायणन् नम्पूतिरिवर्यः, प्रो. वी. माधवन् पिल्लावर्यः च प्रबन्धावतारणं करिष्यतः॥